अथ सप्तविंशो ऽध्यायः
विश्वास-प्रस्तुतिः
अथातश् चान्द्रायणम् ॥ २७।१ ॥
मूलम्
अथातश् चान्द्रायणम् ॥ २७।१ ॥
हरदत्तः
पूर्ववद् व्याख्येयम् । चन्द्रप्राप्तिनिमित्तभूतं कर्म चान्द्रायणम् । तथा चान्ते वक्ष्यति – चन्द्रमसः सलोकताम् आप्नोतीति ॥ २७।१ ॥
विश्वास-प्रस्तुतिः
तस्योक्तो विधिः कृच्छ्रे ॥ २७।२ ॥
मूलम्
तस्योक्तो विधिः कृच्छ्रे ॥ २७।२ ॥
हरदत्तः
तिष्ठेद् अहनीत्यदिको यो विधिः कृच्छ्र उक्तः स चान्द्रायणस्यापि द्रष्टव्यः ॥ २७।२ ॥
हरदत्त-प्रस्तावः
यस् तु विशेषः स उच्यते ।
विश्वास-प्रस्तुतिः
वपनं व्रतं चरेत् ॥ २७।३ ॥
मूलम्
वपनं व्रतं चरेत् ॥ २७।३ ॥
हरदत्तः
व्रतम् इति प्रायश्चित्तम् आह,
एतैर् द्विजातयः शोध्या व्रतैर् आविष्कृतैनसः ।
इत्यादौ दर्शनात् । यदि प्रायश्चित्तार्थं चान्द्रायणं क्रियते तदा वपनम् अपि कर्तव्यम् । अविशेषे ऽपि पुरुषाणाम् एव । “तद् एव स्त्रियाः केशवपनवर्जम्” इति बौधायनस्मरणम् । चान्द्रायणे वपनविधानात् कृच्छ्रे प्रायश्चित्तार्थे ऽपि न भवति । व्रतं चरेद् इति वचनाद् अदृष्टार्थे कर्मण्यतार्थे च चान्द्रायणे न वपनम् ॥ २७।३ ॥
विश्वास-प्रस्तुतिः
श्वोभूतां पौर्णमासीम् उपवसेत् ॥ २७।४ ॥
मूलम्
श्वोभूतां पौर्णमासीम् उपवसेत् ॥ २७।४ ॥
हरदत्तः
श्वः पौर्णमासी भवितेत्य् अवगम्य पूर्वेद्युश् चतुर्दश्याम् उपवसेत् । उपवासो भोजनलोपः ॥ २७।४ ॥
**आप्यायस्व सं ते पयांसि नवो नव इति चैताभिस् तर्पणम् आज्यहोमो हविषश् चानुमन्त्रणम् उपस्थानं चन्द्रमसः ॥ २७।५ ॥**
आप्यायस्वेत्यादिभिर् मन्त्रैस् तर्पणादीनि चत्वारि कर्माणि कर्तव्यानि । वैषम्याद् यथासंख्यं न भवति । तत्र तर्पणहोमौ प्रतिमन्त्रं भवतः । अनुमन्त्रणम् उपस्थानं च समुच्चयेन । कृच्छ्रविध्यतिदेशाद् रौद्रेण य उदकतर्पणादयः प्राप्तास् तेषां च समुच्चय इत्य् एके । उपदिष्टैर् अतिदिष्टानां बाध इत्य् अन्ये ॥ २७।५ ॥
विश्वास-प्रस्तुतिः
यद् देवा देवहेडनम् इति चतसृभिर् जुहुयात् ॥ २७।६ ॥
मूलम्
यद् देवा देवहेडनम् इति चतसृभिर् जुहुयात् ॥ २७।६ ॥
हरदत्तः
यद् देवा देवहेडनम् इत्य् अनुवाक आदितश् चतसृभिर् ऋग्भिर् अनादेशाद् आज्यं जुहुयात् । पूर्वाभिस् तिसृभिश् चेति सप्ताज्याहुतयः ॥ २७।६ ॥
विश्वास-प्रस्तुतिः
देवकृतस्येति चान्ते समिद्भिः ॥ २७।७ ॥
मूलम्
देवकृतस्येति चान्ते समिद्भिः ॥ २७।७ ॥
हरदत्तः
आज्यहोमान्ते देवकृतस्येत्यादिभिः पूर्वोक्तैर् अष्टभिर् मन्त्रैः समिद्भिर् होमः कर्तव्यः । उपदेशक्रमाद् एव सिद्धे ऽन्तग्रहणं प्राप्तानुवादः । अन्ये पुनश् चान्द्रायणान्त इति व्याचक्षते । तेषां चशब्दो न संगच्छते ॥ २७।७ ॥
**ॐ भूर् भुवः स्वस् तपः सत्यं यशः श्रीर् ऊर्गिषाऊजस् तजो वर्चः पुरुषो धर्मः शिव इत्य् एतैर् ग्रासानुमन्त्रणं प्रतिमन्त्रं मनसा ॥ २७।८ ॥**
प्रणवादयः पञ्चदश मन्त्रास् तेषाम् एकैकेन मन्त्रेणैकैकस्य ग्रामस्य मनसानुमन्त्रणं कर्तव्यम् । अनुमन्त्रणक्रमेण भोजनम् । यदा तु न्यूना ग्रासास् तदा यावद् ग्रासम् आदितो मन्त्रा ग्राह्याः । अन्ततो लुप्यन्ते । ग्रासानुमन्त्रणम् इति वचनान् नैते भोजनमन्त्राः । ततश् च प्राणाहुतिमन्त्राणाम् अनिवृत्तिः । यदा चत्वारो ग्रासास् तदा द्वाभ्यां पूर्वं यदा त्रयो द्वाभ्यां द्वाभ्यां पूर्वौ यदा द्वौ द्वाभ्यां पूर्वम् उत्तरं त्रिभिः । सर्वैर् एकम् । हविषश् चानुमन्त्रणम् इति पूर्वोक्तम् इह तु ग्रासानुमन्त्रणम् इति प्राणाहुतिमन्त्राश् च स्थिताः । तत्र प्रयोगः – सर्वं भोज्यं पात्रे निधायाप्यायस्वेत्यदिभिर् अनुमन्त्र्य ग्रासान् कृत्वा प्रणवादिभिः क्रमेणानुमन्त्र्य प्राणाहुतीः कृत्वा प्राश्नीयाद् इति ॥ २७।८ ॥
विश्वास-प्रस्तुतिः
नमः स्वाहेति वा सर्वान् ॥ २७।९ ॥
मूलम्
नमः स्वाहेति वा सर्वान् ॥ २७।९ ॥
हरदत्तः
अथ वा सर्वान् एव ग्रासान् नमः स्वाहेत्य् अनुमन्त्रयेत् । नमः स्वाहेत्य् अनयोर् विकल्पः । समुदितो मन्त्र इत्य् अन्ये ॥ २७।९ ॥
विश्वास-प्रस्तुतिः
ग्रासप्रमाणम् आस्याविकारेण ॥ २७।१० ॥
मूलम्
ग्रासप्रमाणम् आस्याविकारेण ॥ २७।१० ॥
हरदत्तः
यावत्प्रमाणे ग्रासे ग्रस्यमान आस्यम् अविकृतं भवति तावत् तस्य प्रमाणम् ॥ २७।१० ॥
**चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूल-फलोदकानि हवींष्य् उत्तरोत्तरं प्रशस्तानि ॥ २७।११ ॥**
हविष्यैर् उपकल्पितो नवस्रावितो विशदसिद्धौदनश् चरुः । भैक्षं ब्रह्मचारिणा शिष्यादिना स्वयम् आनीतम्, गृहस्थस्य भिक्षाचरणनिषेधात् । चूर्णीकृता लाजाः सक्तवः । कणाः फलीकरणानि । यावकः पूर्वम् उक्तः । अन्यानि प्रसिद्धानि । द्वादशैतानि हवींषि । तेषु च पूर्वस्मात् पूर्वस्माद् उत्तरम् उत्तरं प्रशस्तम् । तत्र द्रवाणां पत्रपुटादिना ग्रासकल्पना । तपांसि चैनःसु गुरुषु गुरूणि लघुषु लघूनि ॥ २७।११ ॥
विश्वास-प्रस्तुतिः
पौर्णमास्यां पञ्चदश ग्रासान्
भुक्त्वैकापचयेनापरपक्षम् अश्नीयात् ॥ २७।१२ ॥
मूलम्
पौर्णमास्यां पञ्चदश ग्रासान्
भुक्त्वैकापचयेनापरपक्षम् अश्नीयात् ॥ २७।१२ ॥
हरदत्तः
एवं चतुर्दश्याम् उपोष्यापरेद्युः पञ्चदश्यां पञ्चदश् ग्रासान् अशित्वा ततः परम् एकापचयेन द्विर्वचने सत्य् अर्थ स्पष्टो भवति प्रत्यहम् एकैकापचयेनेति । सर्वम् एवापरपक्षम् अश्नीयात् । तिथिह्रासे क्रमप्राप्ते नवमीभोजने यदा प्रातः पञ्च नाड्यो नवमी, अपरेद्युश् च दशमी नास्ति तदा पूर्वेदुर् आगतायाम् एव नवम्यां नव ग्रासान् भुक्त्वापरेद्युर् एकादशीप्राप्तान् एकादश ग्रासान् भुञ्जीत । दशमीप्राप्तानां दशग्रासानां लोपः । एवं तिथिवृद्धाव् एकादशीग्रासे प्राप्ते यदा षड्विंशतिनाडिका दिवा दशमी चतस्र एकादशी, अपरेद्यु रात्राव् अपि कियत्य् अप्य् एकादशी तदा पूर्वेद्युर् एकादश्यां प्रनिविष्टायाम् एकादश ग्रासान् भुक्त्वापरेद्युर् अपि तान् एवैकादश भुञ्जीत । तस्यापरद्युर् द्वादशेति प्रयोगः ।
यथा कथंचित् पिण्डानां तिस्रो ऽशीतीः समाहितः ।
मासेनाश्नन् हविष्यस्य चन्द्रस्येति सलोकताम् ॥
इति मानवे चान्द्रायणान्तरं विधीयते । न पुनर् उपचयापचयरूप उक्ते चान्द्रायणे पिण्डसंख्यानियमः । तथा च याज्ञवल्क्येन स्पष्टम् उक्तम् ।
यथा कथंचित् पिण्डानां चत्वारिंशच् छतद्वयम् ।
मासेनैकेन भुञ्जीत चान्द्रायणम् अथापरम् ॥ इति ॥ २७।१२ ॥
विश्वास-प्रस्तुतिः
अमावास्यायाम् उपोष्यैकोपचयेन पूर्वपक्षम् ॥ २७ १३ ॥
मूलम्
अमावास्यायाम् उपोष्यैकोपचयेन पूर्वपक्षम् ॥ २७ १३ ॥
हरदत्तः
एवम् एकापचयेन ग्रस्यमानेषु चतुर्दश्याम् एको ग्रासो भवति । अमावास्यायाम् उपवासः । अमावास्यायाम् उपोष्य पूर्व्पक्षप्रतिपद्य् एकं ग्रासम् अशित्वैकैकोपचयेनैकैकग्रासवृद्ध्या कृत्स्नम् एव पूर्वपक्षं अश्नीयात् । पौर्णमास्यां पञ्चदश भवन्ति । तद् एतत् तनुमध्यत्वात् पिपीलिकामध्यं चान्द्रायणम् ॥ २७।१३ ॥
विश्वास-प्रस्तुतिः
विपरीतम् एकेषाम् ॥ २७।१४ ॥
मूलम्
विपरीतम् एकेषाम् ॥ २७।१४ ॥
हरदत्तः
एकेषाम् आचार्याणां मतेनेदम् एव विधानं विपरीतं भवति । अमावास्यायाम् उपोष्यैकोपचयेन पूर्वपक्षम् अशित्वा कृष्णप्रतिपदम् आरभ्यैकापचयेनापरपक्षम् अश्नीयाच् चतुर्दश्याम् एको ग्रासो भवति । अमावास्यायाम् उपवासः । तद् एतत् स्थूलमध्यत्वाद् यवमध्यं चान्द्रायणम् ॥ २७।१४ ॥
विश्वास-प्रस्तुतिः
एवं चान्द्रायणो मासः ॥ २७।१५ ॥
मूलम्
एवं चान्द्रायणो मासः ॥ २७।१५ ॥
हरदत्तः
एवं माससाध्यं चान्द्रायणं तद्योगाद् एष मासश् चान्द्रायणः । यद्य् अप्य् उक्ते प्रकारे पिपीलिकामध्ये द्वात्रिंशद् अहानि यवमध्ये चैकत्रिंशत् तथापि न वैकेनाक्षरेणेति न्यायेनैष मास इत्य् उक्तम् ॥ २७।१५ ॥
विश्वास-प्रस्तुतिः
एवम् अप्त्वा विपापो विपाप्मा सर्वम् एनो हन्ति ॥ २७।१६ ॥
मूलम्
एवम् अप्त्वा विपापो विपाप्मा सर्वम् एनो हन्ति ॥ २७।१६ ॥
हरदत्तः
एवम् एवंविधं चान्द्रायणं मासम् आप्त्वा माससाध्यम् एतद् व्रतं कृत्वा विपापो विहिताकरणजन्यपापहीनो भवति । विपाप्मा निषिद्धाचरणभवपापहीनः । सर्वम् एनो हन्ति यच् चान्यज् जन्मान्तरार्जितं सूक्ष्मम् एनस् तद् अपि सर्वं हन्ति ॥ २७।१६ ॥
विश्वास-प्रस्तुतिः
द्वितीयम् आप्त्वा दश् पूर्वान् दश परान् आत्मानं
चैकविंशं पङ्क्तिं च पुनाति ॥ २७।१७ ॥
मूलम्
द्वितीयम् आप्त्वा दश् पूर्वान् दश परान् आत्मानं
चैकविंशं पङ्क्तिं च पुनाति ॥ २७।१७ ॥
हरदत्तः
द्वाव् अप्त्वेति वक्तव्ये द्वितीयम् इति वचनं नैरन्तर्यार्थं द्वितीयं मासं निरन्तरम् अप्त्वेति । कथं पुनर् नैरन्तर्यस्य संभवः । यावता पिपीलिकामध्ये श्वोभूतां पौर्णमासीम् उपवसेद् इत्य् उक्तं पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वेति च तथामावास्यायाम् उपोष्यैकैकोपचयेन पूर्वपक्षम् अश्नीयाद् इति तद्द्वितीयपौर्णमास्यन्तः स प्रयोगः । तदनन्तरं द्वितीयस्यारम्भे चतुर्दश्याम् उपवासः । पञ्चदश्यां पञ्चदश् ग्रासान् इति च नोपपद्यते । तस्माद् एवम् अत्र वक्तव्यम् – नात्र द्वयोश् चान्द्रायणयोर् विधानम् । किं तर्हि । मासद्वयसाध्यम् एकं चान्द्रायणम् । तस्यैष फलविधिः । तस्यादौ चतुर्दश्याम् उपवासस् तृतीये पौर्णमास्यन्तश् च प्रयोगः । मध्ये यथोक्तम् । द्वितीया च पौर्णमासी तन्त्रेण प्रथमस्यान्त्या द्वितीयस्याद्या । एवं यवमध्ये द्वितीयामावास्या । एतेन संवत्सरं वाप्त्वेति व्याख्यातम् ॥ २७।१७ ॥
विश्वास-प्रस्तुतिः
संवत्सरं चाप्त्वा चन्द्रसमः सलोकताम् आप्नोति
सलोकताम् आप्नोति ॥ २७।१८ ॥
मूलम्
संवत्सरं चाप्त्वा चन्द्रसमः सलोकताम् आप्नोति
सलोकताम् आप्नोति ॥ २७।१८ ॥
हरदत्तः
यस् तु संवत्सरम् अव्यवधानेन चान्द्रायणव्रतं चरति स चन्द्रमसः सालोक्यम् आप्नोति । द्विरुक्तिर् व्याख्याता । अत्र मनुः ।
अष्टाव् अष्टौ समश्नीयात् पिण्डान् मधंदिने स्थिते ।
नियतात्मा हविष्यस्य यतिचान्द्रायणं चरन् ॥
चतुरः प्रातर् अश्नीयाद् द्विजः पिण्डान् समाहितः ।
चतुरो ऽस्तमिते सूर्ये शिशुचान्द्रायणं चरन् ॥ इति ।
यथा कथंचित् पिण्डानाम् इति च ॥ २७।१८ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
तृतीयप्रश्ने सप्तविंशो ऽध्यायः