२८

अथ अष्टाविंशो ऽध्यायः

हरदत्त-प्रस्तावः

अथ दायविभागः ।

विश्वास-प्रस्तुतिः

ऊर्ध्वं पितुः पुत्रा रिक्थं भजेरन् ॥ २८।१ ॥

मूलम्

ऊर्ध्वं पितुः पुत्रा रिक्थं भजेरन् ॥ २८।१ ॥

हरदत्तः

ऊर्ध्वं पितुर् पितरि मृते तदीयं रिक्थं स्वगृहक्षेत्रदासगवाश्वस्वर्णादिकं पुत्रा भजेरन् पुत्रास् तत्र भागिनः । पुत्राणां तत्स्वामित्वम् इत्य् उक्तं भवति । ऊर्ध्वं पितुर् इति वचनाज् जीवति तस्मिन् न तत्र पुत्राणां स्वाम्यम् । तथा च मनुः ।

ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः सह ।
भजेरन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ॥ इति ।

पितृशब्दस्य संबन्धिशब्दत्वाद् एव सिद्धे पुत्रग्रहणं नियमार्थम् । तेन पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेद् इत्यादिवचनजातम् आचार्यस्याभिमतं न भवति । पुत्रा एवं सर्वं धनादिकं गृहीत्वा मातरं यथावद् रेक्षेयुर् इत् मन्यते । श्रूयते च: “तस्मात् स्त्रियो निरिन्द्रिया अदायादाः” इति । मनुर् अप्य् आह ।

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रास् तु स्थविरीभावे न स्त्री स्वातन्त्र्यम् अर्हति ॥ इति ॥ २८।१ ॥

विश्वास-प्रस्तुतिः

निवृत्ते रजसि मातुर् जीवति चेच्छति ॥ २८।२ ॥

मूलम्

निवृत्ते रजसि मातुर् जीवति चेच्छति ॥ २८।२ ॥

हरदत्तः

अथ वा जीवत्य् अपि पितरि पुत्रा रिक्थं भजेरन्न् इति । इच्छति सति । तदनुज्ञयेत्य् अर्थः । तस्य कालः – निवृत्ते रजसि मातुः । उपरतरजस्कायां निवृत्तप्रसवायाम् इत्य् उक्तं भवति ॥ २८।२ ॥

विश्वास-प्रस्तुतिः

सर्वं वा पूर्वजस्येतरान् बिभृयात् पितृवत् ॥ २८।३ ॥

मूलम्

सर्वं वा पूर्वजस्येतरान् बिभृयात् पितृवत् ॥ २८।३ ॥

हरदत्तः

ज्येष्ठ एव सर्वं धनं स्वीकृत्य गृहीत्वेतरान् कनिष्ठान् बिभृयात् । ते ऽपि तस्मिन् पुत्रवद् भजेरन् ॥ २८।३ ॥

विश्वास-प्रस्तुतिः

विभागे तु धर्मवृद्धिः ॥ २८।४ ॥

मूलम्

विभागे तु धर्मवृद्धिः ॥ २८।४ ॥

हरदत्तः

तुशब्दः पक्षं व्यावर्तयति । नैतद् एवं ज्येष्ठ एव बिभृयाद् इति । यद् उक्तं विभाग एव ज्यायान् यतस् तत्र धर्मवृद्धिः । यथाह बृहस्पतिः ।

एकपाकेन वसतां पितृदेवद्विजार्चनम् ।
एकं भवेद् विभक्तानां तद् एव स्याद् गृहे गृहे ॥ २८।४ ॥

हरदत्त-प्रस्तावः

अधुना पितुर् ऊर्ध्वं जीवति च तस्मिन् विभागप्रकारम् आह ।

विश्वास-प्रस्तुतिः

विंशतिभागो ज्येष्ठस्य मिथुनम् उभयतोदद्युक्तो
रथो गोवृषः ॥ २८।५ ॥

मूलम्

विंशतिभागो ज्येष्ठस्य मिथुनम् उभयतोदद्युक्तो
रथो गोवृषः ॥ २८।५ ॥

हरदत्तः

सर्वस्मात् पितृधनाद् विंशतितमो भागः मिथुनं गवादिषु स्त्रीपुंसयोर् युग्मम् । उबहतोदन्ता अश्वाश्वतरगर्दभास् तेषाम् अन्यतमाभ्यां युक्तो रथः गोवृषः पुंगवः । अयम् उद्धारो ज्येष्ठस्य ॥ २८।५ ॥

विश्वास-प्रस्तुतिः

काणखोरकूटवणेटा मधमस्यानेकाश् चेत् ॥ २८।६ ॥

मूलम्

काणखोरकूटवणेटा मधमस्यानेकाश् चेत् ॥ २८।६ ॥

हरदत्तः

काण एकनेत्रः । विकलाङ्ग इति यावत् । खोरो वृद्धः । खोट इति पाठे विकलपादः । कूटः शृङ्गहीनः । वणेटो विकलवालधिः । गवाश्वादिषु य एवंरूपः स मध्यमस्योद्धारः । स च काणादिर् यद्य् अनेको भवति । इतरेषाम् अप्य् अस्ति चोदिति ॥ २८।६ ॥

विश्वास-प्रस्तुतिः

अविर् धान्यायसी गृहम् अनोयुक्तं चतुष्पदां
चैकैकं यवीयसः ॥ २८।७ ॥

मूलम्

अविर् धान्यायसी गृहम् अनोयुक्तं चतुष्पदां
चैकैकं यवीयसः ॥ २८।७ ॥

हरदत्तः

अविर् ऊर्णायुः । जाताव् एकवचनम् । यावन्तो ऽवयः, एकस्य चतुष्पदां चैकैकम् इत्य् एव सिद्धत्वात् । अपर आह: यद्य् अपि पितुर् एक एवाविस् तथापि स यवीयसः । चतुष्पदां चैकैकम् इति तु बहुविषयम् इति । धान्यं व्रीह्यादि । अय आयसं दात्रादि । धान्यम् अयश् चेति धान्यायसी । एतद् उभयं यावत् किंचिद् गृहे । गृहं यत्रास्यते । अनः शकटं युक्तं बाह्याभ्याम् । चतुष्पदां च गवादीनाम् एकम् इष्टं गृह्णीयात् । अयं कनीयस उद्धारः । अयं च सर्वकनीयसः । इतरेषाम् उद्धारो यो मध्यमस्य ॥ २८।७ ॥

विश्वास-प्रस्तुतिः

समधा चेतरत् सर्वम् ॥ २८।८ ॥

मूलम्

समधा चेतरत् सर्वम् ॥ २८।८ ॥

हरदत्तः

इतरद् उद्धृतशिष्टं सर्वं सर्वे समधा गृह्णीयुः । समम् इत्य् अर्थः । द्विधा बहुधेत्यादौ दृष्टो धाप्रत्ययः प्रयुक्तः ॥ २८।८ ॥

विश्वास-प्रस्तुतिः

एकैकं वा धनरूपं काम्यं पूर्वः पूर्वो
लभते ॥ २८।९ ॥

मूलम्

एकैकं वा धनरूपं काम्यं पूर्वः पूर्वो
लभते ॥ २८।९ ॥

हरदत्तः

कल्पान्तरेषु बहुषु क्षेत्रादिष्व् एकैकं धनरूपं ज्येष्ठानुपूर्व्याद् गृह्णीयुः । काम्यं यस्य यद् इष्टं स तद् गृह्णीयाद् इति । सर्वेष्व् इष्टं ज्येष्टस् तद्रहितेष्व् इष्टम् अनन्तर इति । अयम् उद्धारः सर्वेषाम् ॥ २८।९ ॥

हरदत्त-प्रस्तावः

अत्रैव पशुषु विशेषः ।

विश्वास-प्रस्तुतिः

दशकं पशूनाम् ॥ २८।१० ॥

मूलम्

दशकं पशूनाम् ॥ २८।१० ॥

हरदत्तः

दशावयवा अस्य दशकः । पशूनां गवादीनां मध्ये दशकं दशकं पूर्वो लभते न त्व् एकम् इति ॥ २८।१० ॥

हरदत्त-प्रस्तावः

अस्यापवादः ।

विश्वास-प्रस्तुतिः

नैकशफद्विपदाम् ॥ २८।११ ॥

मूलम्

नैकशफद्विपदाम् ॥ २८।११ ॥

हरदत्तः

एकशफानाम् अश्वादीनां द्विपदां दास्यादीनां च दशकं न गृह्णीयुः । किं तु पूर्वोक्तम् ऐकैकम् एवेति । द्विपादानाम् इति पाठे पादशब्देन समानर्थः पदशब्दः । एवम् एकमातृकाणां सोद्धारो विभाग उक्तः ॥ २८।११ ॥

हरदत्त-प्रस्तावः

अथानेकमातृकाणाम् आह ।

विश्वास-प्रस्तुतिः

ऋषभो ऽधिको ज्येष्ठस्य ॥ २८।१२ ॥

मूलम्

ऋषभो ऽधिको ज्येष्ठस्य ॥ २८।१२ ॥

हरदत्तः

उत्तरसूत्रे ज्यैष्ठिनेयस्येति वचनाद् अयं ज्येष्ठः कानिष्ठिनेयः ¦ यदि कनीयस्याः पुत्रो भवति तदा तस्य ऋषभ उद्धारः । समम् अन्यत् ॥ २८।१२ ॥

विश्वास-प्रस्तुतिः

ऋषभषोडशा ज्यैष्ठिनेयस्य ॥ २८।१३ ॥

मूलम्

ऋषभषोडशा ज्यैष्ठिनेयस्य ॥ २८।१३ ॥

हरदत्तः

ज्येष्ठस्येति वर्तते । ज्येष्ठायाः पुत्रश् च भवति यो ज्येष्ठस्य भवति तस्य पञ्चदश गाव ऋषभश् चैक उद्धारः । समम् अन्यत् ॥ २८।१३ ॥

हरदत्त-प्रस्तावः

अथ ऋषभो ऽधिको ज्येष्ठस्येत्य् अस्यापवादः ।

विश्वास-प्रस्तुतिः

समधा वाज्यैष्ठिनेयेन यवीयसाम् ॥ २८।१४ ॥

मूलम्

समधा वाज्यैष्ठिनेयेन यवीयसाम् ॥ २८।१४ ॥

हरदत्तः

ज्येष्ठस्येति वतते । तच् चाज्यैष्ठिनेयेनेत्य् अनेन सामानाधिकरण्यात् तृतीयान्तं संपद्यते । अज्यैष्ठिनेयेन कनिष्ठायां जातेन ज्येष्ठेन सह यवीयसां ज्यैष्ठिनेयानां समो वा विभागः । एकस्य जन्मतो ज्यैष्ठ्यम् अन्येषां मातृत इति ॥ २८।१४ ॥

विश्वास-प्रस्तुतिः

प्रतिमातृ वा स्वस्ववर्गे भागविशेषः ॥ २८।१५ ॥

मूलम्

प्रतिमातृ वा स्वस्ववर्गे भागविशेषः ॥ २८।१५ ॥

हरदत्तः

विंशतिभागो ज्येष्टस्येत्यादिर् य उक्तो भागविशेषः स प्रतिमातृ वा स्वे स्वे वर्गे विशेषः कर्तव्यः । एतद् उक्तं भवति – यावत्यो मातरः पुत्रवत्यस् तावता विभक्ते धन एकस्या यावन्तः पुत्रास् तेषां भागान् एकीकृत्य तत्र तत्र वर्गे यो यो ज्येष्ठस् तस्य विंशतिभागो ज्येष्ठस्येत्यादिर् भागविशेष इति । एवं पुत्रवतो विभाग उक्तः ॥ २८।१५ ॥

हरदत्त-प्रस्तावः

अथापुत्रस्याह ।

विश्वास-प्रस्तुतिः

पितोत्सृजेत् पुत्रिकाम् अनप्त्यो ऽग्निं प्रजापतिं
चेष्ट्वास्मदर्धम् अपत्यम् इति संवाद्य ॥ २८।१६ ॥

मूलम्

पितोत्सृजेत् पुत्रिकाम् अनप्त्यो ऽग्निं प्रजापतिं
चेष्ट्वास्मदर्धम् अपत्यम् इति संवाद्य ॥ २८।१६ ॥

हरदत्तः

पिता नाम ताम् उत्सृजेद् दद्यात् । भाविसंज्ञानिर्देशो ऽयम् । यथा यूपं छिनत्तीति । पुत्रिकां भविष्यन्ती दुहितरम् अनपत्यो ऽपुत्रो ऽग्निं प्रजापतिं चेष्ट्वाग्नये स्वाहा प्रजापतये स्वाहेत्य् आज्यभागान् अनन्तरम् औपासन आज्येन हुत्वास्मदर्थम् अपत्यम् इति संवाद्य यस्मै ददाति तेन संवादं कारयित्वा । तत्र प्रकारो वसिष्ठेन दर्शितः ।

अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम् अलंकृताम् ।
अस्यां जनिष्यते पुत्रः स मे पुत्रो भवेद् इति ॥

एवं दत्ता सा पुत्रिका तस्यां जातो मातामहस्यैव पुत्रो नोत्पादयितुः । अत एव मनुः ।

मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः ।
द्वितीयं तु पितुस् तस्यास् तृतीयं तु पितुः पितुः ॥ इति ।

एवं सर्वे गर्भाः पित्रिकाप्य् एषा पितुः पुत्रप्रतिनिधिः । “इवे प्रतिकृतौ” [पाण् ५।३।९६] संज्ञायाम् कन्न् इति । सैव च रिक्थग्राहिणी । सैव च रिक्तग्राहिणी । तथा च मनुः ।

पुत्रिकायां कृतायां तु यदि पुत्रो ऽनुजायते ।
समस् तत्र विभागः स्याज् ज्येष्ठता नास्ति हि स्त्रियाः ॥ इति ।

गोत्रम् अपि तस्याः पितुर् एव गोत्रम् । भर्तुस् तु केवलं धर्मेषु सहचारिणी रतिफला च । पुत्रार्थं तु विवाहान्तरं कर्तव्यं स्वकुलसंतानार्थम् अन्यथा दोषः ॥ २८।१६ ॥

विश्वास-प्रस्तुतिः

अभिसंधिमात्रात् पुत्रिकेत्य् एकेषाम् ॥ २८।१७ ॥

मूलम्

अभिसंधिमात्रात् पुत्रिकेत्य् एकेषाम् ॥ २८।१७ ॥

एके मन्यते प्रदानसमये पितुर् यो ऽभिस[ं]धिर् इयं मे पुत्रिकास्त्व् इति तावन्मात्रकाद् एव दुहिता पुत्रिका भवति न होमसंवादनाद्यपेक्षेति ॥ २८।१७ ॥

हरदत्त-प्रस्तावः

ततश् च ।

विश्वास-प्रस्तुतिः

तत्संशयान् नोपयच्छेद् अभ्रातृकाम् ॥ २८।१८ ॥

मूलम्

तत्संशयान् नोपयच्छेद् अभ्रातृकाम् ॥ २८।१८ ॥

हरदत्तः

तत्संशयाद् अभिसंधिसंशयात् पुत्रिकासंशयाद् वा । मनुर् अप्य् आह ।

यस्यास् तु न भवेद् भ्राता न विज्ञयेत वा पिता ।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया॥ इति ॥ २८।१८ ॥

विश्वास-प्रस्तुतिः

पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्री
वानपत्यस्य ॥ २८।१९ ॥

मूलम्

पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्री
वानपत्यस्य ॥ २८।१९ ॥

हरदत्तः

यस्य पुत्रिकारूपम् अप्य् अपत्यं नास्ति सो ऽनपत्यः । तस्य रिक्थं पिण्डादिसंबन्धा भजेरन् स्त्री वा । पिण्डसंबन्धाः सपिण्डाः । गोत्रसंबन्धाः सगोत्राः । हारीतस्य हारीत इतिवत् । ऋषिसंबन्धाः समानप्रवराः हरितकुत्सपिशङ्गशङ्खदर्भहैमगवाः परस्परम् । एवम् अन्यत्रापि । तत्र सपिण्डाद्याः प्रत्यासत्तिक्रमेण गृह्णीयुः । तथा च आपस्तम्बः: “पुत्राभावे यः प्रत्यासन्नः सपिण्डः” इति । तद् यथा – पिता माता च सोदर्यस् तत्पुत्रा भिन्नोदरा भ्रातरस् तत्पुत्राः पितृव्य इत्यादि । सपिण्डाभावे सगोत्रास् तदभावे समानप्रवराः । स्त्री तु सर्वैः सगोरादिभिः समुच्चीयते । यदा सपिण्डादयो गृह्णन्ति तदा तैः सह पत्न्य् अप्य् एकम् अंशं हरेत् । तथा ।

पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् । इति ।

अत एव स्त्री पृथङ्निर्दिष्टा । सपिण्डादयः समानेन । पत्नीदायस् त्व् आचार्यस्य् पक्षे न भवति । मनुर् अपि ।

निरिन्द्रिया अदायादा स्त्रियो नित्यम् इति स्थितिः ॥ इति ।

अत्र सपिण्डाद्यभावे बृहस्पतिः ।

अन्यत्र ब्राह्मणात् किं तु राजा धर्मपरायणः ।
तत् स्त्रीणां जीवनं दद्याद् एष दायविधिः स्म्र्तः ॥
अन्नार्थं तण्डुलप्रस्थम् अपराह्णे तु सेन्धनम् ।
वसनं त्रिपणक्रीतं देयम् एकं त्रिमासतः ॥
एतावद् एव साध्वीनां चोदितं विधिनाशनम् ॥ इति ।

तद् एवं मनु-बृहस्पतिभ्यां पत्नीदायस्यात्यन्ताभाव उक्तः । याज्ञवल्क्येन तु पत्नीदायः स उक्तः: “पत्नी दुतरश् च” इत्यादि । अत्र व्यासः ।

द्विसहस्रपणो दायः पत्न्यै देयो धनस्य तु ।
यच् च भर्त्रा धनं दत्तं सा यथाकामम् आप्नुयात् ॥ इति ।

आचार्येण तु सपिण्डादिसमांशग्रहणम् उक्तम् । तत्र सर्वम् एव धनं सपिण्डाद्या गृहीत्वा स्त्रियो यावज्जीवं रक्षेयुर् इति मुख्यः कल्पः । तदसंभवे ऽशनवसनयोः पर्याप्तं धनक्षेत्रादिकम् अंशत्वेन व्यपोह्य शेषं गृह्णीयुः । तथा च बृहस्पतिना पत्नीदायं प्रतिषिद्द्यान्त उक्तम् ।

वसनस्याशनस्यैव तथैव रजतस्य च ।
त्रयं व्यपोह्य तच्छिष्टं दायादानां प्रकल्पयेत् ॥
धूमावसारिकं द्रव्यं सहायास् तान् अतः पुरा ।
तथैवाशनवासांसि विगणय्य धने मृता ॥ इति ॥ २८।१९ ॥

विश्वास-प्रस्तुतिः

बीजं वा लिप्सेत ॥ २८।२० ॥

मूलम्

बीजं वा लिप्सेत ॥ २८।२० ॥

हरदत्तः

अथ वा स्त्री सपिण्डादिभ्यो बीजं लिप्सेत । अपत्यम् उत्पादयेद् इत्य् उक्तं भवति । अस्मिन् पक्षे तु न सपिण्डाद्या धनं गृह्णीयुर् एष्यन्तो ऽपत्यस्यार्थाय रक्षेयुः ॥ २८।२० ॥

हरदत्त-प्रस्तावः

अस्मिन् पक्षे विशेषः ।

विश्वास-प्रस्तुतिः

देवरवत्याम् अन्यजातम् अभागम् ॥ २८।२१

मूलम्

देवरवत्याम् अन्यजातम् अभागम् ॥ २८।२१

हरदत्तः

देवरे विद्यमाने यद्य् अन्यतो बीजं लिप्सेत ततस् तस्यां जातम् अपत्यम् अभागं भागरहितम् । न तस्य धनग्रहणम् अस्ति । असति तु देवरे ऽन्यतो जातम् अप्य् अपत्यं सभागम् एव ॥ २८।२१ ॥

विश्वास-प्रस्तुतिः

स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां
च ॥ २८।२२ ॥

मूलम्

स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां
च ॥ २८।२२ ॥

हरदत्तः

पितृमातृसुत्रभ्रातृदत्तम् अध्यग्न्य् उपागतम् ।
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥

इति याज्ञवल्क्यः । तत् स्त्रीधनं तस्यां मृतायां दुहितॄणाम् अप्रत्तानां भवति । यदि सर्वा अपि प्रत्ता अप्रतिष्ठितानां भवति । प्रत्तासु प्रतिष्ठिताः काश्चित् काश्चिद् अप्रतिष्ठ्गिताः । प्रत्ताप्रत्तासमवाये ऽप्रत्ता गृह्णाति । प्रतिष्ठिताप्रतिष्ठितासमवाये ऽप्रतिष्ठिता गृह्णाति । यदा प्रसूतादिधनं तदा सर्वासां भवति । एषा मातुर् ऊर्ध्वं जीवन्त्यां पितृकुललब्धस्य स्त्रीधनस्य गतिः । तथा च मनुः ।

मातुस् तु यौतकं यत् स्यात् कुमारीभाग एव सः ।

वसिष्ठश् च “मातुः पारिणेयं स्त्रियो विभजेरन्” इति । यत् तु शाक्खलिखिताभ्याम् उक्तम्: “समं सर्वे सोदर्या मातृकं द्रव्यम् अर्हाः स्त्रीकुमार्यश् च” इति । तद्भर्तृकुललब्धेः प्रत्तासु दुहितृषु । तत्र प्रत्ताविषये प्रभूततमे मानवम् ।

जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन् मातृकं रिक्तं भगिन्यश् च सनाभयः ॥
यास् त्व् आसां स्युर् दुहितरस् तासाम् अपि यथार्हतः ।
मातामह्या धनात् किंचिद् प्रदेयं प्रीतिपूर्वकम् ॥ इति ।

तत्रैवाल्पे धने बार्हस्पत्यम् ।

स्त्रीधनं तदपत्यानां दुहितॄणां तदाशिनी ।
अप्रत्ता चेत् समूढा सा लभेत तु समातृकम् ॥ इति ॥ २८।२२ ॥

विश्वास-प्रस्तुतिः

भगिनीशुल्कः सोदर्याणाम् ऊर्ध्वं मातुः ॥ २८।२३ ॥

मूलम्

भगिनीशुल्कः सोदर्याणाम् ऊर्ध्वं मातुः ॥ २८।२३ ॥

हरदत्तः

भगिनीप्रदाननिमित्तं पित्रा यद् गृहीतं द्रव्यम् आसुरार्षविवाहयोस् तस्मिन् मृते तस्या भगिन्या एव सोदर्या ब्रातरस् तेषां भवति । तच् च मातुर् ऊर्ध्वं जीवन्त्यां मातरि तस्या एव न तु मृतस्य पितुर् एतत् स्वम् इति । तत्र मे भागिनो भिन्नोदरा भ्रातरो मातृसपत्नी चेति ते सर्वे ऽंशं न गृह्णीयुर् इति । यत्र विवाहसमये भर्त्रादिकुलेन भगिन्याद्यौ दत्तम् आभरणक्षेत्रादिकं तत् तस्या एव । मृतायां च तस्याम् अप्रजसि याज्ञवल्क्येनोक्तम् ।

बन्धुदत्तं तथा शुल्कम् अन्वाधेयकम् एव च ।
अप्रजायाम् अतीतायां बान्धवास् तद् अवाप्नुयुः ॥

येन यद् दत्तं स तद् अवाप्नुयाद् इति । सत्यां तु प्रजायां सैव गृह्णीयाद् इति ॥ २८।२३ ॥

विश्वास-प्रस्तुतिः

पूर्वं चैके ॥ २८।२४ ॥

मूलम्

पूर्वं चैके ॥ २८।२४ ॥

हरदत्तः

प्राग् अपि मातुर् मरणाद् भगिनीशुल्कं सोदर्याणां भवतीत्य् एके मन्यन्ते । तस्या वृत्तापेक्षो विकल्पः ॥ २८।२४ ॥

विश्वास-प्रस्तुतिः

असंसृष्टिविभागः प्रेतानां ज्येष्ठस्य ॥ २८।२५ ॥

मूलम्

असंसृष्टिविभागः प्रेतानां ज्येष्ठस्य ॥ २८।२५ ॥

हरदत्तः

असंसृष्टिनो विभक्तभ्रातरः । विभक्तव्यो विभागः । असंसृष्टिनां विभागो ऽसंसृष्टिविभागः । प्रेतानाम् इत्य् एतद् उपसर्जनीभूतानाम् अप्य् असंसृष्टिनां विशेषणम् । अनपत्यस्य चेति वर्तते । असंसृष्टिनां विभक्तानाम् अनपत्यानां भ्रातॄणां प्रेतानां यो विभागो विभक्तव्यो धनादिः स ज्येष्ठस्य भ्रातुर् भवति नेतेरेषां भ्रातॄणां नापि पत्न्या न च पित्रोर् इत्य् आचार्यस्य पक्षः । तथा च शङ्खलिखित-पतिठीनसी: “अपुत्रस्य स्वर्यातस्य भ्रातृगामि द्रव्यं तदभावे मातापितरौ हरेतां पत्नी वा ज्येष्ठा सगोत्रशिष्यस्य ब्रह्मचारिणश् च” इति । मनुस् तु ।

पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव च । इति ।

देवलश् च ।

ततो दायम् अपुत्रस्य विभजेरन् सहोदराः ।
सकुल्या दुहिता वापि ध्रियमाणः पितापि च ॥ इति ॥ २८।२५ ॥

विश्वास-प्रस्तुतिः

संसृष्टिनि प्रेते संसृष्टी रिक्थभाक् ॥ २८।२६ ॥

मूलम्

संसृष्टिनि प्रेते संसृष्टी रिक्थभाक् ॥ २८।२६ ॥

हरदत्तः

भ्रात्रादिभिः संसृष्टं धनं यस्य स संसृष्टी साधारणधनो ऽविभक्तो विभज्य संसृष्टश् च,

विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संवसेत् ।
पितृव्येणाथ वा प्रीत्या स तत्संसृष्ट उच्यते ॥

इति बार्हस्पत्ये दर्शनात् । अनपत्यस्येति वर्तते । संसृष्टीत्य् अनपत्ये प्रेते तस्य रिक्थं संसृष्टी भजेत् । तत्रापि सोदर्येणास्ओदर्य्एण च संसृष्टे सोदर्ये [सोदर्यो] भवेत् । “सोदरस्य तु सोदरः” इति याज्ञवल्क्यदर्शनात् । तद् एवं विभक्ते भ्रातर्य् अनपत्ये मृते तद्धनं ज्येष्ठस्य । असति ज्येष्ठ इतरेषां भ्रातॄणाम् । अविभक्ते तु मृते तदंशः सर्वेषां भ्रातॄणाम् इति ॥ २८।२६ ॥

विश्वास-प्रस्तुतिः

विभक्तजः पित्र्यम् एव ॥ २८।२७ ॥

मूलम्

विभक्तजः पित्र्यम् एव ॥ २८।२७ ॥

हरदत्तः

यस् तु विभागाद् ऊर्ध्वं जातः पुत्रस् तस्याम् अन्यस्यां वा भार्यायां स पित्र्यम् एव गृह्णीयात् । विभागाद् ऊर्ध्वं पित्रा यद् अर्जितं विभागकाले वा गृहीतं तद् एव भजेद् अल्पं प्रभूतं वा । अत्र बृहस्पतिः ।

पुत्रैः सह विभक्तेन पित्रा यत् स्वयम् अर्जितम् ।
विभक्तजस्य तत् सर्वम् अनीशाः पूर्वजाः स्मृताः ॥ इति ।

यदा तु पितुर् न किंचिद् अस्ति तदा वैष्णवम्: “पितृविभक्ता विभागोत्तरोत्पन्नस्य भागं दद्युः” इति । याज्ञवल्क्यो ऽप्य् आह ।

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।
दृश्याद् वा तद्विभागः स्याद् आयव्ययविशोधितात् ॥ इति ।

अत्र मनु-नारदौ ।

ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव हरेद् धनम् ।
संसृष्टास् तेन वा ये ऽस्य विभजेत स तैः सह ॥ इति ॥ २८।२७ ॥

विश्वास-प्रस्तुतिः

स्वयम् अर्जितम् अवैद्येभ्यो वैद्यः कामं
न दद्यात् ॥ २८।२८ ॥

मूलम्

स्वयम् अर्जितम् अवैद्येभ्यो वैद्यः कामं
न दद्यात् ॥ २८।२८ ॥

हरदत्तः

विद्याम् अधीत इति वैद्यः । स्वयम् अर्जितं विद्यारहितेभ्यो भ्रातृभ्यः कामं न दद्यात् । अदाने ऽपि न प्रत्यवायो दाने त्व् अभ्युदय इति ॥ २८।२८ ॥

विश्वास-प्रस्तुतिः

अवैद्याः समं विभजेरन् ॥ २८।२९ ॥

मूलम्

अवैद्याः समं विभजेरन् ॥ २८।२९ ॥

हरदत्तः

यदा तु सर्वे भ्रातरो मूर्खाः कृष्यादिनोपार्जयेयुस् तदा समं विभजेरन् । वैद्येनापि कृष्यादिना यद् अर्जितं न विदया लब्धं यदि पितृद्रव्याविरोधि तत्र साम्यम् एव । तत्र सूत्रद्वयम् अपि चैतद् भ्रातृविषयम् एव । पितरि तु जीवति विदुषाविदुषा वाविभक्तेनार्जितं पितुर् एव ।

भार्या पुत्रश् च दासश् च त्रय एवाधनाः स्मृताः ।
यत् ते समधिगच्छन्ति यस्यैते तस्य तद् धनम् ॥

इति मनुः ॥ २८।२९ ॥

हरदत्त-प्रस्तावः

आचार्येण पुत्रा रिक्थं भजेरन्न् इत्य् उक्तं तत्रौरसा एव पुत्रा इति सम्प्रत्ययो मा भूद् इत्य् आह ।

विश्वास-प्रस्तुतिः

पुत्रा औरसक्षेत्रजदत्तकृत्रिमगूढोत्पन्नापविद्धा
रिक्थभाजः ॥ २८।३० ॥

मूलम्

पुत्रा औरसक्षेत्रजदत्तकृत्रिमगूढोत्पन्नापविद्धा
रिक्थभाजः ॥ २८।३० ॥

हरदत्तः

औरसो धर्मपत्नीजः । अत्र याज्ञवल्क्यः ।

अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोर् अप्य् असौ रिक्थी पिण्डदाता च धर्मतः ॥ इति ।

अयम् एवोत्पादयितुर् न बीजिनश् च भर्तुः । दत्तविषये वसिष्ठः: “न ज्येष्ठं पुत्रं दद्यात् प्रतिगृह्णीयाद् वा । स हि सन्तानाय पूर्वेषाम् । न स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद् वान्यत्रानुज्ञानाद् भर्तुः । पुत्रं प्रतिग्रहीष्यन् बन्धून् आहूय राजनि वावेद्य निवेशनस्य मध्ये व्याहृतिभिर् हुत्वादूरे बान्धवसंनिक्ष्टम् एव प्रतिगृह्णीयात्” इति । स दत्तः । कृत्त्रिमविषये मनुः ।

सदृशं तु प्रकुर्याद् यं गुणदोषविवर्जितम् ।
पुत्रं पुत्रगुणैर् युक्तं स विज्ञेयस् तु कृत्त्रिमः ।
उत्पद्यते गृहे यस्य न च ज्ञायेत कस्यचित् ।
स गृहे गूढ उत्पन्नस् तस्य स्याद् यस्य तल्पजः ॥
मातापितृभ्याम् उत्सृष्टं तयोर् अन्यतरेण वा ।
यं पुत्रं प्रतिगृह्णीयाद् अपविद्धस् तु स स्मृतः ॥ इति ।

षड् एते रिक्थभाजः पुत्राः ॥ २८।३० ॥

विश्वास-प्रस्तुतिः

कानीनसहोढपौनर्भवपुत्रिकापुत्रस्वयंदत्त-
क्रीता गोत्रभाजः ॥ २८।३१ ॥

मूलम्

कानीनसहोढपौनर्भवपुत्रिकापुत्रस्वयंदत्त-
क्रीता गोत्रभाजः ॥ २८।३१ ॥

हरदत्तः

पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् इह ।
तं कानीनं वदेन् नाम्ना वोढुः कन्यासमुद्भवम् ॥ इति ।

अत्र वसिष्ठः ।

अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुलयतः ।
पौत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥ इति ।

याज्ञवल्क्यः ।

कानीनः कन्यकाजातो मातामहसुतो यतः ॥ इति ।

तत्राप्रत्तायाम् एव मृतायां मातामहस्य पुत्रः पौत्रो वा । ऊढायां वोढुः । अत्र मनुः ।

या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती ।
वोडुः स गर्भो भवति सहोढ इति चोच्यते ॥
या पत्या वा परित्यक्ता विधवा वा स्वेच्छया ।
उत्पादयेद् पुनर्भूत्वा स पौनर्भव उच्यते ॥

पुत्रिकापुत्रः पूर्वम् एवोक्तः । मनुः ।

मातापितृविहीनो यस् त्यक्तो वा स्याद् अकारणात् ।
आत्मानं स्पर्शयेद् यस्मै स्वयंदत्तस् तु स स्मृतः ॥
क्रीणीयाद् यस् त्व् अपत्यार्थं मातापित्रोर् यम् अन्तिकात् ।
स क्रीतकः सुतस् तस्य सदृशो ऽसदृशो ऽपि वा ॥ इति ।

एते तु गोत्रभाजो गोत्रम् एव केवलं भजन्ते न रिक्थम् । पूर्वे तु रिक्थभाजो गोत्रभाजश् चौरसेन सहाभिधानात् । सर्वे चैते सजातीयाः,

सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः ।

इति याज्ञवल्क्यवचनात् ॥ २८।३१ ॥

विश्वास-प्रस्तुतिः

चतुर्थांशिन औरसाद्यभावे ॥ २८।३२ ॥

मूलम्

चतुर्थांशिन औरसाद्यभावे ॥ २८।३२ ॥

हरदत्तः

अथ वा नैते कानीनादयो न रिक्थभाजः किं तु चतुर्थांशिनः । पितृधनस्य चतुर्थम् अंशं भजेरन् । पूर्वोक्तानां षण्णाम् औरसादीनाम् अभावे । भावे तु त एव भजेरन् । चतुर्थांशव्यतिरिक्तं च सपिण्डा गृह्णीयुः । यद् अत्र पुत्रिकापुत्रस्यौरसाद्यभावे ऽपि चतुर्थांशभाक्त्वम् उक्तं तद् अपकृष्टपुत्रिकापुत्रविषयम् । यो हीनवर्णाया भार्याया दुहितरं पुत्रिकां करोति तत्राप्य् अभिसंधिमात्रेण तत्पुत्रविषयम् इत्य् अर्थः । अत्र मनुः ।

पुत्रिकायां कृतायां तु यदि पुत्रो ऽनु जायते ।
समस् तत्र विभागः स्याज् ज्येष्ठता नास्ति हि स्त्रियः ॥

इति ।

षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ॥
औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ ।
दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥

इति च । अत्र दत्तपुत्रग्रहणानन्तरं वसिष्ठः: “यस्मिंश् चेत् प्रतिगृहीत औरसः पुत्र उत्पद्यते चतुर्थभागभागी स्यात्” इति । अत्र कात्र्यायनः ।

उत्पन्ने त्व् औरसे पुत्रे तृतीयांशहराः सुताः ।
सवर्णा असवर्णास् तु ग्रासाच्छादनभागिनः ॥ इति ।

हारीतः: “विभजिष्यमाण एकविंशं कानीनाय दद्याद्, विंशं पौनर्भवायैकोनविंशं द्व्यामुष्यायणायाष्टादशं क्षेत्रजाय सप्तदशं पुत्रिकापुत्रायेतरान् औरसाय” इति । याज्ञवल्क्यो द्वादश पुत्रान् अनुक्रम्याह ।

पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः । इति ।

मनुर् अपि ।

श्रेयसः श्रेयसो ऽभावे यवीयान् रिक्थम् अर्हति । इति ।

नारदो ऽपि ।

क्रमाद् एते प्रवर्तन्ते मृते पितरि तद्धने ।
ज्यायसो ज्यायसो ऽभावे जघन्यस् तद् अवाप्नुयात् ॥ इति ।

वसिष्ठो ऽपि: “यस्य तु पूर्वेषां च न कश्चिद् दायादः स्याद् एते तस्य दायं हरेयुः” इति ।

अत्रौरसः पुत्रिकापुत्रः क्षेत्रजः कानीनो गुढोत्पन्नो ऽपविद्धः सहोढः पौनर्भवो दत्तः स्वयमुपागतः कृतकः क्रीत इति क्रमेण पुत्रान् अभिधाय देवलः ।

एते द्वादश पुत्रास् तु संतत्यर्थम् उदाहृताः ।
आत्मजाः परजाश् चैव लब्धा यादृच्छिकास् तथा ॥
तेषां षड् बन्धुदायादाः पूर्वं ये पितुर् एव षट् ।
विशेषश् चापि पुत्राणाम् आनुपूर्व्याद् विशिष्यते ॥
सर्वे ऽप्य् अनौरसस्यैते पुत्रा दायहराः स्मृताः ।
औरसे पुनर् उत्पन्ने तेषु ज्यैष्ठ्यं न गच्छति ॥
तेषां सवर्णा ये पुत्रास् ते तृतीयांशभागिनः ।
हीनाः समुपजीवेयुर् ग्रासाच्छादनसंभृताः ॥ इति ।

बन्धुदायादा इति बन्धूनां सपिण्डानाम् अप्य् एते दायं हरेयुर् न केवलं पितुर् एव । इतरे पितुर् एवेति । एष एव स्मृत्यन्तरेष्व् अपि बन्धुदायादशब्दस्यार्थः । तद् एवम् –

औरसः पुत्रिका बीजिक्षेत्रिणौ पुत्रिकासुतः ।
पौनर्भवश् च कानीनः सहोढो गूढसंभवः ॥
दत्तक्रीतस्वयंदत्ताः कृत्त्रिमश् चापविद्धकः ।
यत्र क्व चोत्पादितश् च पुत्राख्या दश पञ्च च ॥
अनेनैव क्रमेणैषां पूर्वाभावे परः परः ।
पिण्डदो ऽंशहरश् चेति युक्ता गुणवशा स्थितिः ॥ इति ॥ २८।३२ ॥

हरदत्त-प्रस्तावः

उक्तः सवर्णपुत्राणां विभागः । अथ क्रमविवाहेष्व् असवर्णापुत्रेषु वेशेषम् आह ।

विश्वास-प्रस्तुतिः

ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसंपन्नस्
तुल्यभाक् ॥ २८।३३ ॥

मूलम्

ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसंपन्नस्
तुल्यभाक् ॥ २८।३३ ॥

हरदत्तः

ब्राह्मणस्य राजन्यायां जातः पुत्रो यदि गुणसंपन्नो ज्येष्ठश् च भवति तदा ब्राह्मणीपुत्रेण यवीयसा तुल्यभाक् । एकस्य वयसा ज्यैष्ठ्यम् अपरस्य जात्येति ॥ २८।३३ ॥

विश्वास-प्रस्तुतिः

ज्येष्ठांशहीनम् अन्यत् ॥ २८।३४ ॥

मूलम्

ज्येष्ठांशहीनम् अन्यत् ॥ २८।३४ ॥

हरदत्तः

विंशतिभागो ज्येष्ठस्येत्यादिर् य उद्धारः पूर्वम् उक्तस् तद्व्यतिरिक्तम् अन्यद् विभजेतेति प्रकरणाद् गम्यते । गुणहीने ज्येष्ठे च राजन्यापुत्रे मानवम् ।

सर्वं वा रिक्थजातं तद् दशधात्र विभज्य तु ।
धर्म्यं विभागं कुर्वीत विधानेन तु धर्मवित् ॥
चतुरो ऽंशान् हरेद् विप्रस् त्रीन् अंशान् क्षत्रियासुतः ।
वैश्यापुत्रो हरेद् द्व्यंशम् एकं शूद्रासुतो हरेत् ॥ इति ॥ २८।३४ ॥

विश्वास-प्रस्तुतिः

राजन्यावैश्यापुत्रसमवाये यथा स
ब्राह्मणीपुत्रेण ॥ २८।३५ ॥

मूलम्

राजन्यावैश्यापुत्रसमवाये यथा स
ब्राह्मणीपुत्रेण ॥ २८।३५ ॥

हरदत्तः

यदा ब्राह्मणीपुत्रस् तु नास्ते तदा राजन्यापुत्रो ब्राह्मणीपुत्रेण समवाये यथा तुल्यभाक्, एवं क्षत्रियापुत्रेण वैश्यापुत्रस् तुल्यभाक् ॥ २८।३५ ॥

विश्वास-प्रस्तुतिः

क्षत्रियाच् चेत् ॥ २८।३६ ॥

मूलम्

क्षत्रियाच् चेत् ॥ २८।३६ ॥

हरदत्तः

चेच्छब्दश् चशब्दस्यार्थे । क्षत्रियाच् चोत्पन्नयोः पुत्रयोः समवाये वैश्यापुत्रो ज्येष्ठो गुणसंपन्नः क्षत्रियापुत्रेण यवीयसा तुल्यभाक् । एवं वैश्याद् उत्पन्नस्य शूद्रापुत्रस्याप्य् एके मन्यन्ते द्रष्टव्यम् इति । नेत्य् अन्ये ऽनुक्तत्वात् ॥ २८।३६ ॥

विश्वास-प्रस्तुतिः

शूद्रापुत्रो ऽप्य् अनपत्यस्य शुश्रूषुश् चेल् लभेत
वृत्तिमूलम् अन्तेवासिविधिना ॥ २८।३७ ॥

मूलम्

शूद्रापुत्रो ऽप्य् अनपत्यस्य शुश्रूषुश् चेल् लभेत
वृत्तिमूलम् अन्तेवासिविधिना ॥ २८।३७ ॥

हरदत्तः

ब्राह्मणस्येति वर्तते । अनपत्यस्याविद्यमानद्विजातिपुत्रस्य ब्राह्मणस्य शूद्रापुत्रो ऽपि वृत्तिमूलं लभेत । यावता कृष्यादिकर्मसमर्थो भवति तावल् लभेत । स यद्य् अन्तेवासिविधिना शुश्रूषुर् भवति । यथा शिष्य आचार्यं शुश्रूषते तथा शुश्रूषुश् चेद् इति । एवं क्षत्रियवैश्ययोर् अपि शूद्रापुत्रो वृत्तिमूलं लभेत ॥ २८।३७ ॥

विश्वास-प्रस्तुतिः

सवर्णापुत्रो ऽप्य् अन्याय्यवृत्तो न
लभेतैकेषाम् ॥ २८।३८ ॥

मूलम्

सवर्णापुत्रो ऽप्य् अन्याय्यवृत्तो न
लभेतैकेषाम् ॥ २८।३८ ॥

हरदत्तः

यस् त्व् अन्याय्यवृत्तो ऽधर्मेण द्रव्याणि प्रतिपादयति वेश्यादिभ्यः प्रयच्छति [स] सवर्णापुत्रो ऽप्य् अपिशब्दाज् ज्येष्ठो ऽपि दायं न लभेतेत्य् एकेषां मतम् । तथा च आपस्तम्बः: “यस् त्व् अधर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठो ऽपि तम् अभागं कुर्वीत” इति ॥ २८।३८ ॥

विश्वास-प्रस्तुतिः

श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं
भजेरन् ॥ २८।३९ ॥

मूलम्

श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं
भजेरन् ॥ २८।३९ ॥

हरदत्तः

अपत्यग्रहणं पिण्डगोत्रर्षिसंबन्धादेर् उपलक्षणम् । अनपत्यस्याविद्यमानधनभाजो ब्राह्मणस्य श्रोत्रिया हि रिक्थं भजेरन् ॥ २८।३९ ॥

विश्वास-प्रस्तुतिः

राजेतरेषाम् ॥ २८।४० ॥

मूलम्

राजेतरेषाम् ॥ २८।४० ॥

हरदत्तः

इतरेषां क्षत्रियादीनां रिक्थम् अनपत्यानां राजा भजेत ॥ २८।४० ॥

विश्वास-प्रस्तुतिः

जडक्लीबौ भर्तव्यौ ॥ २८।४१ ॥

मूलम्

जडक्लीबौ भर्तव्यौ ॥ २८।४१ ॥

हरदत्तः

जडो नष्टचित्तः । क्लीबस् तृतीयाप्रकृतिः । एताव् अशनाच्छादनदानेन भर्तव्यौ । मनुस् तु ।

अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥ इति ॥ २८।४१ ॥

विश्वास-प्रस्तुतिः

अपत्यं जडस्य भागार्हम् ॥ २८।४२ ॥

मूलम्

अपत्यं जडस्य भागार्हम् ॥ २८।४२ ॥

हरदत्तः

यदि तु जडस्यापत्यं भवति तदा तद्भागार्हं भवति । तस्मै स भागो देयस् तत्पितुः । अत्र मनुः ।

यद्य् अर्थिना तु दारैः स्यात् क्लीबादीनां कथंचन ।
तेषाम् उत्पन्नतन्तूनाम् अपत्यं दायम् अर्हति ॥ इति ॥ २८।४२ ॥

विश्वास-प्रस्तुतिः

शूद्रापुत्रवत् प्रतिलोमास् तु ॥ २८।४३ ॥

मूलम्

शूद्रापुत्रवत् प्रतिलोमास् तु ॥ २८।४३ ॥

हरदत्तः

प्रातिलोम्येन जातानां सूतादीनाम् अपि गुणोत्कृष्टानां शूद्रापुत्रवद् वृत्तिमूलं दातव्यम् इति ॥ २८।४३ ॥

विश्वास-प्रस्तुतिः

उदकयोगक्षेमकृतान्नेष्व् अविभागः ॥ २८।४४ ॥

मूलम्

उदकयोगक्षेमकृतान्नेष्व् अविभागः ॥ २८।४४ ॥

हरदत्तः

उदकं कूपादि । योगक्षेमाव् इष्टापूर्ते । तथा च लौगाक्षिः ।

योगः पूर्तं क्षेम इष्टा इत्य् आहुस् तत्वदर्शिनः ।
अविभाज्ये तु ते प्रोक्ते शयनं चान्नम् एव च ॥ इति ।

कृतान्ने तूत्सवादिषु कल्पिते प्रभूते ऽपि । एतेषु विभागो न कर्तव्यः । यथावस्थितेष्व् एव सोदर्यानुरूपेन भोगः ॥ २८।४४ ॥

विश्वास-प्रस्तुतिः

स्त्रीषु च संयुक्तासु ॥ २८।४५ ॥

मूलम्

स्त्रीषु च संयुक्तासु ॥ २८।४५ ॥

हरदत्तः

याश् च स्त्रियो दास्यो भ्रात्रादिषु केनचित् संयुक्ता उपभोगपरिगृहीतास् तास् तस्यैव । यद्य् अन्याः सन्त्य् अन्यत्रान्येषां भागः । यदि न सन्ति तदा द्रव्येण साम्यम् आपादनीयम् । यदा पुनर् एकैव दास्यसंयुक्ता च तदा पर्यायेण कर्म करोतु ॥ २८।४५ ॥

विश्वास-प्रस्तुतिः

अनाज्ञाते दशावरैः शिष्टैर् ऊहविद्भिर् अलुब्धैः
प्रशस्तं कार्यम् ॥ २८।४६ ॥

मूलम्

अनाज्ञाते दशावरैः शिष्टैर् ऊहविद्भिर् अलुब्धैः
प्रशस्तं कार्यम् ॥ २८।४६ ॥

हरदत्तः

ज्ञायत इवाज्ञातम् । तद्विपरीतम् अनाज्ञातम् । यो ऽर्थो यथावद् अविज्ञातः संदिग्धो वा तत्रानाज्ञाते दशावरैर् दशभ्यो ऽन्यूनैः शिष्टैः ।

धर्मेणाधिगतो यैस् तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥

इति मनुनोक्तैः । ऊहविद्भिर् ऊहापोहकुशलैः । अलुब्धैर् उत्कोचादिषु निःस्पृहैः । एवंभूतैर् ब्राह्मणैर् यत् प्रशस्तं स्तुतम् इदम् अत्र युक्तम् इति तत् कार्यं कर्तुं युक्तम् ॥ २८।४६ ॥

हरदत्त-प्रस्तावः

के पुनस् ते दशावरास् तान् आह ।

विश्वास-प्रस्तुतिः

चत्वारश् चतुर्णां पारगा वेदानां प्राग् उत्तमात् त्रय
आश्रमिणः पृथग् धर्मविदस् त्रय एतान् दशावरान्
परिषद् इत्य् आक्षते ॥ २८।४७ ॥

मूलम्

चत्वारश् चतुर्णां पारगा वेदानां प्राग् उत्तमात् त्रय
आश्रमिणः पृथग् धर्मविदस् त्रय एतान् दशावरान्
परिषद् इत्य् आक्षते ॥ २८।४७ ॥

हरदत्तः

चतुर्णां वेदानां पारगाः साङ्गानाम् अध्येतारो ऽर्थज्ञाश् च । एवंभूतास् चत्वारो न चातुर्वैव्य एकः । आश्रमिणस् तृतीये ऽध्याय उक्ता ब्रह्मचारी गृहस्थो भिक्षुर् वाइखानस इति । तेषूत्त्माद् वैकानसात् पूर्वे त्रय आश्रमिणः । पृथग् धर्मशास्त्रविदस् त्रयः । पृथग्ग्रहणम् एकम् एव धर्मशास्त्रं विदुषां त्रयाणां ग्रहणं मा भूद् इति । तान् एतान् दशावरान् परिषद् इत्य् आचक्षते धर्मज्ञाः ॥ २८।४७ ॥

विश्वास-प्रस्तुतिः

असंभवे त्व् एतेषां श्रोत्रियो वेदविच् छिष्टो
विप्रतिपत्तौ यद् आह ॥ २८।४८ ॥

मूलम्

असंभवे त्व् एतेषां श्रोत्रियो वेदविच् छिष्टो
विप्रतिपत्तौ यद् आह ॥ २८।४८ ॥

हरदत्तः

एतेषां व्यस्तानां समस्तानां च बहूनाम् असंभवे श्रोत्रियः साङ्गस्य वेदस्याध्येता । वेदवित् तदर्थज्ञः । शिष्टः स्वधर्मनिरतः । एवंभूतः एको ऽपि विप्रतिपत्तिविषये यद् आहेदम् अत्र युक्तम् इदं कार्यम् इति तत् कार्यम् । तथा च मनुः ।

एको ऽपि वेदविद् धर्मं यं व्यवस्येत् समाहितः ।
स धर्मः परमो ज्ञेयो नाज्ञानाम् उदितो ऽयुतैः ॥ इति ॥ ॥ २८।४८ ॥

हरदत्त-प्रस्तावः

कस्मात् पुनर् एकस्यापि श्रोत्रियस्य वेदविदः शिष्टस्य वचनं कर्तव्यम् इत्य् अत आह ।

विश्वास-प्रस्तुतिः

यतो ऽयम् अप्रभवो भूतानां हिंसानुग्रहयोगेषु
॥ २८।४९ ॥

मूलम्

यतो ऽयम् अप्रभवो भूतानां हिंसानुग्रहयोगेषु
॥ २८।४९ ॥

हरदत्तः

प्रभवत्य् अस्माद् इति प्रभवः कारणम् । तन् न विद्यते यस्य सो ऽप्रभवः । यस्माद् अयं भूतानां हिंसानुग्रहयोगेषु दण्डप्रायश्चित्तादिष्व् अगृह्यमाणकारणः केवलं शास्त्रनेत्रस् तस्माद् एकस्यापि वचनम् अनुष्ठेयम् इति । अपर आह – प्रभवनं प्रभवः प्रभुत्वं तद् यस्य नास्ति सो ऽप्रभवः । न ह्य् असौ शास्त्रनिरपेक्षः स्वतन्त्रः किंचिद् अनुगृह्णाति निगृह्णाति वा । तस्माद् अस्य वचनम् अनुष्ठेयम् इति ॥ २८।४९ ॥

हरदत्त-प्रस्तावः

सांप्रथं ये केवलं धर्मम् अनुतिष्ठन्ति तेभ्यो ज्ञात्वानुतिष्ठन् विशिष्ट इत्य् आह ।

विश्वास-प्रस्तुतिः

धर्मिणां विशेषेण स्वर्गं लोकं धर्मविद्
आप्नोति ज्ञानाभिनिवेशाभ्याम् ॥ २८।५० ॥

मूलम्

धर्मिणां विशेषेण स्वर्गं लोकं धर्मविद्
आप्नोति ज्ञानाभिनिवेशाभ्याम् ॥ २८।५० ॥

हरदत्तः

धर्मिणो धर्मवन्तो धार्मिकाः । तेषां मध्ये यो धर्मविद् धर्मशास्त्रं यावतो ऽर्थतो ऽधीत्य धर्मं तत्त्वतो वेत्ति सः । ज्ञानाभिनिवेषाभ्याम् । ज्ञानं समर्थावगतिः अभिनिवेशस् तात्पर्येणानुष्ठानम् । ज्ञानेनाभिनिवेशेन न केवलानुष्ठातृभ्यो विशेषेण स्वर्गं लोकम् आप्नोति ॥ २८।५० ॥

विश्वास-प्रस्तुतिः

इति धर्मो धर्मः ॥ २८।५१ ॥

मूलम्

इति धर्मो धर्मः ॥ २८।५१ ॥

हरदत्तः

सो ऽयम् आदितो वेदो धर्ममूलम् इत्य् आरभ्यैवमन्तो धर्मः उक्तः । द्विरुक्तिः शास्त्रपरिसमाप्त्यर्था ॥ २८।५१ ॥

गौतमोक्ते धर्मशास्त्रे हरदत्तकृताव् इह ।
अष्टाविंशो ऽयम् अध्यायो वृत्तौ दायः समापितः ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां

तृतीयप्रश्ने अष्टविंशो ऽध्यायः ॥

समाप्तो ऽयं ग्रन्थः ॥