२१

अथ एकविंशो ऽध्यायः

हरदत्त-प्रस्तावः

पतितानां त्यागविधिर् उक्तः । के पुनस् ते । तान् आह ।

विश्वास-प्रस्तुतिः

ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबन्धाग-
स्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतित-
त्यागिनः पतिताः ॥ २१।१ ॥

मूलम्

ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबन्धाग-
स्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतित-
त्यागिनः पतिताः ॥ २१।१ ॥

हरदत्तः

ब्राह्मणस्य हन्ता ब्रह्महा ।

गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका न पातव्या तथा सर्वा द्विजोत्तमैः ॥

इति मनुः । तत्र या यस्य सुरा प्रतिषिद्धा स तस्याः पाता सुरापः । गुरुः पिताचार्यश् च । तल्पशब्देन भार्या लक्ष्यते । गमनं मैथुनम् । मातृसंबन्धा मातृपक्षे प्राक्पञ्चमाद् भवाः पितृसंबन्धाः पितृपक्षे ऽर्वाक् सप्तमाद् भवाः । योनिसंबंधा भगिन्यादयः । य एता भार्यात्वेनाधिगच्छति स मातृपितृयोनिसंबन्धागः । स्तेनो ब्राह्मणसुवर्णापहारी । नास्तिकः प्रेत्यभावापवादी । निन्दितं प्रतिषिद्धम् । तस्य कर्मणो बुद्धिपूर्वं सातत्येनानुष्ठाता निन्दितकर्माभ्यासी । पतिता नेव सतः पुत्रादीन् स्नेहादीना (?) यो न त्यजति स पतितात्यागी । यस् त्व् अपतितान् एव द्वेषादिना त्यजति सो ऽपतितत्यागी । एते ब्रह्महदय पतिताः

॥ २१।१ ॥

विश्वास-प्रस्तुतिः

पातकसंयोजकाश् च ॥ २१।२ ॥

मूलम्

पातकसंयोजकाश् च ॥ २१।२ ॥

हरदत्तः

पातकैः कर्मभिर् ये परान् संयोजयन्ति तत्र प्रवर्त्यन्ति द्रव्यप्रदानादिना मच्छत्रुम् इत्थं व्यापादय त्वच्छत्रोर् व्यापादने ऽयम् अभ्युपाय इति । तथा केनचिज् जिघांसितं पलायमानं यो निवारयति निवारितश् च हन्यते सो ऽपि प्रयोजकः । यस्यानुमतिम् अन्तरेणार्थो न निवर्तत् [निर्वर्तते] स मन्ता । स इह पृथङ् नोपादीयते प्रयोजककोटिर् एवायम् इति । आपस्तम्बस् तु कियताप्य् अवान्तरभेदेन तम् एव पृथग् उदितवान्: “प्रयोजिता मन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु भागिनः । यो भूय आरभते तस्मिन् फलविशेषः” इति [आप्ध् २।२१।१–२] ॥ २१।२ ॥

विश्वास-प्रस्तुतिः

तैश् चाब्दं समाचरन् ॥ २१।३ ॥

मूलम्

तैश् चाब्दं समाचरन् ॥ २१।३ ॥

हरदत्तः

तैः पतितैः सह यो ऽब्दं समाचरति यानासनशयनादीनि सो ऽपि पतितः । अत्र कण्वः ।

संवत्सरेण पतति पतितेन समाचरन् ।
यानासनाशनैर् नित्यम् इत्य् आहुर् ब्रह्मवादिनः ॥ इति ।

याजनादौ तु याज्ञवल्क्य आह ।

याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् ।
कृत्वा सद्यः पतत्य् एव पतितेन समाचरन् ॥ इति ।

सहभोजनम् एकस्मिन् पात्रे ।

संवत्सरेण पतति पतितेन समाचरन् ।
याजनाध्यापनाद् यौनान् न तु यानासनाशनात् ॥

इति मानवम् अप्य् एवं व्याख्येयम् । यानादिभिः संवत्सरेण पतति न तु याजनादिभिः किं तु तैः सद्य एवेति ॥ २१।३ ॥

हरदत्त-प्रस्तावः

किं पुनर् एषां पतितत्वम् ।

विश्वास-प्रस्तुतिः

द्विजातिकर्मभ्यो हानिः पतनम् ॥ २१।४ ॥

मूलम्

द्विजातिकर्मभ्यो हानिः पतनम् ॥ २१।४ ॥

हरदत्तः

द्विजातीनां यानि कार्यान्य् [कर्माण्य्] अध्ययनादीनि श्रौतानि गार्ह्याणि स्मार्तानि च तेभ्यो हानिस् तेष्व् अनधिकारः ॥ २१।४ ॥

विश्वास-प्रस्तुतिः

तथा परत्र चासिद्धिः ॥ २१।५ ॥

मूलम्

तथा परत्र चासिद्धिः ॥ २१।५ ॥

हरदत्तः

यान्य् अनेन प्राग् अर्जितानि कुशलानि कर्माणि तान्य् अप्य् अस्य परत्र न सिध्यन्ति फलदानि न भवन्ति । तद् एतद् एताभ्यां पतितशब्दस्य निर्वचनं कृतं कर्तव्येभ्यः कर्मभ्यः पूर्वाजितानां सुकर्मणां फलेभ्यश् च पातः प्रच्यवनं पतितत्वम् इति ॥ २१।५ ॥

विश्वास-प्रस्तुतिः

तम् एके नरकम् ॥ २१।६ ॥

मूलम्

तम् एके नरकम् ॥ २१।६ ॥

हरदत्तः

येयं कर्मभ्यो हानिर् या च परत्रासिद्धिस् ताम् एवैके नरकं मन्यन्ते । नरकसामानाधिकरण्यात् पुंलिङ्गम् एकवचनं च । कर्मभ्यो हीनस्य बन्धुभिस् त्यक्तस्य दुःखम् उत्पद्यते परत्रासिद्धेः सुखलवो न भवत्य् अतो नरक एवायम् इति । स्वमतं तु विशिष्टे देशे दुःखैकतानस्य वासो नरक इति ॥ २१।६ ॥

विश्वास-प्रस्तुतिः

त्रीणि प्रथमान्य् अनिर्देश्यान्य् अनु ॥ २१।७ ॥

मूलम्

त्रीणि प्रथमान्य् अनिर्देश्यान्य् अनु ॥ २१।७ ॥

हरदत्तः

अनुक्रान्तानां पातकानां मध्ये प्रथमानि त्रीणि ब्रह्महत्यासुरापानगुरुतल्पगमान्य् अनिर्देश्यान्य् अनिर्देश्यप्रायश्चित्तानि । तेषां प्रायश्चित्तम् अनिर्देश्यम् इति । ब्रह्मवधे मनुर् आह ।

कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥ इति ।

सुरापाने ।

मतिपूर्वम् अनिर्देश्यं प्राणान्तिकम् इति स्थितिः । इति ।

गुरुतल्पे मृग्यम् ॥ २१।७ ॥

विश्वास-प्रस्तुतिः

न स्त्रीष्व् अगुरुतल्पं पततीत्य् एके ॥ २१।८ ॥

मूलम्

न स्त्रीष्व् अगुरुतल्पं पततीत्य् एके ॥ २१।८ ॥

हरदत्तः

एके मन्यन्ते स्त्रीषु प्रवृत्तो गुरुतल्प एव पतितो नान्यत्रेति । स्वयं त्व् अन्यत्रापि पततीति । आह मनुर् अपि ।

चाण्डालान्त्यस्त्रियो गत्व भुक्त्वा च प्रतिगृह्य च ।
पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ इति ॥ २१।८ ॥

हरदत्त-प्रस्तावः

अथ स्त्रियाः पतनहेतुम् आह ।

विश्वास-प्रस्तुतिः

भ्रूणहनि हीनवर्णसेवायां च स्त्री पतति ॥ २१।९ ॥

मूलम्

भ्रूणहनि हीनवर्णसेवायां च स्त्री पतति ॥ २१।९ ॥

हरदत्तः

भ्रूणहेति भावपरम् । भ्रूणो गर्भः । आत्मापेक्षायां गर्भहत्यायां स्त्री पतति । यो हीनवर्णो ब्राह्मण्याः क्षत्रियादिः क्षत्रियाया वैश्यादिर् वैश्यायाः शूद्रस् तत्सेवायां च स्त्री पतति । चकाराड् ब्रह्महत्यादिषु च । अपर आह – भ्रूणहनं हीनवर्णं च या सेवते न तस्य भार्या भवति सा पतति । चकाराद् ब्रह्महत्यादिषु चेति । भ्रूणग्रहणं पतितोपलक्षणम् ॥ २१।९ ॥

विश्वास-प्रस्तुतिः

कौट्साक्ष्यं राजगामि पैशुनं गुरोर्
अनृताभिशंसनं महापातकसमानि ॥ २१।१० ॥

मूलम्

कौट्साक्ष्यं राजगामि पैशुनं गुरोर्
अनृताभिशंसनं महापातकसमानि ॥ २१।१० ॥

हरदत्तः

कूटसाक्षिणो भावः कौटसाक्ष्यं साक्षिणो ऽनृतवचनम् । सतो ऽसतो वा परदोषस्य ख्यापनं पैशुनम् । राजनीति वक्तव्ये राजगामीति वचनं यत्रोक्तं पारम्पर्येणापि राजानं गच्छति तद् अपि वर्ज्यम् इत्य् एवमर्थम् । गुरोः पितुर् आचार्यस्य वानृतेनासत्येन दोषेणभिशंसनं दुष्टताख्यापनं गुरोर् अनृताभिशंसनम् । एतानि [महा]पातकसमानि । साम्यातिदेशे प्रायश्चित्तम् अर्धम् इति स्मार्तो व्यवहारः ॥ २१।१० ॥

विश्वास-प्रस्तुतिः

अपङ्क्त्यानां प्राग् दुर्वालाद् गोहन्तृब्रह्मघ-
तन्मन्त्रकृदवकीर्णिपतितसावित्रीकेषूपपातकम्
॥ २१।११ ॥

मूलम्

अपङ्क्त्यानां प्राग् दुर्वालाद् गोहन्तृब्रह्मघ-
तन्मन्त्रकृदवकीर्णिपतितसावित्रीकेषूपपातकम्
॥ २१।११ ॥

हरदत्तः

स्तेनादयो गीतशीलान्ता एकपञ्चाशन् न भोजयितव्या इत्य् उक्ताः श्राद्धप्रकरणे ऽपङ्क्त्याः । तेषाम् अपङ्क्त्यानां मध्ये दुर्वालात् प्राग् यावन्तस् त्यक्तात्मपर्यन्ता एकत्रिंशत् तेषु पतितः कूटसाक्षी चान्तर्भूतः । तत्र पतितस्य पतितत्वं कूटसाक्षिणस् तत्साम्यम् उक्तम् । व्यतिरिक्तेषूपपातकं पापम् । नास्तिको ऽपि तेषु पठितः । स च त्रिविधः । यथाहुः पौराणिकाः ।

नास्तिका त्रिविधा ज्ञेया धर्मज्ञैस् तत्त्वदर्शिभिः ।
क्रियादुष्टो मनोदुष्टो वाग्दुष्टश् चेति ते त्रयः ॥ इति ।

अत्र वाग्दुष्ट उपपातको ऽभिप्रेतः । इतरयोः पातक एव । गोहन्ता हननं दण्डकाष्ठादिना ताडनम् । ब्रह्म वेदस् तम् अधीतं यः प्रमादाद् अभिहतवान् विस्मृतवान् स ब्रह्मघ्नः । बुद्धिपूर्वे मानवम् ।

ब्रह्मघ्नत्वं वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।
गर्हितान्नाद्ययोर् जग्धिः सुरापानसमानि षट् ॥ इति ।

तन्मन्त्रकृद् गोहन्तृब्रह्मघनोर् याजनादिकृत् । यो ब्रह्मचारी स्त्रियम् उपेयात् सो ऽवकीर्णी । अस्यापङ्क्त्येषु पठितस्य पुनर्वचनं कृते ऽप्य् अवकीर्णिप्रायश्चित्ते पृथग् उपपातकप्रायश्चित्तम् अपि कर्तव्यम् इत्य् एवमर्थम् । एतच् चापत्योत्पादनपर्यन्तगमने द्रष्टव्यम् । पतितसावित्रिको यथाकानम् अनुपनीतो व्रात्यः । एतेषूपपातकं पापम् इति ॥ २१।११ ॥

विश्वास-प्रस्तुतिः

अज्ञानाद् अनध्यापनाद् ऋत्विगाचार्यौ पतनीयसेवायां
च हेयौ ॥ २१।१२ ॥

मूलम्

अज्ञानाद् अनध्यापनाद् ऋत्विगाचार्यौ पतनीयसेवायां
च हेयौ ॥ २१।१२ ॥

हरदत्तः

अज्ञानाद् अनध्यापनाद् इति । यदि (यः) कर्मणि प्रवृत्त ऋत्विङ्मन्त्रान् कर्मपद्धतिं वा न जानाति स च, य आलस्यादिना नाध्यापयत्य् आचार्यस् ताव् उभौ हेयौ त्याज्यौ । इदं पतितेन सह शयनासनादेः सेवायां प्राग् अप्य् अब्दात् परित्यागार्थम् । तर्हि संवत्सरेण पततीति वचनम् अनर्थकम् । न तादृशस् त्यागो ऽत्र विवक्षितः । किं तर्ह्य् ऋत्विगाचार्यान्तरम् उपादेयम् । नौपादाने दोष इति ॥ २१।१२ ॥

विश्वास-प्रस्तुतिः

अन्यत्र हानात् पतति ॥ २१।१३ ॥

मूलम्

अन्यत्र हानात् पतति ॥ २१।१३ ॥

हरदत्तः

अन्यत्राज्ञानाद् अनध्यापनाद् अन्यत्र तयोस् त्यागो न कर्तव्यः । कुर्वन् पतति ॥ २१।१३ ॥

विश्वास-प्रस्तुतिः

तस्य च प्रतिग्रहीतेत्य् एके ॥ २१।१४ ॥

मूलम्

तस्य च प्रतिग्रहीतेत्य् एके ॥ २१।१४ ॥

हरदत्तः

तस्यर्त्विजम् आचार्यम् ईदृशं त्यजतः प्रतिग्रहीता तं यः प्रतिगृह्णाति याज्यत्वेन शिष्यत्वेनर्त्विगाचार्यौ वा सो ऽपि पततीत्य् एके मन्यन्ते । एके ग्रहणाज् ज्ञात्वा प्रतिग्रहे पातित्यं नान्यत्रेति ॥ २१।१४ ॥

विश्वास-प्रस्तुतिः

न कर्हिचिन् मातापित्रोर् अवृत्तिः ॥ २१।१५ ॥

मूलम्

न कर्हिचिन् मातापित्रोर् अवृत्तिः ॥ २१।१५ ॥

हरदत्तः

न कस्यांचिद् अप्य् अवस्थायां मातापित्रोर् अवृत्त्र् अशुश्रूषा कर्तव्या किं तु पतितयोर् अपि तयोर् नमस्कारादिका शुश्रूषा कर्तव्या । तथा च आपस्तम्बः: “माता भूयांसि कर्माण्य् आरम्भते तस्यां शुश्रूषा नित्या पतितायाम् अपि” इति ॥ २१।१५ ॥

विश्वास-प्रस्तुतिः

दायं तु न भजेरन् ॥ २१।१६ ॥

मूलम्

दायं तु न भजेरन् ॥ २१।१६ ॥

हरदत्तः

तदीयं तु धनं तदभावे न भजेरन् पुत्रादयः । राजगामि तद् भवति ॥ २१।१६ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणाभिशंसने दोषस् तावान् ॥ २१।१७ ॥

मूलम्

ब्राह्मणाभिशंसने दोषस् तावान् ॥ २१।१७ ॥

हरदत्तः

यो ब्राह्मणम् अभिशंसति तस्य सन्तं दोषं प्रथमं ख्यापयति तस्य दोषस् तावान् भवति यावान् कर्तुर् इति । यथाह आपस्तम्बः: “दोषं दृष्ट्वा न पूर्वः परेभ्यः पतितस्य समाख्याने स्याद् वर्जयेत् त्व् एनं धर्मेषु” इति ॥ २१।१७ ॥

विश्वास-प्रस्तुतिः

द्विर् अनेनसि ॥ २१।१८ ॥

मूलम्

द्विर् अनेनसि ॥ २१।१८ ॥

हरदत्तः

अनेनसि विषये दोषाभिशंसने द्विर् दोषो ऽस्य भवति । द्विर् द्विगुणः । अत्राभिशंसनमात्रे दोष उक्तः । मानवे तु ।

पतितं पतितेत्य् उक्त्वा चोरं चोरेति वा पुनः ।
वचनात् तुलयदोषः स्यान् मिथ्या द्विर् दोषभाग् भवेत् ॥ इति ।

पातित्यचौर्यविषयम् अभिशंसनम् उक्तम् । वसिष्ठस् तु: “ब्राह्मणम् अनृतेनाभिशस्य पतनीयेनोपपतनीयेन वा मासम् अब्भक्षः शुद्धवतीर् अवर्तयेत् पूतो भवति” इति विज्ञायते ॥ २१।१८ ॥

विश्वास-प्रस्तुतिः

दुर्बलहिंसायां च विमोचने शक्तश् चेत् ॥ २१।१९ ॥

मूलम्

दुर्बलहिंसायां च विमोचने शक्तश् चेत् ॥ २१।१९ ॥

हरदत्तः

दुर्बले प्रबलेन हिंस्यमाने यः शक्तः सन् न मोचयति तस्यापि तावान् दोषो यावान् हिंसितुः ॥ २१।१९ ॥

विश्वास-प्रस्तुतिः

अभिक्रुद्धावगोरणं ब्राह्मणस्य वर्षशतम्
अस्वर्ग्यम् ॥ २१।२० ॥

मूलम्

अभिक्रुद्धावगोरणं ब्राह्मणस्य वर्षशतम्
अस्वर्ग्यम् ॥ २१।२० ॥

हरदत्तः

यो ऽभिक्रुद्धः सन् ब्राह्मणं प्रहर्तुं हस्तम् आयुधं वावगुरत उद्यम्य कम्पयति तस्य तदवगोरणं वर्षाणां शतम् अस्वर्ग्यं भवति स्वर्गप्राप्तिं निरुणद्धि । तन्निमित्तानि सुकृतानि हन्तीत्य् अर्थः । अस्वर्ग्यम् इति नरकपातो वा लक्ष्यते । सजातीयविषयम् इदम् । विजातीयविषये तु –

द्विगुणं त्रिगुणं चैव चतुर्गुणम् अथापि च ।
क्षत्त्रविट्शूद्रजातीनां ब्राःमणस्य वधे स्मृतम् ॥ इति ।

अनेनैव न्यायेन ब्राह्मणेनावगोरणे कृते त्रिपाद्यं द्विपाद्यं पाद्यं पादश् चेति क्षत्रियादिषु द्रष्टव्यम् । एवम् अन्यत्रापि प्रतिलोमानुलोमभेदेनाधरोत्तरभावे तारतम्यं कल्प्यम् ॥ २१।२० ॥

विश्वास-प्रस्तुतिः

निघाते सहस्रम् ॥ २१।२१ ॥

मूलम्

निघाते सहस्रम् ॥ २१।२१ ॥

हरदत्तः

यः स्वर्णेन हन्ति तस्य वर्षसहस्रम् अस्वर्ग्यम् । उपसमस्तं वर्षपदम् अपेक्षते

॥ २१।२१ ॥

विश्वास-प्रस्तुतिः

लोहितदर्शने यावतस् तत् प्रस्कन्द्य पांसून्
संगृह्णीयात् [संगृह्णीयत्] ॥ २१।२२ ॥

मूलम्

लोहितदर्शने यावतस् तत् प्रस्कन्द्य पांसून्
संगृह्णीयात् [संगृह्णीयत्] ॥ २१।२२ ॥

हरदत्तः

यदि तेन निघातेन लोहितम् उत्पादयेत् ततस् तल् लोहितं प्रस्कन्द्य निःसृत्य यावतः पांसून् संगृह्णीयात् पिण्डान् कुर्यात् तावन्ति वर्षाणि तद् अस्वर्ग्यं भवति । तस्माद् ब्राह्मणाय नावगुरेत न निहन्यान् न लोहितं कुर्याद् इति गम्यमानत्वाद् अनुक्तम् । [अभ्यासो ऽध्यायसमाप्त्यर्थः] ॥ २१।२२ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां

तृतीयप्रश्ने एकविंशो ऽध्यायः