१७

अथ सप्तदशो ऽध्यायः

हरदत्त-प्रस्तावः

मानसम् अप्य् अशुचिर् इत्य् उक्तम् । तच् चाशुचित्वम् आहारजनितम् अपि भवतीति भक्ष्याभक्ष्यप्रकरणम् आरभ्यते ।

विश्वास-प्रस्तुतिः

प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो
भुञ्जीत ॥ १७।१ ॥

मूलम्

प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो
भुञ्जीत ॥ १७।१ ॥

हरदत्तः

स्वकर्मसु वर्णप्रयुक्तेष्व् आश्रमप्रयुक्तेषूभयप्रयुक्तेषु च ये प्रशस्ताः “अहो अयं स्वकर्मानुतिष्ठति” इति तेषां द्विजातीनां गृहे ब्राह्मणो भुञ्जीत । क्षुदुपघातार्था भोजने प्रवृत्तिः । शक्या च यस्य कस्यचिद् गृहे भुञ्जानेन क्षुद् उपहन्तुम् । तत्र परिसंचष्ट गृहे ब्राःमणो भुञ्जीत नान्येषाम् इति ॥ १७।१ ॥

विश्वास-प्रस्तुतिः

प्रतिगृह्णीयाच् च ॥ १७।२ ॥

मूलम्

प्रतिगृह्णीयाच् च ॥ १७।२ ॥

हरदत्तः

प्रतिग्रहो ऽप्य् एषाम् एव सकाशान् नान्येषाम् इति ॥ १७।२ ॥

हरदत्त-प्रस्तावः

अस्यापवादः ।

विश्वास-प्रस्तुतिः

एधोदकयवसमूलफलमध्वभयाभ्युद्यत-
शय्यासनावसथयानपयोदधिधानाशफरीप्रियङ्गु-
स्रङ्मार्गशाकान्य् अप्रणोद्यानि सर्वेषाम् ॥ १७।३ ॥

मूलम्

एधोदकयवसमूलफलमध्वभयाभ्युद्यत-
शय्यासनावसथयानपयोदधिधानाशफरीप्रियङ्गु-
स्रङ्मार्गशाकान्य् अप्रणोद्यानि सर्वेषाम् ॥ १७।३ ॥

हरदत्तः

एधः काष्ठम् । उदकं घटादिस्थम् अपि । यवसं तृणादि । मूलम् आर्द्रकादि । फलम् आम्रादि । मधु माक्षिकम् । अभयं परित्राणम् । अभ्युद्यतम् अयाचितेनापि दात्रा स्वयम् आनीतम् इदं गृहाणेति । शय्या कटादि । आसनं पीठादि । आवसथः प्रतिश्रयः । यानं शकटादि । दधिपयसी प्रसिद्धे । धाना भृष्टा यवाः । शफरी मत्स्यविशेषः । [प्रियङ्गू राजिका] । स्रङ् माला । मार्गं मृगमांसम्, पन्था वा मार्गः । शाकं वास्तुकादि । एतान्य् एधादीन्य् अप्रणोद्यानि सर्वतः प्रतिग्राह्याणि याचित्वापि । अभ्युद्यतं पक्वान्नाद्य् अप्रणोद्यम् अप्रत्याख्येयं प्रत्याख्याने दोषः । तथा च आपस्तम्बः ।

उद्यताम् आहृतां भिक्षां पुरस्ताद् अप्रवेदिताम् ।
भोज्यां मेने प्रजापतिर् अपि दुष्कृतकारिणः ॥
न तस्य पितरो ऽश्नन्ति दश वर्षाणि पञ्च च ।
न च हव्यं वहत्य् अग्निर् यस् ताम् अभ्यवमन्यते ॥ इति ।

अस्यापवादः ।

चिकित्सकस्य मृगयोः शल्यकृन्तस्य पाशिनः ।
कुलटायाश् च षण्ढस्य तेषाम् अन्नम् अनाद्यम् ॥ इति ॥ १७।३ ॥

विश्वास-प्रस्तुतिः

पितृदेवगुरुभृत्यभरणे ऽप्य् अन्यत् ॥ १७।४ ॥

मूलम्

पितृदेवगुरुभृत्यभरणे ऽप्य् अन्यत् ॥ १७।४ ॥

हरदत्तः

पितृभरणम् अविच्छेदेन श्राद्धकरणम् । देवभरणम् अग्निहोत्रादि । गुरवः पित्रादयः । भृत्याः पुत्रदासादयः । तेषां भरणं भक्तादिदानम् । एतेषु निमित्तेष्व् अन्यद् अप्य् उक्ताद् अन्यद् अप्य् अप्रणोद्यम् । मनुश् च ।

गुरून् भृत्यांश् चोद्धरिष्यन्न् अर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान् न तु तृप्येत् स्वयं ततः ॥ इति ॥ १७।४ ॥

विश्वास-प्रस्तुतिः

वृत्तिश् चेन् नान्तरेण शूद्रात् ॥ १७।५ ॥

मूलम्

वृत्तिश् चेन् नान्तरेण शूद्रात् ॥ १७।५ ॥

हरदत्तः

यदि शूद्रप्रतिग्रहम् अन्तरेण वृत्तिर् जीवनं न निर्वर्तते तदा शूद्राद् अपि प्रतिगृह्णीयात् ॥ १७।५ ॥

विश्वास-प्रस्तुतिः

पशुपालक्षेत्रकर्षककुलसंगतकारयितृपरिचारका
भोज्यान्नाः ॥ १७।६ ॥

मूलम्

पशुपालक्षेत्रकर्षककुलसंगतकारयितृपरिचारका
भोज्यान्नाः ॥ १७।६ ॥

हरदत्तः

यो यस्य पशून् पालयति क्षेत्रं च कर्षति, यश् च यस्य कुले संगतः पारम्पयेण मित्ररूपेणागतः, यश् च यस्य परिचारको दासस् ते तेषां भोज्यान्नाः । पक्वम् अप्य् अन्नं तेषां भुञ्जीरन् । कारुः कारयिता । “ऊर्ध्वं नापितः श्मश्रूणि कारयति” इति हि दृश्यते । स च विप्राद् वैश्यायाम् अनूढायां जातः सो ऽपि भोज्यान्नः । तत्र मनुः ।

क्षेत्रिकः कुलमित्रश् च गोपालो दासनापितौ ।
एते शूद्रेषु भोज्यान्ना यश् चात्मानं निवेदयेत् ॥ इति ।

एतच् चात्यन्तापद्विषयम् ॥ १७।६ ॥

विश्वास-प्रस्तुतिः

वणिक् चाशिल्पी ॥ १७।७ ॥

मूलम्

वणिक् चाशिल्पी ॥ १७।७ ॥

हरदत्तः

वणिक् च भोज्यान्नः, से चेद् अशिल्पी कुम्भकारादिको न भवति ॥ १७।७ ॥

हरदत्त-प्रस्तावः

अथाभोज्यम् आह ।

विश्वास-प्रस्तुतिः

नित्यम् अभोज्यम् ॥ १७।८ ॥

मूलम्

नित्यम् अभोज्यम् ॥ १७।८ ॥

हरदत्तः

नित्यं परगृहे न भोक्तव्यम् । गृहस्थस्यायं प्रतिषेधः,

उपासते गृहस्था ये परपाकम् अबुद्धयः ।

इति मानवे दर्शनात् । अन्येभ्यो यावत् प्रत्यहं दीयते तन् नित्यम् अभोज्यम् ॥ १७।८ ॥

विश्वास-प्रस्तुतिः

केशकीटावपन्नम् ॥ १७।९ ॥

मूलम्

केशकीटावपन्नम् ॥ १७।९ ॥

हरदत्तः

यच् चान्नं केशैः कीटैर् वा संबद्धं तद् अप्य् अभोज्यम् । अत्र वसिष्ठः: “कामं तु केशकीटान् उत्सृज्याद्भिः प्रोक्ष्य भस्मनावकीर्य वाचा प्रशस्तम् उपयुञ्जीत” इति । मनुस् तु ।

पक्षिजग्धं गवा घ्रातम् अवधूतम् अवक्षुतम् ।
केशकीटावपन्नं च मृत्प्रक्षेपेण शुध्यति ॥ इति ।

तद् एषां रुचितो व्यवस्था । अपर आह – पाकाद् आरभ्य यत् केशकीटावपन्नं तत्र गौतमीयम् ऊर्ध्वं तु वासिष्ठमानव इति ॥ १७।९ ॥

विश्वास-प्रस्तुतिः

रजस्वलाकृष्णशकुनिपदोपहतम् ॥ १७।१० ॥

मूलम्

रजस्वलाकृष्णशकुनिपदोपहतम् ॥ १७।१० ॥

हरदत्तः

कृष्णशकुनिः काकः । पदग्रहणं तुण्डादेर् अप्य् अवयवस्योपलक्षणम् । रजस्वलया कृष्णशकुनिपदेन वोपहतं स्पृष्टम् अन्नम् अभोज्यम् । प्रभूते त्व् अन्ने पराशरः ।

शृतं द्रोणाधिकं चान्नं श्वकाकैर् उपघातितम् ।
न त्याज्यं तस्य शुद्ध्यर्थं ब्राह्मणेभ्यो निवेदयेत् ॥
गायत्र्यष्टसहस्रेण मन्त्रपूतेन वारिणा ।
भोज्यं तत् प्रोक्षितं विप्रैः पर्यग्निकृतम् एव च ॥ इति ।

उपहतं प्रदेशम् उद्धृत्येदं कार्यम् ॥ १७।१० ॥

विश्वास-प्रस्तुतिः

भ्रूणघ्नावेक्षितम् ॥ १७।११ ॥

मूलम्

भ्रूणघ्नावेक्षितम् ॥ १७।११ ॥

हरदत्तः

भ्रूणहा ब्रह्महा । तथा च वसिष्ठः: “ब्राह्मणं हत्वा भ्रूणहा भवति” इति । तेन प्रेक्षितम् अप्य् अभोज्यम् ॥ १७।११ ॥

विश्वास-प्रस्तुतिः

भावदुष्टम् ॥ १७।१२ ॥

मूलम्

भावदुष्टम् ॥ १७।१२ ॥

हरदत्तः

भोजयित्रावज्ञानेन दत्तं भोक्तुर् व मनसो दुष्टिकरं भावदुष्टम् । तद् अप्य् अभोज्यम्

॥ १७।१२ ॥

विश्वास-प्रस्तुतिः

गवोपघ्रातम् ॥ १७।१३ ॥

मूलम्

गवोपघ्रातम् ॥ १७।१३ ॥

हरदत्तः

गवा चोपसमीपे घ्रातम् अभोज्यम् ॥ १७।१३ ॥

विश्वास-प्रस्तुतिः

शुक्तं केवम अदधि ॥ १७।१४ ॥

मूलम्

शुक्तं केवम अदधि ॥ १७।१४ ॥

हरदत्तः

यत् पक्वं कालवशाद् अम्लरसं तत् केवलं शुक्तम् । तद् अभोज्यम् । केवलग्रहणात् क्षीरोदकादिसंपृक्तम् अम्लम् अपि भोज्यम् । दधि तु केवम् अप्य् अल्म्लं भोज्यम् । तक्रकाञ्जिकयोर् अपक्वत्वान् नायं प्रतिषेधः । आचारो ऽपि तक्रे निर्विवादः । काञ्जिके सविवादः

॥ १७।१४ ॥

विश्वास-प्रस्तुतिः

पुनःसिद्धम् ॥ १७।१५ ॥

मूलम्

पुनःसिद्धम् ॥ १७।१५ ॥

हरदत्तः

सकृत्पक्वस्य तादृश एव पाकः पुनः क्रियते पूर्वं शुक्तपक्वम् इति तत् पुनःसिद्दम् । तद् अभोज्यम् । अन्यथापक्वस्य तु पाकान्तरे भर्जनादौ न दोषः ॥ १७।१५ ॥

विश्वास-प्रस्तुतिः

पर्युषितम् अशाकभक्षस्नेहमांसमधूनि ॥ १७।१६ ॥

मूलम्

पर्युषितम् अशाकभक्षस्नेहमांसमधूनि ॥ १७।१६ ॥

हरदत्तः

उदयास्तमयान्तरितं पर्युषितम् । दिवा पक्वं रात्रौ रात्रिपक्वं दिवा तद् अशुक्तम् अप्य् अभोज्यम् । शाकादि तु पर्युषितम् अपि भोज्यम् । शाकम् उक्तम् । भक्षाः पृथुकापूपादयः । स्नेहो घृततैलादिः । मांसं प्रसिद्धम् । मधु च । एतानि पर्युषितान्य् अप् भोज्यानि । स्नेहमध्वादीनाम् अपक्वत्वाद् एवापर्युषितत्वं तस्मात् स्नेहमधुग्रहणं तत्संसृष्टस्यापि पर्युषितस्य पर्युदासार्थम् । तेन तत्संसृष्टं पर्युषितम् अपि भोज्यम् अगर्हितम् ।

तत् पर्युषितम् अप्य् आद्यं हविःशेषं च यद् भवेत् ॥ इति ॥ १७।१६ ॥

विश्वास-प्रस्तुतिः

उत्सृष्टपुंश्चल्यभिशस्तानपदेश्यदण्डिकतक्ष-
कदर्यबन्धनिकचिकित्सकमृगय्वनिषुचार्युच्छिष्ट-
भोजिगणविद्विषाणानाम् ॥ १७।१७ ॥

मूलम्

उत्सृष्टपुंश्चल्यभिशस्तानपदेश्यदण्डिकतक्ष-
कदर्यबन्धनिकचिकित्सकमृगय्वनिषुचार्युच्छिष्ट-
भोजिगणविद्विषाणानाम् ॥ १७।१७ ॥

हरदत्तः

उत्सृष्टः पितृभ्यां परित्यक्तः ।

गण्डस्योपरिजातानां परित्यागो विधीयते ।

इत्यादिना कारणेन दुर्भिक्षे रक्षणाशक्त्या, प्रातिकूल्येन वा । पुंश्चली – अनियतपुंसका व्यभिचारिणी गणिका च । अभिशस्तः सतासता वा दोषेण ख्यातः । अनपदेश्यैवंभूतो ऽयम् इति व्यपदेशानर्हः । स्त्रीत्वपुंस्त्वाभ्याम् अनिर्देश्या तृतीया प्रकृतिर् इत्य् अन्ये । दण्डिको राज्ञा दण्डाधिकारे नियुक्तः । शूद्रात् प्रातिलोम्येन वैश्यायां जातस् तक्षा । वैश्यात् क्षत्रियायां जातो माहिष्यः । शूद्रायाम् ऊढायां वैश्याज् जाता करणी, तस्यां माहिष्याज् जातो रथकारः । स तक्षेत्य् अन्ये । कदर्यो लुब्धः । यम् अधिकृत्य मनुर् आह ।

श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः । इति ।

बन्धनिको बन्धकागाररक्षी । चिकित्सिको वैद्यः शल्यकर्ता वा । यो मृगयुः सन्न् इषुचारी न भवति किं तु पाशचारी स मृगय्व्स्निषुचारी वागुरिकः । उच्छिष्टभोजी निगदसिद्धः । गणो जनसमुदायः । विद्विषाणः शत्रुः । एतेषाम् उत्सृष्टादीनाम् अन्नम् अभोज्यम् । ये ऽत्र प्रशस्ता द्विजातयो न भवन्ति तेषां ग्रहणम् उदितप्रतिषेधार्थम् । तथा च आपस्तम्बः: “चिकित्सिकस्य मृगयोः” इत्यादि । आपद्य् अपि प्रतिषेधार्थम् इत्य् अन्ये ॥ १७।१७ ॥

विश्वास-प्रस्तुतिः

अपङ्क्त्यानां प्राग् दुर्वालात् ॥ १७।१८ ॥

मूलम्

अपङ्क्त्यानां प्राग् दुर्वालात् ॥ १७।१८ ॥

हरदत्तः

ये चापङ्क्त्याः प्राग् उपदिष्टास् त्यकात्मपर्यन्तास् तेषाम् अप्य् अन्नम् अभोज्यम् ॥ १७।१८ ॥

विश्वास-प्रस्तुतिः

वृथान्नाचमनोत्थानव्यपेतानि ॥ १७।१९ ॥

मूलम्

वृथान्नाचमनोत्थानव्यपेतानि ॥ १७।१९ ॥

हरदत्तः

यद् आत्मार्थं पच्यते नातिथ्याद्यर्थं तद् वृथान्नम् । श्रूयते हि “मोघम् अन्नं विन्दते अप्रचेताः” इत्यादि । भोजनमध्ये यत्र कोपादिना पुनर् आचम्यत उत्थीयते वा । अपेताद् अन्यद् व्यपेतं सहितम् इति । एते आचमनोत्थानव्यपेते अन्ने । एतानि वृथान्नादीन्य् अभोज्यानि । अत्र उशना: “अगुरुभिर् आचमनोत्थानं च” इति । एकस्यां पङ्क्तौ बहुषु भुञ्जानेष्व् एकेनापि गुरुव्यतिरिकेनाचमन उत्थाने वा कृत इतरेषाम् अप्य् अभोज्यम् इति । गुरुभिः कृते न दोषः ॥ १७।१९ ॥

विश्वास-प्रस्तुतिः

समासमाभ्यां विषमसमे पूजातः ॥ १७।२० ॥

मूलम्

समासमाभ्यां विषमसमे पूजातः ॥ १७।२० ॥

हरदत्तः

कुलशीलादिभिस् तुल्यः समः । विपरीतो ऽसमः । विषमसमशब्दौ बावपरौ । विषमसम इति समाहारद्वन्द्वः । पूजातः पूजायाम् आसनपरिचरणादिकायां समेन सह पूजायां विषमे ऽसमेन च साम्ये क्रियमाणे तदन्नम् अभोज्यम् ॥ १७।२० ॥

विश्वास-प्रस्तुतिः

अनर्चितं च ॥ १७।२१ ॥

मूलम्

अनर्चितं च ॥ १७।२१ ॥

हरदत्तः

यच् चानर्चितं दीयते “वैधवेय भक्षय” इति तद् अप्य् अभोज्यम् । प्रतिग्रहे ऽपि तुल्यम् एतत् । यथाह मनुः ।

यो ऽर्चितं प्रतिगृह्णाति ददात्य् अर्चितम् एव यः ।
ताव् उभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ इति ।

“सायं पातर् अशनान्य् अभुपूजयेत्” इति वसिष्ठः । तदकरणम् अनर्चितम् इत्य् अर्न्ये ॥ १७।२१ ॥

विश्वास-प्रस्तुतिः

गोश् च क्षीरम् अनिर्दशायाः सूतके ॥ १७।२२ ॥

मूलम्

गोश् च क्षीरम् अनिर्दशायाः सूतके ॥ १७।२२ ॥

हरदत्तः

सूतकं प्रसवः । प्रसूताया अनतिक्रान्तदशाहायाः गोः क्षीरम् आभोज्यम् ॥ १७।२२ ॥

विश्वास-प्रस्तुतिः

अजामहिष्योश् च ॥ १७।२३ ॥

मूलम्

अजामहिष्योश् च ॥ १७।२३ ॥

हरदत्तः

अजामहिष्योः सूतके ऽनिर्दशाहयोः क्षीरम् अपेयम् ॥ १७।२३ ॥

विश्वास-प्रस्तुतिः

नित्यम् आविकम् अपेयम् औष्ट्रम् ऐकशफं च ॥ १७।२४ ॥

मूलम्

नित्यम् आविकम् अपेयम् औष्ट्रम् ऐकशफं च ॥ १७।२४ ॥

हरदत्तः

नित्यग्रहणान् न केवलम् अनिर्दशाहम् एव । अविर् एवाविकः । उष्ट्रः प्रसिद्धः । एकशफा एकखुरा अश्वादयः । अविकादीनां संबन्धि क्षीरं नित्यम् अपेयम् । मनुस् तु ।

आरान्यानां तु सर्वेषां मृगाणां महिषं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ इति ॥ १७।२४ ॥

विश्वास-प्रस्तुतिः

स्यन्दिनीयमसूसंधिनीनां च ॥ १७।२५ ॥

मूलम्

स्यन्दिनीयमसूसंधिनीनां च ॥ १७।२५ ॥

हरदत्तः

यस्याः स्तनेभ्यः क्षीरं स्यन्दते सा स्यन्दिनी । यमसूर् युग्मवत्ससूतिका । या गर्भिणी दुग्धे सा संधिनी । एककालदोहनेत्य् अन्ये । एवंभूतानां गवादीनां क्षीरम् अपेयम् ॥ १७।२५ ॥

विश्वास-प्रस्तुतिः

विवत्सायाश् च ॥ १७।२६ ॥

मूलम्

विवत्सायाश् च ॥ १७।२६ ॥

हरदत्तः

वत्सेन वियुक्ता विवत्सा । तस्याश् च गवादेः क्षीरम् अपेयम् । अत्र प्रकरणे प्रतिषीद्धविकारस्यापि दध्यादेः प्रतिषेधम् इच्छन्ति । आचारस् त्व् अनिर्दशायां तथान्यत्रानियतः ॥ १७।२६ ॥

हरदत्त-प्रस्तावः

इदानीं स्वरूपत एवाभक्ष्यान् आह ।

विश्वास-प्रस्तुतिः

पञ्चन्खाश् चाशल्यकशशश्वाविद्गोधाखड्गकच्छपाः
॥ १७।२७ ॥

मूलम्

पञ्चन्खाश् चाशल्यकशशश्वाविद्गोधाखड्गकच्छपाः
॥ १७।२७ ॥

हरदत्तः

अभक्ष्या इत्य् उत्तरत्र वक्ष्यति । येषां पाणिपादेषु पञ्चोच्चा नखास् ते पञ्चनखा वानरादयो ऽभक्ष्याः । शल्यादीन् वर्जयित्वा । शल्यको वराहविशेषो यस्य नाराचाकाराणि लोमानि । शशः प्रसिद्धः । श्वावित् कल्पको यस्य चर्मणा तनुत्राणं क्रियते । गोधा कृकलासाकृतिर् महाकायः । खड्गो मृगावशेषः । शृङ्गमृत्युः । कच्छपः प्रसिद्धः । अत्र पठन्ति ।

अभक्ष्याणां तु यन् मूत्रं तद् उच्छिष्टं तथैव च ।
अभोज्यम् इति निर्दिष्टं विष्ठा चैव प्रयत्नतः ॥ इति ॥ १७।२७ ॥

विश्वास-प्रस्तुतिः

उभयतोदत्क्देश्यलोमैकशफकलविङ्कप्लव-
चक्रवाकबाकहंसाः ॥ १७।२८ ॥

मूलम्

उभयतोदत्क्देश्यलोमैकशफकलविङ्कप्लव-
चक्रवाकबाकहंसाः ॥ १७।२८ ॥

हरदत्तः

उभयतोदन्ता अश्वादयः । दद्भाव आर्षः । केशिनः केशातिशययुक्ताश् चमर्यादयः । अलोमानः सर्पादयः । एकशफा एकखुराः । अनुभयतोदन्तार्थम् इदम् । कलविङ्को ग्रामचटकः । प्लवः शकटबिलाख्यः पक्षी । हंसचक्रवाकौ प्रसिद्धौ । एते चाभक्ष्याः ॥ १७।२८ ॥

विश्वास-प्रस्तुतिः

काककङ्कगृध्रश्येना जलजा रक्तपादतुण्डा
ग्राम्यकुक्कुतसूकराः ॥ १७।२९ ॥

मूलम्

काककङ्कगृध्रश्येना जलजा रक्तपादतुण्डा
ग्राम्यकुक्कुतसूकराः ॥ १७।२९ ॥

हरदत्तः

काकादयः प्रसिद्धाः । जलजा अपि पक्षिण एव काकादिसंनिधानात् । तेषां विशेषणं रक्तपादतुण्डा इति । ग्रामे भवो ग्राम्यः । उत्तरयोश् चैतद् विशेषणं ग्राम्यकुक्कुटो ग्राम्यसूकर इति । आरण्ययोर् अप्रतिषेधः ॥ १७।२९ ॥

विश्वास-प्रस्तुतिः

धेन्वनडुहौ च ॥ १७।३० ॥

मूलम्

धेन्वनडुहौ च ॥ १७।३० ॥

हरदत्तः

धेनुः पयस्विनी गौः । अनड्वान् अनोवहनयोग्यो बलीवर्दः । द्वन्द्वे ऽचतुरेत्यादिसमासान्तनिपातनाद् धेन्वनड्वाहाव् इति [न] प्राप्नो[ती]इति तद् अनादृतम् । अपपाठो वा । धेन्वनडुहौ चाभक्ष्यौ । आपस्तम्बीये तु गोत्राभ्यां (या) मांसं भक्ष्यम् उक्त्वा धेन्वनुडुहो(हयो)र् भक्ष्यं मेध्यम् आनडुहम् इति वाजसएयकम् इत्य् उक्तम् । आनडुहं च केवलं भक्ष्यं किं तर्हि मेध्यम् अपीत्य् अर्थः । बह्वृचब्राह्मणेषू श्रूयते – तद् यथैवादोमनुष्यराज आगते ऽन्यस्मिन् वा ऽर्हत्य् उक्षाणं वा वेहतं वाक्षदत इति । तत्रातिथेर् भक्ष्यम् अन्येषाम् अभक्ष्यम् इति । वधो ऽपि किल तत्रानुज्ञातः “दाशगोघ्नौ संप्रदाने” गौर् यस्मौ हन्यते स गोघ्नो ऽतिथिर् इति । एवं किल पूवम् आचारः । इदानीं गन्धो ऽपि (?) ॥ १७।३० ॥

विश्वास-प्रस्तुतिः

अपन्नदन्नवसन्नवृथामांसानि ॥ १७।३१ ॥

मूलम्

अपन्नदन्नवसन्नवृथामांसानि ॥ १७।३१ ॥

हरदत्तः

अपन्नदन् नपतितदन्तः । सो ऽप्रतिषिद्धो ऽपि न भक्ष्यः । “यदा वै पशोर् दन्ताः पद्यन्ते ऽथ स मेध्य् भवति” इति बह्वृचब्राह्मणम् । “यो ऽपन्नदन् मलं तत् पशूनाम् इति विज्ञायते” इत्य् आपस्तम्बः । अवसन्नो व्याधितः । वृथामांसं वृथान्नेन व्याख्यातम् । पुनः प्रतिषेधस् तु मांसस्य प्रायश्चित्तगौरवार्थः ॥ १७।३१ ॥

विश्वास-प्रस्तुतिः

किसलयक्याकु(किम्पाकु)लशुननिर्यासाः ॥ १७।३२ ॥

मूलम्

किसलयक्याकु(किम्पाकु)लशुननिर्यासाः ॥ १७।३२ ॥

हरदत्तः

किसलयः पल्लवो ऽग्रप्ररोहः । क्याकुश् (किम्पाकुश्) छत्राकः । लशुनं प्रसिद्धम् । निर्यासो वृक्षत्वग्भूतो घनीभूतो रसो हिङ्ग्वादिः । किसलयादयो ऽप्य् अभक्ष्याः ॥ १७।३२ ॥

विश्वास-प्रस्तुतिः

लोहिता व्रश्चनाः ॥ १७।३३ ॥

मूलम्

लोहिता व्रश्चनाः ॥ १७।३३ ॥

हरदत्तः

वृक्षादिषु वृक्णप्रदेशे भवा वश्चना निर्यासास् ते लोहिताश् चेन् न भक्ष्याः । स्वयंसूना निर्यासा लोहिता अलोहिताश् चाभक्ष्याः । व्रश्चनप्रभवास् तु लोहिता एव । मनुस् तु:

लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस् तथा । इति ।

केचित् तु लोहितशब्दं किसलयादिष्व् अपि पठन्ति । हिङ्गुस् तु निर्यासो व्रश्चनप्रभवो न वेति चिन्त्यम् । सर्वथा शिष्टा अपि भक्षयन्ति । कर्पूरस् तु न निर्यासो न व्रश्चनप्रभवो न लोहितस् तस्माद् भक्ष्य एव ॥ १७।३३ ॥

विश्वास-प्रस्तुतिः

निचुदारुबकबलाकाशुकमद्गुटिट्टिभमास्थाल-
नक्तंचरा अभक्ष्याः ॥ १७।३४ ॥

मूलम्

निचुदारुबकबलाकाशुकमद्गुटिट्टिभमास्थाल-
नक्तंचरा अभक्ष्याः ॥ १७।३४ ॥

हरदत्तः

निचुदारुर् दार्वाघाटः । मद्गुर् जलवायसः । मास्थालो वाग्वदः । नक्तंचरा उलूकादयः । अन्ये प्रसिद्धाः । अभक्ष्या इति पञ्चनखा इत्य् आरभ्य संबध्यते ॥ १७।३४ ॥

विश्वास-प्रस्तुतिः

भक्ष्याः प्रतुदविष्किरजालपादाः ॥ १७।३५ ॥

मूलम्

भक्ष्याः प्रतुदविष्किरजालपादाः ॥ १७।३५ ॥

हरदत्तः

तुण्डेन प्रतुद्य प्रतुद्य ये भक्षयन्ति ते प्रतुदाः । ये पादाभ्यां विकीर्य भक्षयन्ति मयूरादयस् ते विष्किराः । जालाकारौ पादौ येषां ते जालपादाः । एते भक्ष्याः । यद्य् अप्य् अभक्ष्येषूक्तेष्व् अन्ये भक्ष्या इति गम्यते तथापि भक्ष्या इत्य् उपादानम् अनुक्तानाम् आपद्य् एव भक्षणम् [यथा] स्याद् अनापदि मा भूद् इति ॥ १७।३५ ॥

विश्वास-प्रस्तुतिः

मत्याश् चाविकृताः ॥ १७।३६ ॥

मूलम्

मत्याश् चाविकृताः ॥ १७।३६ ॥

हरदत्तः

विकृता मनुष्यशिरस्कादयस् तद्विपरीता अविकृता भक्ष्या इति ॥ १७।३६ ॥

विश्वास-प्रस्तुतिः

वध्याश् च धर्मार्थे ॥ १७।३७ ॥

मूलम्

वध्याश् च धर्मार्थे ॥ १७।३७ ॥

ये भक्ष्या उक्तास् ते न केवलं स्वयं मृता अन्यहता वा भक्ष्या अपि तु वध्याश् च । धर्मार्थे ऽतिथिपूजादौ । अपरश् चाह – ये धर्मार्थे यज्ञादौ वध्या ह — तिषा अपि भक्ष्या अनृत्विजाम् अपीति । धर्मर्थ इति वचनाद् अवकीर्णिपशोर् मांसम् अभक्ष्यम् । तस्य प्रायश्चित्तार्थत्वात् ॥ १७।३७ ॥

विश्वास-प्रस्तुतिः

व्यालहतादृष्टदोषवाक्प्रशस्तान् अभ्युक्ष्योपयुञ्जीतोप-
युञ्जीत ॥ १७।३८ ॥

मूलम्

व्यालहतादृष्टदोषवाक्प्रशस्तान् अभ्युक्ष्योपयुञ्जीतोप-
युञ्जीत ॥ १७।३८ ॥

हरदत्तः

अतिथीन् अप्य् आशयेद् भक्षयेच् च । न तु श्वादेर् उच्छिष्टम् इति वर्जयेत् । मनुर् अप्य् आह: “श्वा मृगग्रहणे शुचिः” इति । द्विरुक्तिर् उक्ता । अत्र मनुः ।

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश् चेति घातकाः ॥
न मांसभक्षणे दोषो न मदे न च मैथुने ।
प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफलम् ॥ इति ।

अप्रतिषिद्धेष्व् अपि भक्ष्नान् निर्वृत्तिर् एव ज्यायसीत्य् अर्थः ॥ १७।३८ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां

द्वितीयप्रश्ने सप्तदशो ऽध्यायः