०८

इमा मे विश्वतोवीर्यो
भव इन्द्र श्च रक्षताम् ।
पूषँ स्त्वं पर्यावर्तयानष्टा आयन्तु नो गृहान् १

इमा मधुमतीर्मह्यम्
अनष्टाः पयसा सह ।
गाव आज्यस्य मातर
इहेमाः सन्तु भूयसीः २

गवाँ श्लेष्मासि
गावो मयि श्लिष्यन्तु ३

सङ्ग्रहण सङ्गृहाण
ये जाताः पशवो मम ।
पूषैषाँ शर्म यच्छतु
यथा जीवन्तो अप्ययान् ४

भुवनमसि साहस्रम्
इन्द्रा य त्वा सृमोऽददात् ।
अक्षतमरिष्टमिलान्दम् ५

गोपोषणमसि गोपोषस्येशिषे गोपोषाय त्वा ।
सहस्रपोषणमसि सहस्रपोषस्येशिषे
सहस्रपोषाय त्वा ६

लोहितेन स्वधितिना
मिथुनं कर्णयोः कृतम् ।
यावतीनाँ यावतीनाँ व
ऐषमो लक्षणमकारिषम् ।
भूयसीनाम्भूयसीनाँ व
उत्तरामुत्तराँ समां क्रियासम् ७

इयं तन्ती गवां माता
सवत्सानां निवेशनी ।
सा नः पयस्वती दुहा
उत्तरामुत्तराँ समाम् ८

इति प्रथमो भागः