अथ द्वाविंशो ऽध्यायः
एवं प्रायश्चित्तनिमित्तान्य् उक्तानि । अथ प्रायश्चित्तान्य् उच्यन्ते ।
विश्वास-प्रस्तुतिः
प्रायश्चित्तम् ॥ २२।१ ॥
मूलम्
प्रायश्चित्तम् ॥ २२।१ ॥
हरदत्तः
अधिकारो ऽयम् । निश्चित्य तपसो ऽनुष्ठानं प्रायश्चित्तम् । तथा च अङ्गिराः ।
प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपोनिश्चयसंयोगात् प्रायश्चित्तम् इति स्मृतम् ॥ इति ॥ २२।१ ॥
विश्वास-प्रस्तुतिः
अग्नौ सक्तिर् ब्रह्मघ्नस् त्रिर् अवच्छातस्य ॥ २२।२ ॥
मूलम्
अग्नौ सक्तिर् ब्रह्मघ्नस् त्रिर् अवच्छातस्य ॥ २२।२ ॥
हरदत्तः
सक्तिः सङ्गः पतनम् । अवच्छातो ऽवशीर्णो भक्तत्यागेन कृशीभूतः । ब्रह्महा भक्तत्यागेन कृशो भूत्वाग्नौ त्रिः पतेद् उत्थायोत्थाय । इदम् अस्य प्रायश्चित्तम् । अत्र मानवो विशेषः ।
प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः ॥ इति ।
काठकश्रुतिः: “अनशनकर्शितो ऽग्निम् आरोहेत्” इति । नेदं मरणान्तिकं त्रिर् इति नियमात् । त्रिः पतने जीवन्न् अप् शूध्यतीति ॥ २२।२ ॥
विश्वास-प्रस्तुतिः
लक्ष्यं वा स्याज् जन्ये शस्त्रभृताम् ॥ २१।३ ॥
मूलम्
लक्ष्यं वा स्याज् जन्ये शस्त्रभृताम् ॥ २१।३ ॥
हरदत्तः
जन्यं युद्धम् । शस्त्रभृत इष्वासाः । लक्ष्यम् इति वचनाद् युद्ध इष्वासानाम् इषून् अस्यतां लक्ष्यं भूत्वा तिष्ठेत् । तैर् विद्धो जीवन् मृतो वा शुध्यति । याज्ञवल्क्यः ।
संग्रामे वा हतो लक्ष्यभूतः शुद्धिम् अवाप्नुयात् ।
मृतकल्पः प्रहारार्तो जीवन्न् अपि विशुध्यति ॥ इति ॥ २१।३ ॥
विश्वास-प्रस्तुतिः
खट्वाङ्गकपालपाणिर् वा द्वादश संवत्सरान्
ब्रह्मचारी भैक्षाय ग्रामं प्रविशेत्
कर्माचक्षाणः ॥ २२।४ ॥
मूलम्
खट्वाङ्गकपालपाणिर् वा द्वादश संवत्सरान्
ब्रह्मचारी भैक्षाय ग्रामं प्रविशेत्
कर्माचक्षाणः ॥ २२।४ ॥
हरदत्तः
खट्वाङ्गं पाशुपतानां प्रसिद्धम् । कपालं स्वव्यापादितस्य ब्राह्मणस्य शिरः कपालम् । ते पाण्योर् यस्य स खट्वाङ्गकपालपाणिः । खट्वाङ्गं दक्षिणे पाणौ कपालं सव्ये भिक्षार्थं पानीयपानार्थं भोजनार्थं च । तथा आपस्तम्बः: “पुरुषशिरः प्रतिपानार्थम् आदाय खट्वाङ्गं दण्डार्थम्” इति । मनुस् तु “कृत्वा शवशिरोध्वजम्” इति । तस्मिन् पक्षे खट्वाङ्गस्याग्रे ध्वजः । तन्मूले शवशिरः । भिक्षाचरणं तु लोहितेन खण्डशरावेण आपस्तम्बीयदर्शनात् । एवंभूतो भैक्षाय ग्रामं प्रविशेत् । एतावान् अस्य ग्रामे प्रवेशो ऽन्यद्दारण्ये । भैक्षं च कर्माचक्षाणश् चरेत् ।
वेश्मनो द्वानि तिष्ठामि भिक्षार्थी ब्रह्मघातकः ।
इति पराशरः । द्वादश संवत्सरान् एवं चरन् ब्रह्मचारी भवेत् । स्त्रीषु न प्रसजेत् । “भिक्षाचरणे सप्तागाराण्य् असंकल्पितानि” इत्य् आपस्तम्बः । संवर्तस् तु ।
भिक्षायै प्रविशेद् ग्रामं वन्यैर् यदि न जीवति । इति ।
“एककालाहारः” इति वसिष्ठः ॥ २२।४ ॥
विश्वास-प्रस्तुतिः
पथो ऽपक्रामेत् संदर्शनाद् आर्यस्य ॥ २२।५ ॥
मूलम्
पथो ऽपक्रामेत् संदर्शनाद् आर्यस्य ॥ २२।५ ॥
हरदत्तः
आर्यस् त्रैवर्णिकस् तस्मिन् दृष्टे पथो ऽपक्रामेद् अपयायात् । अत्र व्याघ्रः ।
चाण्डालं पतितं दृष्ट्वा दूरतः परिवर्जयेत् ।
गोवालव्यजनाद् अर्वाक् सचैलं स्नानम् आचरेत् ॥ इति ।
शूद्रो ऽपि स्पर्शं वर्जयेत् । यथाह लौगाक्षिः ।
महापातकिसंस्पर्शे वर्णानां स्नानम् उच्यते ।
अस्नात्वा भोजने चैव सप्तरात्रं समाविशेत् ॥
त्रिरात्रं स्याद् अमत्या चेच् छङ्खपुष्पीशृतं पयः ।
एवम् आर्तविचण्डालशवानाम् अपि कीर्तयेत् ॥ इति ॥ २२।५ ॥
विश्वास-प्रस्तुतिः
स्थानासनाभ्यां विहरन् सवनेषूदकोपस्पर्शी
शुध्येत् ॥ २२।६ ॥
मूलम्
स्थानासनाभ्यां विहरन् सवनेषूदकोपस्पर्शी
शुध्येत् ॥ २२।६ ॥
हरदत्तः
तिष्ठेद् अहनि रात्राव् आसीत यथाशक्ति प्रातर् मधन्दिने सायम् इति स्वनेषु त्रिसंध्यम् उदकोपस्पर्शी स्यात् स्नायात् । एवं द्वादश् वर्षाणि चरन्न् अन्ते शुध्येत् । स्नानविधानाद् एव तदन्तर्भूतमन्त्रादिप्राप्तिर् इति गम्यते । शुचिना कर्तव्यम् इति च सर्वकर्मसाधारण्यम् । अतः संध्योपासनम् अप्य् अस्य भवति,
संध्याहीनो ऽशुचिर् नित्यम् अनर्हः सर्वकर्मसु ।
यत् किंचित् कुरुते कर्म न तस्य फलभाग् भवेत् ॥
इति दक्षस्मरणात् । द्विजातिकर्म्भ्यो हानिः पतनम् इत्य् अनेन तु प्रायश्चित्तव्रतचर्यानङ्गभूतानां कर्मणां हानिर् न सर्वेषाम् । अत्र च यस्य द्वे ब्रह्महत्ये, स चतुर्विंशतिवर्षाणि व्रतं चरेत् । यस्य तिस्रः, स षट्त्रिंशतं न पुनर् देहकालकर्त्रैक्यात् प्रायश्चित्तस्य तन्त्रता । यस्य चतस्रो, न तस्येह लोके निष्कृतिः । एतद् एव व्रतम् ओत्तमाद् उच्छ्वासाच् चरेत् । तथा च मनुः ।
विधेः प्राथमिकाद् अस्माद् द्वितीये द्विगुणं चरेत् ।
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ॥ इति ।
याज्ञवल्क्यः ।
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत् ॥ इति ॥ २२।६ ॥
विश्वास-प्रस्तुतिः
प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य ॥ २२।७ ॥
मूलम्
प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य ॥ २२।७ ॥
हरदत्तः
यदि चोरव्याघ्रादिभिः प्रमाप्यमाणस्य ब्राह्मणस्य तन्निमित्तः प्राणलाभो भवति तदा शुध्येत् । एकस्य छिन्नाः प्राणाः अपरस्य दत्ताः को न्व् अत्र विशेषः । अनेनैव न्यायेन सर्वेषाम् एव हनने तज्जातीयस्य तद्धेतुके प्राणलाभे शुद्धिर् द्रष्टव्या ॥ २२।७ ॥
विश्वास-प्रस्तुतिः
द्रव्यापचये त्र्यवरं प्रतिराद्धः ॥ २२।८ ॥
मूलम्
द्रव्यापचये त्र्यवरं प्रतिराद्धः ॥ २२।८ ॥
हरदत्तः
ब्राह्मणस्येति वर्तते । ब्राह्मणस्य द्रव्ये चोरादिभिर् अपचीयमाने ऽपह्रियमाणे तस्य प्रत्यानयनाय चोरादिसमीपं गतस् तैः शस्त्रादिभिः क्षतो वर्जि(तो ऽवर्जि)तः सकृत्, पुनः पुनश् चैवं त्रिवारान् न्यानं (त्रिवारन्यूनं) प्रतिराद्धो ऽभियुक्तः सन्न् अप्रत्यानीते ऽपि द्रव्ये शुध्येत् । प्रत्यानीते तु सकृत् प्रयोगे ऽपि शुध्येत् ।
त्र्यवरं प्रतिराद्धो वा सर्वस्वम् अवजित्य च ।
इति मनुः । अनेनैव न्यायेन स्वद्रव्यप्रदानेनापि शुद्धिर् ज्ञेया । तथा च मनुः ।
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ।
धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥ इति ॥ २२।८ ॥
याज्ञवल्क्यस् तु ।
पात्रे धनं वा पर्याप्तं दत्वा शुद्धिम् अवाप्नुयात् ।
आदातुश् च विशुद्ध्यर्थम् इष्टिर् वैश्वानरी स्मृता ॥ इति ॥
विश्वास-प्रस्तुतिः
अश्वमेधावभृथे वा ॥ २२।९ ॥
मूलम्
अश्वमेधावभृथे वा ॥ २२।९ ॥
हरदत्तः
स्नात्वेति शेषः । परकीयस्याश्वमेधस्यावभृते स्वयं स्नात्वा वा शुध्येत् । प्राणलाभ इत्यादिसूत्रेषु वाशब्दो विकल्पार्थः । अत्र मानवो विशेषः ।
शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे ।
स्वम् एनो ऽवभृते स्नात्वा हयमेधे विमुच्यते ॥
भूमिदेवा ब्राह्मणा ऋत्विजः । नरदेवो राजा यजमानः । तेषां समवाये स्वम् एनः शिष्ट्वा विख्याप्य ॥ २२।९ ॥
विश्वास-प्रस्तुतिः
अन्ययज्ञे ऽप्य् अग्निष्टुदन्तश् चेत् ॥ २२।१० ॥
मूलम्
अन्ययज्ञे ऽप्य् अग्निष्टुदन्तश् चेत् ॥ २२।१० ॥
हरदत्तः
अश्वमेधाद् अन्ययज्ञे ऽप्य् अवभृते स्नात्वा शुध्येत् । किम् अविशेषेण । न । तस्य चेद् अन्तर् मध्ये ऽग्निष्टुन्नामैकाहो भवति । पञ्चदशरात्रादेर् ग्रहणम् । अपर आह – अग्निष्टुदन्तो ऽग्निष्टुत्समाप्तिको भवतीति । अत्र पक्षे सर्वमेधादेर् ग्रहणम् । अत्र च शुध्येद् इति द्वादशवार्षिकम् उपसंहृत्य विधानाद् वाग्रहणाच् च सर्वाण्य् एतानि स्वतन्त्राणि वैकल्पिकानि प्रयोजकानि प्रयोजकादिविषयाणि वा द्रष्टव्यानि । अन्ये तु द्वादशवार्षिकप्रवृत्तस्येत्य् आहुः । तथा च शङ्खो “द्वादशे वर्षे शुद्धिम् आप्नोति” इत्य् अभिधायाह: “अन्तराले वा ब्राह्मणं मोचयित्वा गवां वा द्वादशानां परित्राणात्” इति । वाशब्दस् तु परस्परापेक्षया विकल्पार्थः
॥ २२।१० ॥
विश्वास-प्रस्तुतिः
सृष्टश् चेद् ब्राह्मणवधे ऽहत्वापि ॥ २२।११ ॥
मूलम्
सृष्टश् चेद् ब्राह्मणवधे ऽहत्वापि ॥ २२।११ ॥
हरदत्तः
सर्ग उत्साहो निश्चयश् च । तद्वान् सृष्टः । यदि ब्राह्मणवधे सृष्टो भवति केनचिद् दैवाद् वानिवारितः सो ऽहत्वापि ब्रह्महा भवति । अतस् तस्याप्य् अनन्तरोक्तेषु प्रायश्चित्तेषु यल् लघु तद् भवति ॥ २२।११ ॥
विश्वास-प्रस्तुतिः
आत्रेय्याश् चैवम् ॥ २२।१२ ॥
मूलम्
आत्रेय्याश् चैवम् ॥ २२।१२ ॥
“ऋतुस्नाताम् आत्रेयीम् आहुः । तत्र यद् अपत्यं भवति” इति वसिष्ठः । तस्याम् अपि ब्राह्मण्यां हतायाम् एवं ब्रह्महा भवतीति तदीयम् एव प्रायश्चित्तम् इति । क्षत्रियाद्यात्रेयीवधे तत्तत्पुरुषवधनिमित्तं प्रायश्चित्तम् । अन्ये त्व् अग्त्रिगोत्राम् आत्रेयीम् आहुः ॥ २२।१२ ॥
विश्वास-प्रस्तुतिः
गर्भे चाविज्ञाते ॥ २२।१३ ॥
मूलम्
गर्भे चाविज्ञाते ॥ २२।१३ ॥
हरदत्तः
ब्राह्मणस्य गर्भे स्त्रीपुंनपुंसकत्वेनाविज्ञाते ब्राह्मण्यामाहित् औषधादिना हते ब्रह्महत्याप्रायश्चित्तम् । विज्ञाते तु यथलिङ्गम् । क्षत्रियादिगर्भे ऽपि तदनुगुणम् । राजन्यवैश्ययोर् अपि सवनं गतयोर् वध एतद् एव । यथाह मनुः ।
हत्वा गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत् ।
राजन्यवैश्यबीजानां चात्रेयीम् अपि च स्त्रियम् ॥ इति ।
अत्र पराशरः ।
चातुर्विद्योपपन्नस् तु विधिवद् ब्रह्मघातके ।
समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ॥
सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात् समाहरेत् ।
वर्जयित्वा विकर्मस्थांश् छत्रोपानहवर्जितः ॥
अहं दुष्कृतकर्मा वै महापातककारकः ।
वेश्मनो द्वानि तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥
गोकुलेषु च गोष्ठेषु ग्रामेषु नगरेषु च ।
तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥
एतेषु ख्यापयेद् एनः पुण्यं गत्वा तु सागरम् ।
ब्रह्महा विप्रमुच्येत स्नात्वा तस्मिन् महोदधौ ॥
ततः पूतो गृहं प्राप्य कृत्वा ब्राह्मणभोजनम् ।
गवां चापि शतं दत्वा चातुर्वैद्याय दक्षिणाम् ॥
एवं विशुद्धिम् आप्नोति चातुर्वर्ण्यानुमोदितः ॥ इति ।
अत्र सुमन्तुः: “ब्रह्महा संवत्सरं कृच्छ्रं चरेद् अधःशायी त्रिषवणी कर्मावेदको भिक्षाहारो दिव्यनदीपुलिनसंगमाश्रमगोष्ठपर्वतप्रस्रवणतपोवनविहारी स्यान् न वीरासनी । संवत्सरे पूर्णे हिरण्यमणिगोधान्यतिलभूमिसर्पींषि ब्राह्मणेभ्यो दद्यात् पूतो भवति” इति । अत्र वर्णविशेष आश्रमविशेषे च अङ्गिराः ।
पर्षद् या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता ।
वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच् च व्रतं स्मृतम् ॥
गृहस्थोकानि पापानि कुर्वन्त्य् आश्रमिणो यदि ।
शौचवच् छोदनं कुर्याद् अर्गाग् ब्रह्मनिदर्शनात् ॥ इति
एतच् छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं स्याद् वनस्थानां यतीनां च चतुर्गुणम् ॥ इति ।
अत्र भार्गवः ।
अशीतिर् यस्य वर्षाणि बालो वाप्य् ऊनष्ōडशः ।
प्रायश्चित्तार्थम् अर्हन्ति स्त्रियो व्याधित एव वा ॥ इति ।
हारीतः ।
प्रायश्चित्ते प्रवृत्तस् तु मध्ये यदि विपद्यते ।
शुद्धस् तद् अहर् एवासाव् इह लोके परत्र च ॥ इति च ॥ २२।१३ ॥
हरदत्त-प्रस्तावः
उक्तं ब्राह्मणवधे प्रायश्चित्तम् । अथ राजन्यवधे।
विश्वास-प्रस्तुतिः
राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यम्
र्षभैकसहस्राश् च गा दद्यात् ॥ २२।१४ ॥
मूलम्
राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यम्
र्षभैकसहस्राश् च गा दद्यात् ॥ २२।१४ ॥
हरदत्तः
राजन्यवधे कृते ब्राह्मणवधे यद् उक्तं ब्रह्मचर्यं तत् षड्वार्षिकं कर्तव्यम् । तद् अपि प्राकृतं स्वाभाविकं खट्वाङ्गादिरहितं ब्रह्महत्याप्रायश्चित्तं षड् वर्षानि कुर्यात् । एकाधिकं सहस्रम् ऋषभ एकसहस्रां यासां ता ऋषभैकसहस्रा गा दद्यात् । अत्र उशना: “राजन्यवधे षड्वार्षिकं ब्रह्मव्रतं तस्यान्त ऋषभैकसहस्रगोदानं च” इति । इदम् अभिषिक्तस्य श्रोत्रियस्य व्रतवतो बुद्धिपूर्ववधे । तस्यैवाश्रोत्रियस्य व्रतहीनस्य वधे केवलं गोदानम् । उभयहीनस्यानभिषिक्तस्य वधे केवलं षड्वार्षिकम् । अनभिषिक्तस्य तूभयवतो वासिष्ठम्: “ब्राह्मणो राजन्यं हत्वाष्टौ वर्षाणि व्रतं चरेत्” इति । एतेषाम् एवाबुद्धिपूर्वे ऽर्धं कल्प्यम् । जातिमात्रवधे,
स्त्रीशूद्रविट्क्षत्रवधो नाश्तिक्यं चोपपातकम् ।
इत्य् उक्त्वा,
एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः ।
अवकीर्णिवर्जं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ॥
इति मनुनोक्तं द्रष्टव्यम् । किंचिद्गुणवतो वधे ऽग्न्युत्सादिनिराकृत्युपपातकेषु चैवम् इति वक्ष्यमाणं सांवत्सरिकं प्राकृतं ब्रह्मचर्यम् । एवम् उत्तरत्रापि द्रष्टव्यम् । सर्वत्राबुद्धिपूर्वे ऽर्धं बुद्धिपूर्वे कृत्स्नम् इति ॥ २२।१४ ॥
हरदत्त-प्रस्तावः
अथ वैश्यवधे ।
विश्वास-प्रस्तुतिः
वैश्ये तु त्रैवार्षिकम् ऋषभैकशताश् च गा
दद्यात् ॥ २२।१५ ॥
मूलम्
वैश्ये तु त्रैवार्षिकम् ऋषभैकशताश् च गा
दद्यात् ॥ २२।१५ ॥
हरदत्तः
इदम् अत्यन्तगुणवतो बुद्धिपूर्ववधे । एतेन परं व्याख्यातम् ॥ २२।१५ ॥
विश्वास-प्रस्तुतिः
शूद्रे संवत्सरम् ऋषभैकादशाश् च गा
दद्यात् ॥ २२।१६ ॥
मूलम्
शूद्रे संवत्सरम् ऋषभैकादशाश् च गा
दद्यात् ॥ २२।१६ ॥
हरदत्तः
इदम् अप्य् अत्यन्तगुणवद्विषयम् । अत्यन्तनिर्गुणस्य शूद्रस्य वध औशनसम्: “शूद्रं हत्वा तप्तकृच्छ्रम्” इति । अथानुलोमविषये व्याघ्रः ।
सर्वेषाम् अनुलोमानां तन्मात्रहनने तु यत् ।
तद् एव निर्दिशेद् विद्वान् स्त्रीणाम् अर्घं तथैव च ॥
आत्रेयीहनने ब्रूयाद् यद् भर्तुर् उपदिश्यते ।
गर्भे चैव तथा ज्ञाते व्याघ्रस्य वचनं यथा ॥ इति ।
प्रतिलोमवधे लौगाक्षिः ।
हनने प्रतिलोमानां शूद्रजानां कथं भवेत् ।
ज्ञानपूर्वे पराकः स्याद् अज्ञाने त्व् ऐन्दवं स्मृतम् ॥
इतरेषां चतुर्भागं पितुर् उक्तं मनीषिभिः ॥ इति ॥ २२।१६ ॥
विश्वास-प्रस्तुतिः
अनात्रेय्यां चैवम् ॥ २२।१७ ॥
मूलम्
अनात्रेय्यां चैवम् ॥ २२।१७ ॥
हरदत्तः
आत्रेयीव्यतिरिक्ताया वधे चैवं शूद्रे संवत्सरम् ऋषभैकादशाश् च गा दद्याद् इति । इदं ब्राह्मण्याश् चारित्रवत्याः कुटुम्बिन्या बुद्धिपूर्ववधे । याज्ञवल्क्यश् च ।
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ॥ इति ।
षण्मा[सा]ञ् शूद्रहाप्य् एतद् धेनुर् दद्याद् दशाथ वा ॥ इति ।
दुर्वृत्ता ब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु ।
दृतिं धनुर् बस्तम् अविं क्रमाद् दद्याद् विशुद्धये ॥ इति ।
यत् तु हारीतेनोक्तम्: “षड्वर्षाणि राजन्ये प्राकृतं ब्रह्मचर्यम् । वैश्ये त्रीणि । सार्धम् अब्दं शूद्र, क्षत्रियवद् ब्राह्मणेषु, वैश्यवत् क्षत्रियायाम्, शूद्रवैश्यायाम्, शूद्रां हत्वा नव मासान्” इति तद् अत्यन्तोत्कृष्टाचार्यादिविषयम् ॥ २२।१७ ॥
विश्वास-प्रस्तुतिः
गां च वैश्यवत् ॥ २२।१८ ॥
मूलम्
गां च वैश्यवत् ॥ २२।१८ ॥
हरदत्तः
गां च हत्वा वैश्यवधे यत् प्रायश्चित्तं “वैश्यवधे त्रैवाषिकम् ऋषभैकशताश् च गा दद्यात्” इति तच् चरेत् । इदं वृत्तस्वाध्यायवतो दुर्गतस्य बहुकुटुम्बस्य या गौर् बहुक्षीरा तरुणी तस्या बुद्धिर् पूर्ववधे । तादृशा एकफलाया गर्भिण्याः कर्माङ्गभूताया वधे याम्यम् ।
गोसहस्रं शतं वापि दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ इति ।
द्वैमासिकं व्रतम् अत्र प्रकृतम् । अत्रैव बुद्धिपूर्वे कात्यायनीयं गोदानरहितं त्रैवार्षिकम् ।
गोघ्नस् तच्चर्मसंवीतो वसेद् गोष्ठे ऽथ वा पुनः ।
गाश् चानुगच्छेत् सततं मौञ्जीचीराजिनादिभिः ॥
वर्षशीतपक्लशवचिह्निपङ्कभयार्दितः ।
मोक्षयेत् सर्वयत्नेन पूयते वत्सरैस् त्रिभिः ॥ इति ।
वसिष्ठः: “गां चेद् धन्यात् तस्याश् चर्मणार्द्रेण परिवेष्टितः षण्मासान् कृच्छ्रं तप्तकृच्छ्रं वा तिष्ठेद् ऋषभवेहतौ च दद्याताम्” इति । वेहद् वृष्भोपहता गौः । दद्याताम् इति कर्मणि कर्तृप्रत्ययः । याज्ञावल्क्यः ।
पञ्चगव्यं पिबन् गोघ्नो मासम् आसीत संयतः ।
गोष्ठेशयो गोनुगामी गोप्रदानेन शुध्यति ॥
कृच्छ्रं चैवातिकृच्छ्रं च चरेद् वापि समाहितः ।
दद्यात् त्रिरात्रं चोपोष्य वृषभैकादशास् तु गाः ॥ इति ।
जाबालः ।
प्राजापत्यं चरेन् मासं गोहन्ता चेद् अकामतः ।
गोहितो गोनुगामी स्याद् गोप्रदानेन शुध्यति ॥ इति ।
विष्णुः ।
गोघ्नस्य पञ्चगव्येन मासम् एकं पलत्रयम् ।
प्रत्यहं स्यात् पराको वा चान्द्रायणम् अथापि वा ॥ इति ।
काश्यपः: “गां हत्वा तच्चर्मणा परिवृतो मासं गोष्ठेशयस् त्रिषवणस्नायी नित्यं पञ्चगव्याहारः” इति । शातातपः: “मासं पञ्चगव्याहारः” इति । शङ्ख-प्रचेतसौ: “गोघ्नः पञ्चगव्याहारः । पञ्चविंशतिरात्रम् उपवसेत् सशिखं वपनं कृत्वा गोचर्मणा परिवृतो गाश् चानुगच्छेद् गोष्ठेशयो गां च दद्यात्” इति । पैठीनसिः: “गोघ्नो मासं यवागूं प्रसृततण्डुलशृतां भुञ्जानो गोभ्यः प्रियं कुर्वञ् शुध्यति” इति । मनुः ।
उपपातकसंयुक्तो गोघ्नो भुञ्जीत यावकम् ।
कृतवापो वसेद् गोष्ठे चर्मणार्द्रेण संवृतः ॥
चतुर्थकालम् अश्नीयाद् अक्षारलवणं मितम् ।
गोमूत्रेणाचरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥
इत्य् आरभ्य,
अनेन विधिना यस् तु गोघ्नो गा अनुगच्छति ।
स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति ॥
ऋषभैकादशा गाश् च दद्यात् सुचरितव्रतम् ॥ इति ।
सुमन्तुअः: “गोघ्नस्य गोप्रदानं गोष्ठे शयनं द्वादशरात्रं पञ्चगव्यप्राशनं गवाम् अनुगमनं च” इति । संवर्तः ।
सक्तुयावकभैक्षाशी पयो दधि घृतं शकृत् ।
एतानि क्रमशो ऽश्नीयान् मासार्धं सुसमाहितः ॥
ब्राह्मणान् भोजयित्वा तु गां दद्याद् आत्मशुद्धये ॥ इति ।
बृहस्पतिः: “द्वादशरात्रं पञ्चगव्याहारः” इति । एतेषां बुद्धिपूर्वाबुद्धिपूर्वभेदेन ब्राह्मणादिपरिग्रहेण यथार्हं विषयविभाग् ऊहितव्यः । षट्त्रिंअण्मते विशेषः ।
पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते ।
पादोनं व्रतम् आदिष्टं हत्वा गर्भम् अचेतनम् ॥
अङ्गप्रत्यङ्गसंपूर्णे गर्भे चेतःसमन्विते ।
द्विगुणं गोव्रतं कुर्याद् एषा गोघ्नस्य निष्कृतिः ॥
बृहत्प्रचेताः ।
एकवर्षे हते वत्से कृच्छ्रपादो विधीयते ।
अबुद्धिपूर्वे पुंसः स्याद् द्विपादस् तु द्विहायने ॥
त्रिहायने त्रिपादं स्यात् प्राजापत्यम् अतः परम् ॥ इति ।
स्मृत्यन्तरम् ।
अतिवृद्धाम् अतिकृशाम् अतिभालां च रोगिणीम् ।
हत्वा पूर्वविधानेन चरेद् अर्धव्रतं द्विजः ॥
ब्राह्मणान् भोजयेच् छक्त्या दद्याद् धेमतिलांस् तथा ॥ इति ।
संवर्त-आपस्तम्बौ ।
एका चेद् बहुभिः कैश्चिद् दैवाद् द्व्यापादिता क्वचित् ।
पादं पादं तु हत्यायाश् चरेयुस् ते पृथक् पृथक् ॥
व्यापन्नानां बहूनां तु रोधने बन्धने ऽपि वा ।
भिषङ् मिथ्योपचारे च द्विगुणं गोव्रतं चरेत् ॥ इति ।
बहूनाम् अपि व्यापादने द्वितुणम् एव वचनबलात् । न तु प्रतिनिमित्तं नौमत्तिकावृत्तिः ।
व्यासः ।
औषधं लवणं चैव पुण्यार्थम् अपि भोजनम् ।
अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ॥
अतिरिक्ते विपत्तिश् चेत् कृच्छ्रपादो विधियते ॥ इति ।
आपस्तम्बः ।
पाषाणैर् लगुडैर् वापि शस्त्रैर् वान्येन वा बलात् ।
निघातयन्ति ये गास् तु तस्मिन् कुर्युर् व्रतं हि ते ॥
पादम् एकं चरेद् रोधे द्वौ पादौ बन्धने चरेत् ।
योजने पादहीनं स्याच् चरेत् सर्वं निपातने ॥ इति ।
वसिष्ठः ।
न नालिकेरेण न शाणवालैर् न चापि मौञ्जेन न वर्ध्रशृङ्खलैः ।
एतैस् तु गावो न निबन्धनीया बद्ध्वानुतिष्ठेत् परशुं प्रगृह्य ॥ इति ॥ २२।१८ ॥
विश्वास-प्रस्तुतिः
मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिंसासु
च ॥ २२।१९ ॥
मूलम्
मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिंसासु
च ॥ २२।१९ ॥
हरदत्तः
बिम्बः कामरूपी कृकलासः । दहरः स्वल्पकायो मूषकः । छुच्छुन्दरीत्य् एके । अन्ये प्रसिद्धाः । एतेषां समुदितानां वधे वैश्यवत् प्रायश्चित्तम् । इदं बुद्धिपूर्वाभ्यासविषयम् । अन्यत्र आपस्तम्बीयम्: “वायसबकबलाकबर्हिणचक्रवाक-हंसभासमण्डूकनकुलसैरिकाश्वहिंसायां शूद्रवत् प्रायश्चित्तम्” इति । मनुर् अपि ।
मार्जारनकुलौ हत्वा चाषमण्डूकम् एव च ।
श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् ॥ इति ।
प्रत्येकं वधे तु बुद्धिपूर्वे ।
मार्जारगोधानकुलमण्डूकश्वपतत्रिणः ।
हत्वा त्र्यहं पिबेत् क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥
इति याज्ञवल्क्योक्तं द्रष्टव्यम् । बुद्धिपूर्वे मानवम् ।
पयः पिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ॥ इति ॥ २२।१९ ॥
विश्वास-प्रस्तुतिः
अथन्वतां सहस्रं हत्वा ॥ २२।२० ॥
मूलम्
अथन्वतां सहस्रं हत्वा ॥ २२।२० ॥
हरदत्तः
अस्थिमतां कृकलासादीनां सहस्रं हत्वा वैश्यवत् प्रायश्चित्तम् ॥ २२।२० ॥
विश्वास-प्रस्तुतिः
अनस्थिमताम् अनडुद्भारे च ॥ २२।२१ ॥
मूलम्
अनस्थिमताम् अनडुद्भारे च ॥ २२।२१ ॥
हरदत्तः
ये ऽस्थिमन्तो न भवन्ति दंशमशकादयस् तेषां यावतो ऽनड्वान् भर्तुं शक्नोति तावतो हत्वा वैश्यवत् प्रायश्चित्तम् । इदं द्वयम् अपि पूर्वाभ्यासविषयम् । अन्यत्र
याज्ञवल्क्योक्तम् ।
अस्थन्वतां सहस्रं तु तथानस्थिमताम् अनः ।
शूद्रहत्याव्रतं षाण्मासिकं प्रकृतं दश धेनूर् वा दद्यात् इति च ॥ २२।२१ ॥
विश्वास-प्रस्तुतिः
अपि वास्थन्वताम् एकैकस्मिन् किंचिद् दद्यात् ॥ २२।२२ ॥
मूलम्
अपि वास्थन्वताम् एकैकस्मिन् किंचिद् दद्यात् ॥ २२।२२ ॥
हरदत्तः
अपि वेति विकल्पे । अस्थन्वतां यावन्तो हताः सहस्रम् ऊर्ध्वम् अर्वाग् वा तावतः संख्याय प्रत्येकं किंचित् किंचिद् दद्यात् । इदं चास्थिमत्सु प्रायश्चित्तं पूर्व्कं वेति ।
अष्टमुष्टि भवएत् किंचित् किंचिद् अष्टौ तु पुष्कलम् ।
पुष्कलानि तु चत्वारि आढकः परिकीर्तितः ॥
चतुराढको भवेद् द्रोण इति मानस्य लक्षणम् ॥
इति स्मृतिः । अनस्थिमतां तु तावन्तह् प्राणायामाः । तथा च मनुः ।
किंचिद् एव तु विप्राय दद्याद् अस्थिमातां वधे ।
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ इति ॥ २२।२२ ॥
विश्वास-प्रस्तुतिः
षण्ढे पलालभारः सीसमाषश् च ॥ २२।२३ ॥
मूलम्
षण्ढे पलालभारः सीसमाषश् च ॥ २२।२३ ॥
हरदत्तः
यं प्रति देवल आह ।
षण्ढो यो हीनलिङ्गः स्यात् संस्कारार्हश् च नैव सः ॥ इति ।
तस्मिन् हते पुरुषबाह्यः पलालभारः सीसमाषश् चेत्य् उभयं मिलितं देयं बुद्धिपूर्वे । इतरत्र त्व् एकैकम् । सीसं लोहविशेषो रजतसदृशः क्षणद्रुतिः । माषप्रमाणं पूर्वम् एव व्याख्यातम् । अत्र च न क्वापि स्मृतौ जाविविशेषः श्रूयते, षण्ढः षण्ढक इत्य् एतावद् एव श्रूयते । तत्र यथा जाविसमवाये ऽपि ब्राह्मणादिप्रयुक्तः संस्कारो न भवति तथा तद्वधनिमित्तं प्रायश्चित्तम् अपि न भवति यावद् उक्तम् एव तु भवति । अन्ये मृगपक्षिविषयं मन्यन्ते । मृगेषु पक्षिषु च ये षण्ढास् तेषु हतेष्व् इति ॥ २२।२३ ॥
विश्वास-प्रस्तुतिः
वराहे घृतघटः ॥ २२।२४ ॥
मूलम्
वराहे घृतघटः ॥ २२।२४ ॥
हरदत्तः
वराहे हते घृतपूर्णो घटो देयः ॥ २२।२४ ॥
विश्वास-प्रस्तुतिः
सर्पे लोहदण्डः ॥ २२।२५ ॥
मूलम्
सर्पे लोहदण्डः ॥ २२।२५ ॥
हरदत्तः
सर्पे हते लोहदण्डो देयः । लोहशब्देन कार्ष्णायसम् उच्यते,
अभ्रीं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ।
इति मानवे दर्शनात् । “सर्पं हत्वा माषं दद्यात्” इत्य् औशनसं बुद्धिपूर्वविषयम्
॥ २२।२५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मबन्ध्वां चलनायां नीलः ॥ २२।२६ ॥
मूलम्
ब्रह्मबन्ध्वां चलनायां नीलः ॥ २२।२६ ॥
हरदत्तः
जातिमात्रब्राह्मणी ब्रह्मबन्धूः । चलना व्यभिचारिणी । तस्यां हतायां नीलो देयः । नीलो वृष इति । मनुस् तु वर्णानुपूर्व्यम् आह ।
नीलकार्मुकबस्तावीः पृथग् दद्याद् विशुद्धये ।
चतुर्णाम् अपि वर्णानां नारीर् हत्वानवस्थिताः ॥ इति ॥ २२।२६ ॥
विश्वास-प्रस्तुतिः
वैशिकेन किंचित् ॥ २२।२७ ॥
मूलम्
वैशिकेन किंचित् ॥ २२।२७ ॥
हरदत्तः
अभिगच्छति या नारी पुरुषैर् बहुभिर् मिथः ।
व्यभिचारिणीति सा ज्ञेया प्रत्यक्षं गानिकेति च ॥
इति प्रजापतिः । वैशिकेन वेश्याकर्मणा जीवन्त्यां ब्रह्मबन्ध्वां हतायां किंचिद् देयम् “अष्टमुष्टि भवेत् किंचित्” इत्य् एतत् ॥ २२।२७ ॥
विश्वास-प्रस्तुतिः
तल्पान्नधनलाभवधेषु पृथग् वर्षाणि ॥ २२।२८ ॥
मूलम्
तल्पान्नधनलाभवधेषु पृथग् वर्षाणि ॥ २२।२८ ॥
हरदत्तः
तल्पशब्देन शयनवाचिना भार्या लक्ष्यते । अन्नं कृतान्नम् । धनं सुवर्णादि । एतेषां लाभस्य वधे विघ्न एषु लभ्यमानेषु दोषोपन्यासादिना यो हन्ति स पृथक् प्रतिनिमित्तं भेदेन संवत्सरं प्राकृतं ब्रह्मचर्यं चरेत् । “कन्यान्नधनविघ्ने प्राजापत्यम्” इत्य् औशनसम् बुद्धिपूर्वविषयम् । ब्राह्मणलाभविषयम् इदम् । क्षत्रियादिष्व् अर्धम् अर्धम्
॥ २२।२८ ॥
विश्वास-प्रस्तुतिः
द्वे परदारे ॥ २२।२९
मूलम्
द्वे परदारे ॥ २२।२९
हरदत्तः
परदारगमने द्वे वर्षे प्राकृतं ब्रह्मचर्यम् । ऋतुकालगमने बुद्धिपूर्व इदम् । अकामिनः पुनर् एतद् एवार्धकॢप्त्या योज्यम् ॥ २२।२९ ॥
विश्वास-प्रस्तुतिः
त्रीणि श्रोत्रियस्य ॥ २२।३० ॥
मूलम्
त्रीणि श्रोत्रियस्य ॥ २२।३० ॥
हरदत्तः
पूर्वोक्त एव विषये श्रोत्रियस्य ब्राह्मणस्य दारान् गच्छतस् त्रीणि वर्षाणि ब्रह्मचर्यम् । अत्राप्य् अकामतो ऽर्धम् । अत्र शङ्खः: “वैश्यायाम् अवकीर्णः संवत्सरं ब्रह्मचर्यं त्रिषवणं चानुतिष्ठेत् । क्षत्रियायां द्वे वर्षे । त्रीणि ब्राह्मण्याम् । वैश्यावच् च शूद्रायां ब्राह्मणपरिणीतायाम्” इति । संवर्तः ।
शूद्रां तु ब्राह्मणो गत्वा मासं मासार्धम् एव वा ।
गोमूत्रयावकाहारस् तिष्ठेत् तत्पापमोक्षकः ॥ इति ।
कामतो मासम् अकामतो ऽर्धमासम् इति व्यवस्थितो विकल्पः । अनृतुकाले तु ब्राह्मण्यादिद्विजातिषु मानवानि त्रैमासिकद्वैमासिकचान्द्रायणानि । क्षत्रियादीनां च क्षत्रियादिस्त्रीषु ब्राह्मणवत् प्रायश्चित्तम् । अत्र उशना ।
गमने तु व्रतं यत् स्याद् गर्भे तद्द्विगुणं चरेत् ॥ इति ॥ २२।३० ॥
विश्वास-प्रस्तुतिः
द्रव्यलाभे चोत्सर्गः ॥ २२।३१ ॥
मूलम्
द्रव्यलाभे चोत्सर्गः ॥ २२।३१ ॥
हरदत्तः
यदि च परस्त्रीतो यत् किंचिद् द्रव्यं लब्धं तस्योत्सर्गस् त्यागः कार्यः ॥ २२।३१ ॥
विश्वास-प्रस्तुतिः
यथास्नानं वा गमयेत् ॥ २२।३२ ॥
मूलम्
यथास्नानं वा गमयेत् ॥ २२।३२ ॥
हरदत्तः
यत्र स्नाने लब्धं तद् वा गमयेत् ॥ २२।३२ ॥
विश्वास-प्रस्तुतिः
प्रतिषिद्धमन्त्रयोगे सहस्रवाकश् चेत् ॥ २२।३३ ॥
मूलम्
प्रतिषिद्धमन्त्रयोगे सहस्रवाकश् चेत् ॥ २२।३३ ॥
हरदत्तः
मन्त्रयोगे ये प्रतिषिद्धाः पतितादयस् तैः सह मन्त्रयोगे ऽध्ययनाध्यापनयाज्ययाजनलक्षणे संवत्सरं प्राकृतं ब्रह्मचर्यं स चेन् मन्त्रयोगः सहस्रवाको भवति । वक्तीति वाकः पदम् । सहस्रपदश् चेत् । अबुद्धिपूर्व इदम् । बुद्धिपूर्वे तु पतितत्वं स्याद् इति । उपपातके तु वासिष्ठम्: “पतितचण्डालशवसूतकश्रवणे तु त्रिरात्रं वाग्यता आसीरन् सहस्रावरं वा तद् अभ्यस्यन्तः पूता भवन्तीति विज्ञायते । एतेनैव गर्हिताध्यापकयाजका व्याख्याताः । दक्षिणात्यागाच् च पूता भवन्तीति विज्ञायते” इति । अन्ये तु सहाध्ययनं सहयजनं च मन्त्रयोगं व्याचक्षते ॥ २२।३३ ॥
विश्वास-प्रस्तुतिः
अग्न्युत्सादिनिराकृत्युपपातकेषु चैवम् ॥ २२।३४ ॥
मूलम्
अग्न्युत्सादिनिराकृत्युपपातकेषु चैवम् ॥ २२।३४ ॥
हरदत्तः
अग्निम् उत्सादयितुं शीलम् अस्येति बुद्धिपूर्वम् अग्न्युत्सादी । निराकृतिः शक्तौ सत्याम् अनध्येता । उपपातकानि, अपङ्क्त्यानां प्राग् दुर्वालाद् गोहन्तृब्रहमहत्यादीनि व्याख्यातानि । एष्व् अग्न्युत्साद्यादिष्व् एवं संवत्सरं ब्रह्मचर्यम् इति । यो नास्तिक्याद् देशोपप्लवादिना वाग्नीन् अपविध्यति पुनस् तच्छान्ताव् अपि बहुकालं नाधत्ते तद्विषयम् इदम् । तत्रैवाल्पकाले वासिष्ठम्: “यो ऽग्नीन् अपविध्यात् कृच्छ्रं द्वादशरात्रं चरित्वा पुनर् आदधीत” । आलस्येन त्यजतो मानवम् ।
अग्निहोत्र्य् अपविध्याग्नीन् ब्राह्मणः कामकारतः ।
चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ॥ इति ।
मासम् अपविध्येत्य् अन्वयः ।
अग्निहोत्र्य् अपविध्यागीन् मासाद् ऊर्ध्वं तु कामतः ।
कृच्छ्रं चान्द्रायणं चैव कुर्याद् अत्राविचारयन् ॥ इति ।
मासाद् अर्वाग् अपि चान्द्रायणम् इच्छन्ति । स्मार्ते त्व् अग्नौ,
यो ऽग्निं त्यजति नास्तिक्यात् प्राजापत्यं चरेद् द्विजः ।
अन्यत्र पुनराधानं दानम् एव तथैव च ॥ इति ।
मानवं तु ।
षष्ठान्नकालता मासं संहिताजप एव च ।
होमश् च शाकलैर् नित्यम् अपङ्क्त्यानां विशोधनम् ॥ इति ॥ २२।३४ ॥
विश्वास-प्रस्तुतिः
स्त्री यातिचारिणी गुप्ता पिण्डं तु लभेत ॥ २२।३५ ॥
मूलम्
स्त्री यातिचारिणी गुप्ता पिण्डं तु लभेत ॥ २२।३५ ॥
हरदत्तः
या स्त्री भर्तारम् अतिचरति व्यभिचरति पुरुषान्तरेण संगच्छते सा चैतद् एव प्रायश्चित्तं कुर्यात् संवत्सरं ब्रह्मचर्यम् । सा च यावत् समाप्यते प्रायश्चित्तं तावद् गुप्ता सती पिण्डमात्रं लभते । बुद्धिपूर्वे सकृद्गमन इदम् । अन्यत्र,
यत् पुंसः परदारेषु तच् चैतां चारयेद् व्रतम् ।
इत्य् एतत् । सजातीयविषये चेदम् । ब्राह्मण्याः क्षत्रियविषये वासिष्ठम्: “व्यवाये संवत्सरं घृतपटं धारयेद् गोमयकर्दमे कुशप्रस्तरे वा भुञ्जानाधः शयीतोर्धं संवत्सराद् अप्सु निमग्नायाः सावित्र्यष्टसहस्रेण शिरोभिर् जुहुयात्” इति । वैश्यविषये त्व् औशनसम्: “व्यभिचारिणी कृच्छ्राब्दं चरेत्” इति । अत्र बृहत्प्रेचेताः ।
विप्राः शूद्रेण संपृक्ता न चैतस्मात् प्रसूयते ।
प्रायश्चित्तं स्मृतं तस्याः कृच्छ्रं चान्द्रायणत्रयम् ॥
चान्द्रायणे द्वे कृच्छ्रं च विप्राया वैश्यसंगमे ।
कृच्छ्रचान्द्रायणे स्यातां तस्याः क्षत्रियसंगमे ॥
क्षत्रिया शूद्रसंपर्के कृच्छ्रे चान्द्रायणद्वयम् ।
चान्द्रायणं सकृच्छ्रं च चरेद् वैश्येन संगता ॥
शूद्रं गत्वा चरेद् वैश्या कृच्छ्रं चान्द्रायणोत्तरम् ।
आनुलोम्येन कुर्वीत कृच्छ्रं पादावरोपितम् ॥ इति ।
प्रजाताया ब्राह्मण्याश् चतुर्विंशतिमते विशेषः ।
विप्रगर्भे पराकः स्यात् क्षत्रियस्य तथैन्दवम् ।
ऐन्दवं च पराकश् च वैश्यस्याकामकारतः ॥
शूद्रगर्भे भवेत् त्यागश् चण्डालो जायते यतः ।
गर्भस्रावे धातुदोषैश् चरेच् चान्द्रायणत्रयम् ॥ इति ।
कामकारे पुनः पराकदिकं द्विगुणं कुर्यात् । वसिष्ठस् तु ।
ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥
आहितपतिगर्भायास् तु पश्चाच् छूद्रादिसंगमे ।
अन्तर्वत्नी तु या नारी समेताक्रम्य कामिना ।
प्रायश्चित्तं न सा कुर्याद् यावद् गर्भो न निःसृतः ॥
जाते गर्भे व्रतं पश्चात् कुर्यान् मासं तु यावकम् ।
न गर्भदोषस् तत्रास्ति संस्कार्यः स यथाविधि ॥
इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । या तु दौःशील्यात् प्रायश्चित्तं न करोति तदा,
प्रातिलोम्ये वधः पुंसां स्त्रीणां नासादिकर्तनम् ।
इत्य् एतद् भवति ।
हीनवर्णोपभुक्ता या साम्य (साङ्क्या) वध्याथ वा भवेत् ॥
इति पराशरः । अङ्कनं पुंलिङ्गेन ॥ २२।३५ ॥
विश्वास-प्रस्तुतिः
अमानुषीषु गोवर्जं स्त्रीकृते कूष्माण्डैर् घृतहोमो
घृतहोमः ॥ २२।३६ ॥
मूलम्
अमानुषीषु गोवर्जं स्त्रीकृते कूष्माण्डैर् घृतहोमो
घृतहोमः ॥ २२।३६ ॥
हरदत्तः
गोवर्जितास्व् अमानुषीषु महिषासिस्त्रीषु स्त्रीकृते मैथुन आचरिते कूष्माण्डैर् घृतहोमः कर्तव्यः । गोवर्जम् इति वचनं विस्पष्टार्थम् । वक्ष्यति गवि च गुरुतल्पसअम इति । ततश् च तद् एव गोगमने भविष्यति । सकृद्गमन इदम् । अभ्यासे शङ्खोक्तम्: “पशुवेश्याभिगमने प्राजापत्यम्” इति । अत्र कण्वः ।
प्रसूतो यस् तु वेष्यायां भैक्षभुक् संयतेन्द्रियः ।
शतसाहस्रम् अभ्यस्य सावित्रीम् एति शुद्धताम् ॥ इति ।
द्विरुक्तिर् उक्ता ॥ २२।३६ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
तृतीयप्रश्ने द्वाविंशो ऽध्यायः