०४

अग्ने प्रायश्चित्ते
त्वं देवानां प्रायश्चित्तिरसि ।
ब्राह्मणस्त्वा नाथकाम उपधावामि ।
यास्याः पापी लक्ष्मीस्
तामस्या अपजहि १

वायो प्रायश्चित्ते
त्वं देवानां प्रायश्चित्तिरसि ।
ब्राह्मणस्त्वा नाथकाम उपधावामि ।
यास्याः पतिघ्नी तनूस्
तामस्या अपजहि २

चन्द्र प्रायश्चित्ते
त्वं देवानां प्रायश्चित्तिरसि ।
ब्राह्मणस्त्वा नाथकाम उपधावामि ।
यास्या अपुत्र्! या तनूस्
तामस्या अपजहि ३

सूर्य प्रायश्चित्ते
त्वं देवानां प्रायश्चित्तिरसि ।
ब्राह्मणस्त्वा नाथकाम उपधावामि ।
यास्या अपशव्या तनूस्
तामस्या अपजहि ४

अग्निवायुचन्द्र सूर्याः प्रायश्चित्तयो
यूयं देवानां प्रायश्चित्तयः स्थ ।
ब्राह्मणो वो नाथकाम उपधावामि ।
यास्याः पापी लक्ष्मीर्या पतिघ्नी
यापुत्र्! या यापशव्या
ता अस्या अपहत ५

विष्णुर्योनिं कल्पयतु
त्वष्टा रूपाणि पिँ शतु ।
आसिञ्चतु प्रजापतिर्
धाता गर्भं दधातु ते ६

गर्भं धेहि सिनीवालि
गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवाव्
आधत्तां पुष्करस्रजौ ७

पुमाँ सौ मित्रावरुणौ
पुमाँ सावश्विनावुभौ ।
पुमानग्निश्च वायुश्च
पुमान्गर्भस्तवोदरे ८

पुमानग्निः पुमानिन्द्र ः!
पुमान्देवो बृहस्पतिः ।
पुमाँ सं पुत्रँ विन्दस्व
तं पुमाननु जायताम् ९