अथ त्रयोविंशो ऽध्यायः
हरदत्त-प्रस्तावः
क्रमप्राप्तं सुरापानप्रायश्चित्तम् आह ।
विश्वास-प्रस्तुतिः
सुरापस्य ब्राह्मणस्योष्णाम् आसिञ्चेयुः सुराम् आस्ये
मृतः शुध्येत् ॥ २३।१ ॥
मूलम्
सुरापस्य ब्राह्मणस्योष्णाम् आसिञ्चेयुः सुराम् आस्ये
मृतः शुध्येत् ॥ २३।१ ॥
हरदत्तः
त्रिविधा सुरा । यथाह मनुः ।
गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका न पातव्या तथा सर्वा द्विजोत्तमैः ॥ इति ।
द्विजोत्तमा ब्राह्मणाः । क्षत्रियवैश्ययोस् तु पैष्ट्य् एव । यथा स एवाह ।
सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते ।
तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् ॥ इति ।
अन्नानां मलं सुरा पैष्टी । अत्र ब्राह्मणग्रहणं द्विजात्युपलक्षणम् । यस्य या प्रतिषिद्धा सुरा तस्याः पाता सुरापः । तस्य द्विजातेर् आस्ये ताम् एव सुराम् उष्णाम् आसिञ्चेयुः । उपदेष्टृष्व् अयम् आसेचनारोपः । आसिञ्चन्त्य् एव हि ते सुराम् आस्ये । येन सुरापेण सुरोष्णा पातव्या तस्येयं निष्कृतिर् इत्य् उपदिशन्तीति । स्वयम् एव त्व् आसेचनकर्ता । तथा च आपस्तम्बः: “सुरापो ऽग्निस्पर्शां सुरां पिबेत्” इति । आसिञ्चेयुर् इति बहुवचनम् उपदेष्टॄणां बहुत्वं सूचयति । मनुर् अप्य् आह ।
तेषां वेदविदो ब्रूयुस् त्रयो ऽप्य् एनःसु निष्कृतिम् ।
सा तेषां पावना यस्मात् पवित्रं विदुषां हि वाक् ॥ इति ।
मृतः शुध्येद् इत्य् वचनात् तथा सुरा तापयितव्या यथा पातुर् मरणं भवति । “आर्द्रवासाः पिबेत्” इति पैठीनसिः । “आयसेन ताम्रेण वा पात्रेण” इति प्रेचताः । अथ याज्ञवल्क्यः ।
सुराम्बुघृतगोमूत्रपयसाम् अगिसंनिभम् ।
सुरापो ऽन्यतमं पीत्वा मरणाच् छुद्धिम् ऋच्छति ॥
वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत् ।
पिण्याकं वा कणान् वापि भक्xअयेत् तु सतां निशि ॥ इति ।
तत्र मरणान्तिकप्रायश्चित्तं बुद्धिपूर्वाभ्यासविषयम् । तत्रैव सकृत्पानविषयं ब्रह्महत्याव्रतं द्वादशवार्षिकम् । अत्र स्त्रियो ऽधिकृत्य शङ्खः: “सुरालशुनपलाण्डुगृञ्जनमांसादीन्य् अभक्ष्याणि वर्जयेद् आहारमयं शरीरम्” इति । वसिष्ठो ऽपि ।
पतत्य् अर्धं शरीरस्य भाऋया यस्य सुरां पिबेत् ।
पतितार्धशरीरस्य निक्ष्तिर् न विधीयते ॥ इति ।
अत्र स्त्रीणाम् अपि प्रतिषिद्धा सुरा । प्रायश्चित्तं च भवति । तत्र स्त्रीणाम् अर्धप्रायश्चित्तम् इत्य् उक्तं पुरस्तात् । तत्र मरणान्तिके ऽर्धकॢप्तेर् अशक्यत्वाद् बुद्धिपूर्वसकृत्पाने द्वादशवार्षिकस्यार्धम् । अभ्यासे तस्यैवाभ्यासः ॥ २३।१ ॥
विश्वास-प्रस्तुतिः
अमत्या पाने पयो घृतम् उदकं वायुं प्रतित्र्यहं
तप्तानि स कृच्छ्रस् ततो ऽस्य संस्कारः ॥ २३।२ ॥
मूलम्
अमत्या पाने पयो घृतम् उदकं वायुं प्रतित्र्यहं
तप्तानि स कृच्छ्रस् ततो ऽस्य संस्कारः ॥ २३।२ ॥
हरदत्तः
यस् त्व् अमत्याबुद्धिपूर्वं यवाग्वदिबुद्ध्या सुरां पिबति स पयश्दीनि चत्वारि द्रव्याणि तप्तान्य् उष्णानि । द्वितीयाया निर्देशात् पिबेद् इति गम्यते । प्रतित्र्यहं प्रथमे त्र्यहे पयो द्वितीये घृतं तृतीय उदकं चतुर्थे वायुम् । वायोर् उष्णत्वं सातपे प्रदेशे । स कृच्छ्रः स एवंभूतस् तप्तकृच्छ्रो ऽस्य प्रायश्चित्तम् । ततः कृच्छ्रानन्तरं पुनः संस्कारः पुनर् उपनयनम् अस्य कर्तव्यम् । तत्र मानवो विशेषः ।
वपनं मेखला दण्डो भैक्षवर्या व्रतानि च ।
एतानि तु निवर्तन्ते पुनःसंस्कारकर्मणि ॥ इति ।
इदम् ईषदभ्यासविषयम् ।
अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति ।
इति मानवं सकृत्पानविषयम् । यत् तु,
पिण्याकं वा कणान् वापि भक्षयेत् तु समां निशि ॥
इति याज्ञवक्यवचनम् । यच् च आपस्तम्बीयम्: “स्तेयं कृत्वा सुरां पीत्वा” इत्यादि तद् उभयम् अपि बहुकृत्वो ऽभ्यास एव ।
कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि ।
सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥
इत्यादीनि मानवादीन्य् अबुद्धिपूर्वविषय एवाभ्यासतारतम्यापेक्षया व्यवस्थाप्यानि ॥ २३।२ ॥
विश्वास-प्रस्तुतिः
मूत्रपुरीषरेतसां च प्राशने ॥ २३।३ ॥
मूलम्
मूत्रपुरीषरेतसां च प्राशने ॥ २३।३ ॥
हरदत्तः
मूत्रादीनां च प्राशने तप्तकृच्छ्रसहितः पुनःसंस्कारः प्रायश्चित्तम् । इदं बुद्धिपूर्वविषयम् । भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् ।
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतो विण्मूत्रम् एव च ॥
इति ।
अज्ञानात् प्राश्य विण्मूत्रं सुरासंसृष्टम् एव च ।
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥
इति च ।
कण्वश् च स्पष्टम् आह ।
रेतोमूत्रपुरीषाणां प्राशने मतिपूर्वके ।
नाश्नीयाच् च त्र्यहं मत्या तप्तकृच्छ्रं चरेद् द्विजः ॥ इति ॥ २३।३ ॥
विश्वास-प्रस्तुतिः
श्वापदोष्ट्रखराणां वाङ्गस्य ॥ २३।४ ॥
मूलम्
श्वापदोष्ट्रखराणां वाङ्गस्य ॥ २३।४ ॥
हरदत्तः
व्याघ्रादयो वनचराः श्वापदाः । उष्ट्रखरौ प्रसिद्धौ । तेषाम् अङ्गं मांसचर्मादि । तस्य प्राशने तप्तकृच्छ्रः पुनःसंस्कारश् च । बुद्धिपूर्वाभ्यास उभयं मिलितम् । सकृद्बुद्धिपूर्वे चाबुद्धिपूर्वाभ्यासे च तप्तकृच्छ्रः । सकृद्मतिपूर्वे संस्कार एव भवति ॥ २३।४ ॥
विश्वास-प्रस्तुतिः
ग्राम्यकुक्कुटसूकरयोश् च ॥ २३।४ ॥
मूलम्
ग्राम्यकुक्कुटसूकरयोश् च ॥ २३।४ ॥
हरदत्तः
ग्राम्यकुक्कुटसूकरयोश् चाङ्गस्य प्राशन एतद् एव प्रायश्चित्तम् । विषयव्यवस्था च पूर्ववत् ॥ २३।५ ॥
विश्वास-प्रस्तुतिः
गन्धाघ्राणे सुरापस्य प्राणायामा घृतप्राशनं
च ॥ २३।६ ॥
मूलम्
गन्धाघ्राणे सुरापस्य प्राणायामा घृतप्राशनं
च ॥ २३।६ ॥
हरदत्तः
यस् तु सुरापस् तस्य तं सुरागन्धम् आजिघ्रति न पुनः शरीतगन्धं नापि भाण्डस्थायाः गन्धं तस्य प्राणायामास् त्रयो घृतप्राशनं च प्रायश्चित्तम् । ब्राह्मणस्य मिलितम्, क्षत्रियस्य प्राणायामाः । वैश्यस्य घृतप्राशनम् इति । सोमपस्य विशेषो मनुना दर्शितः ।
ब्राह्मणस्य सुरापस्य गन्धम् आघ्राय सोमपः ।
प्राणान् अप्सुं त्रिर् आचम्य घृतं प्राश्य विशुध्यति ॥
इति ।
ब्राह्मणस्य रुजाकृत्यं घ्रातिर् अघ्रेयमद्ययोः ।
जैह्म्यं पुंसि च मैथुन्यं जातिसंकरं स्मृतम् ॥
इति ।
जातिभ्रंशकरं कर्म कृत्वान्यतमम् इच्छया ।
चरेत् सांतपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥
इति [च] मानवं भाण्डस्थायाः सुराया गन्धाघ्राणे ॥ २३।६ ॥
विश्वास-प्रस्तुतिः
पूर्वैश् च दष्टस्य ॥ २३।७ ॥
मूलम्
पूर्वैश् च दष्टस्य ॥ २३।७ ॥
हरदत्तः
पूर्वैः श्वापदादिभिर् दष्टस्य च प्राणायामा घृतप्राशनं च प्रायश्चित्तम् । मनुस् तु ।
श्वसृगालखरैर् दष्टो ग्राम्यैः क्रव्यादिभिर् एव च ।
नराश्वोष्ट्रैर् वराहैश् च प्राणायामेन शुध्यति ॥ इति ।
ब्राह्मणविषये वासिष्ठो विशेषः ।
ब्राह्मणस् तु शुना दष्टो नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ इति ।
जातूकर्ण्यः ।
ब्राह्मणी क्षत्रिया वैश्या शुना च श्वापदैर् अपि ।
दष्टा सचैलम् आप्लुत्य शुध्यतीति न संशयः ॥ इति ॥ २३।७ ॥
विश्वास-प्रस्तुतिः
तप्ते लोहशयने गुरुतल्पगः शयीत ॥ २३।८
मूलम्
तप्ते लोहशयने गुरुतल्पगः शयीत ॥ २३।८
हरदत्तः
गुरुर् अत्र पिता ।
निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावय्ति चान्येन स विप्रो गुरुर् उच्यते ॥
इति मनुः । विप्रग्रहणं वर्णोपलक्षणम् । तल्पशब्देन शयनवाचिना भर्या लक्ष्यते । तत्रापि जननी तत्सपत्नी च । तद्गामी गुरुतल्पगः । लोहशयने कृष्णायसनिर्मिते तप्ते यथा मरणम् एव भवति तथा तप्ते शयीत ॥ २३।८ ॥
विश्वास-प्रस्तुतिः
सूर्मीं वा श्लिष्येज् ज्वलन्तीम् ॥ २३।९ ॥
मूलम्
सूर्मीं वा श्लिष्येज् ज्वलन्तीम् ॥ २३।९ ॥
हरदत्तः
लोहमयी स्त्रीप्रकृतिः सूर्मी । तां ज्वलन्तीम् अग्निवर्णां तप्तां श्लिष्येद् आ प्राणवियोगात् ॥ २३।९ ॥
विश्वास-प्रस्तुतिः
लिङ्गं वा सवृषणम् उत्कृत्याञ्जलाव् आधाय
दक्षिणाप्रतीचीं व्रजेद् अजिह्मम् आ श्रीरनिपातात् ॥ २३।१० ॥
मूलम्
लिङ्गं वा सवृषणम् उत्कृत्याञ्जलाव् आधाय
दक्षिणाप्रतीचीं व्रजेद् अजिह्मम् आ श्रीरनिपातात् ॥ २३।१० ॥
हरदत्तः
सबीजं लिङ्गम् उत्पाट्य क्षुरादिना निकृत्य स्वस्याञ्जलौ स्थापयित्वा नैरृतीं दिशम् आ शरीरनिपाताद् व्रजेद् अजिह्मम् । “कूपाद्य् अपरिहरन् यत्रैव प्रतिहतस् तत्रैव तिष्ठेद् आमलयात्” इति वसिष्ठः ॥ २३।१० ॥
विश्वास-प्रस्तुतिः
मृतः शुध्येत् ॥ २३।११ ॥
मूलम्
मृतः शुध्येत् ॥ २३।११ ॥
हरदत्तः
सर्वशेषो ऽयम् । पूर्वोक्तेषु प्रकारेष्व् अन्यतमेन मृत एव गुरुतल्पगः शुध्येन् नान्यथेति । त्रितयम् अप्य् एतज् जननीगमने स्वभार्यादिबुद्ध्याबुद्धिपूर्वं तत्सपत्न्यां च, सवर्णायां बुद्धिपूर्वगमने ।
पितृभायां तु विज्ञाय सवर्णां यो ऽभिगच्छति ।
जननीं वाप्य् अविज्ञाय नामृतः स विशुध्यति ।
इति षट्त्रिंशन्मते दर्शनात् । जनन्यां कामकृते वासिष्ठम्: “निष्कामुको घृताभ्यक्तो गोमयाग्निना पादप्रभृत्य् आत्मानम् अवदाहयेत्” इति । अकामतो ऽभ्यासे ऽप्य् एवम् एव । अकामतस् तु मातुः सपत्न्याः सवर्णाया उत्कृष्ठायाश् च गमनाभ्यासे शङ्खोक्तम् ।
अधःशायी जटाधारी पर्णमूलफलाशनः ।
एककालं समश्नन् वै वर्षे तु द्वादशे गते ॥
रुक्मस्तेयी सुरापश् च ब्रह्महा गुरुतल्पगः ।
व्रतेनैतेन शुध्यन्ति महापातकिनस् त्व् इमे ॥ इति ।
सकृद्गमन उभयोर् इच्छातः प्रवृत्तौ मानवम् ।
खट्वाङ्गी चीरवासा वा श्वश्रुलो विजने वने ।
प्राजापत्यं चरेत् कृच्छ्रम् अब्दम् एकं समाहितः ॥ इति ।
तया प्रोत्साहितस्य स्वेन वा प्रोत्साहितायाम् औशनसं प्रायश्चित्तद्वयं क्रमेण द्रष्टव्यम्: “गुरुतल्पगामी संवत्सरं ब्रह्मचारिव्रतं षण्मासांस् तप्तकृच्छ्रं च” इति । एवम् उत्तरेष्व् अपि प्रायश्चित्तेषु यद् गुरु तद् आत्मना प्रोत्साहितायां यल् लघु तत् तया प्रोत्सितस्य मध्यमं तूभयोर् इच्छातः प्रवृत्ताव् इति द्रष्टव्यम् । तत्र व्याघ्रः ।
कृच्छ्रं चैवातिकृच्छ्रं च तथा कृच्छातिकृच्छ्रकम् ।
चरेन् मासत्रयं विप्रः क्षत्रियागमने गुरोः ॥ इति ।
इदं सकृद् गमने ऽबुद्धिपूर्वे । बुद्धिपूर्वाभ्यास एकवर्षम् ।
मत्या गत्वा पुनर् भार्यां गुरोः क्षत्रसुतां द्विजः ।
वृषणवर्जितं लिङ्गम् उत्कृत्य स मृतः शुचिः ॥ इति ।
कण्वः ।
चान्द्रायणं तप्तकृच्छ्रम् अतिकृच्छ्रं तथैव च ।
सकृद् गत्वा गुरोर् भार्याम् अज्ञानात् क्षत्रियां द्विजः ॥ इति ।
जातूकर्ण्यः ।
गुरोः क्षत्रसुतां भार्यां पुनर् गत्वा त्व् अकामतः ।
वृषणमात्रम् उत्कृत्य शुद्धो जीवन् मृतो ऽपि वा ॥ इति ।
कण्वः ।
तप्तकृच्छ्रं पराकं च तथा सान्तपनं गुरोः ।
भार्यां वैश्यां सकृद् गत्वा बुद्ध्या मासं चरेद् द्विजः ॥ इति ।
लौगाक्षिः ।
गुरोर् वैश्यां पुनर् (सकृद्) गत्वा गत्वा वापि पुनः पुनः ।
लिङ्गाग्रं छेदयित्वा तु ततः सुध्येत् स किल्बिषात् ॥ इति ।
प्रजापतिः ।
पञ्चरात्रं तु नाश्नीयात् सप्ताष्टौ वा तथैव च ।
वैश्यां भार्यां गुरोर् गत्वा सकृद् अज्ञानतो द्विजः ॥ इति ।
हारीतः ।
अभ्यस्य विप्रो वैश्यायां गुरोर् अज्ञानमोहितः ।
सषडङ्गं ब्रह्मचर्यं स चरेद् यावद् आयुषम् ॥ इति ।
जाबालिः ।
अतिकृच्छ्रं तप्तकृच्छ्रं पराकं च तथैव च ।
गुरोः शूद्रां सकृद् गत्वा बुद्ध्या विप्रश् चरेत् ततः ॥ इति ।
उपमन्युः ।
पुनः शूद्रां गुरोर् गत्वा बुद्ध्या विप्रः समाहितः ।
ब्रह्मचर्यम् अदुष्टात्मा द्वादशाब्दं समाचरेत् ॥ इति ।
दीर्घतपाः ।
प्राजापत्यं सान्तपनं सप्तरात्रोपवासनम् ।
गुरोः शूद्रां सकृद् गत्वा चरेद् अज्ञानतो जनः ॥ इति ।
तत्रैवाभ्यासे मानवं द्रष्टव्यम् ।
चान्द्रायणं वा त्रीन् मासान् अभ्यसेन् नियतेन्द्रियः ।
हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ इति ।
अत्र व्याघ्रः ।
जात्युक्तं पारदार्यं च गुरुतल्पत्वम् एव च ।
साधारणस्त्रिया नास्ति कन्यादूषणम् एव च ॥ इति ॥ २३।११ ॥
विश्वास-प्रस्तुतिः
सखीसयोनिसगोत्राशिष्यभार्यासु स्नुषायां
गवि च गुरुतल्पसमः ॥ २३।१२ ॥
मूलम्
सखीसयोनिसगोत्राशिष्यभार्यासु स्नुषायां
गवि च गुरुतल्पसमः ॥ २३।१२ ॥
हरदत्तः
सखी मित्रभूता । सयोनिर् भगिनी । सगोत्रैकगोत्रा । स्नुषा पुत्रभार्या । एतासु शिष्यभायायां गवि च मिथुनीभावे यावन् गुरुतल्पदोषस् तावान् अस्येति । याज्ञवल्क्यः ।
सखिभार्याकुमारीषु स्वयोनिष्व् अन्त्यजासु च ।
सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥
पितुः स्वसारं मातुश् च मातुलानीं स्नुषाम् अपि ।
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥
आचार्यपत्नी स्वसुतां गच्छंस् तु गुरुतल्पगः ।
लिङ्गं छित्त्वा वधस् तस्य सकामायाः स्त्रिया अपि ॥ इति ।
नारदः ।
माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसाम् अन्यतमां गच्छन् गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनात् तत्र नान्यो दण्डो विधीयते ॥ इति ।
कात्यायनः ।
जनन्याश् च भगिन्याश् च स्वसुतायास् तथैव च ।
स्नुषाया गमनं चैव विज्ञेयम् अतिपातकम् ॥
अतिपातकिनस् त्व् एते प्रविशेयुर् हुताशनम् ॥
बृहद्यमः ।
रेतः सिक्त्वा कुमारीषु स्वयोनिष्व् अन्त्यजासु च ।
सपिण्डास्व् अन्यदारेषु प्राणत्यागो विधीयते ॥ इति ।
स एव ।
चाण्डालीं पुल्कसीं म्लेच्छीं स्नुषां च भगिनीं सखीम् ।
मातापित्रोः स्वसारं च निक्षिप्तां शरणागताम् ॥
मातुलानीं प्रव्रजितां सगोत्रां नृपयोषितम् ।
शिष्यभार्यां गुरोर् भार्यां गत्वा चान्द्रायणं चरेत् ॥ इति च ॥ २३।१२ ॥
विश्वास-प्रस्तुतिः
अवकर इत्य् एके ॥ २३।१३ ॥
मूलम्
अवकर इत्य् एके ॥ २३।१३ ॥
हरदत्तः
एके मन्यन्ते सख्यादिगमने ऽवकरो दोषः । अत्र प्रायश्चित्तम् अप्य् अवकीर्णिव्रतं न गुरुतल्पव्रतम् इति । यान्य् एतानि सख्यासिगमने ऽनुक्रान्तानि प्रायश्चित्तानि तेषु मरणान्तिकानि सप्रत्ययानुबन्धात्यन्ताभ्यासविषयाणि । यानि पुनर् अत्यन्तलघूनि तानि स्वभार्याबुद्ध्या प्रवृत्तस्य मध्ये ज्ञात्वा रेतःसेकाद् अर्वाङ् निवृत्तविषयाणि । मध्ये मध्यानि कल्प्यानि ।
न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् ।
इति मानवं तु मरणान्तिकयोग्यमहापातकादिव्यतिरिक्तविषयम् ॥ २३।१३ ॥
हरदत्त-प्रस्तावः
अत्र प्रायश्चित्तम् अकुर्वतीनां स्त्रीणां दण्डम् आह ।
विश्वास-प्रस्तुतिः
श्वभिर् आदयेद् राजा निहीनवर्णगमने स्त्रियं
प्रकाशम् ॥ २३।१४ ॥
मूलम्
श्वभिर् आदयेद् राजा निहीनवर्णगमने स्त्रियं
प्रकाशम् ॥ २३।१४ ॥
हरदत्तः
निहीनवर्णेन सह या मैथुनम् आचरति तां प्रकाशं सर्वेषाम् एव पश्यतां पर्षत्स्थानगतो राजा श्वभिर् आदयेत् खादयेत् । अत्र मनुः ।
भर्तारं लङ्घयेद् या तु जातिस्त्री गुणगर्विता ।
तां श्वभिः खादयेत् राजा संस्थाने बहुभिः स्थितः ॥ इति ।
वसिष्ठस् तु जातिविशेषेण विशेषम् आह:
शूद्रश् चेद् ब्राह्मणीम् अभिगच्छेत् तृणैर् वेष्टयित्वा शूद्रम् अग्नौ प्रास्य ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां खरम् आरोप्य महापथम् अनुसंव्राजयेत् पूता भवतीति विज्ञायते । वैश्यश् चेद् ब्राह्मणीम् अभिगच्छेल् लोहितदर्भैर् वेष्टयित्वा वैश्यम् अग्नौ प्रस्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां खरम् आरोप्य महापथम् अनुसंव्राजयेत् पूता भवतीति विज्ञायते । राजन्यश् चेद् ब्राह्मणीम् अभिगच्छेच् छरपत्रैर् वेष्टयित्वा राजन्यम् अग्नौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां खर्म् आरोप्य महापथम् अन्य्संव्राजयेत् पूता भवतीति विज्ञायते । एवं वैश्यो राजन्यां शूद्रश् च राजन्यवैश्ययोः । इति ।
अनुलोमेषु प्रतिलोमं गच्छत्सु व्याघ्र आह ।
वर्णानाम् अनुलोमानां परस्परसमागमे ।
व्युत्क्रमेण ततो राजा खादयेद् वानरैः स्त्रियम् ॥
शृगालैर् बुद्धिपूर्वं चेत् पुरुषो वधम् अर्हति ।
अयम् एवानुलोमानां स्वजातिव्युत्क्रमेष्व् इति ॥ इति ॥ २३।१४ ॥
विश्वास-प्रस्तुतिः
पुमांसं घातयेत् ॥ २३।१५ ॥
मूलम्
पुमांसं घातयेत् ॥ २३।१५ ॥
हरदत्तः
अनन्तरोक्ते विषये गन्ता पुमान् राज्ञा घातयितव्यः । वधप्रकारश् चानन्तरम् एव वसिष्ठवचनेन दर्शितः ॥ २३।१५ ॥
विश्वास-प्रस्तुतिः
यथोक्तं वा ॥ २३।१६ ॥
मूलम्
यथोक्तं वा ॥ २३।१६ ॥
हरदत्तः
लिङ्गोद्धार इत्यादि यथोक्तं वा दण्डप्रणयनं कर्तव्यम् । सप्रत्ययाप्रत्ययाभ्यासानभ्यासापेक्षो ऽयं विकल्पः ॥ २३।१६ ॥
विश्वास-प्रस्तुतिः
गर्दभेनावकीर्णी निरृतिं चतुष्पथे यजेत् ॥ २३।१७ ॥
मूलम्
गर्दभेनावकीर्णी निरृतिं चतुष्पथे यजेत् ॥ २३।१७ ॥
हरदत्तः
अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् ।
इति याज्ञवल्क्यः । स चतुष्पथे गर्दभेन पशुना निरृतिं यजेत् । अत्र मानवो विशेषः ।
अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।
पाकयज्ञविधानेन यजेत निरृतिं दिशि ॥ इति ।
वसिष्ठस् तु ।
ब्रह्मचारी चेत् स्त्रियम् उपेयाद् अरण्ये चतुष्पथे लौकिके ऽग्नौ रक्षोदैवतं गर्दभं पशुम् आलभेत, नैरृतं वा चरुं निर्वपेत् तस्य जुहुयात् कामाय स्वाहा, कामकामाय स्वाहा, निरृत्यै स्वाहा, रक्षोदेवताभ्यः स्वाहा । इति ॥ २३।१७ ॥
विश्वास-प्रस्तुतिः
तस्याजिनम् ऊर्ध्ववालं परिधाय लोहितपत्रः सप्त
गृहान् भैक्षं चरेत् कर्माचक्षाणः ॥ २३।१८ ॥
मूलम्
तस्याजिनम् ऊर्ध्ववालं परिधाय लोहितपत्रः सप्त
गृहान् भैक्षं चरेत् कर्माचक्षाणः ॥ २३।१८ ॥
हरदत्तः
एवं गर्दभेनेष्ट्वा तस्यैव गर्दभस्याजिनम् ऊर्ध्ववालं परिधाय लोहितपात्रः पाकेन लोहितं मृन्मयं पात्रं हस्ते गृहीत्वा कर्माचक्षाणो ऽवकीर्णिने भिक्षां देहीति ब्रुवाणः सप्त गृहान् भैक्षं चरेत् । सप्तसु गृहेषु यावल् लब्धं तावद् एवाशनम् । अलाभ उपवासः ॥ २३।१८ ॥
विश्वास-प्रस्तुतिः
संवत्सरेण शुध्येत् ॥ २३।१९ ॥
मूलम्
संवत्सरेण शुध्येत् ॥ २३।१९ ॥
हरदत्तः
संवत्सरम् एतद् व्रतं चरेच् छुद्धो भवति । अत्र मनुः ।
तेभ्यो लब्धेन भैक्षेण वर्तयन्न् एककालिकम् ।
उपस्पृशंस् त्रिषवणम् अब्देनैकेन शुध्यति ॥ इति ।
इदं च वार्षिकं श्रोत्रियस्य विप्रस्य वैश्यपत्न्यां द्रष्टव्यम् । आहतुः शङ्खलिखितौ: “गुप्तायां वैश्यायाम् अवकीर्णः संवत्सरं त्रिषवणम् अनुतिष्ठेत् क्षत्रियायां द्वे वर्षे ब्राह्मण्यां त्रीणि वर्षाणि” इति । गुप्तायां चेच् छ्रोत्रियपत्नीत्वादिगुणशालिन्याम् । अङ्गिराः ।
अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत् ।
चीरवासास् तु षण्मासांस् तथा मुच्येत किल्बिषात् ॥ इति ।
तद् अकामतो गौतमीयं कामविषयम् । पुनः शङ्खलिख्तौ:
स्वैरिण्यां वृषल्याम् अवकीर्णः सचैलं स्नात उदकुम्भं दद्याद् ब्राह्मणाय । वैश्यायां चतुर्थकालाहारो ब्राह्मणान् भोजयेद् यवभारं च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रम् उपोषितो घृतपात्रं दद्यात् । ब्रह्मण्यां षड्रात्रम् उपोषितो गां दद्यात् । गोष्व् अवकीर्णः प्राजापत्यं चरेत् । षण्डायाम् अवकीर्णः पलालभारं सीसमाषकं च दद्यात् । इति ।
इदं चावकीर्णप्रायश्चित्तं सर्वेषाम् एव त्रैवर्णिकब्रह्मचारिणां समानम् । तथा च शाण्डिल्यः ।
अवकीर्णी द्विजो राजा वैश्यश् चापि खरेण तु ।
इष्ट्वा भैक्षाशनो नित्यं शुध्यत्य् अब्दात् समाहितः ॥ इति ॥ २३।१९ ॥
विश्वास-प्रस्तुतिः
रेतःस्कन्दने भये रोगे स्वप्ने
ऽग्नीन्धनभैक्षचरणानि सप्तरात्रम्
अकृत्वाज्यहोमः समिधो वा रेतस्याभ्याम् ॥ २३।२० ॥
मूलम्
रेतःस्कन्दने भये रोगे स्वप्ने
ऽग्नीन्धनभैक्षचरणानि सप्तरात्रम्
अकृत्वाज्यहोमः समिधो वा रेतस्याभ्याम् ॥ २३।२० ॥
हरदत्तः
भये रोगे स्वप्ने वा यदि ब्रह्मचारिणो रेतः स्कन्देत् ततो रेतस्याभ्यां मन्त्राभ्याम् आज्यहोमः कर्तव्यः । समिधो वा । होम इत्य् उपसमस्तम् अपेक्ष्यते । एतत् तु भये रोग इत्यादि ब्रह्मचारिव्यतिरिक्तस्यापि । तथाग्नीन्धनं समिदाधानं भैक्षचरणं च सप्तरात्रम् अकृत्वा पूर्ववद् धोमः । रेतस्ये ऋचौ “पुनर् माम् ऐत्व् इन्द्रियम्” इति । “पुनर् मनः पुनर् आत्मा म आगात्” इत्य् एके । आश्वलायनेन तु “पुनर् माम् ऐत्व् इन्द्रियम्” इति, “इमे ये ऽधिष्ठयासो ऽग्नये” इति ।
भये रोगे तथा स्वप्ने सिक्त्वा शुक्रम् अकामतः ।
आदित्यम् अर्चयित्वा तु पुनर् माम् इत्य् ऋचं जपेत् ॥ इति ।
प्राजापत्यं सकृत्सेकविषयम् । गौतमीयम् अभ्यासविषयम् । हारीतः ।
यः कुर्याद् उपकुर्वाणः कामतो ऽकामतो ऽपि वा ।
तद् एव द्विगुणं कुर्याद् ब्रह्मचारी तु नैष्ठिकः ॥ इति ।
अत्र वसिष्ठः: “एतद् एव रेतसः प्रयत्नोत्सर्गे दिवा स्वप्ने च व्रतान्तरेषु चैवम्” इति । गर्दभं पशुम् आलभेत नैरृतं वा चरुं निर्वपेद् इति प्रकृतम् ।
वानप्रस्थो यतिश् चैव खण्डने सति कामतः ।
पराकत्रयसंयुक्तम् अवकीर्णिव्रतं चरेत् ॥
इति शाण्डिल्यः ।
पुंसि मैथुनम् आसेव्य यत्नोत्सर्गे च रेतसः ।
ब्रह्मचारी यथाभ्यासं स्नात्वाथ हविषा यजेत् ॥
पुंसि मैथुनम् आसाद्य वानप्रस्थो यतिस् तथा ।
कृच्छ्रं चान्द्रायणं चैव कृत्वा शुध्यति किल्बिषात् ॥
इति कण्वः ।
सूर्यस्य त्रीन् नमस्कारान् स्वप्ने सिक्त्वा गृही चरेत् ।
यतिश् चैव वनस्थश् च त्रिः कुर्याद् अघमर्षणम् ॥
इति काश्यपः ।
मैथुनं तु समासाद्य पुंसि योषिति वा पुनः ।
गोयाने ऽप्सु दिवा चैव स्वापे च स्नानम् आचरेत् ॥
इति मानवम् । गृहस्थस्य –
ऋतौ तु गर्भशङ्कित्वात् स्नानं मैथुनिनः स्मृतम् ।
अनृतौ तु यदा गच्छेच् छौचं मूत्रपुरीषवत् ॥
इत्य् अङ्गिराः । वृद्धवसिष्ठः ।
यस् तु पाणिगृहीतायाम् अस्ये कुर्वीत मैथुनम् ।
तस्य रेतसि तं मासं पितरस् तस्य शेरते ॥ इति ॥ २३।२० ॥
विश्वास-प्रस्तुतिः
सूर्याभ्युदितो ब्रह्मचारी तिष्ठेद् अहर् अभुञ्जानो
ऽभ्यस्तमितश् च रात्रिं जपन् सावित्रीम् ॥ २३।२१ ॥
मूलम्
सूर्याभ्युदितो ब्रह्मचारी तिष्ठेद् अहर् अभुञ्जानो
ऽभ्यस्तमितश् च रात्रिं जपन् सावित्रीम् ॥ २३।२१ ॥
हरदत्तः
यस् तु सूर्य उदयति स्वपिति स सूर्याभ्युदितो ब्रह्मचारी सर्वम् अहर् अभुञ्जानस् तिष्ठेत् । अभ्यस्तमितश् च रातिं सर्वाम् आसीत, “तिष्ठेद् अहनि रात्राव् आसीत” इति कृच्छ्रे दर्शनात् । जपन् सावित्रीम् इत्य् उभयत्र समानम् । ब्रह्मचारिग्रहणाद् गृहस्थादीनाम् अन्यत् प्रायश्चित्तम् । “आतमितः प्राणम् आयच्छेद् इत्य् एके” इत्य् आपस्तम्बीयं गृहस्थस्य । आह वसिष्ठः ।
वनस्थश् च यतिश् चैव सूर्येणाभ्युदितो यदि ।
ब्रह्मकूर्चाशिनौ भूत्वा जपेतां द्रुपदां त्व् अहः ॥ इति ।
अभ्यस्तम् इतयोर् अपीदम् एव । आह प्रजापतिः ।
पालाशं पद्मपत्रं वा ताम्रं वाथ हिरण्मयम् ।
गृहीत्वा सादयित्वा च ततः कूर्चं समारभेत् ॥
गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
शुक्रम् अपि ज्योतिर् असीत्य् आज्यं देवस्य त्वा कुशोदकम् ।
चतुर्दशीम् उपोष्याथ पौर्णमास्यां समाचरेत् ॥
गोमयद् द्विगुणं मूत्रं सर्पिर् दद्याच् चतुर्गुणम् ।
क्षीरम् अष्टगुणं देयं दधि पञ्चगुणं तथा ॥
स्थापयित्वाथ दर्भेषु पालाशैः पत्रकैर् अथ ।
तत् समुद्धृत्य होतव्यं देवताभ्यो यथाक्रमम् ॥
अग्नये चैव सोमाय सावित्र्या चैव मन्त्रतः ।
प्रणवेन तथा हुत्वा स्विष्टकृत् प्रणवेन तु ॥
एतद् ब्रह्मकृतं कूर्चं पवित्रं च तथैव च ।
एवं हुत्वा ततः शेषं पापं ध्यात्वा समाहितः ॥
आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु ।
उद्धृत्य प्रणवेनैव पिबेच् च प्रणवेन तु ॥
एतद् ब्रह्मकृतं कूर्चं मासि मासि चरेद् द्विजः ।
सर्वपापविशूद्धात्मा स्वर्गलोकं स गच्छति ॥
यत् त्वगस्थिगतं पापं देहे तिष्ठति देहिनाम् ।
ब्रह्मकूर्चो दहेत् सर्वं प्रदीप्ताग्निर् इवेन्धनम् ॥ इति ।
बुद्धिपूर्वे ऽबुद्धिपूर्वे साधारणम् इदम् । तथा च मनुः ।
तं चेद् अभ्युदियात् सूर्यः शयानं कामकारतः ।
निम्लोचेद् वाप्य् अविज्ञानाज् जपन्न् उपवसेद् दिनम् ॥ इति ।
दिनम् इत्य् उपलक्षणं निम्लोचने रात्रिम् उपवसेद् इति । अभयरोगस्य इति जाबालिवचनाद् भये रोगे च प्रायश्चित्तम् न भवति ॥ २३।२१ ॥
विश्वास-प्रस्तुतिः
अशुचिं दृष्ट्वादित्यम् ईक्षेत प्राणायामं कृत्वा ॥ २३।२२ ॥
मूलम्
अशुचिं दृष्ट्वादित्यम् ईक्षेत प्राणायामं कृत्वा ॥ २३।२२ ॥
हरदत्तः
अशुचिश् चण्डालादिः । तं दृष्ट्वा प्राणायामम् एकं कृत्वा सूर्यम् ईक्षेत । जपादिनियमकाल इदं ब्रह्मचारिणः ।
आचम्य प्रयतो नित्यं जपेद् अशुचिदर्शने ।
सौर्यान् मन्त्रान् यथोत्साहं पावमानीश् च शक्ततः ॥
इति मानवं नैष्ठिकादीनाम् । अशुचिदर्शने द्विजः प्रणवं जपेद् इति जाबालिगृह्यवचनं गृहस्थविषयम् । अशुचिदर्शन आदित्यदर्शनं ब्राह्मणदर्शनं गवाम् अग्नेर् वेत्य् औशनसं नियमकालाद् अन्यत्र । जाबालिगृह्ये द्विजग्रहणाच् छूद्रस्य न विधिर् न प्रतिषेधः ॥ २३।२२ ॥
विश्वास-प्रस्तुतिः
अभोज्यभोजने ऽमेध्यप्राशने वा
निष्पुरीषीभावः ॥ २३।२३ ॥
मूलम्
अभोज्यभोजने ऽमेध्यप्राशने वा
निष्पुरीषीभावः ॥ २३।२३ ॥
हरदत्तः
नित्यम् अभोज्यं केशकीटावपन्नम् इत्य् आरभ्याभोज्यान्य् उक्तानि । तानि च बहुप्रकाराणि । जातिदुष्टानि लशुनादीनि । कालदुष्टानि पर्युषितादीनि । परिग्रहदुष्टान्य् उत्सृष्टादीनाम् अन्नानि । संसर्गदुष्टानि केशकीटाद्युपहतानि । क्रियादुष्टान्य् आचमनोत्थानव्यपेतादीनि । तेषाम् अभोज्यानां भोजने च । मेध्यं पवित्रम् । अमेध्यम् अपरिशुद्धं स्थानपात्रपाकस्पर्शप्रदात्रादिना । तेषाम् अमेध्यानां प्राशने च निष्पुरीषीभावः कार्यः । यथा निष्पुरीषम् उदरं भवति तथा कार्यम् ॥ २३।२३ ॥
हरदत्त-प्रस्तावः
तत् कथम् ।
विश्वास-प्रस्तुतिः
त्रिरात्रावरम् अभोजनम् ॥ २३।२४ ॥
मूलम्
त्रिरात्रावरम् अभोजनम् ॥ २३।२४ ॥
हरदत्तः
तिस्रो रात्रीर् न किंचिद् भुञ्जीत । न किंचित् खादयेत् । न किंचित् पिबेत् । एवं निष्पुरीषीभावो ’वाप्यते । अवरग्रहणाच् चतूरात्रादेर् अपि भावः (लाभः) । परमेण सप्तरात्रम् । तथा च आपस्तम्बः: “अभोज्यं भुक्त्वा नैष्पुरीष्यं तत् सप्तरात्रेणावाप्यते” इति ॥ २३।२४ ॥
विश्वास-प्रस्तुतिः
सप्तरात्रं वा स्वयंशीर्णान्य् उपभुञ्जानः
फलान्य् अनतिक्रामन् ॥ २३।२५ ॥
मूलम्
सप्तरात्रं वा स्वयंशीर्णान्य् उपभुञ्जानः
फलान्य् अनतिक्रामन् ॥ २३।२५ ॥
हरदत्तः
शुध्यतीति शेषः । अथ वा नोपवसेत् किं तु स्वयंशीर्णानि स्वयंपतितानि फलानि भुञ्जानो ऽनतिक्रामन्न् अस्वादुफलोपलम्भे तदतिक्रमेण स्वादुफलान्तरग्रहणार्थम् अगच्छन् सप्तरात्रम् एवं कुर्वञ् शुध्यति ॥ २३।२५ ॥
विश्वास-प्रस्तुतिः
प्राक् पञ्चनखेभ्यश् छर्दनं घृतप्राशनं
च ॥ २३।२६ ॥
मूलम्
प्राक् पञ्चनखेभ्यश् छर्दनं घृतप्राशनं
च ॥ २३।२६ ॥
हरदत्तः
तत्रैवाभोज्यप्रकरणे पञ्चनखाश् च शल्यकेत्यादिभिर् अष्टभिः सूत्रैर् यान्य् अभोज्यान्य् उक्तानि तेभ्यः प्राग् यान्य् अभोज्यानि नित्यम् अभोज्यम् इत्यादिभिर् एकोनविंशतिसूत्रैर् उक्तानि तेषु भुक्तेषु छर्दयित्वा घृतं प्राश्य विशुध्यति । एवं च पूर्वकं प्रायश्चित्तद्वयं स्वभावदुष्टेषु पञ्चनखादिष्व् एवावतिष्ठते । अत्र विष्णुः: “मलानां मज्जानाम् अन्यतरस्य प्राशने चान्द्रायणं कुर्याल् लशुनपलाण्डुकगृञ्जनतज्जविड्वराहग्रामकुक्कुटनरमांस-भक्षणे च सर्वेष्व् एतेषु द्विजातीनां प्रायश्चित्तं पुनः संस्कारः । बृहस्पतिः ।
अलेह्यानाम् अपेयानाम् अभक्ष्याणां च भक्षणे ।
रेतोमूत्रपुरीषाणां शुद्धिश् चान्द्रायणं स्मृतम् ॥
अङ्गिराः ।
अलेह्यानाम् अपेयानाम् अभक्ष्याणां च भक्षणे ।
रेतोमूत्रपुरीषाणाम् ऋषिकृच्छ्रो विशोधनम् ॥
पद्मोदुम्बरबिल्वानां कुशपर्णपलाशयोः ।
एतेषाम् उदकं पीत्वा तप्तेनैव विशुध्यति ॥
काश्यपः:
लशुनपलाण्डुगृञ्जनकुक्कुटभक्षणे मेदःशुक्रपाने ऽयाज्ययाजने ऽभोज्यभोजने ऽभक्ष्यभक्षणे ऽगम्यागमने चैवं प्रायश्चित्तं ब्राह्मणेभ्यो निवेद्य षड्रात्रोपोषितश् चीर्णान्ते प्राच्याम् उदीच्यां दिशि गत्वा यत्र ग्राम्यपशूनां शब्दो न श्रूयते तस्मिन् देशे ऽग्निं प्रज्वाल्य ब्रह्मासनम् आस्तीर्य तत्प्रणीतेन विधिना पुनः संस्कारम् अर्हति ।
सुमन्तुः:
लशुनपलाण्डुगृञ्जनभक्षणे वीरश्राद्धे सूतिकाभोज्यान्नमधुमांसमूत्र-रेतो’मेध्याभक्ष्यभक्षणे सावित्र्यष्टसहस्रेण मूर्ध्नि संपातान् अवनयेत् । एतान्य् एवातुरस्य भिषिक्क्रियायाम् अप्रतिषिद्धानि भवन्ति । यानि चान्यान्य् एवंप्रकाराणि तेष्व् अप्य् अदोषः ।
पलाण्डुं लशुनं चैव गृञ्जनं कवकं तथा ।
चत्वार्य् अज्ञानतो जग्ध्वा तप्तकृच्छ्रं चरेद् द्विजः ॥
मनुस् तु ।
छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या भुक्त्वा भवेद् द्विजः ॥
अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥
संवत्सरस्यैकम् अपि चरेत् कृच्छ्रं द्विजोत्तमः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥
शातातपः: “लशुनपलाण्डुगृञ्जनकुसुम्भशरकवकामेध्यभक्षणे तप्तकृच्छ्रः” । विष्णुः: “वृन्ताककवकाशने सान्तपनम्” । पैठीनसिः: “लशुनपलाण्डुगृञ्जनभक्षणे प्राजापत्यम्” । देवलः: “अभक्ष्यभक्षणे कृच्छ्रम्” । पैठीनसिः: “अभक्ष्यभक्षणे तप्तकृच्छ्रम्” । संवर्तः ।
अभोज्यभोजनं कृत्वा ब्रह्मक्षत्रविशां गणः ।
गोमूत्रयावकाहारः सप्तरात्रेण शुध्यति ॥
बृहस्पतिः।
पीत्वा शुक्लकषायाणि भुक्त्वा चान्नं विगर्हितम् ।
भवेद् अप्रयतो विप्रः कर्मणः स्याद् अधोगतिः ॥
विष्णुः: “दधिवर्जितानि सर्वशुक्लानि चात्र प्रास्योपवसेत्” । इति प्रकृतम् । शङ्खः ।
लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस् तथा ।
भुक्त्वा ऋबीसपक्वं च त्रिरात्रं तु व्रती भवेत् ॥
शङ्खलिखितौ: “सर्वासां द्विस्तनीनां क्षीरप्राशने ऽजावर्जम् एतद् एव । अत्र षड्रात्रम् अभोजनं चान्द्रायणं च” इति प्रकृतम् । अनिर्दशाविगोक्षीरप्राशने तदहर् अभोजनं सचैलस्नानं च । शातातपः ।
उष्ट्रीक्षीरम् अविक्षीरम् अन्नं च मृतिसूतके ।
चोरस्यान्नं नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत् ॥
पैठीनसिः: “अविखरोष्ट्रमानुषदुग्धप्राशने पुनर् उपनयनं प्राजापत्यं च” । बौधायनः: “अवेः पयःपाने कृच्छ्रो ऽन्यत्र गव्यात् । गवि त्रिरात्रोपवासः” । शङ्खः ।
अनिर्दशाया गोः क्षीरम् आजं माहिषम् एव च ।
गोश् च क्षीरं विवत्सायाः पीत्वा पक्षव्रतं चरेत् ॥
क्षीराणि यान्य् अपेयानि तद्विकाराशने बुधः ।
सप्तरात्रव्रतं कुर्याद् यद् एतत् परिकीर्तितम् ॥
सुमन्तुः: “एकशफोष्ट्रस्यन्दिन्यविस्त्रीक्षीरप्राशने गोमहिष्यजानां चानिर्दशाहानां क्षीरप्राशने त्रिरात्रं यावकस् त्रिषवणं च” । विष्णुः: “गो’जाविमहिषीवर्जं सर्वपयांसि च तान्य् अप्य् अनिर्दशाहानि स्यन्दिनीसंधिनीविवत्साक्षीरं चामेध्यभुजश् च क्षीरं प्राश्योपवसेत्” इति प्रकृतम् । हारीतः: “अनुक्तानां सत्त्वानां भक्षणे ऽतिकृच्छ्रो ग्राम्याणां चान्द्रायणम्” । यमः ।
वराहैकशफानां च काककुक्कुटयोस् तथा ।
क्रव्यादानां च सर्वेषाम् अभक्ष्या ये च कीर्तिताः ॥
मांसमूत्रपुरीषाणि प्राश्य गोमांसम् एव च ।
श्वगोमायुकपीनां च तप्तकृच्छ्रं विशोधनम् ॥
उपोष्य द्वादशाहं वा कूष्माण्डैर् जुहुयाद् घृतम् ॥
वसिष्ठः: “श्वकुक्कुटग्राम्यसूकरकाकगृध्रभासवायसपारावतमानुषकाकोलूकानां मांसादने सप्तरात्रम् उपवासो निष्पुरीषीभावो घृतप्राशनं पुनः संस्कारश् च कार्यः” ।
बिडालकाकाखूच्छिष्टं जग्ध्वा च नकुलस्य च ।
केशकीटावपन्नं च पिबेद् ब्रह्मसुवर्चलाम् ॥
केशकीटावपन्नं च स्त्रीभिः स्वादंस् तथैव च ।
श्वोदक्याभ्यां च संस्पृष्टं पञ्चगव्येन शुध्यति ॥
यमः ।
माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् ।
एतानि हस्तदत्तानि भुक्त्वा सान्तपनं चरेत् ॥
शङ्खः ।
एकपङ्क्त्युपविष्टानां विषमं यः प्रयच्छति ।
यश् चैवाश्नात्य् अयं सर्वः कुर्याद् ब्रह्महणि व्रतम् ॥
यमः ।
ब्राह्मणक्षत्रियविशां शूड्राणां सहभोजनम् ।
प्राजापत्यं तप्तकृच्छ्रम् अतिकृच्छ्रं तथैव च ॥
चान्द्रायणम् इति प्रोक्तं प्रायश्चित्तं क्रमेण तु ॥
शातातपः ।
यो ऽगृहीत्वा विवाहाग्निं गृहस्थ इति मन्यते ।
अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः ॥
वृथापाकस्य भुक्त्वान्नं प्रायश्चित्तं चरेद् द्विजः ।
प्राणायामं त्रिर् अभ्यस्य घृतं प्राश्य विशुध्यति ॥
अङ्गिराः ।
ब्रह्मक्षत्रविशां भुक्त्वा न दोषो ऽस्त्य् अग्निहोत्रिणाम् ।
सूतके शाव आशौचे अस्थिसंचयनात् परम् ॥
चाण्डालः श्वपचः क्षत्ता सूतो वैदेहकस् तथा ।
मागधायोगवौ चैव सप्तैते ऽन्त्यावसायिनः ॥
अन्त्यावसायिनाम् अन्नम् अश्नीयाद् यस् तु कामतः ।
स तु चान्द्रायणं कुर्यात् तप्तकृच्छ्रम् अथापि वा ॥
यमः ।
ब्राह्मणान्नं ददच् छूद्रः शूद्रान्नं ब्राह्मणो ददत् ।
उभाव् एताव् अभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥ २३।२६ ॥
विश्वास-प्रस्तुतिः
आक्रोशानृतहिंस्रासु त्रिरात्रं परमं तपः ॥ २३।२७ ॥
मूलम्
आक्रोशानृतहिंस्रासु त्रिरात्रं परमं तपः ॥ २३।२७ ॥
हरदत्तः
महापातकोपपातकयुक्ताद् अन्यत्राक्रोशे सतासता वा दोशेणातिवादे साक्ष्यादिविषयाद् अन्यत्रानृते तत्रोक्तत्वात् । प्राणिभ्यो ऽन्यत्र हिंसायाम्, प्राणिषूक्तत्वात् । एतेषु निमित्तेषु परमं तपः परमेण त्रिरात्रम् अनशनं ब्रह्मचर्यं कर्तव्यम् । परमग्रहणाद् एकरात्रादेर् अपि लाभः । तत्र ब्राह्मण आक्रोशे त्रिरात्रम्, क्षत्रिय द्विरात्रम्, वैश्य एकरात्रम्, शूद्रे ऽहर् इति व्यवस्था ।
अनृते ऽप्य् एवम् । फलाफलाद्यपेक्षया ब्राह्मणादिस्वामिकेषु वृक्षादिष् हिंसायाम् अप्य् एवम् । अत्र प्रजापतिः ।
अनृते सोमपः कुर्यात् त्रिरात्रं परमं तपः ।
पूर्णाहुतिं वा जुहुयात् सप्त ते अग्न इत्य् ऋचा ॥
इति ।
अनृतोक्तौ ष्ठीवने च दन्तस्पर्शन एव च ।
पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥ इति ।
इदं परिहासादिनिमित्तानृतविषयम् । हारीतः ।
प्रत्याश्रुत्यानृतं भ्रूतान् मिथ्या सत्यम् अथापि वा ।
स तप्तकृच्छ्रसहितं चरेच् चान्द्रायणव्रतम् ॥
प्रजापतिः ।
मांसं भुक्त्वा ब्रह्मचारी पुनः संस्कारम् अर्हति ।
अभ्यास ऐन्दवं चैव नैष्ठिको द्विगुणं चरेत् ॥
वनस्थस् त्रिगुणं कुर्याद् यतिः कुर्याच् चतुर्गुणम् ।
मांसाशने ऽनृतोक्तौ च शवनिर्हरणे तथा ॥ इति । २३।२७ ॥
हरदत्त-प्रस्तावः
आक्रोशे विशेषः ।
विश्वास-प्रस्तुतिः
सत्यवाक्ये वारुणीमानवीभिर् होमः । २३।२८ ॥
मूलम्
सत्यवाक्ये वारुणीमानवीभिर् होमः । २३।२८ ॥
हरदत्तः
आक्रोशे सत्यवाक्ये सति वारुणीभिर् मानवीभिश् चाज्यहोमः कर्तव्यः । त्रिरात्रं परमम् इत्य् एव । “यत् किंचेदम्,” “इमं मे वरुण,” “तत् त्वा यामि,” “अवते हेड” इति वारुण्यः । अग्निर् उक्थे पुरोहित इत्य् आरभ्याध्यायपरिसमाप्तेर् मानव्य ऋच एकोनषष्टिर् मनुना दृष्टाः । तास्वन्त्याश् चतस्रो मक्षू देववत् इत्याद्यास् तैत्तिरीयके सौमारौद्य मिष्टौ धाय्यत्वेन विनियुक्ताः । असाव् आदित्य इत्य् अस्मिन्न् अनुवाके मानवी ऋचौ धाय्ये कुर्याद् इति । सूत्रकारो ऽप्य् आह: “मानवी ऋचा धाय्ये मक्षू देववत् इत्य् एतासां द्वे इति । तत्रान्त्याभिर् आभिश् चतसृभिर् होम इत्य् एके । अन्ये तु ऋग्वेदपाठिताभिः सर्वाभिर् ऋग्भिर् इति ॥ २३।२८ ॥
विश्वास-प्रस्तुतिः
विवाहमैथुननर्मार्तसंयोगेष्व् अदोषम्
एक ऽनृतम् ॥ २३।२९ ॥
मूलम्
विवाहमैथुननर्मार्तसंयोगेष्व् अदोषम्
एक ऽनृतम् ॥ २३।२९ ॥
हरदत्तः
विवाहकाले कन्यावरयोर् असत्स्व् अपि गुणेषु कथितेष्व् इदं ते दास्यामीति प्रतिश्रुत्याप्रदाने च न दोशः । तथा मैथुनसंयोग इदं ते दास्यामीत्य् उक्त्वा मैथुने कृते तस्यादाने ऽपि न दोषः । नर्म परिहासस् तत्संयोगे ऽनृतवचने न दोषः । तद् यथा भोक्तुकामं गृहम् आगतं श्यालादिकं प्रत्युच्यते – एहि मन्य् ओदनं भोक्ष्यसे भुक्तः सो ऽतिथिभिर् इत्य् एवंप्रायम् । आर्तसंयोग आर्तस्य दुःखोपशमायानृतवचने न दोषः । तेनैतेषु निमित्तेष्व् अनृतवचनेषु न प्रायश्चित्तम् इति ॥ २३।२९ ॥
विश्वास-प्रस्तुतिः
न तु खलु गुर्वर्थेषु ॥ २३।३० ॥
मूलम्
न तु खलु गुर्वर्थेषु ॥ २३।३० ॥
हरदत्तः
गुरुप्रयोजनेषु विवाहादिष्व् अप्य् अन्र्तं न वक्तव्यम् ॥ २३।३० ॥
हरदत्त-प्रस्तावः
कस्माद् यतः ।
विश्वास-प्रस्तुतिः
सप्त पुरुषान् इतश् च परतश् च हन्ति मनसापि
गुरोर् अनृतं वदन्न् अल्पेष्व् अप्य् अर्थेषु ॥ २३।३१ ॥
मूलम्
सप्त पुरुषान् इतश् च परतश् च हन्ति मनसापि
गुरोर् अनृतं वदन्न् अल्पेष्व् अप्य् अर्थेषु ॥ २३।३१ ॥
हरदत्तः
इत इत्य् आत्मानं निर्दिशति । आत्मानम् आरभ्य सप्त पुरुषान् पुत्रपौत्रादीन् परतश् च सप्त पुरुषान् पितृपितामहादीन् हन्ति पीडयति पापेन योजयतीति । मनसापि गुरोर् अनृतं चिन्तयन्न् अल्पेष्व् अपि प्रयोजनेषु किम् अङ्ग महत्सु वाचा वदन्न् इति ॥ २३।३१ ॥
विश्वास-प्रस्तुतिः
अन्त्यावसायिनीगमने कृच्छ्राब्दः ॥ २३।३२
मूलम्
अन्त्यावसायिनीगमने कृच्छ्राब्दः ॥ २३।३२
हरदत्तः
अन्त्यावसायिनीनां गमने मैथुनाचरणे कृच्छ्राब्दः प्रायश्चित्तं संवत्सरं प्राजापत्यविधिनावस्थानम् । बुद्धिपूर्व इदम् ॥ २३।३२ ॥
विश्वास-प्रस्तुतिः
अमत्या द्वादशरात्रः ॥ २३।३३ ॥
मूलम्
अमत्या द्वादशरात्रः ॥ २३।३३ ॥
हरदत्तः
कृच्छ्रे प्रकृते द्वादशरात्रग्रहणं पराकोपसंग्रहणार्थम् । तथा च –
अन्त्याजानां तु गमने भोजने च प्रमापणे ।
पराकेण विशुद्धः स्याद् भगवान् अङ्गिराब्रवीत् ॥ इति ।
इदम् अपि रेतःसेकात् प्राग् एवोपरतस्य । ऊर्ध्वं तु वासिष्ठम्: “द्वादशरात्रम् अब्भक्षो द्वादशरात्रम् उपवसेद् अश्वमेधावभृथं वा गच्छेत् । एतेन चाण्डालीव्यवायो व्याख्यातः” इति ॥ २३।३३ ॥
विश्वास-प्रस्तुतिः
उदक्यागमने त्रिरात्रस् [त्रिरात्रः] ॥ २३।३३ ॥
मूलम्
उदक्यागमने त्रिरात्रस् [त्रिरात्रः] ॥ २३।३३ ॥
हरदत्तः
उदक्यागमने सति ब्रह्मचर्यानशनदिना प्रायश्चित्तेन त्रिरात्रो गमयितव्यः । बुद्धिपूर्वे सकृद्गमन इदम् । अभ्यासे मानवम् ।
अमानुषीषु गोवर्जम् उदक्यायाम् अयोनिषु ।
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ इति ।
अबुद्धिपूर्वे सकृद्गमने शातातपोक्तम्: “अनुदकमूत्रपुरीषकरणे च काकस्पर्शने सचैलस्नानं महाव्याहृतिभिर् होमश् च । रजस्वलागमने चैवम्” इति । अभ्यासे वासिष्ठम्: “रजस्वलागमने शुक्लम् ऋषभं दद्यात् कृष्णपिङ्ग[ल?]म्” इति । [द्विउर्क्तिस् उक्तार्था] ॥ २३।३३ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
तृतीयप्रश्ने त्रयोविंशो ऽध्यायः