इममश्मानमारोहाश्मेव त्वँ स्थिरा भव ।
द्विषन्तमपबाधस्व
मा च त्वं द्विषतामधः १
इयं नार्युपब्रूते
ऽग्नौ लाजानावपन्ती ।
दीर्घायुरस्तु मे पतिः
शतँ वर्षाणि जीवत्व्
एधन्तां ज्ञातयो मम । स्वाहा २
अर्यमणं नु देवं
कन्या अग्निमयक्षत ।
स इमां देवो अर्यमा
प्रेतो मुञ्चतु मामुतः । स्वाहा ३
पूषणं नु देवं
कन्या अग्निमयक्षत ।
स इमां देवो पूषा
प्रेतो मुञ्चतु मामुतः । स्वाहा ४
कन्यला पितृभ्यः पतिलोकँ यतीयमप दीक्षामयष्ट ।
कन्य उत त्वया वयं धारा उदन्या इवातिगाहेमहि द्विषः ५
एकमिषे विष्णुस्त्वा नयतु ६
द्वे ऊर्जे विष्णुस्त्वा नयतु ७
त्रीणि व्रताय विष्णुस्त्वा नयतु ८
चत्वारि मायोभवाय विष्णुस्त्वा नयतु ९
स्पञ्च पशुभ्यो विष्णुस्त्वा नयतु १०
स्षड्रायस्पोषाय विष्णुस्त्वा नयतु ११
स्सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वा नयतु १२
स्सखा सप्तपदी भव
सख्यं ते गमेयँ
सख्यात्ते मा योषँ
सख्यान्मे मा योष्ठाः १३
स्सुमङ्गलीरियँ वधूर्
इमाँ समेत पश्यत ।
सौभाग्यमस्यै दत्त्वायाथास्तँ विपरेतन १४
स्समञ्जन्तु विश्वे देवाः
समापो हृदयानि नौ ।
सं मातरिश्वा सं धाता
समु देष्ट्री दधातु नौ १५
स्गृभ्नामि ते सौभगत्वाय हस्तं
मया पत्या जरदष्टिर्यथासः ।
भगो अर्यमा सविता पुरन्धिर्
मह्यं त्वादुर्गार्हपत्याय देवाः १६
सघोरचक्षुरपतिघ्न्येधि
शिवा पशुभ्यः सुमनाः सुवर्चाः ।
वीरसूर्जीवसूर्देवकामा स्योना
शं नो भव द्विपदे शं चतुष्पदे १७
सा नः प्रजां जनयतु प्रजापतिर्
आ जरसाय समनक्त्वर्यमा ।
अदुर्मङ्गलीः पतिलोकमाविश
शं नो भव द्विपदे शं चतुष्पदे १८
सिमां त्वं इन्द्र मीढ्वः
सुपुत्राँ सुभगां कृधि ।
दशास्यां पुत्रानाधेहि
पतिं एकादशं कुरु १९
स्सम्राज्ञी श्वशुरे भव
सम्राज्ञी श्वश्र्वां भव ।
ननान्दरि सम्राज्ञी भव
सम्राज्ञी अधि देवृषु २०
स्मम व्रते ते हृदयं दधातु
मम चित्तमनु चित्तं ते अस्तु ।
मम वाचमेकमना जुषस्व
बृहस्पतिस्त्वा नियुनक्तु मह्यम् २१
२