अथ षड्विंशो ऽध्यायः
हरदत्त-प्रस्तावः
कृच्छ्रातिकृच्छ्रौ चान्द्रायणम् इत्य् उक्तम् । तत्र क्रमेण कृच्छ्रादिस्वरूपम् आह ।
विश्वास-प्रस्तुतिः
अथातः कृच्छ्रान् व्याख्यास्यामः ॥ २६।१ ॥
मूलम्
अथातः कृच्छ्रान् व्याख्यास्यामः ॥ २६।१ ॥
हरदत्तः
अथशब्दो ऽधिकारार्थः । अतःशब्दो हेतौ । य एत आख्याता न शक्यन्ते कर्तुम् अतः कृच्छ्रान् व्याख्यास्याम इति ॥ २६।१ ॥
विश्वास-प्रस्तुतिः
हविष्यान् प्रातराशान् भुक्त्वा तिस्रो रात्रीर् नानीयात् ॥ २६।२ ॥
मूलम्
हविष्यान् प्रातराशान् भुक्त्वा तिस्रो रात्रीर् नानीयात् ॥ २६।२ ॥
हरदत्तः
यज्ञियैर् वरकादिव्यतिरिक्तैर् निष्पादितान् घृतादिसंयुक्तान् क्षारलवणवर्जितान् प्रातराशान् । अश्नन्त [अश्यन्त?] इत्य् आशा ग्रासाः । दिवा भोज्यान् ग्रासान् भुक्त्वा । अथापरं त्र्यहम् इति वक्ष्यमाणत्वाद् अत्रापि त्र्यहम् इति गम्यते । तिस्रो रात्रीर् नाश्नीयाद् इति तस्मिंस् त्र्यहे रात्र्यशनप्रतिषेधः श्रुत्यनुसारेण कृतः । पुनर् अयं वक्तव्यः । कथम् –
सायं प्रातर् द्विजातीनाम् अशनं श्रुतिचोदितम् ।
इति परिसंख्यानाद् द्विर् एव भोजनं प्राप्तम् । तत्र प्रातराशान् भुक्त्वेत्य् उक्ते परिसंख्यानात् सिद्धा रात्राव् अशननिवृत्तिर् यथोत्तरत्र दिवा भोजननिवृत्तिः ॥ २६।२ ॥
विश्वास-प्रस्तुतिः
अथापरं त्र्यहं नक्तं भुञ्जीत ॥ २६।३ ॥
मूलम्
अथापरं त्र्यहं नक्तं भुञ्जीत ॥ २६।३ ॥
हरदत्तः
एवं दिवा हविष्यभोजनेन त्र्यहं नीत्वानन्तरं त्र्यहं नक्तम् एव भुञ्जीत । हविष्यान् इत्य् एव ॥ २६।३ ॥
विश्वास-प्रस्तुतिः
अथापरं त्र्यहं न कंचन याचेत ॥ २६।४ ॥
मूलम्
अथापरं त्र्यहं न कंचन याचेत ॥ २६।४ ॥
हरदत्तः
अथ नक्तभोजनत्र्यहानन्तरम् त्र्यहं न कंचन बन्धुम् अपि याचेत । याच्ञाप्रतिषेधो ऽयम् । स्वद्रव्यस्य वायाचितलब्धस्याप्रतिषेधः । एवम् उक्ते हविष्यनियमो न प्राप्नोति । कालविशेषाश्रवणाद् द्विर्भोजनं च प्राप्नोति । न याचेतेत्य् अत्रापि हविष्यान् इत्य् एवानुवर्तते । अयाचितलब्धे ऽपि सकृद् एव सिद्धम् । कुतः । अथापरम् इति वचनस्य पूर्वेण सदृशार्थत्वात् । तत् तु दिवा नक्तं वा यथेच्छम् । अन्ये तु “त्र्यहम् अयाचितव्रतः” [आप्ध् १।२७।७] इत्य् आपस्तम्बीये दर्शनाद् अयाचितलब्धेनैव त्र्यहं वृत्तिर् न स्वद्रव्येण । नापि याचितलब्धेनेति वर्णयन्ति । अनुष्ठानम् अप्य् एवम् एव ॥ २६।४ ॥
विश्वास-प्रस्तुतिः
अथापरं त्र्यहम् उपवसेत् ॥ २६।५ ॥
मूलम्
अथापरं त्र्यहम् उपवसेत् ॥ २६।५ ॥
हरदत्तः
स्पष्टम् । एवम् अयं द्वादशाहसाध्यः कृच्छ्रः । वसिष्ठेन प्रकारान्तरम् अपि दर्शितम् ।
अहः प्रातर् अहर् नक्तम् अहर् एकम् अयाचितम् ।
अहश् चोपवसेद् एकम् एवं चतुरहौ परौ ॥
अनुग्रहार्थं विप्राणां मनुर् धर्मभृतां वरः ।
बालवृद्धातुराणां च शिशुकृच्छ्रम् उवाच ह ॥ इति ।
भरद्वाजः ।
प्राजापत्यं चरन् विप्रो यद्य् अशक्तो दिने दिने ।
विप्रान् पञ्चावराञ् शुद्धान् भोजयेत् सम्यग् अर्चितान् ॥ इति ।
यस्मिन् दिने ऽशक्तिस् तत्रैवम्, दिनान्तरेषु पूर्ववत् । तत्राप्य् अशक्तो ब्राह्मणभोजनम् उपवासदिनेष्व् अशक्तो वा ब्राह्मणभोजनं दत्वा हविष्यान् सम्यग् भुञ्जीत ॥ २६।५ ॥
हरदत्त-प्रस्तावः
अथ कृच्छ्रस्य गुणविधिः ।
विश्वास-प्रस्तुतिः
तिष्ठेद् अहनि रात्राव् आसीत क्षिप्रकामः ॥ २६।६ ॥
मूलम्
तिष्ठेद् अहनि रात्राव् आसीत क्षिप्रकामः ॥ २६।६ ॥
हरदत्तः
यः कामयेत क्षिप्रं शुध्येयम् इति स तिष्ठन्न् एवाहर् नयेत् । भोजनाद्यविरोधेन रात्राव् आसीत । स्वापो ऽप्य् आसीनस्यैव । वसिष्ठस् तु क्षिप्रकामस्य प्रकारान्तरम् आह ।
अथ चेत् त्वरते कर्तुं दिवसं मारुताशनः ।
रात्रौ चैव जले तिष्ठेत् प्राजापत्येन तत् समम् ॥
सावित्र्यष्टसहस्रं तु जप्यं कृत्वोत्थिते रवौ ।
मुच्यते पातकैः सर्वैर् यदि न भ्रूणहा भवेत् ॥ २६।६ ॥
विश्वास-प्रस्तुतिः
सत्यं वदेत् ॥ २६।७ ॥
मूलम्
सत्यं वदेत् ॥ २६।७ ॥
हरदत्तः
सत्यं यथादृष्टम् । विवाहादिविषये ऽपि सत्यम् एव वदेत् ॥ २६।७ ॥
विश्वास-प्रस्तुतिः
अनार्यैर् न संभाषेत ॥ २६।८ ॥
मूलम्
अनार्यैर् न संभाषेत ॥ २६।८ ॥
हरदत्तः
द्विजातिव्यतिरिक्तैर् लिङ्गस्याविवक्षितत्वात् तत्स्त्रीभिर् अपि न संभाषेत ॥ २६।८ ॥
विश्वास-प्रस्तुतिः
रौरवयौधाजपे नित्यं प्रयुञ्जीत ॥ २६।९ ॥
मूलम्
रौरवयौधाजपे नित्यं प्रयुञ्जीत ॥ २६।९ ॥
हरदत्तः
रौरवयौधाजपे सामनी । पुनानः सोमधारयेत्य् अस्याम् ऋचि गीते । नित्यं प्रत्यहं प्रयुञ्जीत गायेत् । अपर आह – नित्यं पुनः प्रयुञ्जीतेति ॥ २६।९ ॥
**अनुसवनम् उदकोपस्पर्शनम् आपो हि ष्ठेति तिसृभिः पवित्रवतीभिर् मार्जयीत हिरण्यवर्णाः शुचयः पावका इत्य् अष्टाभिः ॥ २६।१० ॥**
उदकोपस्पर्शनं स्नानम् । तदनुवसनं त्रिषु सवनेषु कर्तव्यम् । तदनन्तरं च मार्जनम् आपो हि ष्ठेत्यादिभिः । पवमानः सुवर्जन इत्य् अनुवाके या ऋचस् ताः पवित्रवत्यः, लिङ्गसमवायात् । ताभिश् च तैत्तिरीये पञ्चमे काण्डे षष्ठे प्रश्ने हिरण्यवर्णाः शुचयः पावका इत्याद्या ऋचः पठ्यन्ते । ता दश् भवन्ति । तत्राष्टाभिः । यदि तु शाखान्तरे क्वचिद् अष्टाव् एव पठ्यन्ते ततस् ता एव ग्राह्याः ॥ २६।१० ॥
विश्वास-प्रस्तुतिः
अथोदकतर्पणम् ॥ २६।११ ॥
मूलम्
अथोदकतर्पणम् ॥ २६।११ ॥
हरदत्तः
अथ मार्जनानन्तरम् उदकेन तर्पणं कर्तव्यम् ॥ २६।११ ॥
**नमो ऽहमाय मोहमाय मंहमाय धुन्वते तापसाय पुनर्वसवे नमः । नमो मौञ्ज्यायोर्व्याय वसुविन्दाय सार्वविन्दाय नमः । नमः पाराय सुपाराय महापाराय वारयिष्णवे नमः । नमो रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वायेशानायोग्राय वज्रिणे घृणिने क्पर्दिने नमः । नमः सूर्यायादित्याय नमः । नमो नीलग्रीवाय शितिकण्ठाय नमः । नमः कृष्णाय पिङ्गलाय नमः । नमो ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्वरेतसे नमः । नमः सत्याय पावकाय पावकवर्णाय कामाय कामरूपिणे नमः । नमो दीप्ताय दीप्तरूपिणे नमः । नमस् तीक्ष्णाय तीक्ष्णरूपिणे नमः । नमः सोभ्याय सुपुरुषाय महापुरुषाय मधमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमः । नमश् चन्द्रललाटाय कृत्तिवाससे नमः ॥ २६।१२ ॥**
नायम् एको मन्त्रः, एताश् चाज्याहुतय इति बहुवचननिर्देशात् । किं तर्हि । त्रयोदशैते मन्त्राः । नमस्कारादयो नमस्कारान्ताश् च सर्वे । तत्र प्रथमे चतुर्थ्यन्तानि षड् देवस्य नामानि । द्वितीये चत्वारि । तथा तृतीये । चतुर्थे त्रयोदश । महते देवायेति महादेवपदम् एव व्यस्तम् उक्तम् । पञ्चमादिषु त्रिषु द्वे । अष्टमे षट् । नमवे पञ्च । दशमे द्वे । तथैकादशे । द्वादशे षट् । इति षट्पञ्चाशद् देवनामानि । एभिर् मन्त्रैस् तर्पणम् अनुसवनम् ॥ २६।१२ ॥
विश्वास-प्रस्तुतिः
एतद् एवादित्योपस्थानम् ॥ २६।१३ ॥
मूलम्
एतद् एवादित्योपस्थानम् ॥ २६।१३ ॥
हरदत्तः
आदित्य उपस्थीयते येन तद् आदित्यस्योपस्थानम् । एतेन कृत्स्नेन मन्त्रेणादित्य उपस्थेय इत्य् उक्तं भवति । एतद् अप्य् अनुसवनं प्रत्यहम् । सकृद् इत्य् अन्ये, पृथग् योगकरणात् । अन्यथाथोदकतर्पणम् आदित्योपस्थानं चेत्य् एकम् एव योगम् अकरिष्यत् ॥ २६।१३ ॥
विश्वास-प्रस्तुतिः
एता एवाज्याहुतयः ॥ २६।१४ ॥
मूलम्
एता एवाज्याहुतयः ॥ २६।१४ ॥
हरदत्तः
एता इति मन्त्रम् अपि परामृशति । एतच् छन्दस्याहुतिसामानाधिकरण्यात् स्त्रीलिङ्गता । एतैर् एव त्रयोदशभिर् मन्त्रैर् आज्यम् अपि होतव्यम् इत्य् उक्तं भवति । तत्र “जुहोतिचोदना स्वाहाकारप्रदाना” इति स्वाहाकारान् तैर् होमः प्रत्यहं सकृत् कर्तव्यः ॥ २६।१४ ॥
विश्वास-प्रस्तुतिः
द्वादशरात्रस्यान्ते चरुं श्रपयित्वैताभ्यो देवताभ्यो
जुहुयात् ॥ २६।१५ ॥
मूलम्
द्वादशरात्रस्यान्ते चरुं श्रपयित्वैताभ्यो देवताभ्यो
जुहुयात् ॥ २६।१५ ॥
हरदत्तः
एवम् उक्तेन प्रकारेण द्वादशरात्रं नीत्वा तदन्ते त्रयोदशे ऽहनि गृह्योक्तेन मार्गेण चरुं श्रपयित्वैताभ्यो वक्ष्यमाणाभ्यो देवताभ्यो जुहुयात् ॥ २६।१५ ॥
हरदत्त-प्रस्तावः
ता आह_ ।
**अग्नये स्वाहा सोमाय स्वाहाग्नीषोमाभ्याम् इन्द्राग्निभ्याम् विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतये ऽग्नये स्विष्टकत इति ॥ २६।१६ ॥**
स्विष्टकृता सह नवाहुतयः । द्विः स्वाहाकारपाठो ऽनुषङ्गप्रकारदर्शनार्थः । सर्व एव स्वाहाकारान्ताः [इत्य् अर्थः] ॥ २६।१६ ॥
विश्वास-प्रस्तुतिः
ततो ब्राह्मणतर्पणम् ॥ २६।१७ ॥
मूलम्
ततो ब्राह्मणतर्पणम् ॥ २६।१७ ॥
हरदत्तः
ततो होमानन्तरं ब्राह्मणास् तर्पयितव्या भोजनादिभिः । “शुचीन् मन्त्रवतः सर्वकृत्येषु भोजयेत्” इत्य् आपस्तम्बः ॥ २६।१७ ॥
विश्वास-प्रस्तुतिः
एतेनैवातिकृच्छ्रो व्याख्यातः ॥ २६।१८ ॥
मूलम्
एतेनैवातिकृच्छ्रो व्याख्यातः ॥ २६।१८ ॥
हरदत्तः
स्पष्टम् ॥ २६।१८ ॥
हरदत्त-प्रस्तावः
यस् त्व् अस्य विशेषस् तम् आह ।
हरदत्तः
**यावत् सकृद् आददीत तावद् अश्नीयात् ॥ २६।१९ ॥ **
एकेन पाणिना यावत् सकृद् आदातुं शक्नुयात् तावद् एवाश्नीयात् । हविष्यं दिवा नक्तम् अयाचितम् उपवास इति विशेषाः स्थिता एव । अत्र मनुः ।
एकैकं ग्रासम् अश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेद् अन्त्यम् इति कृच्छ्रः स उच्यते ॥ २६।१९ ॥
विश्वास-प्रस्तुतिः
अब्भक्षस् तृतीयः स कृच्छ्रातिकृच्छ्रः ॥ २६।२० ॥
मूलम्
अब्भक्षस् तृतीयः स कृच्छ्रातिकृच्छ्रः ॥ २६।२० ॥
हरदत्तः
पूर्वोक्तेष्व् एव भोजनकालेषु केवलम् उदकम् एव पिबेत् स एष तृतीयः कृच्छ्रातिकृच्छ्रो नाम वेदितव्यः । अत्रोपवासदिनेष्व् आचमनव्यतिरेकेणोदकपानम् अपि न भवति । त एते त्रयः कृच्छ्रा उक्ताः ॥ २६।२० ॥
हरदत्त-प्रस्तावः
तेषु_ –
विश्वास-प्रस्तुतिः
प्रथमं चरित्वा शुचिः पूतः कर्मण्यो
भवति ॥ २६।२१ ॥
मूलम्
प्रथमं चरित्वा शुचिः पूतः कर्मण्यो
भवति ॥ २६।२१ ॥
हरदत्तः
प्रथमं प्राजापत्यं चरित्वा शुचिः,
संध्याहीनो ऽशुचिर् नित्यम् अनर्हः सर्वकर्मसु ।
इत्यादिना विहिताकरणनिमित्तेन दोषेण हीनः । पूतः प्रतिषिद्धाचरणजन्येनाधर्मेण रहितः । कर्मण्यः कर्मसु योग्यश् च भवति । कर्मण्य इति वचनाद् अप्रज्ञातदोषस्यापि कृच्छ्रानुष्ठानाद् इष्टेषु कर्मसु योग्यतेति ज्ञाप्यते ॥ २६।२१ ॥
विश्वास-प्रस्तुतिः
द्वितीयं चरित्वा यत् किंचिद् अन्यन् महापातकेभ्यः
पापं कुरुते तस्मात् प्रमुच्यते ॥ २६।२२ ॥
मूलम्
द्वितीयं चरित्वा यत् किंचिद् अन्यन् महापातकेभ्यः
पापं कुरुते तस्मात् प्रमुच्यते ॥ २६।२२ ॥
हरदत्तः
द्वितीयम् अतिकृच्छ्रं चरित्वा महापातकव्यतिरिक्तैः पापैर् मुच्यते ॥ २६।२२ ॥
विश्वास-प्रस्तुतिः
तृतीयं चरित्वा सर्वस्माद् एनसो मुच्यते ॥ २६।२३ ॥
मूलम्
तृतीयं चरित्वा सर्वस्माद् एनसो मुच्यते ॥ २६।२३ ॥
हरदत्तः
तृतीयं कृच्छ्रतिकृच्छ्रं चरित्वा सर्वस्मान् महापातकाद् अप्य् एनसो ऽनभिसंधिकृतान् मुच्यते ॥ २६।२३ ॥
हरदत्त-प्रस्तावः
एवं व्यस्तानां फलम् उक्त्वा समस्तानाम् आह ।
विश्वास-प्रस्तुतिः
अथैतांस् त्रीन् कृच्छ्रांश् चरित्वा सर्वेषु वेदेषु स्नातो
भवति सर्वैर् देवैर् ज्ञातो भवति ॥ २६।२४ ॥
मूलम्
अथैतांस् त्रीन् कृच्छ्रांश् चरित्वा सर्वेषु वेदेषु स्नातो
भवति सर्वैर् देवैर् ज्ञातो भवति ॥ २६।२४ ॥
हरदत्तः
य एतांस् त्रीन् कृच्छ्रान् अव्यवधानेनानुतिष्ठति तस्य सर्वान् वेदान् अधीत्य स्नातस्य यत् फलं तत्तुल्यं फलं भवति । सर्वेषां देवानां लोका जितास् तेन ॥ २६।२४ ॥
हरदत्त-प्रस्तावः
अथ विदुषः प्रशंसा ।
विश्वास-प्रस्तुतिः
यश् चैवं वेद [यश् चैवं वेद] ॥ २६।२५ ॥
मूलम्
यश् चैवं वेद [यश् चैवं वेद] ॥ २६।२५ ॥
हरदत्तः
यश् चैतान् कृच्छ्रान् स्वरूपेणेतिकर्तव्यतया फलेन विजानाति सो ऽपि सर्वेषु वेदेषु स्नातो भवति । सर्वैर् देवैर् ज्ञातो भवति । एवं ज्ञातं प्रशस्तम् इत्य् अर्थः । [द्विरुक्तिर् उक्तार्था] ॥ २६।२५ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
तृतीयप्रश्ने षड्विंशो ऽध्यायः