२५

अथ पञ्चविंशो ऽध्यायः

उक्तानि महापातकेषु रहस्यप्रायश्चित्तानि । अथोपपातकेषु वक्ष्यन् प्रथमम् अवकीर्णिनः प्रायश्चित्तं वक्तुं तस्य निन्दातिशयप्रदर्शनाय श्रुतिम् उदाहरति ।

विश्वास-प्रस्तुतिः

तद् आहुः कतिधावकीर्णी प्रविशतीति ॥ २५।१ ॥

मूलम्

तद् आहुः कतिधावकीर्णी प्रविशतीति ॥ २५।१ ॥

हरदत्तः

तद् इति वाक्योपन्यासः । कतिधावकीर्णी कतिभिः प्रकारैः किं किं प्रविशतीति ब्रह्मवादिन आहुः ॥ २५।१ ॥

हरदत्त-प्रस्तावः

अत्रोत्तरम् ॥

विश्वास-प्रस्तुतिः

मरुतः प्राणेनेन्द्रे बलेन बृहस्पतिं
ब्रह्मवर्चसेनाग्निम् इवेतरेण सर्वेणेति ॥ २५।२ ॥

मूलम्

मरुतः प्राणेनेन्द्रे बलेन बृहस्पतिं
ब्रह्मवर्चसेनाग्निम् इवेतरेण सर्वेणेति ॥ २५।२ ॥

हरदत्तः

प्राणेन पञ्चवृत्तिना मरुतो वायून्य् प्रविशति । इन्द्रं बलेन प्रविशति । वृत्तस्वाध्यायसंपद्ब्रह्मवर्चसेन बृहस्पतिः । इतरेण सर्वेण चक्षुरादिनेन्द्रियवर्गेणाग्निम् एव प्रविशति । एवम् अल्पायुर् निरुत्साहो ब्रह्मवर्चसहीनश् चक्षुरादिहीनश् चावकीर्णी भवति । अतश् चरितव्यं प्रायश्चित्तम् ॥ २५।२ ॥

हरदत्त-प्रस्तावः

तदानीम् आह ।

विश्वास-प्रस्तुतिः

सो ऽमावास्यायां निश्य् अग्निम् उपसमाधाय
प्रायश्चित्ताज्याहुतीर् हुहोति ॥ २५।३ ॥

मूलम्

सो ऽमावास्यायां निश्य् अग्निम् उपसमाधाय
प्रायश्चित्ताज्याहुतीर् हुहोति ॥ २५।३ ॥

हरदत्तः

सो ऽवकीर्ण्य् अमावास्यायां निश्य् अर्धरात्रे गृह्योक्तेन मार्गेणाग्निं प्रतिष्ठाप्योपसमाधायाज्यभागान्ते प्रायश्चित्तरूपा आज्याहुतीर् जुहोति ॥ २५।३ ॥

हरदत्त-प्रस्तावः

तत्र मन्त्रौ ।

    **कामावकीर्णो ऽस्म्य् अवकीर्णो ऽस्मि कामकमाय स्वाहा । कामाभिदुग्धो ऽस्म्य् अभिदुग्धो ऽस्मि कामकामाय स्वाहेति समिधम् आधायानुपर्युक्ष्य यज्ञवास्तु कृत्वोपोत्थाय समासिञ्चत्व् इत्य् एतया त्रिर् उपतिष्ठेत ॥ २५।४ ॥**

होमान्त एकां समिधं तूष्णीम् आधायादिते ऽन्वमंस्था इत्यादिभिर् अग्निम् अनुपर्युक्षति । ततो यज्ञवास्तु करोति । अत्र छन्दोगानां गृह्ये स्विष्टकृतो ऽनन्तरं पठ्यते: “समिधम् आधाय दर्भान् आज्ये हवींषि च त्रिर् अवधायाग्रमध्यमूलान्य् अक्तं रिहाणा वियन्तु वय इत्य् अभ्युक्ष्याग्नाव् अनुप्रहरेद् यः (यो?) भूतानाम् अधिपती रुद्रस् तन्तिचरो वृषा पशून् अस्माकं मा हिंसीर् एतद् अस्तु हुतं तव स्वाहेति तद् यज्ञवास्तु सर्वत्र कुर्याद् इति । तद् एतद् यव्ञवास्तु कृत्वोपोत्थायाग्निसमीपे स्थित्वा समासिञ्चतु, इत्य् एतया च त्रिर् अग्निम् उपतिष्ठेत ॥ २५।४ ॥

हरदत्त-प्रस्तावः

त्रिरुपस्थानस्यार्थवादः ।

विश्वास-प्रस्तुतिः

त्रय इमे लोका एषां लोकानाम् अभिजित्या अभिक्रान्त्या
इति ॥ २५।५ ॥

मूलम्

त्रय इमे लोका एषां लोकानाम् अभिजित्या अभिक्रान्त्या
इति ॥ २५।५ ॥

हरदत्तः

त्रयो हि लोका भूर् भुवः स्वर् इति । तेषाम् अभिजितिर् भोगयोग्यतापादनम् । अभिक्रान्तिस् तत्रैवाधिपत्येनाधिष्ठायावस्थानम् । तदर्थम् एवं कर्तव्यम् इति संबन्धः ॥ २५।५ ॥

    **एतद् एवैकेषां कर्माधिकृत्य यो ऽप्रयत इव स्यात् स इत्थं जुहुयाद् इत्थम् अनुमन्त्रयेत वरो दक्षिणेति प्रायश्चित्तम् अविशेषात् ॥ २५।६ ॥**

यो ऽपूत इव स्याद् अन्यो ऽप्य् आत्मानम् अपूतम् इव मन्यते न केवलम् अवकीर्णी सो ऽप्य् एतद् एवोक्तं कर्माधिकृत्येत्थं जुहुयाद् इत्थम् अनुमन्त्रयेत होमम् उपस्थानं चैवं कुर्यात् । वरो दक्षिणा । गौर् वै वरः । सा स्वयंकर्तृकत्वाद् ब्रह्मणे देयेति श्रवणविशेषात् । अविशेषेण सर्वेषाम् उपपातकिनाम् इदं प्रायश्चित्तम् इत्य् एकेषां मतम् ॥ २५।६ ॥

    **अनार्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु शूद्रायां च रेतः सिक्त्वायोनौ च दोषवति च कर्मण्य् अपि संधिपूर्वे ऽब्लिङ्गाभिर् अप उपस्पृशेद् वारुणीभिर् अन्यैर् वा पवित्रैः ॥ २५।७ ॥**

अनार्जवं शाठ्यम् । पैशुनं परदोषसूचनम् । प्रतिषिद्धाचारो निषिद्धानुष्ठानम् । अनाद्यम् अभक्ष्यं तस्य प्राशनम् । एतेषु शूद्रायां रेतः सिक्त्वायोनौ चास्यादिषु वा रेतः सिक्त्वा, दोषवति कर्मणि परपीडात्मके स्तेयात्मके च संधिपूर्वे बुद्धिपूर्वे, अपशब्दाद् अबुद्धिपूर्वे कृते ऽब्लिङ्गाभिर् आपो हि ष्ठा मयोभुव इति तिसृभिर् हिरण्यवर्णाः शुचयः पावका इति चतसृभिः, वारुणीभिर् यत् किंचेदम् इमं मे वरुण तत् त्वा याम्यव ते हेड इत्य् एताभिर् अन्यैर् वा पवित्रैः पवमानः सुवर्जन इत्यादिभिर् अप उपस्पृशेत् पूर्वं स्नात्वा पश्चाद् अञ्जलिना मूर्ध्नि मन्त्रैर् एतैर् अपः क्षिपेत् । यद्य् अप्य् अनाद्यप्राशनम् अपि प्रतिषिद्धाचारस् तथापि पृथगुपादानात् तेषु बहुभिर् मार्जनम् अनाद्यप्राशने यथासंभवं द्रष्टव्यम् ॥ २५।७ ॥

विश्वास-प्रस्तुतिः

प्रतिषिद्ध्वाङ्मनसापचारे व्याहृतयः पञ्च
सत्यान्ताः ॥ २५।८ ॥

मूलम्

प्रतिषिद्ध्वाङ्मनसापचारे व्याहृतयः पञ्च
सत्यान्ताः ॥ २५।८ ॥

हरदत्तः

प्रतिषिद्धविषये यो वाङ्मनसयोर् अपचारः कुत्सिता प्रवृत्तिस् तत्र व्याहृतयः पञ्च जप्या भूरादयः सत्यान्ताः प्रथमे ऽध्याय उक्ताः । वाङ्मनसोर् इति पाठो ऽस्मभ्यं न रोचते । अचतुरेति समासान्तविधिप्रसङ्गात्, प्रतिषिद्धग्रहणस्य च दुरन्वयत्वात् ॥ २५।८ ॥

    **सर्वास्व् अपो वाचामेद् अहश् च मादित्यश् च पुनात्व् इति प्राता रात्रिश् च मा वरुणश् च पुनात्व् इति सायम् ॥ २५।९ ॥**

सर्वासु पापक्रियास्व् अनार्जवादिष्व् आभ्यां मन्त्राभ्याम् अपो ऽभिमन्त्र्याचामेद् अहश् चेति प्रातः पिबेद् रात्रिश् चेति सायं पिबेत् ॥ २५।९ ॥

विश्वास-प्रस्तुतिः

अष्टौ वा समिध आदध्याद् देवकृतस्येति हुत्वैव
सर्वस्माद् एनसो मुच्यते [मुच्यते] ॥ २५।१० ॥

मूलम्

अष्टौ वा समिध आदध्याद् देवकृतस्येति हुत्वैव
सर्वस्माद् एनसो मुच्यते [मुच्यते] ॥ २५।१० ॥

हरदत्तः

अथ वा देवकृतस्येत्यादिभिर् मन्त्रैर् अष्टौ समिध आदध्याज् जुहुयात् । हुत्वैव सर्वस्माद् एनसो न केवलम् अनार्जवादिभ्यः किं त्व् अयाज्ययाजनादेर् अप्य् एनसो मुच्यते । अस्य होमस्य मुख्यत्वप्रदर्शनार्थम् एवकारः । हुत्वैवान्यद् अकृत्वेति । ततश् च सति संभव इदम् एव ज्यायः । देवकृतस्यैनसो ऽवयजनम् असि स्वाहेत्यादयो ऽष्टौ मन्त्राः [द्विरुक्तिर् उक्तार्था] ॥ २५।१० ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां

तृतीयप्रश्ने पञ्चविंशो ऽध्यायः