२०

अथ विंशो ऽध्यायः

हरदत्त-प्रस्तावः

अथ यो याप्यं कृत्वापि प्रायश्चित्तं न प्रतिपद्यते स किं कर्तव्यः । त्याज्य इत्य् आह ।

विश्वास-प्रस्तुतिः

त्यजेत् पितरं राजघातकं शूद्रयाजकं
शूद्रार्थयाजकं वेदविप्लावकं भ्रूणहनं
यश् चान्त्यावसायिभिः सह संवसेद् अन्त्यावसायिनां
च ॥ २०।१ ॥

मूलम्

त्यजेत् पितरं राजघातकं शूद्रयाजकं
शूद्रार्थयाजकं वेदविप्लावकं भ्रूणहनं
यश् चान्त्यावसायिभिः सह संवसेद् अन्त्यावसायिनां
च ॥ २०।१ ॥

हरदत्तः

राजात्राभिषिक्तो न जातिमात्रोपजीवी । तं हतवान् राजघातकः । शूद्रं यो याजयत्य् एतया निषादस्थपतिं याजयेद् इत्यादौ विषये स शूद्रयाजकः । यः शूद्राद् अर्थम् अधिगम्य यजते स शूद्रार्थयाजकः । अनध्यायानध्याप्याध्ययनादिना यो वेदं विप्लवायति व्याकुली करोति स वेदविप्लावकः । भ्रूणहा ब्रह्महा । एतन् महापातकिनाम् अप्य् उपलक्षणम् ।

चण्डालः श्वपचः क्षत्ता सूतो वैदेहिकस् तथा ।
मागधायोगवौ चैव सप्तैते ऽन्त्यावसायिनः ॥

इत्य् अङ्गिराः । तैः सहैकस्मिन् स्थाने यो वसति स तथोक्तः । अन्त्यावसायिनाम् । यः सह वसतीत्य् अपेक्षते । तस्यां संवासो मैथुनाचरणम् । एतेषु निमित्तेषु पितरम् अपि त्यजेत् । पितृग्रहणात् किम् उत पुत्रादिकम् इति ॥ २०।१ ॥

हरदत्त-प्रस्तावः

अथ त्यागप्रकारः ।

विश्वास-प्रस्तुतिः

तस्य विद्यागुरून् योनिसंबन्धांश् च संनिपात्य
सर्वाण्य् उदकादीनि प्रेतकार्याणि कुर्युः ॥ २०।२ ॥

मूलम्

तस्य विद्यागुरून् योनिसंबन्धांश् च संनिपात्य
सर्वाण्य् उदकादीनि प्रेतकार्याणि कुर्युः ॥ २०।२ ॥

हरदत्तः

तस्य त्याज्यस्य ये विद्यागुरव आचार्यगुरूपाध्याया योनिसंबन्धा मातुलादयस् तान् सर्वान् संनिपात्यैकत्र समवेतान् कृत्वोदकादीनि श्राद्धान्तानि सर्वाणि प्रेतकर्माणि कुर्युः । के । पुत्रादयो ज्ञातयः, पितरम् इत्य् उपक्रमाद् बहुवचननिर्देशाच् च ॥ २०।२ ॥

विश्वास-प्रस्तुतिः

पात्रं चास्य विपर्यस्येयुः ॥ २०।३ ॥

मूलम्

पात्रं चास्य विपर्यस्येयुः ॥ २०।३ ॥

हरदत्तः

अस्य त्याज्यस्य पात्रं किंचित् कल्पयित्वा ते एव। विपर्यस्येयुः । विपर्यासो ऽधोमुखीकरणम् । यथा तद् अनुदकं भवति ॥ २०।३ ॥

हरदत्त-प्रस्तावः

तत्र प्रकारः ।

विश्वास-प्रस्तुतिः

दासः कर्मकरो वावकराद् अमेध्यपात्रम् आनीय
दासीघटात् पूरयित्वा दक्षिणामुखो यदा विपर्यस्येद्
अमुकम् अनुद्कं करोमीति नामग्राहम् ॥ २०।४ ॥

मूलम्

दासः कर्मकरो वावकराद् अमेध्यपात्रम् आनीय
दासीघटात् पूरयित्वा दक्षिणामुखो यदा विपर्यस्येद्
अमुकम् अनुद्कं करोमीति नामग्राहम् ॥ २०।४ ॥

हरदत्तः

दासः प्रसिद्धः । कर्मकरो भृतकः । तयोर् अन्यतरो ऽवकराद् अवस्करात् । वर्चस्के ऽवस्करः । अमेध्यात् सथानाद् अशुचि पात्रं किंचिद् उपादाय येन दास्य् उदकम् आहरति तस्माद् घऋआद् गृहीतेनोदकेन पूरयित्वा दक्षिणामुखो भूत्वा यदापसव्येन विपर्यस्येद् अपसव्यम् अधोमुखं विक्षिपेत् । तत्र मन्त्र – अमुकम् अनुदकं करोमीति । नामग्राहम् । अमुकम् इति स्थाने त्याज्यस्य नाम द्वितीयान्तं गृहीत्वा । नाम्न्यादिशिग्रहोर् इति णमुल् । ग्राह इत् पाठे रूपसिद्धिश् चिन्त्या ॥ २०।४ ॥

विश्वास-प्रस्तुतिः

तं सर्वे ऽन्वालभेरन् प्राचीनावीतिनो
मुक्तशिखाः ॥ २०।५ ॥

मूलम्

तं सर्वे ऽन्वालभेरन् प्राचीनावीतिनो
मुक्तशिखाः ॥ २०।५ ॥

हरदत्तः

तं विपर्यस्यन्तं सर्वे ज्ञातयः प्राचीनावीतिनो मुक्तशिखाः सन्तो ऽन्वालभेरन् स्पृशेयुः ॥ २०।५ ॥

विश्वास-प्रस्तुतिः

विद्यागुरवो योनिसंबन्धाश् च वीक्षेरन् ॥ २०।६ ॥

मूलम्

विद्यागुरवो योनिसंबन्धाश् च वीक्षेरन् ॥ २०।६ ॥

हरदत्तः

न तु संस्पृशेयुः ॥ २०।६ ॥

विश्वास-प्रस्तुतिः

अप उपस्पृश्य ग्रामं प्रविशन्ति ॥ २०।७ ॥

मूलम्

अप उपस्पृश्य ग्रामं प्रविशन्ति ॥ २०।७ ॥

हरदत्तः

एवम् इदं कर्म कृत्वाप उप्स्पृश्य स्नात्वा ग्रामं संविशन्ति प्रविशेयुः । अत एव ज्ञायते ग्रामाद् बहिर् इदं कर्मेति ॥ २०।७ ॥

विश्वास-प्रस्तुतिः

अत उत्तरं तेन संभाष्य तिष्ठेद् एकरात्रं जपन्
सावित्रीम् अज्ञानपूर्वम् ॥ २०।८ ॥

मूलम्

अत उत्तरं तेन संभाष्य तिष्ठेद् एकरात्रं जपन्
सावित्रीम् अज्ञानपूर्वम् ॥ २०।८ ॥

हरदत्तः

अतस् त्यागाद् ऊर्ध्वं तेन त्यक्तेन सह संभाषणम् अज्ञानात् कृत्वैकम् अहोरात्रं तिष्ठेन् न भुञ्जीत न शयीत नासीतेति । अज्ञानपूर्वम् इति वचनाद् एकवचननिर्देशाच् च ज्ञातिव्यतिरिक्तस्यापीदं भवति ॥ २०।८ ॥

विश्वास-प्रस्तुतिः

ज्ञानपूर्वं च त्रिरात्रम् ॥ २०।९

मूलम्

ज्ञानपूर्वं च त्रिरात्रम् ॥ २०।९

हरदत्तः

यस् तु तेन ज्ञानपूर्वं संभाषते स त्रिरात्रम् उक्तक्रमेण तिष्ठेत् । कार्याकार्यनिरूपणादाव् इदम् । परिप्रश्नादौ तु पराशरोक्तम् ।

क्षुते निष्ठीवने चैव दन्तस्पृष्टे तथैव च ।
पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥ इति ॥ २०।९ ॥

विश्वास-प्रस्तुतिः

यस् तु प्रायश्चित्तेन शुध्येत् तस्मिञ् शुद्धे
शातकुम्भमयं पात्रं पुण्यतमाद् ध्रदात्
पूरयित्वा स्रवन्तीभ्यो वा तत एनम् अप
उपस्पर्शयेयुः ॥ २०।१० ॥

मूलम्

यस् तु प्रायश्चित्तेन शुध्येत् तस्मिञ् शुद्धे
शातकुम्भमयं पात्रं पुण्यतमाद् ध्रदात्
पूरयित्वा स्रवन्तीभ्यो वा तत एनम् अप
उपस्पर्शयेयुः ॥ २०।१० ॥

हरदत्तः

प्रायश्चित्तेनेति वचनाद् राजदण्डेन शुद्धस्य वक्ष्यमाणस्वीकरणविधिर् न भवति । तस्य केवलं परत्रैव शुद्धिः ।

राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥ इति ॥

तस्मिंल् लोकसमक्षं शुद्धे शातकुम्भमयं सौवर्णं पात्रं पुण्यतमाद् ध्रदान् नदिभ्यो वाहृतेन जलेन पूरयित्वा ततस् तस्माद् आवर्जिता अप एनं चरितप्रायश्चित्तम् उपस्पर्शयेयुस् ताभिर् अद्भिः स्नापयेयुर् ज्ञातयः ॥ २०।१० ॥

विश्वास-प्रस्तुतिः

अथास्मै तत् पात्रं दद्युस् तत् संप्रतिगृह्य जपेच्
छान्ता द्यौः शान्ता पृथिवी शान्तं शिवम् अन्तरिक्षं
यो रोचनस् तम् इमं गृह्णामीति ॥ २०।११ ॥

मूलम्

अथास्मै तत् पात्रं दद्युस् तत् संप्रतिगृह्य जपेच्
छान्ता द्यौः शान्ता पृथिवी शान्तं शिवम् अन्तरिक्षं
यो रोचनस् तम् इमं गृह्णामीति ॥ २०।११ ॥

हरदत्तः

अथ स्नापनान्तन्तरम् अस्मै स्नाताय तत् सौवर्णं पात्रं दद्युर् ज्ञातयः । स च तत् पात्रं प्रतिगृःय जपेच् छान्ता द्यौर् इत्यादि गृह्णामीत्यन्तम् ॥ २०।११ ॥

विश्वास-प्रस्तुतिः

एतैर् यजुर्भिः पावमानीभिस् तरत्समन्दीभिः
कूष्माण्डैश् चाज्यं जुहुयाद् धिरण्यं ब्राह्मणाय
दद्यात् ॥ २०।१२ ॥

मूलम्

एतैर् यजुर्भिः पावमानीभिस् तरत्समन्दीभिः
कूष्माण्डैश् चाज्यं जुहुयाद् धिरण्यं ब्राह्मणाय
दद्यात् ॥ २०।१२ ॥

हरदत्तः

होमान्ते दानम् ॥ २०।१२ ॥

विश्वास-प्रस्तुतिः

गां वा ॥ २०।१३ ॥

मूलम्

गां वा ॥ २०।१३ ॥

हरदत्तः

इच्छान्तो विकल्पः ॥ २०।१३ ॥

विश्वास-प्रस्तुतिः

आचार्याय च ॥ २०।१४ ॥

मूलम्

आचार्याय च ॥ २०।१४ ॥

हरदत्तः

य आत्मन आचार्यस् तस्मा अप् हिरण्यं दद्याद् गां वा ॥ २०।१४ ॥

विश्वास-प्रस्तुतिः

यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः
शुध्येत् ॥ २०।१५ ॥

मूलम्

यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः
शुध्येत् ॥ २०।१५ ॥

हरदत्तः

उत्तरविवक्षयेदम् उच्यते । प्रायश्चित्तस्य शुद्ध्यर्थत्वाद् एव सिद्धा शुद्धिः ॥ २०।१५ ॥

विश्वास-प्रस्तुतिः

सर्वाण्य् एव तस्मिन्न् उदकादीनि प्रेतकर्माणि
कुर्युः ॥ २०।१६ ॥

मूलम्

सर्वाण्य् एव तस्मिन्न् उदकादीनि प्रेतकर्माणि
कुर्युः ॥ २०।१६ ॥

हरदत्तः

यद्य् अपि तस्य नास्मिंल् लोके प्रत्यापत्तिस् तथापि मरणाद् एव शुद्ध इति सर्वाण्य् एव प्रेतकर्माणि कर्तव्यानि । सर्वग्रहणाद् आशौचम् अपि । यो ऽपि द्वादशवार्षिकादौ प्रायश्चित्ते प्रवृत्तो मध्ये म्रियते तद्वैषय व्यास आह ।

यजमानः सदा धर्म्ये म्रियते यदि मध्यतः ।
प्राप्नोत्य् एव तु तत् सर्वम् अत्र मे नास्ति संशयः ॥ इति ॥ २०।१६ ॥

विश्वास-प्रस्तुतिः

एतद् एव शान्त्युदकं सर्वेषूपपातकेषु
सर्वेषूपपातकेषु ॥ २०।१७ ॥

मूलम्

एतद् एव शान्त्युदकं सर्वेषूपपातकेषु
सर्वेषूपपातकेषु ॥ २०।१७ ॥

हरदत्तः

एतद् एवानन्तरोक्तं शान्ता द्यौर् इत्यादिभिर् अभिमन्त्रितं सर्वेषूपपातकेषु कर्तव्यं प्रायश्चित्तस्यान्ते । आदाव् इत्य् अन्ये । द्विरुक्तिः पूर्ववत् ॥ २०।१७ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां

तृतीयप्रश्ने विंशो ऽध्यायः