ये अप्स्वन्तरग्नयः प्रविष्टा
गोह्य उपगोह्यो मरूको मनोहाः
खलो विरुजस्तनूदूषिरिन्द्रि यहा
अति तान्त्सृजामि १
यदपां घोरँ यदपां क्रूरँ
यदपामशान्तमति तत्सृजामि २
यो रोचनस्तमिह गृह्णामि
तेनाहं मामभिषिञ्चामि ३
यशसे तेजसे ब्रह्मवर्चसाय
बलायेन्द्रि याय वीर्यायान्नाद्याय
रायस्पोषाय त्विष्या अपचित्यै ४
येन स्त्रियमकृणुतम्
येनापामृशतँ सुराम् ।
येनाक्षानभ्यषिञ्चतँ
येनेमां पृथिवीं महीम् ।
यद्वां तदश्विना यशस्
तेन मामभिषिञ्चतम् ५
उद्यन्भ्राजभृष्टिभिरिन्द्रो मरुद्भिरस्थात्
प्रातर्यावभिरस्थात् ।
दशसनिरसि दशसनिं मा कुर्व्
आ त्वा विशाम्या मा विश ६
उद्यन्भ्राजभृष्टिभिरिन्द्रो मरुद्भिरस्थात्
सान्तपनेभिरस्थात् ।
शतसनिरसि शतसनिं मा कुर्व्
आ त्वा विशाम्या मा विश ७
उद्यन्भ्राजभृष्टिभिरिन्द्रो मरुद्भिरस्थात्
सायँ यावभिरस्थात् ।
सहस्रसनिरसि सहस्रसनिं मा कुर्व्
आ त्वा विशाम्या मा विश ८
चक्षुरसि चक्षुष्ट्वमस्य्
अव मे पाप्मानं जहि ।
सोमस्त्वा राजावतु
नमस्तेऽस्तु
मा मा हिँ सीः ९
सुदुत्तमँ वरुण पाशमस्मद्
अवाधमँ वि मध्यमँ श्रथाय ।
अथादित्य व्रते वयं तवानागसो अदितये स्याम १०
स्श्रीरसि मयि रमस्व ११
स्नेत्र्! यौ स्थो नयतं माम् १२
स्गन्धर्वोऽस्युपाव उप मामव १३
स्यक्षमिव चक्षुषः प्रियो वो भूयासम् १४
सोष्ठापिधाना नकुली
दन्तपरिमितः पविः ।
जिह्वे मा जिह्वलो वाचं
चारु माद्येह वादय १५
स्वनस्पते वीड्वङ्गो हि भूया
अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः सन्नद्धो असि वीडयस्व
आस्थाता ते जयतु जेत्वानि १६
७