अथ षोडशो ऽध्यायः
विश्वास-प्रस्तुतिः
श्रावणादि वार्षिकं प्रोष्ठपदीं वोपाकृत्याधीयीत
छन्दांसि ॥ १६।१ ॥
मूलम्
श्रावणादि वार्षिकं प्रोष्ठपदीं वोपाकृत्याधीयीत
छन्दांसि ॥ १६।१ ॥
हरदत्तः
श्रवेणेन युक्ता पौर्णमासी श्रवणा । नक्षत्रेण युक्तः काल इत्य् उक्तस्याणो लुब्विशेष इति लुप् । युक्तवद् भावस् तु न भवति । विभाषा फाल्गुनीश्रवणेति निर्देशात् । श्रावणीत्य् अपि भवति । पौर्णमास्यां हि लुबविशेष इति भवति । फाल्गुनी कार्तिकी चैत्रीति निर्देशात् । श्रवणशब्दे तूभयं भवतीति ।
मेषादिस्थे सवितरि यो यो दर्शः प्रवर्तते ।
चान्द्रमासास् तत्तदन्ताश् चैत्राद्या द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मृता ।
कादाचित्केन योगेन नक्षत्रस्येति निर्णयः ॥
तद् एवं सिंहस्थे सवितरि यामावास्या तदन्ते चान्द्रमसे मासे पौर्णमासी सा श्रवा स्रावणीति चोच्यते । श्रवणयोगस् तु भवतु मा वा भूत् । एतेन प्रोष्ठपदी व्याख्याता । प्रोष्ठपदीम् इत्य् अधिकरणे द्वितीया । अत्यन्तसंयोगे वा कथंचित् । श्रवणायां प्रौष्ठपद्यां वा पौर्णप्[म्?]आस्याम् उपाकृत्योपाकर्माख्यं कर्म यथागृह्यं कृत्वा तदा छन्दांसि मन्त्रब्राह्मणलक्षणान्य् अधीयीत । आचार्यो ऽध्यापयेच् छिष्या अधीयीरन् । तद् इदम् अध्ययनं वार्षिकम् इत्य् आचक्षते । वर्षर्तौ प्रतिसंवत्सरं वा भवतीति । अध्यापनम् अप्य् आत्मापेक्षयाध्ययनं पारायणादिवत् । शिष्यापेक्षया त्व् अध्यापनम् ॥ १६।१ ॥
हरदत्त-प्रस्तावः
कियन्तं कालम् अधीयीत ।
विश्वास-प्रस्तुतिः
अर्धपञ्चमान् मासान् पञ्च दक्षिणायनं वा ॥ १६।२
मूलम्
अर्धपञ्चमान् मासान् पञ्च दक्षिणायनं वा ॥ १६।२
हरदत्तः
अर्धं पञ्चमं येषां तान् अर्धपञ्चमान् अर्धाधिकांश् चतुरो मासान् पूर्णान् वा पञ्च मासान् यावद् वा दक्षिणायनम् । एवम् अधीयानः ॥ १६।२ ॥
विश्वास-प्रस्तुतिः
ब्रह्मचार्य् उत्सृष्टलोमा न मांसं भुञ्जीत ॥ १६।३ ॥
मूलम्
ब्रह्मचार्य् उत्सृष्टलोमा न मांसं भुञ्जीत ॥ १६।३ ॥
हरदत्तः
ब्रह्मचारी भवेत् स्त्रीसङ्गं वर्जयेत् । उत्सृष्टलोमा न रूढश्मरुः । अकस्माद् इत्य् अत्रोक्तं लोमकर्म तद् उत्सृष्टं येन स उत्सृष्टलोमा । एवंभूतो भवेन् न मांसं भक्षयेत् । अयम् अध्यापयितुर् उपदेशः । ब्रह्मचारिणः प्राप्त्यभावात् । आपस्तम्बो ऽप्य् आह: “प्रवचन्युक्तो वर्षाशरदं मैथुनं वर्जयेत्” इति । यश् च केवलानि व्रतानि पारं नीत्वा जायाम् उपयम्य पश्चाद् अधीते सो ऽप्य् एवं तस्यात्र ग्रहणार्थम् अप्य् एवम् । आश्वलायनो ऽप्य् आह: “समावृत्तो ब्रह्मचारिकल्पेन” इति । तत्र त्व् ऋतुगमनं पाक्षिकम् अभ्युपगतम् । तथाह जायोपेयेत्य् एके प्राजापत्यम् तद् इति ।
**द्वैमास्यो वा नियमः ॥ १६।४ ॥ **
द्वौ मासौ भूतभाविनौ वा द्विमास्यः । मासाद् वयसि यत् खञौ । द्विगोर् यबवयस्य् अपि प्रयुञ्जते । स एव द्वैमास्यः । अयं ब्रह्मचर्यादिनियमो मासद्वयं वा भवति । शक्त्यपेक्षो विकल्पः ॥ १६।४ ॥
हरदत्त-प्रस्तावः
अथानध्याया उच्यन्ते ।
विश्वास-प्रस्तुतिः
नाधीयीत वायौ दिवा पांसुहरे ॥ १६।५ ॥
मूलम्
नाधीयीत वायौ दिवा पांसुहरे ॥ १६।५ ॥
हरदत्तः
पांसून् हरतीति पांसुहरः । वायौ दिवा पांसुहरे वाति सति नाधीयीत । अपांसुहरे न दोषः । पांसुहरे ऽपि रात्रौ न दोषः ॥ १६।५ ॥
विश्वास-प्रस्तुतिः
कर्णश्राविणि नक्तम् ॥ १६।६ ॥
मूलम्
कर्णश्राविणि नक्तम् ॥ १६।६ ॥
हरदत्तः
व्यत्ययेनायं कर्मणि कर्तृप्रत्ययः । कर्णाभ्यां श्रूयत इति कर्णश्रावी । एवंभूते महाघोषे वायौ वाति सति नक्तं नाधीयीत ॥ १६।६ ॥
विश्वास-प्रस्तुतिः
वाणभेरीमृदङ्गगर्तार्तशब्देषु ॥ १६।७ ॥
मूलम्
वाणभेरीमृदङ्गगर्तार्तशब्देषु ॥ १६।७ ॥
हरदत्तः
वाणो वीणाविशेषः, वाणः शततन्तुर् इति महाव्रते दर्शनात् । भेरीमृदङ्गौ प्रसिद्धौ । गर्तो रथः, “अरोहतं वरुण मित्र गर्तम्,” “स्तुहि श्रुतं गर्तसदम्,” इत्यादौ दर्शनात् । आर्तो बन्धुमरणादिना दुःखितः । तेषां शब्दे श्रूयमाणे तावन्तं कालं नाधीयीत ॥ १६।७ ॥
विश्वास-प्रस्तुतिः
श्वशृगालगर्धभसंह्रादे ॥ १६।८ ॥
मूलम्
श्वशृगालगर्धभसंह्रादे ॥ १६।८ ॥
हरदत्तः
संह्रादः सहशब्दनम् । शुनां शृगालानां गर्दभानां गर्दभानां संग्रादे नाधीयीत । त्रयाणां तु सहशब्देन दण्डापूपिकया सिद्धः प्रतिषेधः ॥ १६।८ ॥
विश्वास-प्रस्तुतिः
रोहितेन्द्रधनिर्नीहारेषु ॥ १६।९ ॥
मूलम्
रोहितेन्द्रधनिर्नीहारेषु ॥ १६।९ ॥
हरदत्तः
आकाशे लोहिते, इन्द्रधनिषु दृश्यमाने, नीहारो हिमानी तस्यां च । तावन्तं कालं
नाधीयीत ॥ १६।९ ॥
विश्वास-प्रस्तुतिः
अभ्रदर्शने चापर्तौ ॥ १६।१०
मूलम्
अभ्रदर्शने चापर्तौ ॥ १६।१०
हरदत्तः
अपर्तुर् अवर्षर्तुः । तत्र सोदकस्य मेघस्य दर्शने नाधीयीत ॥ १६।१० ॥
विश्वास-प्रस्तुतिः
मूत्रित उच्चारिते ॥ १६।११ ॥
मूलम्
मूत्रित उच्चारिते ॥ १६।११ ॥
हरदत्तः
संजातमूत्रे ऽल्पे मूत्रितः । उच्चारितो ऽपि तथा । तत्र श्रेयान् अपि नाधीयीत । उत्सर्गे तु मानसम् अप्य् अशुचिर् इति वक्ष्यति ॥ १६।११ ॥
विश्वास-प्रस्तुतिः
निशायां संध्योदकेषु ॥ १६।१२ ॥
मूलम्
निशायां संध्योदकेषु ॥ १६।१२ ॥
हरदत्तः
निशा रात्रेर् मध्यमो भागस् तस्मिन् संध्यायाम् उदके चावस्थितो नाधीयीत ॥ १६।१२ ॥
विश्वास-प्रस्तुतिः
वर्षति च ॥ १६।१३ ॥
मूलम्
वर्षति च ॥ १६।१३ ॥
हरदत्तः
वर्षति च देवे तावन् नाधीयीत । धात्वर्थमात्रं विवक्षितं न परिमाणविशेषः ॥ १६।१३ ॥
विश्वास-प्रस्तुतिः
एके वलीकसंतानाम् ॥ १६।१४ ॥
मूलम्
एके वलीकसंतानाम् ॥ १६।१४ ॥
हरदत्तः
एके मन्यन्ते वलीकसंतानं वलीकं नीध्रं गृहपटलान्तस् तत्र वर्षधारा संतन्यते यथा तथा वर्षति देवे नाध्येयम् ॥ १६।१४ ॥
विश्वास-प्रस्तुतिः
आचार्यपरिवेषणे ॥ १६।१५ ॥
मूलम्
आचार्यपरिवेषणे ॥ १६।१५ ॥
हरदत्तः
आचार्यौ गुरुशुक्रौ तयोः परिवेषणे नाधीयीत । अपर आह – परिवेषणं भक्षभोज्याद्यन्नोपहरणम् । ब्राह्मणान् अन्नेन परिवेष्येत्यादौ दर्शनात् । आचार्यस्य परिवेषणे नाधीयीतेति ॥ १६।१५ ॥
विश्वास-प्रस्तुतिः
ज्योतिषोश् च ॥ १६।१६ ॥
मूलम्
ज्योतिषोश् च ॥ १६।१६ ॥
हरदत्तः
प्रसिद्धज्योतिषी सूर्याचन्द्रमसौ । तयोश् च परिवेषणे नाधीयीत । पूर्वसूत्रे द्वितीयपक्षे ऽन्नानुवृत्तस्य परिवेषणशब्दस्यार्थभेदो ऽङ्गीकरणीयः ॥ १६।१६ ॥
विश्वास-प्रस्तुतिः
भीतो यानस्थः शयानः प्रौढपादः ॥ १६।१७ ॥
मूलम्
भीतो यानस्थः शयानः प्रौढपादः ॥ १६।१७ ॥
हरदत्तः
भीतो वर्तमानभयः । यानस्थो ऽश्वाद्यारूढः । शयानः शय्याम् आसेवमानः । प्रौढपादः पादे पादान्तराधायी पीठासनाद्यारोपितपादो वा । एवंभूतेन नाध्येयम् ॥ १६।१७ ॥
विश्वास-प्रस्तुतिः
श्मशानग्रामान्तरमहापथाशौचेषु ॥ १६।१८ ॥
मूलम्
श्मशानग्रामान्तरमहापथाशौचेषु ॥ १६।१८ ॥
हरदत्तः
श्मशानं शवदाहस्थानम् । ग्रामान्तो ग्रामसीमा । महापथः प्रसिद्धः । अशौचं शौचराहित्यम् । एतेषु स्थानेषु नाध्येयम् । अथ वाशौचं जननमरणनिमित्तम् अस्पर्शलक्षणं तस्मिन्न् अपि नाध्येयम् ॥ १६।१८ ॥
विश्वास-प्रस्तुतिः
पूतिगन्धान्तःशवदिवाकीर्त्यशूद्रसंनिधाने ॥ १६।१९ ॥
मूलम्
पूतिगन्धान्तःशवदिवाकीर्त्यशूद्रसंनिधाने ॥ १६।१९ ॥
हरदत्तः
पूतिगन्धे घ्राणगन्धे । दिवाकीर्त्यश् चण्डालः । अन्तःशब्दः उभाभ्यां संबध्यते । अन्तःशवे ऽन्तर्दिवाकीर्त्ये च ग्राम इति । शूद्रसंनिधाने [च] नाध्येयम् । द्वन्द्वैकवद्भावः । आपस्तम्बो ऽपि: “अन्तःशवे ऽन्तश्चण्डाले” इति ॥ १६।१९ ॥
विश्वास-प्रस्तुतिः
भुक्तके चोद्गारे ॥ १६।२० ॥
मूलम्
भुक्तके चोद्गारे ॥ १६।२० ॥
हरदत्तः
भुक्त[क]म् अम्लम् अम्ले चोद्गारे वर्तमाने नाधीयीत ॥ १६।२० ॥
विश्वास-प्रस्तुतिः
ऋग्यजुषं च सामशब्दो यावत् ॥ १६।२१ ॥
मूलम्
ऋग्यजुषं च सामशब्दो यावत् ॥ १६।२१ ॥
हरदत्तः
ऋक् च यजुश् च ऋग्यजुषम् । अचतुरेत्यादिना निपातः । यावत् सामशब्दः श्रूयते तावद् ऋग्वेदं यजुर्वेदं च नाधीयीत । षष्ठ्यन्तपाठस् तु नास्मभ्यं रोचते ॥ १६।२१ ॥
विश्वास-प्रस्तुतिः
आकालिका निर्घातभूमिकम्पराहुदर्शनोल्काः ॥ १६।२२ ॥
मूलम्
आकालिका निर्घातभूमिकम्पराहुदर्शनोल्काः ॥ १६।२२ ॥
हरदत्तः
निर्घातो ऽशनिपातः । भूमिकम्पो भूचलनम् । राहुदर्शनं ग्रहणम् । उल्कोल्कापातः । एत आकालिका अनध्यायहेतव इति प्रकरणाद् गम्यते । यस्मिन् काल एते भवन्ति परेद्युस् तत्पर्यन्तं काल आकालः । तत्संबद्ध आकालिकः ॥ १६।२२ ॥
विश्वास-प्रस्तुतिः
स्तनयित्नुवर्षविद्युतश् च प्रादुष्कृताग्निषु ॥ १६।२३ ॥
मूलम्
स्तनयित्नुवर्षविद्युतश् च प्रादुष्कृताग्निषु ॥ १६।२३ ॥
हरदत्तः
स्तनयित्नुर् मेघशब्दः । प्रसिद्धम् अन्यत् । प्रादुष्कृतेष्व् अग्निष्व् अग्निहोत्रहोमकाले संध्यायां स्तनयित्नुप्रभृतयो भवन्तः प्रत्येकम् आकालिकान् अध्यायहेतवः । अपर्ताविदम् ॥ १६।२३ ॥
हरदत्त-प्रस्तावः
ऋताव् आह ।
विश्वास-प्रस्तुतिः
अहर् ऋतौ ॥ १६।२४ ॥
मूलम्
अहर् ऋतौ ॥ १६।२४ ॥
हरदत्तः
वर्षर्ताव् एते यदि भवेयुः संध्यायां तदा प्रातश् चेद् अहर्मात्रम् अनध्यायः । सायं तु रात्राव् अनध्याय इत्य् अर्थसिद्धत्वाद् अनुक्तम् ॥ १६।२४ ॥
विश्वास-प्रस्तुतिः
विद्युति नक्तं चापररात्रात् ॥ १६।२५ ॥
मूलम्
विद्युति नक्तं चापररात्रात् ॥ १६।२५ ॥
हरदत्तः
यदि नक्तं विद्युद् दृश्यते न संध्यायां तदापररात्राद् रात्रेस् तृतीयो भागो ऽपररात आ तस्माद् अनध्यायः । ततो ऽध्येयम् । प्रातस् तु संध्यायां विद्युति जाबाल आह: “विद्युति प्रातर् अहर् अनध्यायः” इति ॥ १६।२५ ॥
विश्वास-प्रस्तुतिः
त्रिभागादिप्रवृत्तौ सर्वम् ॥ १६।२६ ॥
मूलम्
त्रिभागादिप्रवृत्तौ सर्वम् ॥ १६।२६ ॥
हरदत्तः
यद्य् अह्नस् तृतीयाद् भागाद् आरभ्य विद्युत् प्रवर्तते न केवलायां संध्यायां नापि नक्तं तदा सर्वरात्रम् अनध्यायः ॥ १६।२६ ॥
विश्वास-प्रस्तुतिः
उल्का विद्युत् समेत्य् एकेषाम् ॥ १६।२७ ॥
मूलम्
उल्का विद्युत् समेत्य् एकेषाम् ॥ १६।२७ ॥
हरदत्तः
उल्का च विद्युत्तुल्या । यथा विद्युत्य् अनध्यायो विद्युति नक्तं चापररात्राद् इत्य् एवम् उल्कापाते ऽपीत्य् एकेषां मतम् ॥ १६।२७ ॥
विश्वास-प्रस्तुतिः
स्तनयित्नुर् अपराह्णे ॥ १६।२८ ॥
मूलम्
स्तनयित्नुर् अपराह्णे ॥ १६।२८ ॥
हरदत्तः
स्तनयित्नुर् अपराह्णे यदि भवति न संध्यायां तदा विद्युत्समो भवति । आ अपररात्राद् अनध्यायं करोति ॥ १६।२८ ॥
विश्वास-प्रस्तुतिः
अपि प्रदोषे ॥ १६।२९ ॥
मूलम्
अपि प्रदोषे ॥ १६।२९ ॥
हरदत्तः
प्रदोषे ऽपि भवः स्तनयित्नुर् विद्युत्समः । आ अपररात्राद् अनध्यायहेतुः ॥ १६।२९ ॥
विश्वास-प्रस्तुतिः
सर्वं नक्तम् आ अर्धरात्रात् ॥ १६।३० ॥
मूलम्
सर्वं नक्तम् आ अर्धरात्रात् ॥ १६।३० ॥
हरदत्तः
प्रथमाद् रात्रिभागाद् आरभ्य आ अर्धरात्रात् प्रवृत्तः स्तनयित्नुः सर्वं नक्तम् अध्यायहेतुः ॥ १६।३० ॥
विश्वास-प्रस्तुतिः
अहश् चेत् सज्योतिः ॥ १६।३१ ॥
मूलम्
अहश् चेत् सज्योतिः ॥ १६।३१ ॥
हरदत्तः
अहश् चेत् स्तनयित्नुर् भवति प्राग् अपराह्णात् तदा सज्योतिर् अनध्यायः । सकलं दिवसम् इत्य् अर्थः ॥ १६।३१ ॥
विश्वास-प्रस्तुतिः
विषयस्थे च राज्ञि प्रेते ॥ १६।३२ ॥
मूलम्
विषयस्थे च राज्ञि प्रेते ॥ १६।३२ ॥
हरदत्तः
यस्मिन् विषये स्वयं वसति तत्रस्थे तस्याधिपतौ राज्ञि प्रेते सज्योतिर् अनध्यायः । आकालिकम् इत्य् अन्ये ॥ १६।३२ ॥
विश्वास-प्रस्तुतिः
विप्रोष्य चान्योन्येन सह ॥ १६।३३ ॥
मूलम्
विप्रोष्य चान्योन्येन सह ॥ १६।३३ ॥
हरदत्तः
यदा सहाध्यायिनः परस्परं विप्रवसेयुः केचिच् चाचार्येण संगतास् तदा सज्योतिर् अनाध्यायः । आ परेषां मेलनाद् इत्य् एके । आकालिकम् इत्य् अन्ये ॥ १६।३३ ॥
विश्वास-प्रस्तुतिः
संकुलोपाहितवेदसमाप्तिच्छर्दिश्राद्धमनुष्य-
यज्ञभोजनेष्व् अहोरात्रम् ॥ १६।३४ ॥
मूलम्
संकुलोपाहितवेदसमाप्तिच्छर्दिश्राद्धमनुष्य-
यज्ञभोजनेष्व् अहोरात्रम् ॥ १६।३४ ॥
हरदत्तः
संकुलश् चोरादिभिर् ग्रामाद्युपद्रवः । उपाहितो ऽग्निदाहः । वेदसमाप्तिः शाखासमाप्तिः । छर्दनं भुक्तोद्गारः । श्राद्धम् एकोद्दिष्टादि । मनुष्ययज्ञो वसन्तोत्स्वादिः । भोजनशब्द उभाभ्यां संबध्यते । श्राद्धभोजने मनुष्ययज्ञभोजन इति । एतेषु निमित्तेष्व् अहोरात्रम् अनध्यायः । मनुष्यप्रकृतीनां देवानां यज्ञो मनुष्ययज्ञ इत्य् अन्ये । यथाह आपस्तम्बः: “मनुष्यप्रकृतीनां देवानां यज्ञे भुक्त्वेत्य् एके” इति । ये मनुष्या भूत्वा प्रकृष्टेन तपसा देवाः संपन्नास् तद्यज्ञस् तत्प्रीत्यर्थं ब्राह्मणभोजनम् ॥ १६।३४ ॥
विश्वास-प्रस्तुतिः
अमावास्यायां च ॥ १६।३५ ॥
मूलम्
अमावास्यायां च ॥ १६।३५ ॥
हरदत्तः
अमावास्यायाम् अहोरात्रम् अनध्यायः ॥ १६।३५ ॥
विश्वास-प्रस्तुतिः
द्व्यहं वा ॥ १६।३६ ॥
मूलम्
द्व्यहं वा ॥ १६।३६ ॥
हरदत्तः
तद् अहः पूर्वेद्युश् च द्व्यहम् अनध्यायः । शुक्लचतुर्दश्यां त्व् अनध्यायस्य मूलान्तरं मृग्यम् । एवं प्रतिपत्सु च ॥ १६।३६ ॥
विश्वास-प्रस्तुतिः
कार्तिकी फाल्गुन्य् आषाढी पौर्णमासी ॥ १६।३७ ॥
मूलम्
कार्तिकी फाल्गुन्य् आषाढी पौर्णमासी ॥ १६।३७ ॥
हरदत्तः
कार्तिक्याद्यास् तिस्रः पौर्णमास्यो ऽनध्यायहेतवो ऽहोरात्रम् । पौर्णमास्यन्तरेष्व् अनध्याये मूलं मृग्यम् ॥ १६।३७ ॥
विश्वास-प्रस्तुतिः
तिस्रो ऽष्टकास् त्रिरात्रम् ॥ १६।३८ ॥
मूलम्
तिस्रो ऽष्टकास् त्रिरात्रम् ॥ १६।३८ ॥
हरदत्तः
ऊर्ध्वम् आग्रहायण्यास् त्रिष्व् अपरपक्षेषु तिस्रो ऽष्टकाः । तास् त्रिरात्रम् अनध्यायहेतवः तद् अहः पूर्वेद्युर् अपरेद्युश् च ॥ १६।३८ ॥
विश्वास-प्रस्तुतिः
अन्त्याम् एके ॥ १६।३९ ॥
मूलम्
अन्त्याम् एके ॥ १६।३९ ॥
हरदत्तः
एके ऽन्त्याम् एकाष्टकाम् अनध्यायहेतुं मन्यन्ते ॥ १६।३९ ॥
विश्वास-प्रस्तुतिः
अभितो वार्षिकम् ॥ १६।४० ॥
मूलम्
अभितो वार्षिकम् ॥ १६।४० ॥
हरदत्तः
श्रवणादि वार्षिकम् इति यद् उक्तं वार्षिकम् अनध्ययनं तद् अभितस् तस्योभयोः पार्श्वयोर् ये कर्मणी उपाकरणोत्सर्जने तयोर् अपि कृतयोर् त्र्यहम् अनध्यायम् एके इच्छन्ति । तथा च मनुः ।
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ॥ इति ।
उशना: “उपाकर्मणि चोत्सर्गे त्र्यहम् अनध्यायः” इति ॥ १६।४० ॥
विश्वास-प्रस्तुतिः
सर्वे वर्षाविद्युत्स्तनयित्नुसंनिपाते ॥ १६।४१ ॥
मूलम्
सर्वे वर्षाविद्युत्स्तनयित्नुसंनिपाते ॥ १६।४१ ॥
हरदत्तः
वर्षादीनां त्रयाणां युगपत्संनिपाते त्रिरात्रम् अनध्याय इति सर्व एवाचार्या
मन्यन्ते ॥ १६।४१ ॥
विश्वास-प्रस्तुतिः
प्रस्यन्दिनि ॥ १६।४२ ॥
मूलम्
प्रस्यन्दिनि ॥ १६।४२ ॥
हरदत्तः
प्रकृष्टं स्यन्दनं वर्षं प्रस्यन्दस् तद्वति च काले यावत् प्रस्यन्दनम् अनध्यायो द्व्यहं त्र्यहं चतुरहं वा ॥ १६।४२ ॥
विश्वास-प्रस्तुतिः
ऊर्ध्वं भोजनाद् उत्सवे ॥ १६।४३ ॥
मूलम्
ऊर्ध्वं भोजनाद् उत्सवे ॥ १६।४३ ॥
हरदत्तः
उपनयनादाव् उत्सवे भोजनाद् ऊर्ध्वं तदहर् अनध्यायः ॥ १६।४३ ॥
विश्वास-प्रस्तुतिः
प्राधीतस्य च निशायां चतुर्मुहूर्तम् ॥ १६।४४ ॥
मूलम्
प्राधीतस्य च निशायां चतुर्मुहूर्तम् ॥ १६।४४ ॥
हरदत्तः
उपाकृत्याध्येतुं प्रवृत्तः प्राधीतः । आदिकर्मणि क्तः कर्तरि च । तस्य निशायां चतुर्मुहूर्तं चतुरो मुहूरान् अष्टौ नाडिका अनध्यायः । “श्रावण्यां पौर्णमास्याम् अध्यायम् उपाकृत्य मासं प्रदोषे नाधीयीत” इत्य् आपस्तम्बीयेन समानार्थम् इदम् । चकारात् त्रयोदशीप्रदोषे ऽपि निशायां चतुर्मुहूर्तं निषेधो दर्शितः ॥ १६।४४ ॥
विश्वास-प्रस्तुतिः
नित्यम् एके नगरे ॥ १६।४५ ॥
मूलम्
नित्यम् एके नगरे ॥ १६।४५ ॥
हरदत्तः
एक आचार्या नगरे नित्यम् एवाध्ययनं नेच्छन्ति । नित्यग्रहणं निशाधिकारनिवृत्त्यर्थम्
॥ १६।४५ ॥
विश्वास-प्रस्तुतिः
मानसम् अप्य् अशुचिः ॥ १६।४६ ॥
मूलम्
मानसम् अप्य् अशुचिः ॥ १६।४६ ॥
हरदत्तः
अप्रयतः सन् मानसम् अप्य् अध्ययनंन कुर्यात् । एवं चान्येष्व् अनध्यायहेतुषु मानसम् अनिषिद्धम् ॥ १६।४६ ॥
विश्वास-प्रस्तुतिः
श्राद्धिनाम् आकालिकम् ॥ १६।४७ ॥
मूलम्
श्राद्धिनाम् आकालिकम् ॥ १६।४७ ॥
हरदत्तः
श्राद्धम् अस्यास्तीति श्राद्धी श्राद्धस्य कर्ता । अत इनिठनौ । न तु श्राद्धम् अनेन भुक्तम् इति । भोक्तरि पूर्वम् एव निषिद्धत्वात् । तेषां श्राद्धदातॄणाम् आकालिकम् अनध्यायः । अपर आह – ये श्राद्धे केवलं भुक्तवन्तो न पित्राद्यर्थं पात्रतया तेषां पूर्वको ऽहोरात्रनिषेधः । अयं त्व् आकालिकनिषेधः पित्राद्यर्थं पात्रतया भुक्तवताम् इति ॥ १६।४७ ॥
विश्वास-प्रस्तुतिः
अकृतान्नश्राद्धिकसंयोगे ऽपि ॥ १६।४८ ॥
मूलम्
अकृतान्नश्राद्धिकसंयोगे ऽपि ॥ १६।४८ ॥
हरदत्तः
भोजनासंभवे यद्य्(द)कृतान्नं पितृभ्यो दीयते तद् अकृतान्नश्राद्धिकम् । तत्संयोगे ऽप्य् आकालिकम् अनध्यायः । न केवलं भुक्तवतः । तत्र मनुः ।
प्राणि वा यदि वाप्राणि यत् किंचिच् छ्राद्धिकं भवेत् ।
तद् आलभ्याप्य् अनध्यायः प्रान्यास्या ब्राह्मणाः स्मृताः ॥ इति ।
आमश्राद्धस्यैतद् एव लिङ्गम् ॥ १६।४८ ॥
विश्वास-प्रस्तुतिः
प्रतिविद्यं च यान् स्मरन्ति [यान् स्मरन्ति] ॥ १६।४९ ॥
मूलम्
प्रतिविद्यं च यान् स्मरन्ति [यान् स्मरन्ति] ॥ १६।४९ ॥
हरदत्तः
प्रतिविद्यं प्रतिधर्मशास्त्रं यान् अनध्यायान् स्मरन्ति स्मर्तारस् तेष्व् अपि हेतुषु नाधीयीत । तत्र वसिष्ठः: “दिग्दाहपर्वतप्रपातेषूपलरुधिरपांसुवर्षेष्व् आकालिकम्” इति ।
श्लेष्मातकस्य शाल्मल्या मधूकस्य तथाप्य् अधः ।
कदाचिद् अपि नाध्येयं कोविदारकपित्थयोः ॥ इति ।
एवम् अन्यत्रापि द्रष्टव्यम् । [अभ्यासो ऽध्यायसमाप्त्यर्थः] ॥ १६।४९ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने षोडशो ऽध्यायः