१० अन्तिममङ्गलाचरणम्

पूर्णानन्दमहोदधिः परतमो नित्यः ..

भाष्यम्

अन्तिममङ्गलाचरणम्

पूर्णानन्दमहोदधिः परतमो नित्यः परस्मात् सदा सर्वज्ञः सकलेशिता गुणनिधिर्नित्योत्सवस्तद्विदाम् । सर्वस्मादधिकं मम प्रियतमस्त्विष्टादपीष्टोत्तमः सर्वस्माच्च हितात् सदा हिततमः प्रीतो भवेन्मे हरिः ।

पदार्थकौमुदी

एवं समापितभाष्यो भगवानाचार्योऽन्तेऽप्येतदुपनिषदुक्तगुणविशिष्ट- भगवत्स्तुतिप्रीतिप्रार्थने कृत्वा निबध्नाति — पूर्णानन्देति ॥ परस्मात् परतमः । गुणानां निधिर् निधानमित्युक्ता एव गुणा लेशतो दर्शिताः पूर्णानन्देत्यादिना ॥ पूर्णोऽपरिच्छिन्नः । सदा सकलेशितेत्यन्वयः । नित्यमुत्सवो यस्मादसौ नित्योत्सवः । सर्वस्माद् रुद्रादेरधिकं यथा स्यात् तथा मम प्रियतमः परमपुरुषार्थरूपः । कुतः ? तुशब्दो हेत्वर्थे । यस्मादि- ष्टादपीष्टोत्तमः । अतिशयेनेष्टमेव परमपुरुषार्थरूपं भवतीति भावः । हित- तमो ऽतिशयेनाऽप्तः । सुहृद् वा ।


यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं ..

भाष्यम्

‘यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बटू तद् दर्शतमित्यमेव निहितं देवस्य भर्गो महत् । वायो रामवचनयं प्रथमकं पृक्षो द्वितीयं वपु- वो यत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ॥

पदार्थकौमुदी

अथ स्वभाषितभाष्यस्याऽप्तिमूलत्वसमर्थनाय श्रुतिसिद्धं स्वस्य परमाप्तत्वं दर्शयन्नाह— यस्येति । यस्य वायोर्देवस्य बलित्थेत्यादिवेद - वचने दिव्यानि क्रीडादिगुणविशिष्टानि त्रीणि रूपाण्युदितानि तस्य तृतीयं वपुस्तेनेदं भाष्यं हरौ हरिविषयतया कृतं हीत्यन्वयः । कीदृशं चास्य मूलरूपम् ? कानि च त्रीणि रूपाणि ? कीदृशानि च ? तत्राऽह-अलमिति ॥ तस्य वायोर्मूलरूपं बटू बलात्मकं दर्शतं ज्ञानपूर्णम् । तद् इत्थमेव । यादृशं मूलरूपं तादृशावतारायैव निहितं भगवता प्रेरितम् अवतीर्णं च । भर्गो भरणगमनकर्तृ । महच्छ्रेष्ठम् । तत्र प्रथमकं हनुमदाख्यं वपुः रामवचोनयं रामस्य वचांसि सीतां प्रति नीतवत्, रामविषयवचांसि मूलरामायणरूपाणि शिष्येषु नीतबद्वा । रामवचसि यो नयो न्याय आज्ञारूपस्तद्युक्तं वा । द्वितीयं भीमनामकम् । पृक्षः कुरुपृतनाक्षयकारि । तृतीयं वपुरानन्दतीर्थापरपर्यायमध्वाभिधमिति । अतः परमाप्तप्रणीतत्वा- दिदं भाष्यं सकलसुजनैरादरणीयमिति भावः ।