अथ चतुर्विंशो ऽध्यायः
हरदत्त-प्रस्तावः
रहस्यं प्रायश्चित्तं वक्ष्यते ॒
विश्वास-प्रस्तुतिः
रहस्यं प्रायश्चित्तम् अविख्यातदोषस्य ॥ २४।१ ॥
मूलम्
रहस्यं प्रायश्चित्तम् अविख्यातदोषस्य ॥ २४।१ ॥
हरदत्तः
यस्य पापस्य दोषः परैर् न विख्यातस् तस्य प्रायश्चित्तं रहस्यं भवति । यथा परैर् न ज्ञायते तथा कर्तव्यम् इति यावत् । यैर् विना यत् पातकं कर्तुं न शक्यते तद्व्यतिरिक्तैर् ज्ञातत्वं निषिध्यते । तेन पारदार्ये पतितसंवासे च तैर् ज्ञातत्वे ऽपि वक्ष्यमाणं भवत्य् एव ॥ २४।१ ॥
विश्वास-प्रस्तुतिः
चतुरृचं तरत्समन्दीत्य् अप्सु जपेद् अप्रतिग्राह्यं
प्रतिजिघृक्षन् प्रतिगृह्य वा ॥ २४।२ ॥
मूलम्
चतुरृचं तरत्समन्दीत्य् अप्सु जपेद् अप्रतिग्राह्यं
प्रतिजिघृक्षन् प्रतिगृह्य वा ॥ २४।२ ॥
हरदत्तः
जातिदुष्टस्य वा कर्मदुष्टस्य वा पुरुषस्य स्वभूतं स्वयंदुष्टं च कृष्णाजिनाद्य् अप्रतिग्राह्यम् । गत्यभावात् प्रतिजिघृक्षन् प्रतिगृहीतुम् इच्छंस् तरत्समन्दीधावतीति चतुरृचं सूक्तम् अप्सु जपेत् । नाभिदध्ने जले स्थित इत्य् एके । निमग्न इत्य् अन्ये । प्रतिगृह्य वा प्रतिग्रहात् पश्चाद् वा जपेत् । एवं तुल्यवद् विकल्पः । अन्ये प्रतिग्रहात् पूर्वम् एवाप्रतिग्राह्यम् इति ज्ञाते प्राग् जपः । पश्चाज् ज्ञाते पश्चाज् जप इति । अत्र मनुः ।
प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ।
जपंस् तरत्समन्दीयं मुच्यते मानवस् त्र्यहात् ॥ इति ।
प्रजापतिः ।
जपादिपूरणा कुर्यात् ख्यातदोषो द्विजोत्तमः ।
रहःकृतस्य दोषस्य तत् तद् एवाभ्यसेत् तथा ॥ इति ।
इदम् अभ्यासविषयम् ॥ २४।२ ॥
विश्वास-प्रस्तुतिः
अभोज्यं बुभुक्षमाणः पृथिवीम् आवपेत् ॥ २४।३ ॥
मूलम्
अभोज्यं बुभुक्षमाणः पृथिवीम् आवपेत् ॥ २४।३ ॥
हरदत्तः
नित्यम् अभोज्यं केशकीटावपन्नम् इत्य् उक्तम् । यदि गत्यभावे तद् एव भोक्तुम् इच्छति तदा पृथिवीम् आवपेन् मृदं प्रक्षिपेत् ततो भुञ्जीत ॥ २४।३ ॥
विश्वास-प्रस्तुतिः
ऋत्वन्तरारमण उदकोपस्पर्शनाच् छुद्धिम्
एके ॥ २४।४ ॥
मूलम्
ऋत्वन्तरारमण उदकोपस्पर्शनाच् छुद्धिम्
एके ॥ २४।४ ॥
हरदत्तः
ऋतुमध्य आरमण उदक्यागमन उदकोपस्पर्शनात् सचैलस्नानाच् छुद्धिम् आहुर् एके । उदक्यागमने त्रिरात्र इति प्रकाशविषयम् । एकेग्रहणं परत्रापि संबध्यते ॥ २४।४ ॥
विश्वास-प्रस्तुतिः
स्त्रीषु ॥ २४।५ ॥
मूलम्
स्त्रीषु ॥ २४।५ ॥
हरदत्तः
एके स्वस्त्रीषूदकोपस्पर्शनम् अन्यत्र त्रिरात्रं मन्यन्ते । अपर आह – स्त्रीषु वडवाद्यास्व् अपि गोवर्जं मैथुन आचरित उदकोपस्पर्शनाच् छुद्धिम् एके मन्यन्ते ॥ २४।५ ॥
हरदत्त-प्रस्तावः
अथ ब्राह्मणवधे रहस्यम् ।
**पयोव्रतो वा दशरात्रं घृतेन द्वितीयम् अद्भिस् तृतीयं दिवादिष्व् एकभक्तिको जलक्लिन्नवासा लोमानि नखानि त्वचं मांसं शोणितं स्नाय्व् अस्थि मज्जानमिति होमा आत्मनो मुखे मृत्योर् आस्ये जुहोमीत्य् अन्ततः सर्वेषां प्रायश्चित्तं भ्रूणहत्यायाः ॥ २४।६ ॥**
भ्रूणहत्या ब्रह्महत्या । तरयाः प्रायश्चित्तम् इदम् उच्यते । आदित एकं दशरात्रं पयोव्रतः क्षीराहारः स्यात् । द्वितीयं दशरात्रं घृतेन वर्तयेत् । तृतीयम् अद्भिः । वाशब्दाद् धविष्यभोजनो वा । शक्तितो विकल्पः । एतेषु दिवसेष्व् एकभक्तिकः पयःप्रभृति किम् अपि पूर्वोक्तं सकृद् एवोपभुञ्जीत । कदा दिवादिषु प्रातःकालेषु न सायं न मध्याह्ने । जलक्लिन्नवासा एषु दिवसेष्व् आर्द्रवासाश् च स्यात् । तथा होमाश् चाष्टौ प्रत्यह्म् आज्येन कर्तव्याः । तत्र मन्त्राः – लोमानि नखानि त्वचं मांसं शोणितं स्नाय्व् अस्थि मज्जानम् इति । तेषां सर्वेषाम् आत्मनो मुखे मृत्योर् आस्ये जुहोमि स्वाहेत्य् अन्ते प्रयोक्तव्यम् । जुहोतिचोदना स्वाहाकारप्रदानेति वचनात् । तद् यथा । लोमान्य् आत्मनो मुखे मृत्योर् आस्ये जुहोमि स्वाहा, नखान्य् आत्मनो मुखे मृत्योर् आस्ये जुहोमि स्वाहेत्य् एवंप्रकारा होमाः ॥ २४।६ ॥
हरदत्त-प्रस्तावः
अथ भ्रूणहत्याया एवान्यत् प्रायश्चित्तमुच्यते ।
विश्वास-प्रस्तुतिः
उक्तो नियमः ॥ २४।७ ॥
मूलम्
उक्तो नियमः ॥ २४।७ ॥
हरदत्तः
पयोव्रतो वेत्यादिर् वक्ष्यमाणे ऽपि वेदितव्यः ॥ २४।७ ॥
विश्वास-प्रस्तुतिः
अग्ने त्वं पारयेति महाव्याहृतिभिर् जुहुयात्
कूष्माण्डैश् चाज्यम् ॥ २४।८ ॥
मूलम्
अग्ने त्वं पारयेति महाव्याहृतिभिर् जुहुयात्
कूष्माण्डैश् चाज्यम् ॥ २४।८ ॥
हरदत्तः
अग्ने त्वं पारयेत्य् ऋचा महाव्याहृतिभिर् भूरादिभिः कूष्माण्डैर् यद् देवा देवहेडनम् इत्यादिभिश् च क्रमेण सकृद् आज्यं जुहुयात् ॥ २४।८ ॥
**तद्व्रत एव वा ब्रह्महतासुरापानस्तेयगुरुतल्पेषु प्राणायामैस् तान्तो ऽघ्मर्षणं जपन् समम् अश्वमेधावभृथेनेदं च प्रायश्चित्तम् ॥ २४।९ ॥**
तद्व्रत एव वा तेनैव पयोव्रतो वेत्यादिना व्रतेनोपेतश् चतुर्षु ब्रह्महत्यादिषु पापेषु प्रायश्चित्तं कुर्यात् । प्राणायामैस् तान्तो म्लानो यावद्भिः प्राणायामैस् तान्तो भवति तावद्भिः कुर्याद् अघमर्षणम् । अघमर्षणेन ऋषिणा दृष्टम् ऋतं च सत्यं चेत्यादिनाघमर्षणं । तच् चाश्वमेधावभृथेन समं तुल्यम् । जपन्न् इति वर्तमानप्रयोगेण प्रत्यहम् एव त्रिंशद्रात्रं व्रतं कुर्यात् । अत्र मनुः ।
यथाश्वमेधः क्रतुराट् सर्वपापप्रणाशनः ।
तथाघमर्षणं सूक्तं सर्वपापप्रणाशनम् ॥ २४।९ ॥
विश्वास-प्रस्तुतिः
सावित्रीं वा सहस्त्रकृत्व आवर्तयन् पुनीते
हैवात्मानम् ॥ २४।१० ॥
मूलम्
सावित्रीं वा सहस्त्रकृत्व आवर्तयन् पुनीते
हैवात्मानम् ॥ २४।१० ॥
हरदत्तः
तद्व्रत एवेत्य् अनुवर्तते । प्राणायामैस् तान्त इति च । सावित्रीं सहस्रकृत्व आवर्तयन्न् इति जप्यमात्रं भिद्यते । अन्यत् समानम् । एवं कुर्वन्न् आत्मानं पुनीते ब्रह्महत्यादिभश् चतुर्भ्यः शोधयति । हेति प्रसिद्धौ । एवेत्य् अवधारणे । ततश् चान्येष्व् अपि पापेषु सावित्र्यभ्यासः शुद्धिहेतुः । तथा च वसिष्ठः ।
सहस्रपरमां देवीं शतमध्यां दशावराम् ।
शुद्धिकामः प्रयुञ्जीत सर्वपापेष्व् अपि स्थितः ॥ इति ।
व्याघ्रो ऽप्य् आह ।
न सावित्रीसमम् जप्यं न व्याहृतिसमं हुतम् ।
नान्नतोयसमं दानं न चाहिंसासमं तपः ॥ इति ॥ २४।१० ॥
हरदत्त-प्रस्तावः
प्रायश्चित्तान्तरम् आह ।
विश्वास-प्रस्तुतिः
अन्तर्जले वाघमर्षणं त्रिर् आवर्तयन् सर्वपापेभ्यो
विमुच्यते [विमुच्यते] ॥ २४।११ ॥
मूलम्
अन्तर्जले वाघमर्षणं त्रिर् आवर्तयन् सर्वपापेभ्यो
विमुच्यते [विमुच्यते] ॥ २४।११ ॥
हरदत्तः
तद्व्रत् एवोदकस्यान्तनिमग्नस् त्रिंशद्रात्रम् अघमर्षणं त्रिर् अभ्यस्य सर्वस्मात् पापाज् ज्ञानकृताद् अज्ञानकृताच् च मुच्यते । द्विरुक्तिश् च व्याख्याता ॥ २४।११ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
तृतीयप्रश्ने चतुर्विंशो ऽध्यायः