अथ अष्टादशो ऽध्यायः
हरदत्त-प्रस्तावः
अथ स्त्रीधर्मान् आह ।
विश्वास-प्रस्तुतिः
अस्वतन्त्रा धर्मे स्त्री ॥ १८।१ ॥
मूलम्
अस्वतन्त्रा धर्मे स्त्री ॥ १८।१ ॥
हरदत्तः
श्रौते गार्हे च धर्मे स्त्री भर्तुर् एवानुष्ठानम् अनुप्रविशति । व्रतोपवास्श्दिभिर् अपि स्मार्तैः पौराणैश् च धर्मैर् नान्तरेण भर्तुर् अनुज्ञां स्वातन्त्रेणाधिक्रियते । आह शङ्खः: “न च व्रतोपवासैर् नियमेज्यादानधर्मो वानुग्रहकरणं स्त्रीणाम् अन्यत्र पतिशुश्रूषायाः । कर्म तु भर्तुर् अनुज्ञया व्रतोपवासनियमादीनाम् अभ्यासः स्त्रीधर्मः” इति । नारदो ऽप्य् आह ।
स्त्रीकृआन्य् अप्रमाणानि कार्याण्य् आहुर् अनापदि ।
विशेषतो गृहक्षेत्रदानाध्ययनविक्रयात् ॥
एतान्य् एव प्रमाणानि भर्ता यद्य् अनुमन्यते ॥ इति ।
मनुस् तु ।
बाल्ये पितुर् वशे तिष्ठेत् पाणिग्राहस्य यौवने ।
पुत्रस्य स्थविराभावे न स्त्री स्वातन्त्र्यम् अर्हति ॥
बालया वा युवत्या वा वृद्धया वापि योषिता ।
न स्वातन्त्र्येण कर्तव्यं कार्यं किंचिद् गृहेष्व् अपि ॥ इति ॥ १८।१ ॥
विश्वास-प्रस्तुतिः
नातिचरेद् भर्तारम् ॥ १८।२ ॥
मूलम्
नातिचरेद् भर्तारम् ॥ १८।२ ॥
हरदत्तः
भर्तारं नातिक्रमेद् भर्तुर् अन्यं मनसापि न चिन्तयेत् ॥ १८।२ ॥
विश्वास-प्रस्तुतिः
वाक्चक्षुःकर्मसंयता ॥ १८।३ ॥
मूलम्
वाक्चक्षुःकर्मसंयता ॥ १८।३ ॥
हरदत्तः
यावद् अर्थसंभाषिणी वाकस्ंयता । प्रेक्ष्कादीनाम् अप्रेक्षिणी चक्षुःसंयता स्वकुटुम्बार्थकर्मव्यतिरिकानां कर्मणाम् अकर्त्रीं कर्मसंयता । एवंभूता स्यात् ॥ १८।३ ॥
हरदत्त-प्रस्तावः
अथ नातिचरेद् भर्तारम् इत्य् अस्यापवादः ।
विश्वास-प्रस्तुतिः
अपतिर् अपत्यलिप्सुर् देवरात् ॥ १८।४
मूलम्
अपतिर् अपत्यलिप्सुर् देवरात् ॥ १८।४
हरदत्तः
अनपत्याया यस्याः पतिर् मृतः सापत्यं लिप्समाना सती देवराल् लिप्सेत । पत्युर् भ्राता देवरः कनिष्ठ इत्य् उपदेशः ॥ १८।४ ॥
हरदत्त-प्रस्तावः
तत्र प्रकारः ।
विश्वास-प्रस्तुतिः
गुरुप्रसूता नर्तुम् अतीयात् ॥ १८।५ ॥
मूलम्
गुरुप्रसूता नर्तुम् अतीयात् ॥ १८।५ ॥
हरदत्तः
गुरुभिः पतिपक्षैः पितृपक्षैर् वा नियुक्ता सती संयुज्येत । तत्रापि नर्तुम् अतीयाद् ऋतुकालं नातिक्रामेत् । तत्रापि प्रथमे गमने गर्भसंभवः । श्रूयते हि तवलकाराणां ब्राह्मणे: “यद् वा प्रथमे ऽहनि रेतः सिच्यते स गर्भः संभवत्य् अथ यत्र तत् सिच्यते मुधेव तत् परासिच्यते” इति । ततश् चत्राव् अपि सकृद् एव गमनम् । अत्रौशनसो विशेषः: “नियुक्ता सर्वाङ्गं घृताभ्यक्तम् । तेन सर्वाङ्गम् आत्मानम् अभ्यज्य गच्छेत्” इति ॥ १८।५ ॥
हरदत्त-प्रस्तावः
देवराभावे क्रमेण गमनीयान् आह ।
विश्वास-प्रस्तुतिः
पिण्डगोत्रर्षिसंबन्धेभ्यो योनिमात्राद् वा ॥ १८।६ ॥
मूलम्
पिण्डगोत्रर्षिसंबन्धेभ्यो योनिमात्राद् वा ॥ १८।६ ॥
हरदत्तः
पिण्डसंबन्धः सपिण्दः । गोत्रसंबन्धः सगोत्रः । ऋषिसंबन्धः समानप्रवरा हरितकुत्सादयः । एतेभ्यः क्रमेनापत्यं लिप्सेत । योनिमात्राद् वा । अत्र स्मृत्यन्तरम्: “सर्वाभावे योनिमात्राद् ब्राह्मणजातिमात्रात्” इति ॥ १८।६ ॥
विश्वास-प्रस्तुतिः
नादेवराद् इत्य् एके ॥ १८।७ ॥
मूलम्
नादेवराद् इत्य् एके ॥ १८।७ ॥
हरदत्तः
एके मन्यन्ते देवराद् एव लिप्सेत नादेवराद् इति ॥ १८।७ ॥
विश्वास-प्रस्तुतिः
नातिद्वितीयम् ॥ १८।८ ॥
मूलम्
नातिद्वितीयम् ॥ १८।८ ॥
हरदत्तः
प्रथमम् अपत्यम् अतीय द्वितीयं न जनयेद् इति ॥ १८।८ ॥
हरदत्त-प्रस्तावः
अथैवम् उत्पादितम् अपत्यं क्षेत्रिणो जीविनो वेति विषये निर्णयम् आह ।
विश्वास-प्रस्तुतिः
जनयितुर् अपत्यम् ॥ १८।९ ॥
मूलम्
जनयितुर् अपत्यम् ॥ १८।९ ॥
हरदत्तः
जनयितुस् तदपत्यं भवति न क्षेत्रिणः । आपस्तम्बो ऽपि: “उत्पादयितुः पुत्र इति हि ब्राह्मणम्” इत्यादि ॥ १८।९ ॥
विश्वास-प्रस्तुतिः
समयाद् अन्यस्य ॥ १८।१० ॥
मूलम्
समयाद् अन्यस्य ॥ १८।१० ॥
हरदत्तः
यदि ज्ञातयः समयं कृत्वा नियुञ्जते क्षेत्रिणो ऽपत्यम् अस्त्व् इति यथा विचित्रवीर्यस्य क्षेत्रं सत्यवती तस्यां व्यासेनोत्पादितम् अपत्यम् इति ॥ १८।१० ॥
विश्वास-प्रस्तुतिः
जीवतश् च क्षेत्रे ॥ १८।११ ॥
मूलम्
जीवतश् च क्षेत्रे ॥ १८।११ ॥
हरदत्तः
यदा च जीवन्न् एव क्षेत्री रुष्णो वा प्रार्थ्यते मम क्षेत्रे पुत्रम् उत्पादयेति तदा क्षेत्रिण एवापत्यं न बीजिनः ॥ १८।११ ॥
विश्वास-प्रस्तुतिः
परस्मात् तस्य ॥ १८।१२ ॥
मूलम्
परस्मात् तस्य ॥ १८।१२ ॥
हरदत्तः
परस्माद् देवरादिव्यतिरिक्तात् तदनियुक्तायाम् अप्य् अपत्यवत्याम् अनपत्यायां चोत्पन्नः पुनस् तस्यैव बीजिनो भवति न क्षेत्रिणः ॥ १८।१२ ॥
विश्वास-प्रस्तुतिः
द्वयोर् वा ॥ १८।१३ ॥
मूलम्
द्वयोर् वा ॥ १८।१३ ॥
हरदत्तः
एवमुत्पादितम् अपत्यं द्वयोर् वा भवति बीजिक्षेत्रिणोः । इदं नियुक्ताविषयम् । तथा च याज्ञवल्क्यः ।
अपुत्रेण परक्षेत्रे नियोगोत्पदितः सुतः ।
उभयोर् अप्य् असौ रिक्थी पिण्डदाता च धर्मतः ॥ इति ॥ १८।१३ ॥
विश्वास-प्रस्तुतिः
रक्षणात् तु भर्तुर् एव ॥ १८।१४ ॥
मूलम्
रक्षणात् तु भर्तुर् एव ॥ १८।१४ ॥
हरदत्तः
यदि भर्ता क्षेत्र्य् एव रक्षणं भरणं पोषणं संस्कारादि करोति न बीजी तदा भर्तुर् एव तदपत्यम् इति । एवं मृते ॥ १८।१४ ॥
विश्वास-प्रस्तुतिः
श्रूयमाणे ऽभिगमनम् ॥ १८।१५ ॥
मूलम्
श्रूयमाणे ऽभिगमनम् ॥ १८।१५ ॥
हरदत्तः
यदा तु भर्ता श्रूयते तस्मिन् देशे स्थित इति तदा तम् अभिगच्छेत् ॥ १८।१५ ॥
विश्वास-प्रस्तुतिः
प्रव्रजिते तु निवृत्तिः प्रसङ्गात् ॥ १८।१६ ॥
मूलम्
प्रव्रजिते तु निवृत्तिः प्रसङ्गात् ॥ १८।१६ ॥
हरदत्तः
यदि तु भर्ता प्रव्रजितो भवति मोक्षाश्रमं प्राप्तो भवति तदा सर्वस्मात् प्रसङ्गान् निवृत्तिः । स्वयम् अपि निवृत्तिमुखी संयतैव स्याद् इति ॥ १८।१६ ॥
विश्वास-प्रस्तुतिः
द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धे ॥ १८।१७ ॥
मूलम्
द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धे ॥ १८।१७ ॥
हरदत्तः
विद्याधिगमार्थं प्रोषितस्य ब्राह्मणस्य भार्या द्वादश वर्षाणि क्षपयेत् । नापत्योत्पत्तिर् नाभिगमनम् ॥ १८।१७ ॥
विश्वास-प्रस्तुतिः
भ्रातरि चैवं ज्यायसि यवीयान् कन्याग्न्युपयमेषु
॥ १८।१८ ॥
मूलम्
भ्रातरि चैवं ज्यायसि यवीयान् कन्याग्न्युपयमेषु
॥ १८।१८ ॥
हरदत्तः
ज्येष्ठे भ्रतर्य् अकृतदारे ऽनाहिताग्नौ च प्रोषिते कनीयान् भ्रातैवं द्वादशवर्षाणि प्रतीक्षेत । ततः कन्याम् उपयच्छेद् अग्नींश् चादधीत । अत्र वासिष्ठो विशेषः: “अष्टौ दश द्वादश वर्षाणि ज्येष्ठं भ्रातरम् अनिविष्टं न प्रतीक्षमाणः प्रायश्चित्तीयो भवतीति ।
द्वादशैव तु वर्षाणि ज्यायान् धर्मार्थयोग्यतः ।
न्याय्यः प्रीक्षितुं भ्राता श्रूयमाणः पुनः पुनः ॥ इति च ॥ १८।१८ ॥
विश्वास-प्रस्तुतिः
षड् इत्य् एके ॥ १८।१९ ॥
मूलम्
षड् इत्य् एके ॥ १८।१९ ॥
हरदत्तः
एके मन्यन्ते षड् एव वर्षाणि प्रतीक्षेतेति । प्रोषिते चात्यन्तवृद्धे स्थिते चात्यन्तधर्मपर इदम् ॥ १८।१९ ॥
हरदत्त-प्रस्तावः
गतं प्रासाङ्गिकं पुनर् अपि स्त्रीधर्मान् आह ।
विश्वास-प्रस्तुतिः
त्रीन् कुमार्य् ऋतून् अतीय स्वयं युज्येतानिन्दितेनोत्सृज
पित्र्यान् अलंकारान् ॥ १८।२० ॥
मूलम्
त्रीन् कुमार्य् ऋतून् अतीय स्वयं युज्येतानिन्दितेनोत्सृज
पित्र्यान् अलंकारान् ॥ १८।२० ॥
हरदत्तः
यदि कन्यां पित्रादिर् न दद्यत् ततस् त्रीन् ऋतून् अतीत्य स्वयम् एवानिन्दितेन कुलविद्याशीलादियुक्तेन भर्त्रा युज्येत पित्र्यान् पितृकुलायातान् अलंकारान् उत्सृज्य । अत्र मनुः ।
अलंकारं नाददीत पित्र्यं कन्या स्वयंवरा ।
मातृकं भ्रातृदत्तं वा स्तेयं स्याद् यदि किंचन ॥ इति ॥ १८।२० ॥
हरदत्त-प्रस्तावः
अत एव ।
विश्वास-प्रस्तुतिः
प्रदानं प्राग् ऋतोः ॥ १८।२१
मूलम्
प्रदानं प्राग् ऋतोः ॥ १८।२१
हरदत्तः
ऋतुदर्शनात् प्राग् एव देया कन्या ॥ १८।२१ ॥
विश्वास-प्रस्तुतिः
अप्रयच्छन् दोषी ॥ १८।२२ ॥
मूलम्
अप्रयच्छन् दोषी ॥ १८।२२ ॥
हरदत्तः
तस्मिन् काले ऽप्रयच्छन् पित्रादिर् दोषवान् भवति । अत्र याज्ञवल्क्यः ।
पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥
अप्रयच्छन् समाप्नोति भ्रूणहत्याम् ऋताव् ऋतौ ॥ इति ॥ १८।२२ ॥
विश्वास-प्रस्तुतिः
प्राग् वाससः प्रतिपत्तेर् इत्य् एके ॥ १८।२३ ॥
मूलम्
प्राग् वाससः प्रतिपत्तेर् इत्य् एके ॥ १८।२३ ॥
हरदत्तः
एके मन्यन्ते यदा कन्या वासः प्रतिपद्यते ऽथ वा लज्जते तावद् एव प्रदेयेति ॥ १८।२३ ॥
विश्वास-प्रस्तुतिः
द्रव्यादानं विवाहसिद्ध्यर्थं धर्मतन्त्र-
संयोगे च शूद्रात् ॥ १८।२४ ॥
मूलम्
द्रव्यादानं विवाहसिद्ध्यर्थं धर्मतन्त्र-
संयोगे च शूद्रात् ॥ १८।२४ ॥
हरदत्तः
द्रव्यम् अननुज्ञातम् अपि शूद्राच् चैलादिकम् आदेयं विवाहसिद्ध्यर्थं यावता विवाहः सिध्यति तावत् । अधिके दोषः । तथा धर्मस्य पशुबन्धादेः प्रवृत्तस्य यत् तत्रम् अङ्गम् अश्वादि तस्य संयोगे ऽविच्छेदसिद्ध्यर्थे यावता तन् निवर्तते [निर्वर्तते] तावद् अननुज्ञातम् अप्य् आदेयं शूद्रात् । अधिके दोषः ॥ १८।२४ ॥
विश्वास-प्रस्तुतिः
अन्यत्रापि शूद्राद् बहुपशोर् हीनकर्मणः ॥ १८।२५ ॥
मूलम्
अन्यत्रापि शूद्राद् बहुपशोर् हीनकर्मणः ॥ १८।२५ ॥
“इतराभ्यो ऽपि दृश्यन्ते” इति पञ्चम्यास् त्रल् । शूद्राद् अन्यतो ऽपि द्रव्यम् आदेयं स चेद् बहुपशुस् तथा हीनकर्मा भवति । तदनुरूपं कर्म न करोति निषिद्धं वा कर्म सेवते । शूद्रग्रहणं विधिर् अयं यथा स्याद् इति । तेन शूद्रालाभे वैश्यत् । तदलाभे क्षत्रियात् ॥ १८।२५ ॥
उक्तम् एवार्थम् उदाहरणेन दर्शयति ।
विश्वास-प्रस्तुतिः
शतगोर् अनाहिताग्नेः ॥ १८।२६ ॥
मूलम्
शतगोर् अनाहिताग्नेः ॥ १८।२६ ॥
हरदत्तः
गोग्रहणम् उपलक्षणम् । यस् तावद् द्रव्यो भवत्य् अग्नींश् च नाधत्ते । निषिद्धकर्मसेवी तु दण्डापूपिकया व्याख्यातः ॥ १८।२६ ॥
विश्वास-प्रस्तुतिः
सहस्रगोश् चासोमपात् ॥ १८।२७ ॥
मूलम्
सहस्रगोश् चासोमपात् ॥ १८।२७ ॥
हरदत्तः
पूर्वेण गतम् । यः सहस्रगुश् च भवति सोमं च न पिबति तस्माद् इति ॥ १८।२७ ॥
विश्वास-प्रस्तुतिः
सप्तमीं चाभुक्त्वानिचयाय ॥ १८।२८ ॥
मूलम्
सप्तमीं चाभुक्त्वानिचयाय ॥ १८।२८ ॥
हरदत्तः
सप्तम्यर्थे द्वितीया । षट्सु वेलासु भोज्यालाभेनाभुक्त्वा सप्तम्यां वेलायां यावता वृत्तिस् तावद् अननुमतम् अप्य् आदेयम् । अनिचयः पुनस् तेन निचयो न कर्तव्यः । श्वो भोज्यम् अपि नादेयम् । अत्र मनुः ।
तथैव सप्तमे भक्ते भक्तानि षद् अश्णता ।
अश्वरत्नविधानेन हर्तव्यं हीनकर्मणा ॥ इति ॥ १८।२८ ॥
विश्वास-प्रस्तुतिः
अप्य् अहीनकर्मभ्यः ॥ १८।२९ ॥
मूलम्
अप्य् अहीनकर्मभ्यः ॥ १८।२९ ॥
हरदत्तः
अस्याम् अवस्थायाम् अहीनकर्मभ्यो ऽप्य् आदेयम् । अपिशब्दः कथंचिद् अस्यानुज्ञातम् इति दर्शयति । तेन प्राणसंशय एवेदं भवति ॥ १८।२९ ॥
विश्वास-प्रस्तुतिः
आचक्षीत राज्ञा पृष्टः ॥ १८।३० ॥
मूलम्
आचक्षीत राज्ञा पृष्टः ॥ १८।३० ॥
हरदत्तः
यद्य् असाव् एवं कुर्वन् स्वामिभिर् गृहीतो राजसकाशं नीतस् तेन पृष्टः किम् इत्थम् अकार्षीर् इति तदा स्वाम् अवस्थाम् आचक्षीत । न तु मिथ्या वदेद् इति ॥ १८।३० ॥
विश्वास-प्रस्तुतिः
तेन हि भर्तव्यः श्रुतशीलसंपन्नश् चेत् ॥ १८।३१ ॥
मूलम्
तेन हि भर्तव्यः श्रुतशीलसंपन्नश् चेत् ॥ १८।३१ ॥
हरदत्तः
हिश्चार्थे (?) । तेन च राज्ञा स न केवलम् अदण्ड्यः किं तर्हि तत आरभ्य भर्तव्यस् तवेयम् अवस्था मया न ज्ञातेति सान्त्वयित्वा । स चेच् छ्रुतवृत्तशीलसंपन्नो भवति । श्रुतं शास्त्रपरिज्ञानम् । शीलं तदनुकूल आचारः । इतरो ऽपि न दण्ड्यः । भरणं तु तस्य तादृशं न कार्यम् । दण्डाभावः पूर्वयोर् अपि निमित्तयोः समानः ॥ १८।३१ ॥
विश्वास-प्रस्तुतिः
धर्मतन्त्रपीडायां तस्याकरणे दोषो [ऽकरणे दोषः]
॥ १८।३२ ॥
मूलम्
धर्मतन्त्रपीडायां तस्याकरणे दोषो [ऽकरणे दोषः]
॥ १८।३२ ॥
हरदत्तः
यदि पशुबन्धादौ धर्मे प्रवृत्तस्य तदङ्गं पाश्वादि केनचित् पीडितं भवति हतम् अपहृतं वा तस्मिन् निवेदिते तदैव तस्य प्रतिविधानं कार्यं राज्ञा । अकरणे दोषो भवति । अभ्यासो ऽध्यायसमाप्त्यर्थः ॥ १८।३२ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने अष्टादशो ऽध्यायः
अथ तृतीयः प्रश्नः