०६

आयमगात्सविता क्षुरेण १

उष्णेन वाय उदकेनैधि २

आप उन्दन्तु जीवसे ३

विष्णोर्दँ ष्ट्रोऽसि ४

ओषधे त्रायस्वैनम् ५

स्वधिते मैनँ हिँ सीः ६

येन पूषा बृहस्पतेर्
वायोरिन्द्र स्य चावपत् ।
तेन ते वपामि ब्रह्मणा
जीवातवे जीवनाय दीर्घायुष्ट्वाय वर्चसे ७

त्र्! यायुषं जमदग्नेः
कश्यपस्य त्र्! यायुषम्
अगस्त्यस्य त्र्! यायुषँ
यद्देवानां त्र्! यायुषं
तत्ते अस्तु त्र्! यायुषम् ८

अग्ने व्रतपते व्रतं चरिष्यामि
तत्ते प्रब्रवीमि
तच्छकेयं तेन र्ध्यासम् ।
इदमहमनृतात्सत्यमुपैमि । स्वाहा ९

स्वायो व्रतपते व्रतं चरिष्यामि
तत्ते प्रब्रवीमि
तच्छकेयं तेन र्ध्यासम् ।
इदमहमनृतात्सत्यमुपैमि । स्वाहा १०

स्सूर्य व्रतपते व्रतं चरिष्यामि
तत्ते प्रब्रवीमि
तच्छकेयं तेन र्ध्यासम् ।
इदमहमनृतात्सत्यमुपैमि । स्वाहा ११

स्चन्द्र व्रतपते व्रतं चरिष्यामि
तत्ते प्रब्रवीमि
तच्छकेयं तेन र्ध्यासम् ।
इदमहमनृतात्सत्यमुपैमि । स्वाहा १२

स्व्रतानाँ व्रतपते व्रतं चरिष्यामि
तत्ते प्रब्रवीमि
तच्छकेयं तेन र्ध्यासम् ।
इदमहमनृतात्सत्यमुपैमि । स्वाहा १३

सागन्त्रा समगन्महि
प्र सुमर्त्यँ युयोतन ।
अरिष्टाः सञ्चरेमहि
स्वस्ति चरतादयम् १४

सग्निष्टे हस्तमग्रहीत्
सविता हस्तमग्रहीद्
अर्यमा हस्तमग्रहीन्
मित्रस्त्वमसि कर्मणाग्निराचार्यस्तव १५

स्ब्रह्मचर्यमागामुप मा नयस्व १६

स्को नामास्यसौ नामास्मि १७

स्देवस्य ते सवितुः प्रसवे
ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याँ
हस्तं गृह्णाम्यसौ १८

स्सूर्यस्यावृतमन्वावर्तस्वासौ १९

स्प्राणानां ग्रन्थिरसि मा विस्रसो
ऽन्तक इदं ते परिददाम्यमुम् २०

सहुर इदं ते परिददाम्यमुम् २१

स्कृशन इदं ते परिददाम्यमुम् २२

स्प्रजापते त्वा परिददाम्यसौ २३

स्देवाय त्वा सवित्रे परिददाम्यसौ २४

स्ब्रह्मचार्यस्यसौ २५

स्समिधमाधेह्यपोऽशान
कर्म कुरु मा दिवा स्वाप्सीः २६

सियं दुरुक्तात्परिबाधमाना
वर्णं पवित्रं पुनती म आगात् ।
प्राणापानाभ्यां बलं आहरन्ती
स्वसा देवी सुभगा मेखलेयम् २७

सृतस्य गोप्त्री तपसः परस्पी
घ्नती रक्षः सहमाना अरातीः ।
सा मा समन्तमभिपर्येहि भद्रे
धर्तारस्ते मेखले मा रिषाम २८

स्तत्सवितुर्वरेण्यं
भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् २९

स्भूर्भुवः स्वरोँ ३०

स्सुश्रवः सुश्रवसं मा कुरु
यथा त्वँ सुश्रवः सुश्रवा देवेष्व्
एवमहँ सुश्रवः सुश्रवा ब्राह्मणेषु भूयासम् ३१

सग्नये समिधमाहार्षं
बृहते जातवेदसे ।
यथा त्वमग्ने समिधा समिध्यस
एवमहमायुषा मेधया वर्चसा प्रजया पशुभिर्
ब्रह्मवर्चसेन धनेनान्नाद्येन समेधिषीय । स्वाहा ३२

स्पुनर्मामैत्विन्द्रि यं
पुनरायुः पुनर्भगः ।
पुनर्द्र विणमैतु मा
पुनर्ब्राह्मणमैतु मा ३३

स्पुनर्मनः पुनरात्मा म आगात्
पुनश्चक्षुः पुनः श्रोत्रं म आगात् ।
वैश्वानरो अदब्धस्तनूपा
अन्तस्तिष्ठतु मे मनोऽमृतस्य केतुः । स्वाहा ३४