[[छान्दोग्यारण्यकम् Source: EB]]
[
छान्दोग्यारण्यकम् ।
आप्यायन्तु
ममाङ्गानि
वाक्प्राणश्चक्षुः
श्रोत्रमथो
बलमिन्द्रियाणि
च
सर्वाणि
सर्वं
ब्रह्मोपनिषदं
माहं
ब्रह्म
निराकुर्यां
मा
मा
ब्रह्म
निराकरोदनिराकरणम
-
स्त्वनिराकरणं
मेऽस्तु
तदात्मनि
निरते
य
उपनिषत्सु
धर्मास्ते
मयि
सन्तु
ते
मयि
सन्तु
ॐ
शान्तिः
शान्तिः
शान्तिः ।
ओमित्येतदक्षरमुद्गीथमुपासीत
ओमिति
ह्युद्गायति
तस्योपव्याख्यानम्
१
एषां
भूतानां
पृथिवी
रसः
पृथिव्या
आपो
रसोऽपामोषधयो
रस
ओषधीनां
पुरुषो
रसः
पुरुषस्य
वाग्रसो
वाच
ऋग्रस
ऋचः
साम
रसः
सान्न उद्गीथो
रसः
२
स
एष
रसानाँ
रसतमः
परमः
परार्ध्योऽष्टमो
यदुद्गीथः
३
कतमा
कतमर्क्कतमत्कतमत्साम
कतमः
कतम
उद्गीथ
इति
विमृष्टं
भवति
४
वागेवर्क्
प्राणः
सामोमित्येतदक्षरमुद्गीथः
तद्वा
एतन्मिथुनं
यद्वाक्
च
प्राणश्चर्क्
च
साम
च
५
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे
सँ
सृज्यते
यदा
वै
मिथुनौ
समागच्छत
आप
-
यतो
वै
तावन्योन्यस्य
कामम्
६
आपयिता
ह
वै
कामानां
भवति
य
एतदेवं
विद्वानक्षरमुद्गीथमुपास्ते
७
तद्वा
एतदनुज्ञाक्षरं
यद्धि
किंचानुजानात्योमित्येव
तदाहैषो
एव
समृद्धिर्यद
-
नुज्ञा
समर्धयिता
ह
वै
कामानां
भवति
य
एतदेवं
विद्वानक्षरमुद्गीथमुपास्ते
८
तेनेयं
त्रयी
विद्या
वर्तत
ओमित्याश्रावयत्योमिति
शँ
सत्योमित्युद्गायत्येत
स्यैवाक्षरस्यापचित्यै
महिम्ना
रसेन
९
तेनोभौ
कुरुतो
यश्चैतदेवं
वेद
यश्च
न
वेद
नाना
तु
विद्या
चाविद्या
च
यदेव
विद्यया
करोति
श्रद्धयोपनिषदा
तदेव
वीर्यवत्तरं
भवतीति
खल्वेतस्यैवाक्षरस्योपव्याख्यानं
भवति
१०
इति
प्रथमाध्याये
प्रथमः
खण्डः
१
देवासुरा
ह
वै
यत्र
संयेतिर
उभये
प्राजापत्यास्तद्ध
देवा
उद्गीथमाजह्रुरनेनै
-
नामभिभविष्याम
इति
१
ते
ह
नासिक्यं
प्राणमुद्गीथमुपासांचक्रिरे
तँ
हासुराः
पाप्मना
विविधुस्तस्मात्ते
-
नोभयं
जिघ्रति
सुरभि
च
दुर्गन्धि
च
पाप्मना
ह्येष
विद्धः
२
अथ
ह
वाचमुद्गीथमुपासांचक्रिरे
ताँ
हासुराः
पाप्मना
विविधुस्तस्मात्तयोभयं
वदति
सत्यं
चानृतं
च
पाप्मना
ह्येषा
विद्धा
३
अथ
ह
चक्षुरुद्गीथमुपासांचक्रिरे
तद्धासुराः
पाप्मना
विविधुस्तस्मात्तेनोभयं
पश्यति
दर्शनीयं
चादर्शनीयं
च
पाप्मना
ह्येतद्विद्धम्
४
अथ
ह
श्रोत्रमुद्गीथमुपासांचक्रिरे
तद्धसुराः
पाप्मना
विविधुस्तस्मात्तेनोभयँ
शृणोति
श्रवणीयं
चाश्रवणीयं
च
पाप्मना
ह्येतद्विद्धम्
५
अथ
ह
मन
उद्गीथमुपासांचक्रिरे
तद्धासुराः
पाप्मना
विविधुस्तस्मात्तेनोभयँ
संकल्पयते
संकल्पनीयं
चासंकल्पनीयं
च
पाप्मना
ह्येतद्विद्धम्
६
अथ
ह
य
एवायं
मुख्यः
प्राणस्तमुद्गीथमुपासांचक्रिरे
तँ
हासुरा
ऋत्वा
विद
-
ध्वँ
सुर्यथाश्मानमाखणमृत्वा
विध्वँ
सेत
७
एवं
यथाश्मानमाखणमृत्वा
विध्वँ
सत
एवँ
हैव
स
विध्वँ
सते
य
एवंविदि
पापं
कामयते
यश्चैनमभिदासति
स
एषोऽश्माखणः
८
नैवैतेन
सुरभि
न
दुर्गन्धि
विजानात्यपहतपाप्मा
ह्येष
तेन
यदश्नाति
यत्पि
-
बति
तेनेतरान्
प्राणानवति
एतमु
एवान्ततोऽवित्त्वोत्क्रामति
व्याददात्येवान्तत
इति
९
तँ
हाङ्गिरा
उद्गीथमुपासांचक्र
एतमु
एवाङ्गिरसं
मन्यन्तेऽङ्गानां
यद्र
सः
१०
तेन
तँ
ह
बृहस्पतिरुद्गीथमुपासांचक्र
एतमु
एव
बृहस्पतिं
मन्यन्ते
वाग्घि
बृह
-
ती
तस्या
एष
पतिः
११
तेन
तँ
हायास्य
उद्गीथमुपासांचक्र
एतमु
एवायास्यं
मन्यन्त
आत्याद्यदयते
१२
तेन
तँ
ह
बको
दाल्भ्यो
विदांचकार
स
ह
नैमिषीयानामुद्गाता
बभूव
स
ह
स्मैभ्यः
कामानागायति
१३
आगाता
ह
वै
कामानां
भवति
य
एतदेवं
विद्वानक्षरमुद्गीथमुपास्त
इत्यध्या
-
त्मम्
१४
इति
प्रथमाध्याये
द्वितीयः
खण्डः
२
अथाधिदैवतं
य
एवासौ
तपति
तमुद्गीथमुपासीतोद्यन्वा
एष
प्रजाभ्य
उद्गा
-
यति
उद्यँ
स्तमोभयमपहन्त्यपहन्ता
ह
वै
भयस्य
तमसो
भवति
य
एवं
वेद
१
समान
उ
एवायं
चासौ
चोष्णोऽयमुष्णोऽसौ
स्वर
इतीममाचक्षते
स्वर
इति
प्रत्यास्वर
इत्यमुं
तस्माद्वा
एतमिमममुं
चोद्गीथमुपासीत
२
अथ
खलु
व्यानमेवोद्गीथमुपासीत
यद्वै
प्राणिति
स
प्राणो
यदपानिति
सो
ऽपानः
अथ
यः
प्राणापानयोः
सन्धिः
स
व्यानो
यो
व्यानः
सा
वाक्
तस्मादप्राणन्न
-
नपानन्वाचमभिव्याहरति
३
या
वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति
यर्क्तत्साम
तस्मादप्राणन्नन
-
पानन्साम
गायति
यत्साम
स
उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति
४
अतो
यान्यन्यानि
वीर्यवन्ति
कर्माणि
यथाग्नेर्मन्थनमाजेः
सरणं
दृढस्य
धनुष
आयमनमप्राणन्ननपानँ
स्तानि
करोत्येतस्य
हेतोर्व्यानमेवोद्गीथमुपासीत
५
अथ
खलूद्गीथाक्षराण्युपासीतोद्गीथ
इति
प्राण
एवोत्प्राणेन
ह्युत्तिष्ठति
वाग्गी
-
र्वाचो
ह
गिर
इत्याचक्षतेऽन्नं
थमन्ने
हीदँ
सर्वँ
स्थितम्
६
द्यौरेवोदन्तरिक्षं
गीः
पृथिवी
थमादित्य
एवोद्वायुर्गीरग्निस्थँ
सामवेद
एवोद्य
-
जुर्वेदो
गीरृग्वेदस्थं
दुग्धेऽस्मै
वाग्दोहं
यो
वाचो
दोहोऽन्नवानन्नादो
भवति
य
एतान्येवं
विद्वानुद्गीथाक्षरण्युपास्त
उद्गीथ
इति
७
अथ
खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत
येन
साम्ना
स्तोष्यन्स्यात्तत्सा
-
मोपधावेत्
८
यस्यामृचि
तामृचं
यदार्षेयं
तमृषिं
यां
देवतामभिष्टोष्यन्स्यात्तां
देवतामुपधा
-
वेत्
९
येन
च्छन्दसा
स्तोष्यन्स्यात्तच्छन्द
उपधावेद्येन
स्तोमेन
स्तोष्यमाणः
स्यात्तँ
स्तोममुपधावेत्
१०
यां
दिशमभिष्टोष्यन्स्यात्तां
दिशमुपधावेत्
११
आत्मानमन्तत
उपसृत्य
स्तुवीत
कामं
ध्यायन्नप्रमत्तोऽभ्याशो
ह
यदस्मै
स
कामः
समृद्ध्येत
यत्कामः
स्तुवीतेति
यत्कामः
स्तुवीतेति
१२
इति
प्रथमाध्याये
तृतीयः
खण्डः
३
ॐमित्येतदक्षरमुद्गीथमुपासीतोमिति
ह्युद्गायति
तस्योपव्याख्यानम्
१
देवा
वै
मृत्योर्बिभ्यतस्त्रयीं
विद्यां
प्राविशँ
स्ते
छन्दोभिरच्छादयन्यदेभिरच्छा
-
दयँ
स्तच्छन्दसां
छन्दस्त्वम्
२
तानु
तत्र
मृत्युर्यथा
मत्स्यमुदके
परिपश्येदेवं
पर्यपश्यदृचि
साम्नि
यजुषि
ते
नु
वित्त्वोर्ध्वा
ऋचः
साम्नो
यजुषः
स्वरमेव
प्राविशन्
३
यदा
वा
ऋचमाप्नोत्योमित्येवातिस्वरत्येवँ
सामैवं
यजुरेष
उ
स्वरो
यदेतद
-
क्षरमेतदमृतमभयं
तत्प्रविश्य
देवा
अमृता
अभया
अभवन्
४
स
य
एतदेवं
विद्वानक्षरं
प्रणौत्येतदेवाक्षरँ
स्वरममृतमभयं
प्रविशति
तत्प्र
-
विश्य
यदमृता
देवास्तदमृतो
भवति
५
इति
प्रथमाध्याये
चतुर्थः
खण्डः
४
अथ
खलु
य
उद्गीथः
स
प्रणवो
यः
प्रणवः
स
उद्गीथ
इत्यसौ
वा
आदित्य
उद्गीथ
एष
प्रणव
ओमिति
ह्येष
स्वरन्नेति
१
एतमु
एवाहमभ्यगासिषं
तस्मान्मम
त्वमेकोऽसीति
ह
कौषीतकिः
पुत्रमुवाच
रश्मीँस्त्वं
पर्यावर्तयाद्बहवो
वै
ते
भविष्यन्तीत्यधिदैवतम्
२
अथाध्यात्मं
य
एवायं
मुख्यः
प्राणस्तमुद्गीथमुपासीतोमिति
ह्येष
स्वरन्नेति
३
एतमु
एवाहमभ्यगासिषं
तस्मान्मम
त्वमेकोऽसीति
ह
कौषीतकिः
पुत्रमुवाच
प्राणाँस्त्वं
भूमानमभिगायताद्बहवो
वै
मे
भविष्यन्तीति
४
अथ
खलु
य
उद्गीथः
स
प्रणवो
यः
प्रणवः
स
उद्गीथ
इति
होतृषदनाद्धैवापि
दुरुद्गीतमनुसमाहरतीत्यनुसमाहरतीति
५
इति
प्रथमाध्याये
पञ्चमः
खण्डः
५
इयमेवर्गग्निः
साम
तदेतदेतस्यामृच्यध्यूढँ
साम
तस्मादृच्यध्यूढँ
साम
गीयत
इयमेव
साग्निरमस्तत्साम
१
अन्तरिक्षमेवर्ग्वायुः
साम
तदेतदेतस्यामृच्यध्यूढँ
साम
तस्मादृच्यध्यूढँ
साम
गीयतेऽन्तरिक्षमेव
सा
वायुरमस्तत्साम
२
द्यौरेवर्गादित्यः
साम
तदेतदेतस्यामृच्यध्यूढँ
साम
तस्मादृच्यध्यूढँ
साम
गी
-
यते
द्यौरेव
सादित्योऽमस्तत्साम
३
नक्षत्राण्येवर्क्चन्द्र
माः
साम
तदेतदेतस्यामृच्यध्यूढँ
साम
तस्मादृच्यध्यूढँ
साम
गीयते
नक्षत्राण्येव
सा
चन्द्र
मा
अमस्तत्साम
४
अथ
यदेतदादित्यस्य
शुक्लं
भाः
सैवर्गथ
यन्नीलं
परः
कृष्णं
तत्साम
तदेतदे
-
तस्यामृच्यध्यूढँ
साम
तस्मादृच्यध्यूढँ
साम
गीयते
५
अथ
यदेवैतदादित्यस्य
शुक्लं
भाः
सैव
साथ
यन्नीलं
परः
कृष्णं
तदमस्त
-
त्सामाथ
य
एषोऽन्तरादित्ये
हिरण्मयः
पुरुषो
दृश्यते
हिरण्यश्मश्रुर्हिरण्यके
-
श
आप्रणखात्सर्व
एव
सुवर्णः
६
तस्य
यथा
कप्यासं
पुण्डरीकमेवमक्षिणी
तस्योदिति
नाम
स
एष
सर्वेभ्यः
पाप्मभ्य
उदित
उदेति
ह
वै
सर्वेभ्यः
पाप्मभ्यो
य
एवं
वेद
७
तस्यर्क्
च
साम
च
गेष्णौ
तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य
हि
गाता
स
एष
ये
चामुष्मात्पराञ्चो
लोकास्तेषां
चेष्टे
देवकामानां
चेत्यधिदैवतम्
८
इति
प्रथमाध्याये
षष्ठः
खण्डः
६
अथाध्यात्मं
वागेवर्क्
प्राणः
साम
तदेतदेतस्यामृच्यध्यूढँ
साम
तस्मादृ
-
च्यध्यूढँ
साम
गीयते
वागेव
सा
प्राणोऽमस्तत्साम
१
चक्षरेवर्गात्मा
साम
तदेतदेतस्यामृच्यध्यूढँ
साम
तस्मादृच्यध्यूढँ
साम
गीयते
चक्षुरेव
सात्मामस्तत्साम
२
श्रोत्रमेवर्ङ्मनः
साम
तदेतदेतस्यामृच्यध्यूढँ
साम
तस्मादृच्यध्यूढँ
साम
गीयते
श्रोत्रमेव
सा
मनोऽमस्तत्साम
३
अथ
यदेतदक्ष्णः
शुक्लं
भाः
सैवर्गथ
यन्नीलं
परः
कृष्णं
तत्साम
तदेतदेत
स्यामृच्यध्यूढँ
साम
तस्मादृच्यध्यूढँ
साम
गीयते
अथ
यदेवैतदक्ष्णः
शुक्लं
भाः
सैव
साथ
यन्नीलं
परः
कृष्णं
तदमस्तत्साम
४
अथ
य
एषोऽन्तरक्षिणि
पुरुषो
दृश्यते
सैवर्क्तत्साम
तदुक्थं
तद्यजुस्तद्ब्रह्म
त
-
स्यैतस्य
तदेव
रूपं
यदमुष्य
रूपं
यावमुष्य
गेष्णौ
तौ
गेष्णौ
यन्नाम
तन्नाम
५
स
एष
ये
चैतस्मादर्वाञ्चो
लोकास्तेषां
चेष्टे
मनुष्यकामानां
चेति
तद्य
इमे
वीणायां
गायन्त्येतं
ते
गायन्ति
तस्मात्ते
धनसनयः
६
अथ
य
एतदेवं
विद्वान्साम
गायत्युभौ
स
गायति
सोऽमुनैव
स
एष
ये
चामु
-
ष्मात्पराञ्चो
लोकास्ताँ
श्चाप्नोति
देवकामाँ
श्च
७
अथानेनैव
ये
चैतस्मादर्वाञ्चो
लोकास्ताँ
श्चाप्नोति
मनुष्यकामाँ
श्च
तस्मादु
है
-
वंविदुद्गाता
ब्रूयात्
८
कं
ते
काममागायानीत्येष
ह्येव
कामागानस्येष्ठे
य
एवं
विद्वान्साम
गायति
साम
गायति
९
इति
प्रथमाध्याये
सप्तमः
खण्डः
७
त्रयो
होद्गीथे
कुशला
बभूवुः
शिलकः
शालावत्यश्चैकितायनो
दाल्भ्यः
प्रवा
-
हणो
जैवलिरिति
ते
होचुरुद्गीथे
वै
कुशलाः
स्मो
हन्तोद्गीथे
कथां
वदाम
इति
१
तथेति
ह
समुपविविशुः
स
ह
प्रवाहणो
जैवलिरुवाच
भगवन्तावग्रे
वदतां
ब्राह्मणयोर्वदतोर्वाचँ
श्रोष्यामीति
२
स
ह
शिलकः
शालावत्यश्चैकितायनं
दाल्भ्यमुवाच
हन्त
त्वा
पृच्छानीति
पृच्छेति
होवाच
३
का
साम्नो
गतिरिति
स्वर
इति
होवाच
स्वरस्य
का
गतिरिति
प्राण
इति
हो
-
वाच
प्राणस्य
का
गतिरित्यन्नमिति
होवाचान्नस्य
का
गतिरित्याप
इति
होवा
-
च
४
अपां
का
गतिरित्यसौ
लोक
इति
होवाचामुष्य
लोकस्य
का
गतिरिति
न
स्वर्गं
लोकमतिनयेदिति
होवाच
स्वर्गं
वयं
लिकँ
सामाभिसंस्थापयामः
स्वर्गसँ
स्तावँ
हि
सामेति
५
तँ
ह
शिलकः
शालावत्यश्चैकितायनं
दाल्भ्यमुवाचाप्रतिष्ठितं
वै
किल
ते
दाल्भ्य
साम
यस्त्वेतर्हि
ब्रूयान्मूर्धा
ते
विपतिष्यतीति
मूर्धा
ते
विपतेदिति
६
हन्ताहमेतद्भगवतो
वेदानीति
विद्धीति
होवाचामुष्य
लोकस्य
का
गतिरि
-
त्ययं
लोक
इति
होवाचास्य
लोकस्य
का
गतिरिति
न
प्रतिष्ठां
लोकमनिये
-
दिति
होवाच
प्रतिष्ठां
वयं
लोकँ
सामाभिसँस्थापयामः
प्रतिष्ठासँ
स्तावँ
हि
सामेति
७
तँ
ह
प्रवाहणो
जैवलिरुवाचान्तवद्वै
किल
ते
शालावत्य
साम
यस्त्वेतर्हि
ब्रूयान्मूर्धा
ते
विपतिष्यतीति
मूर्धा
ते
विपतेदिति
हन्ताहमेतद्भगवतो
वेदा
-
नीति
विद्धीति
होवाच
८
इति
प्रथमाध्यायेऽष्टमः
खण्डः
८
अस्य
लोकस्य
का
गतिरित्याकाश
इति
होवाच
सर्वाणि
ह
वा
इमानि
भू
-
तान्याकाशादेव
समुत्पद्यन्त
आकाशं
प्रत्यस्तं
यन्त्याकाशो
ह्येवैभ्यो
ज्याया
-
नाकाशः
परायणम्
१
स
एष
परोवरीयानुद्गीथः
स
एषोऽनन्तः
परोवरीयो
हास्य
भवति
परोवरीय
-
सो
ह
लोकाञ्जयति
य
एतदेवं
विद्वान्परोवरीयाँ
समुद्गीथमुपास्ते
२
तँ
हैतमतिधन्वा
शौनक
उदरशाण्डिल्यायोक्त्वोवाच
यावत्त
एनं
प्रजायामु
-
द्गीथं
वेदिष्यन्ते
परोवरीयो
हैभ्यस्तावदस्मिल्ँलोके
जीवनं
भविष्यति
३
तथामुष्मिल्ँलोके
लोक
इति
स
य
एतमेवं
विद्वानुपास्ते
परोवरीय
एव
हा
-
स्यास्मिल्ँलोके
जीवनं
भवति
तथामुष्मिल्ँलोके
लोक
इति
लोके
लोक
इति
४
इति
प्रथमाध्याये
नवमः
खण्डः
९
मटचीहतेषु
कुरुष्वाटिक्या
सह
जाययोषस्तिर्ह
चाक्रायण
इभ्यग्रामे
प्रद्रा
णक
उवास
१
स
हेभ्यं
कुल्माषान्खादन्तं
बिभिक्षे
तँ
होवाच
नेतोऽन्ये
विद्यन्ते
यच्च
ये
म
इम
उपनिहिता
इति
२
एतेषां
मे
देहीति
होवाच
तानस्मै
प्रददौ
हन्तानुपानमित्युच्छिष्टं
वै
मे
पीतँ
स्या
-
दिति
होवाच
३
न
स्विदेतेऽप्युच्छिष्टा
इति
न
वा
अजीविष्यमिमानखादन्निति
होवाच
कामो
म
उदपानमिति
४
स
ह
खादित्वातिशेषाञ्जायाया
आजहार
साग्र
एव
सुभिक्षा
बभूव
तान्प्रति
-
गृह्य
निदधौ
५
स
ह
प्रातः
संजिहान
उवाच
यद्बतान्नस्य
लभेमहि
लभेमहि
धनमात्राँ
राजा
-
सौ
यक्ष्यते
स
मा
सर्वैरार्त्विज्यैर्वृणीतेति
६
तं
जायोवाच
हन्त
पत
इम
एव
कुल्माषा
इति
तान्खादित्वामुं
यज्ञं
विततमे
-
याय
७
तत्रोद्गातॄनास्तावे
स्तोष्यमाणानुपोपविवेश
स
ह
प्रस्तोतारमुवाच
८
प्रस्तोतर्या
देवता
प्रस्तावमन्वायत्ता
तां
चेदविद्वान्प्रस्तोष्यसि
मूर्धा
ते
विप
-
तिष्यतीति
९
एवमेवोद्गातारमुवाचोद्गातर्या
देवतोद्गीथमन्वायत्ता
तां
चेदविद्वानुद्गास्यसि
मू
-
मूर्धा
ते
विपतिष्यतीति
१०
एवमेव
प्रतिहर्तारमुवाच
प्रतिहर्तर्या
देवता
प्रतिहारमन्वायत्ता
तां
चेदविद्वा
-
न्प्रतिहरिष्यसि
मूर्धा
ते
विपतिष्यतीति
ते
ह
समारतास्तूष्णीमासांचक्रिरे
११
इति
प्रथमाध्याये
दशमः
खण्डः
१०
अथ
हैनं
यजमान
उवाच
भगवन्तं
वा
अहं
विविदिषाणीत्युषस्तिरस्मि
चा
-
क्रायण
इति
होवाच
१
स
होवाच
भगवन्तं
वा
अहमेभिः
सर्वैरार्त्विज्यैः
पर्यैषिषं
भगवतो
वा
अह
-
मवित्त्यान्यानवृषि
२
भगवाँस्त्वेव
मे
सर्वैरार्त्विज्यैरिति
तथेत्यथ
तर्ह्येत
एव
समतिसृष्टाः
स्तुवतां
यावत्त्वेभ्यो
धनं
दद्यास्तावन्मम
दद्या
इति
तथेति
ह
यजमान
उवाच
३
अथ
हैनं
प्रस्तोतोपससादः
प्रस्तोतर्या
देवता
प्रस्तावमन्वायत्ता
तां
चेदविद्वा
-
न्प्रस्तोष्यसि
मूर्धा
ते
विपतिष्यतीति
मा
भगवानवोचत्कतमा
सा
देवतेति
४
प्राण
इति
होवाच
सर्वाणि
ह
वा
इमानि
भूतानि
प्राणमेवाभिसंविशन्ति
प्रा
-
णमभ्युज्जिहते
सैषा
देवता
प्रस्तावमन्वायत्ता
तां
चेदविद्वान्प्रास्तोष्यो
मूर्धा
ते
व्यपतिष्यत्तथोक्तस्य
मयेति
५
अथ
हैनमुद्गातोपससादोद्गातर्या
देवतोद्गीथमन्वायत्ता
तां
चेदविद्वानुद्गास्यसि
मूर्धा
ते
विपतिष्यतीति
मा
भगवानवोचत्कतमा
सा
देवतेति
६
आदित्य
इति
होवाच
सर्वाणि
ह
वा
इमानि
भूतान्यादित्यमुच्चैः
सन्तं
गाय
-
न्ति
सैषा
देवतोद्गीथमन्वायत्ता
तां
चेदविद्वानुदगास्यो
मूर्धा
ते
व्यपतिष्यत्त
-
थोक्तस्य
मयेति
७
अथ
हैनं
प्रतिहर्तोपससाद
प्रतिहर्तर्या
देवता
प्रतिहारमन्वायत्ता
तां
चेदवि
-
द्वान्प्रतिहरिष्यसि
मूर्धा
ते
विपतिष्यतीति
मा
भगवानवोचत्कतमा
सा
देव
-
तेति
८
अन्नमिति
होवाच
सर्वाणि
ह
वा
इमानि
भूतान्यन्नमेव
प्रतिहरमाणानि
जी
-
वन्ति
सैषा
देवता
प्रतिहारमन्वायत्ता
तां
चेदविद्वान्प्रत्यहरिष्यो
मूर्धा
ते
व्य
-
पतिष्यत्तथोक्तस्य
मयेति
तथोक्तस्य
मयेति
९
इति
प्रथमाध्याय
एकादशः
खण्डः
११
अथातः
शौव
उद्गीथस्तद्ध
बको
दाल्भ्यो
ग्लावो
वा
मैत्रेयः
स्वाध्यायमुद्व
-
व्राज
१
तस्मै
श्वा
श्वेतः
प्रादुर्बभूव
तमन्ये
श्वान
उपसमेत्योचुरन्नं
नो
भगवानागायत्व
-
शनायाम
वा
इति
२
तान्होवाचेहैव
मा
प्रातरुपसमीयातेति
तद्ध
बको
दाल्भ्यो
ग्लावो
वा
मैत्रेयः
प्रतिपालयांचकार
३
ते
ह
यथैवेदं
बहिष्पवमानेन
स्तोष्यमाणाः
सँ
रब्धाः
सर्पन्तीत्येव
माससृपुस्ते
ह
समुपविश्य
हिंचक्रुः
४
ॐ३मदा३मॐ३पिबा३मॐ३देवो
वरुणः
प्रजापतिः
सविता२न्नमिहा२हरदन्नप
-
ते३न्नमिहा२हरा२हरो३मिति
५
इति
प्रथमाध्याये
द्वादशः
खण्डः
१२
अयं
वाव
लोको
हाउकारो
वायुर्हाइकारश्चन्द्र
मा
अथकार
आत्मेहकारोऽग्नि
-
रीकारः
१
आदित्य
ऊकारो
निहव
एकारो
विश्वेदेवा
औहोइकारः
प्रजापतिर्हिंकारः
प्रा
-
णः
स्वरोऽन्नं
या
वाग्विराट्
२
अनिरुक्तस्त्रयोदशः
स्तोभः
संचरो
हुंकारः
३
दुग्धेऽस्मै
वाग्दोहं
यो
वाचो
दोहोऽन्नवानन्नादो
भवति
य
एतामेवँ
साम्नामुप
-
निषदं
वेदोपनिषदं
वेद
इति
४
इति
प्रथमाध्याये
त्रयोदशः
खण्डः
१३
इति
प्रथमोऽध्यायः
१
]