०१ शान्तिमन्त्रः

आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः ..

**॥ श्रीमद्धनुमद्भीममध्वान्तर्गतश्रीरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥ छान्दोग्योपनिषत् - भाष्य - वेदेशीयटीका - खण्डार्थाः **

उपनिषत्

॥ शान्तिमन्त्रः ॥

॥ हरिः ॐ ॥ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

**श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं **

भाष्यम्

भाष्ये मङ्गलाचरणम्

॥ॐ॥अत्युद्रिक्तविदोषसत्सुखमहाज्ञानैकतानप्रभा-

सर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम् ।

सृष्टिस्थाननिरोधनित्यनियतिज्ञानप्रकाशावृति-

ध्वान्तामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे ॥ १ ॥

श्रीवेदेशभिक्षुविरचिता पदार्थकौमुदी

**पदार्थकौमुदी **

॥ ॐ ॥ पूर्णानन्दमहाविबोधमखिलं सम्भासयन्तं रुचा

सर्वत्र प्रभुमीश्वरं गुणनिधिं दिव्याकृतिं केशवम् ।

जन्माद्यस्य यतो हि सर्वजगतो जन्मादिदोषोज्झितं

नित्यं पूर्णविबोधशर्वगुरुणोपास्यं भजे नित्यदा ॥ १ ॥

वेदभेदसुशाखेतं बोधादिफलसंयुतम् ।

भजतामिष्टदं व्याससुरद्रुममहं भजे ॥ २ ॥

हृत्तमोनाशकं शास्त्रप्रभया तत्त्वभासकम् ।

फलदं पूर्णबोधारख्यचिन्तामणिमहं भजे ॥ ३ ॥

प्रणम्य चरणौ वाणि याचयामि तवान्वहम् ।

सन्निधिर्मम वाच्यस्तु मानसे च निरन्तरम् ॥ ४ ॥

यत्प्रसादं विना तत्त्वमार्गे न गमनं भुवि ।

तं वन्दे पद्मनाभाख्यगुरुं सज्जनसेवितम् ॥ ५ ॥

वेददुग्धाब्धिमामथ्य सूत्रमन्दरभूभृता ।

प्राप्ता न्यायसुधा येन तं जयेन्द्रमहं भजे ॥ ६ ॥

श्रीमध्वकृतवेदान्तभाष्यं येन प्रकाशितम् ।

तं वन्दे व्यासतीर्थाय जयराजनिषेवकम् ॥ ७ ॥

विद्याधिराजादिमहामुनीन्द्रा हृद्येव सञ्चिन्तितविष्णुतत्त्वाः ।

उद्योगयुक्ता भगवत्कथायां सद्यो ममानुग्रहमेव कुर्युः ॥ ८ ॥

ब्रह्मण्यतीर्थवाद्ध्र्युत्थं व्यासतीर्थसुधाकरम् ।

तात्पर्यचन्द्रिकायुक्तं वन्दे तापत्रयापहम् ॥ ९ ॥

रघूत्तममुनीन् विद्यागुरून् परगुरूंस्तथा ।

वन्दे श्रीमध्वशास्त्रोत्थविनिर्मलमतीनहम् ॥ १० ॥

निरस्तं हृत्तमो येन प्रशस्तं सन्मनोम्बुजम् ।

समस्तं भासितं वन्दे वेदव्यासदिवाकरम् ॥ ११ ॥

अथ तत्कृपया श्रीमदाचार्यमुखनिःसृतम् ।

छान्दोग्योपनिषद्भाष्यं व्याकरिष्ये यथामति ॥ १२ ॥

न मात्सर्यादिदोषेण नवा विद्यातिगर्वितः ।

किन्तु वाचां विशुद्ध्यर्थं यत्नोऽयं न हि दोषभाक् ॥ १३ ॥

इह हि नानाविधसांसारिकक्लेशसन्दर्शनेन कुपितफणिफणच्छाया- समीकृतापरसुखानां शमदमादिमतामधिकारिणामात्यन्तिकानिष्टनिवृ-तीष्टप्राप्तिसाधनं भगवत्स्वरूपं यथावज्ज्ञापयितुं प्रवृत्ताऽपिछान्दोग्योपनिषद् अविद्यापटलपिहितनयनैरन्यैरन्यथाव्याख्यातत्वेन न तज्ज्ञापनसमर्थेति मन्यमानो भगवानानन्दतीर्थमुनिस्तां यथावद् व्याचि- ख्यासुः स्वयमन्तरायविधुरोऽप्यविगीतशिष्टाचारपरम्पराप्राप्तं प्रारिप्सित- परिसमाप्त्यादिप्रयोजनमेतदुपनिषदुक्तगुणवद्भगवदुपास्तिलक्षणं मङ्गलं शिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति - अत्युद्रिक्तेति ॥ " हरिमुपास्महे " इति क्रियाकारकयोजना । श्रुतौ " ओमित्येदक्षरमुद्गीथमुपासीत" इति प्रथमतो भगवदुपास्तिविधानादुपास्तिरूपं मङ्गलमादावनुष्ठितम् । अत एवानेन श्लोकेन तद्वाक्यं व्याख्यायते ॥ तथा हि । तत्र गुणपूर्णत्वा- र्थकोङ्कारार्थोऽत्युद्रिक्तेत्यादिप्रथम विशेषणेन विव्रियते । तत्रात्युद्रिक्त- विदोषसत्त्वं सुखविशेषणम् । सुखस्य सत्त्वं नाम साधुभावः । “सद्भावे साधुभावे च " इति वचनात् । तत्र हेतुः - अत्युद्रिक्तविदोषेति ॥ साधुभावः शोभनत्वमिति न साध्याविशिष्टता । यद्वा सत्त्वमुत्तमत्वम् । ‘“सच्छब्द उत्तमं ब्रूयात्” इत्युक्तेः । तत्र च पूर्वोक्तं हेतुद्वयम् । अत्युद्रिक्तत्वं चातिपूर्णत्वं नोत्तमत्वमतो न साध्याविशिष्टता । एवं च विदोषसच्छब्दयोर्भिन्नार्थत्वेन न पौनरुक्त्यम् । यद्वा सदिति सुखस्य नित्यत्वमुच्यते । “तद्यत् सत्तदमृतम्” इति श्रुतेः ।विदोषपदेनानित्यत्वातिरिक्ता दोषा व्यावर्त्यन्ते । एवं च कुरुपाण्डव- न्यायेन न पुनरुक्तिः । विदोषसद् विदोषभूतमिति सुखविशेषणं वा । अत्युद्रिक्तविदोषेति सत्सुखमहांज्ञानयोरेकतानप्रभाया वा विशेषण- मित्यप्याहुः । सुखस्य विदोषत्त्वमुत्पत्त्यादिरहितत्वम् । सत्त्वं (स) तत्स्व- रूपत्वमित्यन्ये । ज्ञानस्य महत्त्वं स्वपरगताखिलविशेषविषयत्वम् । एकतानाऽनन्यवृत्तिश्च सा प्रभा चेति तथोक्तम् । सर्वेति प्राभवशक्ति- भोगबलानां विशेषणम् । सर्वस्मिन् विषये प्राभवशक्ति भोगबलानीति तथोक्तानि । अत्र शक्तिशब्देन क्रियाशक्तिरिच्छाशक्तिश्व ग्राह्या । “स्वाभाविकी ज्ञानबलक्रिया च’ इति श्रुतौ " इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिरिति त्रिधा’’ इति स्मृतौ च त्रयाणामपि शक्तित्वोक्तेरत्र च ज्ञानबलयोः पृथग्ग्रहणात् । अत्युद्रिक्तविदोषसत्सुखं च महाज्ञानं चैकतानप्रभा च सर्वप्राभवशक्ति भोगबलानि चेति द्वन्द्वः । तैः सद्भ्यो ब्रह्मादिभ्यः सारा श्रेष्ठेति विग्रहः । अथवा सुखादीन्येव सती निर्दुष्टा सारा श्रेष्ठा आत्मा स्वरूपभूता दिव्या आकृतिर्यस्येति विग्रहः । प्रणवांशाकारोकारमकारार्थो वाऽनेन विविच्यते । तथा हि । तत्र सुख- मकारार्थः । ‘‘आनन्दत्वाद इत्युक्तः” इति स्मृतेः । ज्ञानं मकारार्थः । ‘‘माङ् माने’” इति धातोः । प्रभाऽपि मकारार्थः । धातूनामनेकार्थत्वात् । सर्वप्राभवशक्तिभोगा उशब्दार्थाः । " उत्कृष्टत्वादुनामकः " इत्युक्तेः । बलं च मकारार्थः-

“मानं ज्ञानं लयश्चैव मर्यादा चेति कथ्यते ।

उत्पादनं च सङ्ख्यानं बलं च कचिदुच्यते" इत्युक्तेः ।

प्रणवोपास्यस्य सूर्यस्थे देहस्थे वा वायौ विद्यमानस्य भगवतो “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः " इति " तस्यैतस्यैतदेव रूपं यदमुष्य रूपम् ’ ’ इति चाप्राकृतविग्रहत्वोक्तेः सत्सारात्मदिव्याकृतिमित्युक्तम् । एतेन हरेर्देहित्वे दुःखित्वापत्तिरदेहत्वे सृष्ट्यादिकर्तृत्वानुपपत्तिरित्यपि परास्तम् । प्राकृतदेहस्यैव दुःखादिहेतुत्वेन हरेस्तदभावेन तदभावात् । एवं प्रथमार्धेन प्रणवार्थमुक्त्वोद्गीथशब्दार्थमाह- सृष्टीत्यादिना ॥ अत्र सृष्टिप्रदत्वमुदित्यस्यार्थः । तथा हि वक्ष्यति - " प्राण एवोत् प्राणेन ह्यु- त्तिष्ठति" इति । स्थानप्रदत्वं थशब्दार्थः । " अन्नं थमने हीदं सर्वं स्थितम्’ इति श्रुतेः । निरोधदत्वं गीत्यस्यार्थः । " गृ निगरणे" इति धातोः । नित्यं नियतिर्नित्यं नियमनम् । स्यादनित्यपदार्थस्य नियमनं भगवता, तस्य स्वरूपलाभादौ परापेक्षत्वात् । नतु नित्यस्य । तस्य परानपेक्षत्वादित्याशङ्कापरिहाराय नित्यानामपि नियतिर्नित्यनियतिरिति वा । ‘“नित्यं नित्यात्मना यतः" इत्यादिश्रुतेरिति भावः । उन्नयतीति व्युत्पत्त्याऽयमप्युच्छब्दार्थः । उद्गमयत्युद्भासयंतीति व्युत्पत्त्या ज्ञान- प्रकाशदत्वमपि । आवृतिर् अज्ञानम् । ध्वान्तं बाह्यतमः । अमोक्षः संसारः । एतत्त्रितयप्रदत्वं थशब्दार्थः । ष्ठा गतिनिवृत्ताविति धातुः । अज्ञानसंसारदाने च मोक्षगतिनिवृत्तेः । ध्वान्तदाने च प्रसिद्धगति - निरोधात् । उद्गमयति संसारादिति व्युत्पत्त्या विमोक्षदत्वमप्युच्छब्दार्थः। सर्वसृष्ट्यादिप्रदत्वोक्त्या सर्वसन्निहितत्वलाभादेतच्छब्दार्थोऽप्यनेनोक्तः । अजमित्युपलक्षणयोत्पत्तिप्रभृतिदोषशून्यत्वमुक्तम् । अयमप्युच्छब्दार्थः । “त (स्य वा एत) स्योदिति नाम । स एष सर्वेभ्यः पाप्मभ्य उदितः” इति श्रुतेः । नित्यमित्यक्षरशब्दार्थकथनम् । “सदोपास्महे” इत्यनेन न मे नारायणोपासनं प्रत्यूहविरहादिप्रयोजनोद्देशेनेति सूचयति । श्रुतौ " उपासीत" इति विधिश्रवणेऽप्युपास्मह इत्युत्तमपुरुषं प्रयुञ्जानः स्वोपासनस्य स्वेच्छानियतत्वं सूचयति । भविष्यद्ब्रह्मणः स्वस्य मनुष्यवद् विधिनियतत्वाभावात् । तथाहि श्रुतिः- “ विधिनियता मनुष्या अनियता देवा ब्रह्मैव स्वेच्छानियतः" इति ॥ १ ॥