१९

तत्र एकोनविंशो ऽध्यायः

पञ्चविधो धर्मः – वर्णधर्म आश्रमधर्म उभयधर्मो गुणधर्मो नैमित्तिक[धर्म]श् चेति । तत्र वर्णप्रयुक्तो धर्मो वर्णधर्म उपनयनं ब्राह्मणस्याष्टम इति । आश्रमप्रयुक्त आश्रमधर्मो ब्रह्मचार्यादेः समिदाधानादिर् इति । उभयप्रयुक्त उभयधर्मो ब्राह्मणस्य ब्राह्मचारिणः पाशशो दण्द इत्यादि । अभिषेकगुणयुक्तः प्रजापालनादिर् गुणधर्मः । ब्रह्महत्यादौ निमित्ते कर्तव्यो नैमित्तिको धर्मः प्रायश्चित्तम् । तत्र नैमित्तिकं वक्ष्यन्न् उक्तम् अनुभाषते ।

विश्वास-प्रस्तुतिः

उक्तो वर्णधर्मश् चाश्रमधर्मश् च ॥ १९।१ ॥

मूलम्

उक्तो वर्णधर्मश् चाश्रमधर्मश् च ॥ १९।१ ॥

हरदत्तः

उभयधर्मगुणधर्मयोर् अप्य् उपलक्षणम् एतत् । यद्य् अप्य् अन्यत्रोक्तं नानुभाष्यते ऽननुभाषणे ऽपि वक्ष्यमाणं शक्यते वक्तुम् इति तथापीहानुभाष्यत आशङ्कानिवृत्त्यर्थ् । अन्यथोपविषाद् दैविकानि पुनःस्तोमादीनि प्रायश्चित्तण्य् उदाहरिष्यन्ते तानि च शूद्रस्य न संभवन्त्य् अतस् तद्वद् एव पुनःस्तोमादीनि प्रायश्चित्तान्तराण्य् अपि शूद्रस्य न स्युर् इति कश्चिद् आशङ्केत । अपर आह – य उक्तो धर्मः स एव वर्णिनाम् आश्रमिणां च धर्मः । वक्ष्यमाणस् तु पुरुषमात्रधर्मः । यद् आह – अथ खल्व् अयं पुरुष इति । किं सिद्धं भवति । प्रतिलोमानाम् अपि प्रायश्चित्तेष्व् अधिकारः सिद्धो भवति । यद्य् अपि तेषां भक्ष्याभक्ष्यविवेको नास्ति तथापि गोब्राह्मणादिवधे ब्राह्मणस्वर्णादिहरणे च प्रायश्चित्तं भवत्य् एव । अकुर्वाणा एव तु प्रायश्चित्तं राज्ञा वध्याः । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहादिमनुष्यमात्रधर्मा न वर्णेष्व् आश्रमेषु वा नियताः । अतस् तदतिक्रमे युक्तम् एव प्रायश्चित्तम् । यत् तु पूर्वम् उक्तं प्रतिलोमास् तु धर्महीना इति, तद् ऐहिकामुष्मिकश्रेयःसाधनेषु कर्मस्व् अधिकारनिवृत्तिपरम् इति ॥ १९।१ ॥

हरदत्त-प्रस्तावः

प्रायश्चित्तस्य निमित्तान्य् आह ।

विश्वास-प्रस्तुतिः

अथ खल्व् अयं पुरुषो याप्येन कर्मणा लिप्यते
यथैतद् अयाज्ययाजनम् अभक्ष्यभक्षणम्
अवद्यवदनं शिष्टस्याक्रिया प्रतिषिद्धसेवनम्
इति ॥ १९।२ ॥

मूलम्

अथ खल्व् अयं पुरुषो याप्येन कर्मणा लिप्यते
यथैतद् अयाज्ययाजनम् अभक्ष्यभक्षणम्
अवद्यवदनं शिष्टस्याक्रिया प्रतिषिद्धसेवनम्
इति ॥ १९।२ ॥

हरदत्तः

अथ खल्व् इति वाक्यालंकारे । अयं पुरुष इति संघातवर्तिनं प्रत्यगात्मानं निर्दिशति । याप्यं कुत्सितम् । याप्येन पापेन कर्मणा लिप्यते । तज्जन्येनाधर्मेण लिप्यमाने कर्मणा लिप्यत इति भाक्तो वादः । याप्यस्य कर्मण् उदाहरणप्रपञ्चो यथैतद् इत्यादि । यथेत्य् उदाहरणे । अयाज्याः पतितादयस् तेषां याजनम् । अभक्ष्या लशुनादयस् तेषां भक्षणम् । अवद्यम् अनृतासभ्यादि तस्य वदनं कथनम् । शिष्टं विहितं संध्योपासनादि तस्याक्रियाकरणम् । प्रतिषिद्धस्य हिंसादेः सेवनं करणम् । इति समाप्तौ । एतावद् एव याप्यं कर्मेति । प्रतिषिद्धसेवनम् इत्य् एव सिद्धेर् अयाज्ययाजनादिग्रहणं याजनाध्यापनप्रतिग्रहाः सर्वेषाम् इत्य् आपद्य् अनुज्ञा तत्रापि प्रायश्चित्तार्थम् । तत्र उशना: “आपद्विहितैः कर्मभिर् आपदं तीर्त्वा पुनस् तेषां प्रायश्चित्तं चतुर्भागं कुर्याद् इति । अभक्ष्यभक्षणग्रहणम् अप्य् आपदि व्याध्यादौ लशुनादिभक्षणविषयं च । अवद्यवदनग्रहणं तु

प्राणिनां तु वधो यत्र तत्र साक्ष्य् अनृतं वदेत् ।

इत्यादिविषयम् च । तथा यत्र ब्राह्मण इति ज्ञाते तादयेयुर् अर्थं वा हरेयुस् तत्र तद्ग्रहणार्थम् । असभ्यानृतभाषणेनापि तन् निवार्य पश्चात् ताम् आपदं तीर्त्वा प्रायश्चित्तं चतुर्भागं चरेद् इति ॥ १९।२ ॥

विश्वास-प्रस्तुतिः

तत्र प्रायश्चित्तं कुर्यान् न कुर्याद् इति
मीमांसन्ते ॥ १९।३ ॥

मूलम्

तत्र प्रायश्चित्तं कुर्यान् न कुर्याद् इति
मीमांसन्ते ॥ १९।३ ॥

हरदत्तः

तत्र तस्मिन् याप्यकर्मलेपे प्रायश्चित्तम्,

प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपोनिश्चयसंयोगात् प्रायश्चित्तम् इति स्मृतम् ॥

इत्येवंलक्षणं कर्तव्यं न कर्तव्यम् इति विचारयन्ति ब्रह्मवादिनः ॥ १९।३ ॥

हरदत्त-प्रस्तावः

तत्र केचित् ।

विश्वास-प्रस्तुतिः

न कुर्याद् इत्य् आहुः ॥ १९।४ ॥

मूलम्

न कुर्याद् इत्य् आहुः ॥ १९।४ ॥

हरदत्त-प्रस्तावः

तत्र हेतुः ।

विश्वास-प्रस्तुतिः

न हि कर्म क्षीयत इति ॥ १९।५ ॥

मूलम्

न हि कर्म क्षीयत इति ॥ १९।५ ॥

हरदत्तः

हिशब्दो हेतौ । यस्मात् कृतं कर्म पुण्यं पापं च नान्तरेणोपभोगं क्षीयत इति । तथा च शङ्खः ।

यथा पृथिव्यां बीजानि रत्नानि निधयो यथा ।
एवम् आत्मनि कर्माणि निष्ठन्ति प्रसवन्ति च ॥ इति ।

उत्पन्ने तु फले नश्यति यथा बीजम् अङ्कुरे । प्रायश्चित्तानि तु निमित्ते कर्मान्तराणि । यथा गृहदाहादौ क्षामवत्यदयः ॥ १९।५ ॥

विश्वास-प्रस्तुतिः

कुर्याद् इत्य् अपरम् ॥ १९।६ ॥

मूलम्

कुर्याद् इत्य् अपरम् ॥ १९।६ ॥

हरदत्तः

कुर्यात् प्रायश्चित्तम् इत्य् अपरं दर्शनम् । नास्मात् परम् अस्तीत्य् अपरसिद्धान्तः ॥ १९।६ ॥

हरदत्त-प्रस्तावः

तत्र प्रमाणत्वेन श्रुतिवाक्यान्य् उदाहरति ।

विश्वास-प्रस्तुतिः

पुनःस्तोमेनेष्ट्वा पुनः सवनम् आयान्तीति
विज्ञायते ॥ १९।७ ॥

मूलम्

पुनःस्तोमेनेष्ट्वा पुनः सवनम् आयान्तीति
विज्ञायते ॥ १९।७ ॥

हरदत्तः

अप्रतिग्राह्याद् ब्रह्म प्रतिगृह्य पुनःस्तोमेन यजेतेति श्रूयते । अभक्ष्यभक्षणम् अवद्यवदनं पुनःस्तोमेन तरतीति च । असत्प्रतिग्रहादिदोषदूषिताः पुनःस्तोमनाम्नैकाहेनेष्ट्वा पुनः सवनम् आयान्ति । सवनशब्देन कर्मोच्यते । पुनर् अपि श्रौतानि स्मार्तानि च कर्माण्य् आयान्त्य् आप्नुवन्ति । तद्योग्या भवन्ति ॥ १९।७ ॥

विश्वास-प्रस्तुतिः

व्रात्यस्तोमैश् चेष्ट्वा ॥ १९।८ ॥

मूलम्

व्रात्यस्तोमैश् चेष्ट्वा ॥ १९।८ ॥

हरदत्तः

पुनः सवनम् आयान्तीत्य् अनुषङ्गः । व्रात्या यथाकालम् अनुपनीताः । तेषां कर्तव्याः प्रायश्चित्तयागा व्रात्यस्तोमाः । बहुवचननिर्देशाद् बहवस् ते प्रत्येतव्याः ॥ १९।८ ॥

विश्वास-प्रस्तुतिः

तरति सर्वं पाप्मानं तरति ब्रह्महत्यां
यो ऽश्वमेधेन यजते ॥ १९।९ ॥

मूलम्

तरति सर्वं पाप्मानं तरति ब्रह्महत्यां
यो ऽश्वमेधेन यजते ॥ १९।९ ॥

हरदत्तः

इति चेति वक्ष्यमाणम् अपेक्ष्यते । विज्ञायत इत्य् अनुषङ्गः ॥ १९।९ ॥

विश्वास-प्रस्तुतिः

अग्निष्टुताभिशस्यमानं याजयेद् इति च ॥ १९।१० ॥

मूलम्

अग्निष्टुताभिशस्यमानं याजयेद् इति च ॥ १९।१० ॥

हरदत्तः

अग्निष्टुन् नामैकाहस् तेनाभिशस्यमानं याजयेत् । अत्र पुनःस्तोमादीनां दोषनिर्घातार्थतया श्रुतत्वाद् उपभोगेनेव प्रायश्चित्तेनापि पापकं कर्म क्षीयते । शङ्खवचनं चाकृतप्रायश्चित्तविषयं पुण्यविषयं च । अथ कस्माद् वचनगम्ये ऽर्थे विचारः क्रियते । कुर्यान् न कुर्याद् इति । न ह्य् उपनयनादाव् एवं विचारः कृत इति उच्यते । प्रायश्चित्तस्तुत्यर्थो ऽयं विचारः ॥ १९।१० ॥

हरदत्त-प्रस्तावः

इदानीं येष्व् आहत्य न प्रायश्चित्तं विहितं तेषु प्रायश्चित्तान्य् उपदिशति ।

विश्वास-प्रस्तुतिः

तस्य निष्क्रयणानि जपस् तपो होम उपवासो
दानम् ॥ १९।११॥

मूलम्

तस्य निष्क्रयणानि जपस् तपो होम उपवासो
दानम् ॥ १९।११॥

हरदत्तः

तस्य याप्यस्य कर्मणो जपादीनि पञ्च निष्क्रयणानि शोधनानि ॥ १९।११ ॥

हरदत्त-प्रस्तावः

तत्र जप इत्य् उक्तं जपान् आह ।

विश्वास-प्रस्तुतिः

उपनिषदो वेदान्तः सर्वच्छन्दःसु संहिता मधून्य्
अधमर्षणम् अथर्वशिरो रुद्राः पुरुषसूक्तं
राजतरौहिणे सामनी बृहद्रथन्तरे पुरुषगतिर्
महानाम्न्यो महावैराजं महादिवाकीर्त्यं
ज्येष्ठसाम्नाम् अन्यतमद् बहिष्पवमानं
कूष्माण्डानि पावमान्यः सावित्री चेति पावनानि ॥ १९।१२ ॥

मूलम्

उपनिषदो वेदान्तः सर्वच्छन्दःसु संहिता मधून्य्
अधमर्षणम् अथर्वशिरो रुद्राः पुरुषसूक्तं
राजतरौहिणे सामनी बृहद्रथन्तरे पुरुषगतिर्
महानाम्न्यो महावैराजं महादिवाकीर्त्यं
ज्येष्ठसाम्नाम् अन्यतमद् बहिष्पवमानं
कूष्माण्डानि पावमान्यः सावित्री चेति पावनानि ॥ १९।१२ ॥

हरदत्तः

उपनिषदो रहस्यब्राह्मणान्य् आध्यात्मिकानि । तद्व्यतिरिक्ता आरण्यकभागाः वेदान्ताः । सर्वछन्दःसु सर्वेषु प्रवचनेषु संहिता संहितापाठो न पदक्रमादिपाठः । मधूनि मधुशब्दयुक्तानि यजूंषि ब्रह्मम् एतु माम् इत्यादीनि । अघमर्षणम् “ऋतं च सत्यं च” इति सूक्तं षडृचम् अघमर्षणेन ऋषिणा दृष्टम् । अथर्वशिरो ऽथर्ववेदे प्रसिद्धम् । “देवा ह वै स्वर्गं लोकम् अगमन्” इत्यादि । रुद्राः “नमस् ते रुद्र मन्यवे” इत्याद्या अनुवाका एकादश । एकशतं यजुःशाखास् तासु सर्वासु पठ्यन्ते । पुरुषसूकम् “सहस्रशीर्षा” इत्यादि । राजतरौहिणे सामनी “इन्द्रं नरो नेमधिता हवन्ते” इत्य् अस्याम् ऋचि गीयेते । “त्वाम् इद्धि हवामहे” इत्य् आभ्यां बृहत् । “अभि त्वा शूर नोनुमः” इत्य् अत्र रथंतरम् । “अहम् अस्मि प्रथमजा ऋतस्य” इत्य् अस्यां पुरुषगतिः । महानाम्न्यः “विदामघवन्” इत्याद्या ऋचः । महावैराजम् “पिबा सोमम्” इत्य् अस्व्यां गीतं साम । महादिवाकीर्त्यम् “विभ्राड् बृहत् पिबतु” इत्य् अस्याम् । ज्येष्ठसामानि तलवकारिणाम् “उद् उ त्यं चित्रम्” इत्य् एतयोर् गीतानि । छन्दोगास् त्व् आहुः: “मूर्धानं दिवः” इत्य् अस्यां गीतानि त्रीणि सामान्य् आज्यदोहादीनि । ब्राह्मणे तथा श्रुतत्वात् । बहिष्पवमानम् “उपास्मै गायता नरः” इत्य् एतासु गीतम् । कूष्माण्डानि तैत्तिरीयके स्वाध्यायब्राह्मणे “यद् देवा देवहेडनम्,” “यद् अदीव्य नृणाम्,” “आयुष्टे विश्वतो ऽदधत्” इत् त्रयो ऽनुवाकाः । यजुष्ट्वाभिप्रायो नपुंसकनिर्देशः । तत्रैवाच्छिद्राख्ये प्रश्ने “यद् देवा देवहेलनम्” इत्य् अनुवाके या ऋचस् ताः कूष्माण्ड्यः । पवमानः सोमो देवता यासां ताः पावमान्यः “स्वादिष्ठया मदिष्ठया” इत्याद्या आ मण्डलसमाप्तेः । “तत् सवितुर् वरेण्यम्” इत्य् एषा सावित्री प्रसिद्धा । न या काचन सवितृदेवत्या । इतिशब्दः प्रकारवचनः । एवंप्रकानाण्य् अन्यान्य् अपि पावमानानीति । तत्र मनुः ।

कौत्सं जप्त्वाप इत्य् एतद् वासिष्ठं च तृचं प्रति ।
माहित्रं शुद्धलिङ्गं च सुरापो ऽपि विशुध्यति ॥
सकृज् जप्त्वास्यवामीयं शिवसम्कल्पम् एव च ।
सुवर्णम् अपहृत्यापि क्षणाद् भवति निर्मलः ॥
हविष्पान्तीयम् अभ्यस्य न तमंह इतीति च ।
जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥
सोमारौद्रं तु बह्वेना मासम् अभ्यस्य शुध्यति ॥

इत्यादि । प्रायश्चित्तप्रकरणे पुनः पावमानानीतिवचनात् प्रायश्चित्तव्यतिरेकेणाप्य् ऋद्धिकामस्याहर् अहर् एतानि जप्यानि ॥ १९।१२ ॥

हरदत्त-प्रस्तावः

जपे प्रवृत्तस्याहारनियमम् आह ।

विश्वास-प्रस्तुतिः

पयोव्रतता शाकभक्षता फलभक्षता प्रसृतयावको
हिरण्यप्राशनं घृतप्राशनम् सोमपानम् इति
मेध्यानि ॥ १९।१३ ॥

मूलम्

पयोव्रतता शाकभक्षता फलभक्षता प्रसृतयावको
हिरण्यप्राशनं घृतप्राशनम् सोमपानम् इति
मेध्यानि ॥ १९।१३ ॥

हरदत्तः

पयोव्रतता क्षीराहारता । व्रतग्रहणाद् उपवासन्यायेन । शाकं वास्तुकादि । फलं कदल्यादेः । प्रसृतयावकः प्रसृतपरिमितैर् यवैः पक्व ओदनः । तत्र औशनसो विशेषः: स्नातः शुचिर् भूत्वोदितेषु नक्षत्रेषु ताम्रभाजने प्रसृतयावकं श्रपयेद् यथा यवागूर् भवति । तस्य श्रपणकाले रक्षां कुर्यात् । “नमो रुद्राय भूताधिपतये पर्वतानां पतये त्वम् इमम् रक्षस्व” इति । शृते ऽवरोप्य देवस्य त्वा सवितुर् इत्यादिनोत्पूय ततो ऽभिमन्त्रयेत् ।

यवो ऽसि धान्यराजो ऽसि वारुणो मधुसंयुतः ।
निर्णोदः सर्वपापानां पवित्रम् ऋषिभिः स्मृतम् ॥
वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तनम् ।
अलक्ष्मीं कालकण्ठीं च सर्वं पुनत मे यवाः ॥
महापातकसंयुक्तं दारुणं राजकिल्बिषम् ।
बालवृत्तम् अधर्मं च सर्वं पुनत मे यवाः ॥
सुवर्णस्तैन्यम् अव्रत्यम् अयाज्यस्य च याजनम् ।
ब्राह्मणानां परीवादं सर्वं पुनत मे यवाः ॥
श्वसूकरावभूतं च काकाद्युच्छिष्टम् एव च ।
मातापित्रोर् शुश्रूषां सर्वं पुनत मे यवाः ॥
गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् ।
चोरस्यान्नं तथाभक्ष्यं सर्वं पुनत मे यवाः ॥

इत्य् एतैः षड्भिः \

ततो ब्रह्मा देवानाम् इति प्राश्य ततः प्राणाय स्वाहेत्यादिभिर् यथोक्तं सर्वं प्राश्नीयात् षड्रात्रम् । ततो नियमातिक्रमजात् प्रतिषिद्धसेवनजाद् अभ्यक्ष्यभक्षणजाच् च सर्वस्मात् पापात् प्रमुच्यते । सप्तरात्रं पीत्वा भ्रूणहत्यां गुरुतल्पं सुवर्णस्तैन्यं सुरापानं च पुनाति । एकादशरात्रं पीत्वा सर्वकृतपापं नुदति । एकविंसतिरात्रं पीत्वा गणान् पश्यति गणाधिपतिं पश्यति विद्यां पश्यति विद्याधिपतिं पश्यति । एवम् अहर् अहर् अनन्याहारो यवागूं प्राश्नीयाद् इति । सर्पिरादौ हिरण्यं विघृष्य प्राशनं हिरण्यप्राशनम् । घृतप्राशनं प्रसिद्धम् । सोमपानं क्रताव् उक्तम् । बहिर् अप्य् अन्ये । इतिकरनाद् यच् चान्यद् एवम् उक्तं पञ्चगव्यशङ्खपुष्पादि तस्य प्राशनं मेध्यं विज्ञेयम् ॥ १९।१३ ॥

हरदत्त-प्रस्तावः

अथ जपादीनां स्थानम् आह ।

विश्वास-प्रस्तुतिः

सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रादस्
तीर्थान्य् ऋषिनिवासा गोष्ठपरिस्कन्धा इति देशाः ॥ १९।१४ ॥

मूलम्

सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रादस्
तीर्थान्य् ऋषिनिवासा गोष्ठपरिस्कन्धा इति देशाः ॥ १९।१४ ॥

हरदत्तः

शिसोच्चयाः शैलाः । स्रवन्त्यो नद्यः । सर्वग्रहणात् पुण्यापुण्यविभागो नादरणीयः । पुण्या ह्रदाः पुष्करिण्यादयः । प्रयागादीनि तीर्थानि । ऋषिनिवासा वसिष्ठादीनाम् आश्रमाः । गोष्ठः गवां स्थानम् । परिस्कन्धो देवालयः । इतिकरणान् नैमिषारण्यादीनि ॥ १९।१४ ॥

हरदत्त-प्रस्तावः

व्याख्यातः सहपरिकरेण जपः । तपःस्वरूपम् आह ।

विश्वास-प्रस्तुतिः

ब्रह्मचर्यं सत्यवचनं सवनेषूदकोप-
स्पर्शनम् आर्द्रवस्त्रताधःशायितानाशक इति
तपांसि ॥ १९।१५ ॥

मूलम्

ब्रह्मचर्यं सत्यवचनं सवनेषूदकोप-
स्पर्शनम् आर्द्रवस्त्रताधःशायितानाशक इति
तपांसि ॥ १९।१५ ॥

हरदत्तः

ब्रह्मचर्यं मैथुनत्यागः । सत्यवचनं दृष्टार्थवादित्वम् । सवनेषु प्रातर् मध्यंदिने सायं चोदकस्पर्शनं स्नानम् । आर्द्रवस्त्रता स्नानसमये परिहितस्य वाससस् तथैवापीडितस्य धारणम् । अधःशायिता स्थण्डिलशायिता । अशनम् आशः । स एवाशकस् तस्याभावो ऽनाशको ऽनशनम् । अत्रापीतिकरणात् प्राणायामादीनां ग्रहणम् । अत्र मनुः ।

सव्याहृतिकाः सप्रणवाः प्राणायामास् तु षोडश ।
अपि भ्रूणहनं मासात् पुनन्त्य् अहर् अहः कृताः ॥ इति ।

होमाः कूष्माण्डगणहोमादयः प्रसिद्धत्वाद् इहानुक्ताः । तत्र श्रुतिः: “कूष्माण्डैर् जुहुयाद् यो ऽपूत इव मन्येत” इत्यादि । गणहोमस् तु बौधायनोक्तः ।

क्षापवित्रं सहस्राक्षो मृगारो ऽंहोमुचौ गणौ ।
पावमान्यश् च कूष्माण्ड्यो वैश्वानर्य ऋचश् च याः ॥
घृतौदनेन ता जुह्वत् सप्ताहं सवनत्रयम् ।
मौनव्रती हविष्याशी निगृहीतेन्द्रियक्रियः ।
मुच्यते सर्वपापेभ्यो महतः पातकाद् अपि ॥ इति ।

याज्ञवल्क्यः ।

यत्र यत्र च संकीर्णम् आत्मानं मन्यते जनः ।
तत्र तत्र तिलैर् होमः सावित्र्याः प्रत्यहं जपः ॥ इति ।

मनुः ।

न सावित्रीसमं जप्यं नाज्याहुतिसमं हुतम् ।
नान्नतोयसमं दानं न चाहिंसापरं तपः ॥ इति ।

उपवासो भक्तत्यागः । स एव तपःस्व् अपि पुनः पुनः पठ्यत आदरख्यापनार्थम् । अपर आह – निष्क्रयणेषु पठित उपवास इन्द्रियनिग्रहः ।

व्यावृत्तस्यैव दोषेभ्यो यस् तु वासु गुणैः सह ।
उपवासं तम् आहुस् तु न शरीरस्य शोषणात् ॥

इति पुराणे दर्शनाद् इति ॥ १९।१५ ॥

हरदत्त-प्रस्तावः

अथ देयान्य् आह ।

विश्वास-प्रस्तुतिः

हिरण्यं गौर् वासो ऽश्वो भूमिस् तिला घृतम् अन्नम्
इति देयानीति ॥ १९।१६ ॥

मूलम्

हिरण्यं गौर् वासो ऽश्वो भूमिस् तिला घृतम् अन्नम्
इति देयानीति ॥ १९।१६ ॥

हरदत्तः

निगदव्याख्यातम् एतत् ॥ १९।१६ ॥

हरदत्त-प्रस्तावः

अथ कियान् कालो जपादीनाम् इत्य् अत आह ।

विश्वास-प्रस्तुतिः

संवत्सरः षण्मासाश् चत्वारस् त्रयो वा द्वौ वैकश्
चतुर्विंशत्यहो द्वादशाहः षडहर् त्र्यहो ऽहोरात्र
इति कालाः ॥ १९।१७ ॥

मूलम्

संवत्सरः षण्मासाश् चत्वारस् त्रयो वा द्वौ वैकश्
चतुर्विंशत्यहो द्वादशाहः षडहर् त्र्यहो ऽहोरात्र
इति कालाः ॥ १९।१७ ॥

हरदत्तः

एतेषु यावता शुद्धो मन्यते तावान् कालः ॥ १९।१७ ॥

विश्वास-प्रस्तुतिः

एतान्य् एवानादेशे विकल्पेन क्रियेरन् ॥ १९।१८ ॥

मूलम्

एतान्य् एवानादेशे विकल्पेन क्रियेरन् ॥ १९।१८ ॥

हरदत्तः

एतान्य् एव जपादीनि निष्क्रयणान्य् अनादेशे यत्राहत्य प्रायश्चित्तम् अनिर्दिष्टं तत्र विषये विकल्पेन कर्तव्यानि । एवकारः पौनर्वचनिकः । तद् यथा – देवदत्तो ग्रामं गच्छतु स एवारण्यम् इति । किं सिद्धं भवति । येषु नियते(मित्ते)ष्व् आहत्य प्रायश्चित्तम् उक्तं तेष्व् अप्य् अभ्यासानुबन्धादौ प्रतिपूरणापेक्षायां जपादीनाम् अनुप्रवेशः सिद्धो भवति ॥ १९।१८ ॥

हरदत्त-प्रस्तावः

किं तुल्यवद् विकल्पो नेत्य् आह ।

विश्वास-प्रस्तुतिः

एनःसु गुरुषु गुरूणि लघुषु लघूनि ॥ १९।१९ ॥

मूलम्

एनःसु गुरुषु गुरूणि लघुषु लघूनि ॥ १९।१९ ॥

हरदत्तः

अभिसंधिकृतम् एनो गुरु तद्विपरीतं लघु । एवम् अभ्यासानुबन्धादाव् अपि द्रष्टव्यम् । यथाह आपस्तम्बः: “यः प्रमत्तो हन्ति प्राप्तं दोषफलं सह संकल्पेन भूय एवम् अन्येष्व् अपि दोषवत्सु कर्मसु तथा पुण्यफलेषु यथा कर्माभ्यासे” इति ॥ १९।१९ ॥

विश्वास-प्रस्तुतिः

कृच्छ्रातिकृच्छ्रौ चान्द्रायणम् इति सर्वप्रायश्चित्तं
[सर्वप्रायश्चित्तम्] ॥ १९।२० ॥

मूलम्

कृच्छ्रातिकृच्छ्रौ चान्द्रायणम् इति सर्वप्रायश्चित्तं
[सर्वप्रायश्चित्तम्] ॥ १९।२० ॥

हरदत्तः

कृच्छ्रातिकृच्छ्रौ चान्द्रायणं चोपरिष्टाद् वक्ष्यन्ते । सर्वग्रहणान् न केवलम् अनादेशे । एतानि च गुरून्य् एनांसि समस्तानि समुदितानि प्रायश्चित्तं लघून्य् एकम् एकं लघुतरे ऽतिकृच्छ्रो लघुतमे कृच्छ्रः । मनुर् अप्य् आह ।

संवत्सरस्यैकम् अपि चरेत् कृच्छ्रं द्विजोत्तमः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ इति ।

इतिकरणाद् यच् चान्यद् एवम् उक्तम् । तत्र मनुः ।

यतामनो ऽप्रमत्तस्य द्वादशाहम् अभोजनम् ।
पराको नाम कृच्छ्रो ऽयं सर्वपापप्रणाशनः ॥ इति ।

[अभ्यासो ऽध्यायसमाप्त्यर्थः] ॥ १९।२० ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां

तृतीयप्रश्ने एकोनविंशो ऽध्यायः