अथ पञ्चदशो ऽध्यायः
विश्वास-प्रस्तुतिः
अथ श्राद्धम् ॥ १५।१ ॥
मूलम्
अथ श्राद्धम् ॥ १५।१ ॥
हरदत्तः
अथशब्दो ऽधिकारार्थः । श्राद्धं नाम कर्माधिक्रियते । श्रद्धा यत्र विद्यते तच् छ्राद्धम् । तच् च पञ्चविधम् ।
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धम् अथापरम् ।
पार्वणं चेति विज्ञेयं श्राद्धं पञ्चविधं बुधैः ॥
तत्र नित्यं मनुर् आह ।
दद्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।
पयोमुलफलैर् वापि पितृभ्यः प्रीतिम् आवहन् ॥
एकम् अप्य् आशयेद् विप्रं पित्रर्थे पाञ्चयाज्ञिके ।
न चैवात्राशयेत् किंचिद् वैश्वदेवं प्रतिद्विजम् ॥ इति ।
ग्रहणादिषु यत् क्रियते तन् नैमित्तिकम् । तस्य प्रयोगः पार्वणवत् । एकोद्दिष्टं सपिण्डीकरणम् अष्टकेत्य् एतान्य् अपि नैमित्तिकान्य् एव । तत्रैकोद्दिष्टं षोडशविधम् ।
मृते ऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवम् आद्यम् एकादशे ऽहनि ॥
इति याज्ञवल्क्यः । एकोद्दिष्टं तु कर्तव्यम् इत्य् आद्यपादे लौगाक्षिः । व्याघ्रः ।
एकादशे ऽह्नि कर्तव्यं त्रिपक्षे च तथैव च ।
षण्मासे च ततः कुर्याद् एकोद्दिष्टं प्रयत्नतः ॥ इति ।
ततः संवत्सरे पूर्णे त्रिपक्षे वा तथैव च ।
सपिण्डीकरणं कुर्याद् अर्वाग् वा वृद्धिसंभवे ॥ इति ।
जातूकर्ण्यः ।
चतुर्थे पञ्चमे चैव नवमैकादशे तथा ।
यद् अन्नं दीयते जन्तोस् तन् नवश्राद्धम् उच्यते ॥
इति च पठन्ति । वर्णानुपूर्व्यव्यवस्थितानि चत्वार्य् एतानि । तद् एव श्राद्धम् एकम् एकादशे ऽहनीति प्रधानम् । एकादशग्रहणम् आशौचान्तोपलक्षणम् । तत्र च मासे तदैव मासिकम् । सपिण्डीकरणे प्रेतस्यैकोद्दिष्टं पित्रदिभ्यः पार्वणम् । तत्रापि मासे तद् एव मासिकम् । मध्ये दश मासिकानि त्रिपक्षषाण्मासिकयोः प्रतिसंवत्सरं चापरं मृताहे सांवत्सरिकम् इति षोडशैकोद्दिष्टानि । पठन्ति च ।
नवत्रिपक्षषण्मास्यसांवत्सरिकमासिकम् ।
श्राद्धैः षोडशभिः प्रेतः पिशाचत्वं विमुञ्चति ॥
यस्यैतानि न कुर्वन्ति एकोद्दिष्टानि षोडश ।
पिशाचत्वं स्थिरं तस्य कृतैः श्राद्धशतैर् अपि ॥ इति ।
हेमन्तशिशिरयोश् चतुर्णाम् अपरपक्षाणाम् अष्टमीष्व् अष्टका एकस्यां वा । प्रथमे ऽहनि क्रियमाणे स्त्र्यपत्यं जायत इत्यादि कामसंयोगेन क्रियमाणं काम्यम् । तद् अपि पार्वणवद् एव । विवाहादिवृद्धिकर्मसु पूर्वेद्युः कर्तव्यं वृद्धिश्राद्धम् । तस्मात् पितृभ्यः पूर्वेद्युः क्रियत इति ब्राह्मणमूलम् । तत्र युग्मा ब्राह्मणा यवास् तिलार्थाः । अन्यत् पार्वणवत् । पार्वणं तु वक्ष्यते ॥ १५।१ ॥
विश्वास-प्रस्तुतिः
अमावास्यायां पितृभ्यो दद्यात् ॥ १५।२
मूलम्
अमावास्यायां पितृभ्यो दद्यात् ॥ १५।२
हरदत्तः
सूर्याचन्द्रमसौ यस्यां सह वसतः सामावास्या । पितृभ्य इति बहुवचनात् पितृपितामहप्रपितामहभ्यो दद्यात् । दानप्रकारो गृह्येषूकाः “होमो ब्राह्मणभोजनं पिण्डनिर्वपणम्” इति । इह तु ब्राह्मणभोजने विशेषः ॥ १५।२ ॥
विश्वास-प्रस्तुतिः
पञ्चमीप्रभृतिषु वापरपक्षस्य ॥ १५।३ ॥
मूलम्
पञ्चमीप्रभृतिषु वापरपक्षस्य ॥ १५।३ ॥
हरदत्तः
अपरपक्षः कृष्णपक्षः । तस्य पञ्चमीप्रभृति वा दद्यात् ॥ १५।३ ॥
विश्वास-प्रस्तुतिः
यथाश्रद्दं सर्वस्मिन् वा ॥ १५।४ ॥
मूलम्
यथाश्रद्दं सर्वस्मिन् वा ॥ १५।४ ॥
हरदत्तः
सर्वस्मिन् वापरपक्षे दद्याद् यथाश्रद्धं यथा श्रद्धा भवतीति ॥ १५।४ ॥
विश्वास-प्रस्तुतिः
द्रव्यदेशब्राह्मणसंनिधाने वा
कालनियमः ॥ १५।५ ॥
मूलम्
द्रव्यदेशब्राह्मणसंनिधाने वा
कालनियमः ॥ १५।५ ॥
हरदत्तः
तिलमाषेत्य् आरभ्य वक्ष्यमाणं तत् तत् प्रशस्तं द्रव्यम् । देशो गयापुष्करादिः ।
पुष्करेष्व् अक्षयं श्राद्धं कुरुक्षेत्रे तथैव च ।
दद्यान् महोदधौ चैव ह्रदगोष्थे गिरौ तथा ॥
इति व्यासः ।
यद् ददाति गयास्थश् च सर्वम् आनन्त्यम् अश्नुते ।
इति याज्ञवल्क्यः । ब्राह्मणाः पङ्क्तिपावना वक्ष्यमाणाः षडङ्गविदादयः । एतेषां द्रव्यादीनां संनिधाने समवाये कालनियमः संनिधिर् एव काल इति । वाशब्दो विकल्पार्थः ॥ १५।५ ॥
विश्वास-प्रस्तुतिः
शक्तितः प्रकर्षद् गुणसंस्कार्विधिर् अन्नस्य ॥ १५।६ ॥
मूलम्
शक्तितः प्रकर्षद् गुणसंस्कार्विधिर् अन्नस्य ॥ १५।६ ॥
हरदत्तः
अन्नस्य भक्ष्यभोज्योर् गुणविधयः पायसत्वविशदसिद्धत्वादयः । संस्कारविधयो भर्जनमरीचीजीरकलवणादिभिः सुरभीकरणादयः । एतान् यथाशक्ति प्रकर्षेत् पर्कृष्टान् कुर्यात् ॥ १५।६ ॥
विश्वास-प्रस्तुतिः
नवावरान् भोजयेद् अयुजः ॥ १५।७ ॥
मूलम्
नवावरान् भोजयेद् अयुजः ॥ १५।७ ॥
हरदत्तः
नवसंख्यावरा येषां ते नवावरास् तावन्तो ब्राह्मणान् भोजयेत् । अयुजो ऽयुग्मसंख्यान् । नवपक्षे पितुस् त्रीन् पितामहस्य त्रीन् प्रपितामहस्य त्रीन् । अवरग्रहणाद् अधिका अपि भवन्ति पञ्चदशैकविंशतिर् इत्यादयः । अयुज इति वचनाद् द्वादशादिव्यावृत्तिः ॥ १५।७ ॥
विश्वास-प्रस्तुतिः
यथोत्साहं वा ॥ १५।८ ॥
मूलम्
यथोत्साहं वा ॥ १५।८ ॥
हरदत्तः
यथासामर्थ्यं नवभ्यो ऽर्वाग् अपि भोजयेत् । अयुज इत्य् अनुवृत्तेस् त्रीन् एव । तथा च आपस्तम्बः: “अयुग्मांस् त्र्यवरान्” इति । शास्त्रान्तरेषु विश्वेभ्यो देवेभ्यो ब्राह्मणभोजनम् आम्नातं मातामहानां च । यथाह याज्ञवल्क्यः ।
द्वौ दैवे प्राक् त्रयः पित्र्य उदग् एकैकम् एव वा ।
मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदेविकम् ॥ इति ।
दैवे द्वौ ब्राह्मणौ प्राङ्मुखाव् उपवेश्यौ । पित्रर्थे तत्रोदङ्मुखाः । एकैकस्यैकम् एव वेति । देवानाम् एकः पित्रादीनां त्रयाणाम् एक इति । मातामहानाम् अप्य् एवं पितृश्राद्दवत् । द्वौ दैवे मातामहाद्यर्थे त्रयः । वैश्वदेविकं तन्त्रं वा भवति पितुः श्राद्धस्य मातामहश्राद्दस्य च ॥ १५।८ ॥
हरदत्त-प्रस्तावः
कीदृशान् भोजयेत् । तत्राह ।
विश्वास-प्रस्तुतिः
श्रोतियान् वाग्रूपवयःशीलसंपन्नान् ॥ १५।९ ॥
मूलम्
श्रोतियान् वाग्रूपवयःशीलसंपन्नान् ॥ १५।९ ॥
हरदत्तः
श्रोत्रियान् अधीतवेदान् । वाक्संपत्तिः सुशिक्षितं वाक्यं संस्कृतभाषणादि । रूपसंपन्नान् सौम्यवेषान् अन्यूनान् अविक्[अल्?]आङ्गाञ् श्वित्राद्यदूषितान् वयःसंपन्नान् अनतिबालान् । शीलम् अन्तःकरणशुद्धिस् तत्संपन्नान् । एवंगुणान् भोजयेत् ॥ १५।९ ॥
विश्वास-प्रस्तुतिः
युवभ्यो दानं प्रथमम् ॥ १५ १० ॥
मूलम्
युवभ्यो दानं प्रथमम् ॥ १५ १० ॥
हरदत्तः
एवंगुणेभ्यो युवभ्यः श्राद्धदानं मुख्यः कल्पः ॥ १५।१० ॥
विश्वास-प्रस्तुतिः
एके पितृवत् ॥ १५।११ ॥
मूलम्
एके पितृवत् ॥ १५।११ ॥
हरदत्तः
एके मन्यन्ते पितृवत् पित्राद्यनुरूपं दानम् इति । यथा – पित्रे तरुणाः पितामहाय वृद्धाः प्रपितामहाय वृद्धतरा इति ॥ १५।११ ॥
विश्वास-प्रस्तुतिः
न च तेन मित्रकर्म कुर्यात् ॥ १५।१२ ॥
मूलम्
न च तेन मित्रकर्म कुर्यात् ॥ १५।१२ ॥
हरदत्तः
न च तेन श्राद्धेन मित्रकर्म कुर्यात् । येन मैत्री कार्या तस्मिन्न् अर्थापेक्षितं न भोजयेत् । मित्रलोभकारार्थं न भोजयेद् इत्य् अर्थः । आपस्तम्बस् तु “अनर्थापेक्षो भोजयेत्” इति विशेषेणाह ॥ १५।१२ ॥
विश्वास-प्रस्तुतिः
पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश् च
दद्युः ॥ १५।१३ ॥
मूलम्
पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश् च
दद्युः ॥ १५।१३ ॥
हरदत्तः
पुत्रा दद्युर् इति प्रथमः कल्पः । तदभावे सपिण्डा भ्रातृतत्पुत्रादयः । तदभावे मातृसपिण्डा मातृभ्रातृतत्पुत्रादयः । तदभावे शिष्यः ॥ १५।१३ ॥
विश्वास-प्रस्तुतिः
तदभाव ऋत्विगाचार्यौ ॥ १५।१४ ॥
मूलम्
तदभाव ऋत्विगाचार्यौ ॥ १५।१४ ॥
हरदत्तः
शिष्याभाव ऋत्विक् । तदभाव आचार्यश् च दद्युर् इति ॥ १५।१४ ॥
विश्वास-प्रस्तुतिः
न भोजयेत् स्तेनक्लीबपतितनास्तिकतद्वृत्ति-
वीरहाग्रेदिधिषुपतिस्त्रीग्रामयाजकाजापालोत्सृष्टाग्नि-
मद्यपकुचरकूटसाक्षिप्रातिहारिकान् ॥ १५।१५ ॥
मूलम्
न भोजयेत् स्तेनक्लीबपतितनास्तिकतद्वृत्ति-
वीरहाग्रेदिधिषुपतिस्त्रीग्रामयाजकाजापालोत्सृष्टाग्नि-
मद्यपकुचरकूटसाक्षिप्रातिहारिकान् ॥ १५।१५ ॥
हरदत्तः
स्तेनो हिरण्यस्तेनः । क्लीबो मोधवीर्यो न तृतीयाप्रकृतिः । अश्रोत्रियत्वात् पतितो ब्रह्महादिः । नास्तिकः प्रेत्यभावापवादी । तद्वृत्तिस् नास्तिकवृत्तिः । प्रेत्यभावम् अङ्गीकृत्यापि यस् तदनुकूलं न चेष्टते संसर्गवशात् । वीरहा यो बुद्धिपूर्वम् अग्नीन् उद्वासयीत सत्याम् अप्य् उपपत्तौ । श्रूयत् हि — वीरहा एष देवानां यो ऽग्निम् उद्वासयत इति । अग्रेदिधिषू इति दीर्घान्तं केचित् पठन्ति । पतिशब्दः प्रत्येकं संबध्यते । अग्रेदिधिषुपतिर् दिधिषुपतिर् इति ।
ज्येष्ठायां यद्य् अनूढायां कन्यायाम् ऊह्यते ऽनुजा ।
सा त्व् अग्रेदिधिषूर् ज्ञेया पूर्वा तु दिधिषूः स्मृता ॥ इति ।
तयोः पती । नैघटुकास् तु –
पुनर्भूर् दिधिषूरूढा द्विस् तस्या दिधिषुः पतिः ।
स तु द्विजो ऽग्रेदिधिषुः सैव यस्य कुटुम्बिनी ॥ इति ।
स्त्रीग्रामयाजकः । स्त्रीणां व्रतानाम् उपदेष्टानुष्ठापयिता स स्त्रीयाजकः । ग्रामयाजको बहुयाजकः । अजापालो ऽअजारक्षणजीवकः । उत्सृष्टाग्निर् आशौचाद्यनुपपत्त्या प्रमादाद् वा विच्छिन्नाग्निः । मद्यपः सुराव्यतिरिक्तमदकरद्रव्यस्य पाता । सुरापस् तु पतितत्वेनोक्तः । कुचरः कुत्सिताचारः । साक्ष्ये ऽनृतवक्ता कूटसाक्षी । प्रतिहारिको द्वारपालवृत्तिः । एतान् न भोजयेत् । येषां पतितादीनां दर्शनस्पर्शनादिकं प्रतिषिद्धं तेषां प्रतिषेधः कृतप्रायश्चित्तानाम् अपि वर्जनार्थः ॥ १५।१५ ॥
विश्वास-प्रस्तुतिः
उपपतिः ॥ १५।१६ ॥
मूलम्
उपपतिः ॥ १५।१६ ॥
हरदत्तः
उपपतिर् जारः ॥ १५।१६ ॥
विश्वास-प्रस्तुतिः
यस्य च सः ॥ १५।१७ ॥
मूलम्
यस्य च सः ॥ १५।१७ ॥
हरदत्तः
स उपपतिर् यद्विषये स च साक्षात् पतिस् ताव् उभाव् अपि न भोजनीयौ ॥ १५।१७ ॥
विश्वास-प्रस्तुतिः
कुण्डाशिसोमविक्रयुअगारदाहिगरदावकीर्णि-
गणप्रेष्यागम्यागामिहिंस्रपरिवित्तिपरिवेत्तृपर्याहित-
पर्याधातृत्यक्तात्मदुर्वालकुनखिश्यावदन्तश्वित्रि-
पौर्नर्भवकितवाजपराजप्रेष्यप्रतिरूपिक-
शूद्रापतिनिराकृतिकिलासिकुसीदिवणिक्शिल्पोपजीविज्यावादित्र-
तालनृत्यगीतशीलान् ॥ १५।१७
मूलम्
कुण्डाशिसोमविक्रयुअगारदाहिगरदावकीर्णि-
गणप्रेष्यागम्यागामिहिंस्रपरिवित्तिपरिवेत्तृपर्याहित-
पर्याधातृत्यक्तात्मदुर्वालकुनखिश्यावदन्तश्वित्रि-
पौर्नर्भवकितवाजपराजप्रेष्यप्रतिरूपिक-
शूद्रापतिनिराकृतिकिलासिकुसीदिवणिक्शिल्पोपजीविज्यावादित्र-
तालनृत्यगीतशीलान् ॥ १५।१७
हरदत्तः
परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यान् मृते भर्तरि गोलकः ॥
इति मनुः । तस्य कुण्डस्यान्नम् अश्नातीति कुण्डाशी । कुण्डग्रहणं गोलकस्याप्य् उपलक्षणम् । कुण्डादीनां तु प्रतिषेधो दण्डापूपिकया सिद्धः । अपर आह – पाकभाजनं कुण्डं तत्रैव क्वचिद् देशे ऽश्नन्ति तन् न त्यजन्ति ते कुण्डाशिनः । सोमविक्रयी यज्ञे सोमस्य विक्रेता । अगारदाही वेश्मदाहकः । गरदो विषस्य दाता । अवकीर्णी व्रतभ्रष्टः । अथ वा यो ब्रह्मचारी स्त्रियम् उपेयात् सः । गणप्रेष्यो गणानां प्रेषणकृत् । अगम्यागामी समानप्रवरस्त्रीगामी । हिंस्रः प्राणिवधरुचिः ।
परिवेत्तानुजो ऽनूढे ज्येष्ठे दारपरिग्रहात् ।
परिवित्तिस् तु तज्ज्यायान् ॥
इति निघण्टुः । ज्येष्ठे ऽकृताधाने कृताधानः कनिष्ठः पर्याधाता ज्येष्ठः पर्याहितः । वसिष्ठः ।
उन्मत्तः किल्बिषी कुष्ठी पतितः क्लीब एव च ।
यक्षमामयावी च तथा न त्याज्यः स्यात् परीक्षितुम् ॥ इति ।
शातातपः ।
क्लीबे देशविनष्टे च पतिते प्रव्रजिते तथा ।
योगशास्त्राभियुक्ते च न दोषः परिवेदने ॥ इति च ।
त्यक्तात्मा साहसिक उद्बन्धनादौ प्रवृत्तः । दुर्वालः खलतिः । वेष्टितशेफेत्य् अन्ये । कुनखी विना कारणेन विवर्णनखः । विनष्टनख इत्य् अन्ये । श्यावदन्तः स्वभावतः कृष्णदन्तः । श्वित्री श्वेतकुष्ठी । पौर्नर्भवो द्विरूढा पुनर्भूस् तस्याः पुत्रः । कितवो द्यूतकरः कितं वातीति पणपूर्वजीवी वा । अजपो विहितस्य सावित्र्यादिजपस्याकर्ता । राजप्रेष्यो दूतादिः । प्रातिरूपिकः कूटतुलामानादिव्यतिहारी । शूद्रापतिः सैव भार्या यस्य । निराकृतिर् अस्वाध्यायः । श्रोत्रियान् इत्य् उक्ते ऽपि पुनः प्रतिषेधाद् वाग्रूपवयःशीलासंपत्ताव् अप्य् सत्यां गतौ ग्रहणं भवति । किलासस् त्वग्दोषो बलंलीति द्रविडानां प्रसिद्धः । भूम्नि मत्वर्थीयः । कुसीदी वार्धुषिको वृद्धाजीवी । वैश्यवृत्त्या वाणिज्योपजीवी वणिक्, वणिगुपजीवी । चित्रकर्मादिभिर् उपजीवी शिल्पोपजीवी । शीलशब्दो ज्यादिभिः प्रत्येकं संबध्यते ॥ ज्याशीलो धनुर्वेदोपजीवी । वादित्रशीलो भेर्यादिताडनवृत्तिः । तालशीलस् तालवृत्तिः । नृत्यगीतशीलौ च । तथैतान् न भोजयेत् ॥ १५।१८ ॥
विश्वास-प्रस्तुतिः
पित्रा वाकामेन विभक्तान् ॥ १५।१९ ॥
मूलम्
पित्रा वाकामेन विभक्तान् ॥ १५।१९ ॥
हरदत्तः
ये चानिच्छता पित्रा विभक्तास् तान् न भोजयेत् ॥ १५।१९ ॥
विश्वास-प्रस्तुतिः
शिष्यांश् चैके सगोत्रांश् च ॥ १५।२० ॥
मूलम्
शिष्यांश् चैके सगोत्रांश् च ॥ १५।२० ॥
हरदत्तः
एक आचार्याः शिष्यान् सगोत्रांश् चाभोजनीयान् आहुः । एकग्रकनाद् भोजनीया इति स्वमतम् । तत्र गुणवदसंभवे तेषां गुणवत्त्वे सतीति । तथा च आपस्तम्बः: “समुदेतः सोदर्यो ऽपि भोजयितव्यः” इति ॥ १५।२० ॥
विश्वास-प्रस्तुतिः
भोजयेद् ऊर्ध्वं त्रिभ्यः ॥ १५।२१ ॥
मूलम्
भोजयेद् ऊर्ध्वं त्रिभ्यः ॥ १५।२१ ॥
हरदत्तः
यथोत्साहं वेत्य् अनेन सर्वाथम् एकस्यापि प्रसङ्गस् तन्निवृत्त्यर्थम् । त्र्यवरान् भोजयेत्, त्र्यवरान् इत्य् आपस्तम्बीये दर्शनाच् च ॥ १५।२१ ॥
विश्वास-प्रस्तुतिः
गुणवन्तम् ॥ १५।२२ ॥
मूलम्
गुणवन्तम् ॥ १५।२२ ॥
हरदत्तः
एकवचनप्रयोगेण गुणवांश् चेद् एकम् अपि भोजयेत् । वसिष्ठो ऽपि ।
अपि वा भोजयेद् एकं ब्राह्मणं वेदपारगम् ।
शीलवृत्तगुणोपेतम् अवलक्षणवर्जितम् ॥ इति ।
मनुर् अपि ।
एकैकम् अपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।
पुष्कलं फलम् आप्नोति नामन्त्रज्ञान् बहून् अपि ॥ इति ॥ १५।२२ ॥
विश्वास-प्रस्तुतिः
सद्यः श्राद्धी शूद्रातल्पगस् तत्पुरीषे मासं
नयति पितॄन् ॥ १५।२३ ॥
मूलम्
सद्यः श्राद्धी शूद्रातल्पगस् तत्पुरीषे मासं
नयति पितॄन् ॥ १५।२३ ॥
हरदत्तः
येन श्राद्धं भुक्तं स तस्मिन्न् अहोरात्रे श्राद्धीत्य् उच्यते । श्राद्धम् अनेन भुक्तम् इति, अत इनिठनौ । समानकालः स यदि तद् अहः शूद्रातल्पं गच्छेत् । तल्पग्रहणं भार्यार्थम् । ऊढाम् अपि शूद्रां यदि गच्छेत् सद्य एव तस्याः पुरीषे पितॄन् मासं नयति ॥ १५।२३ ॥
हरदत्त-प्रस्तावः
इतरासु भार्यासु कल्प्यम् । अत आह ।
विश्वास-प्रस्तुतिः
तस्मात् तद् अहर् ब्रह्मचारी च स्यात् ॥ १५।२४ ॥
मूलम्
तस्मात् तद् अहर् ब्रह्मचारी च स्यात् ॥ १५।२४ ॥
हरदत्तः
मानवे दातुर् अपि नियम उक्तः ।
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा ।
न च छन्दांस्य् अधीयीत यस्य श्राद्धं च तद् भवेत् ॥ इति ॥ १५।१४ ॥
विश्वास-प्रस्तुतिः
श्वचाण्डालपतितावेक्षणे दुष्टम् ॥ १५।२५ ॥
मूलम्
श्वचाण्डालपतितावेक्षणे दुष्टम् ॥ १५।२५ ॥
हरदत्तः
श्वादिभिर् अवेक्षितम् अन्नं दुष्टम् अभोज्यं भवति । श्राद्धं चावेक्षितं दुष्टम् अकृतं भवति ॥ १५।२५ ॥
हरदत्त-प्रस्तावः
यस्माद् एवम्,
विश्वास-प्रस्तुतिः
तस्मात् परिश्रिते दद्यात् ॥ १५।२६ ॥
मूलम्
तस्मात् परिश्रिते दद्यात् ॥ १५।२६ ॥
हरदत्तः
परिश्रयणं तिरस्करिण्यादिना व्यवधानम् ॥ १५।२६ ॥
हरदत्त-प्रस्तावः
तदशक्तौ ।
विश्वास-प्रस्तुतिः
तिलैर् वा विकिरेत् ॥ १५।२७ ॥
मूलम्
तिलैर् वा विकिरेत् ॥ १५।२७ ॥
हरदत्तः
अत्र भृगुः ।
पानीयम् अपि यद् दत्तं तिलैर् मिश्रं द्विजस्य तु ।
पितृभ्यः कामधुक् तत् स्यात् पितृगुह्यम् इदं ततः ॥ इति ॥ १५।२७ ॥
विश्वास-प्रस्तुतिः
पङ्क्तिपावनो वा शमयेत् ॥ १५।२८ ॥
मूलम्
पङ्क्तिपावनो वा शमयेत् ॥ १५।२८ ॥
हरदत्तः
पङ्क्तिर् येन पाव्यते स पङ्क्तिपावनः । श्वाद्यवेक्षणे यो दोषस् तं शमयेत् ॥ १५।२८ ॥
हरदत्त-प्रस्तावः
स कः पुनर् असौ तम् आह ।
विश्वास-प्रस्तुतिः
पङ्क्तिपावनः षडङ्गविज् ज्येष्ठसामिकस् त्रिणाचिकेतस्
त्रिमधुस् त्रिसुपर्णः पञ्चाग्निः स्नातको
मन्त्रब्राह्मणविद् धर्मज्ञो ब्रह्मदेयानुसंतान
इति ॥ १५।२९ ॥
मूलम्
पङ्क्तिपावनः षडङ्गविज् ज्येष्ठसामिकस् त्रिणाचिकेतस्
त्रिमधुस् त्रिसुपर्णः पञ्चाग्निः स्नातको
मन्त्रब्राह्मणविद् धर्मज्ञो ब्रह्मदेयानुसंतान
इति ॥ १५।२९ ॥
हरदत्तः
शिक्षा कल्पो व्याकरणं ज्योतिषं निरुक्तं छन्दोविचितिर् इति षडङ्गानि । तेषां पाठतो ऽर्थतश् च ज्ञाता षडङ्गवित् । ज्येष्ठसामिकः – तलवकाराणाम् उद् उ त्यां चित्रम् इत्य् एतयोर् गायको ज्येष्ठसामगश् छन्दोगानां तु तद् इदासीती तीयं तद् योगयेति(?) ज्येष्ठं साम तद्वेदिता ज्येष्ठसामिकः । त्रिणाचिकेतो – नाचिकेतो बहुषु शाखासु विधीयते तैत्तिरीये कठवल्लीषु शतपथे च । तं यो वेद ब्राह्मणेन सह स त्रिणाचिकेतः । “मधु वाता ऋतायते” इत्य् एतत् ऋचं त्रिमधु । तत्र प्रत्यृचं त्रयो मधुशब्दाः । आश्वलायनो ऽप्य् आह: “तृप्ताञ् ज्ञात्वा मधुमतीः श्रावयेत्” इति । इह तु तदध्यायी पुरुषस् त्रिमधुः । त्रिसुपर्ण ऋग्वेदे “एकः सुपर्णः स समुद्रम् आविवेश” इत्यादिकस् तृचः । तैत्तिरीयके “ब्रह्मम् एतु माम्” इत्यादयस् त्रयो ऽनुवाकाः । तत्र हि “य इमं त्रिसुपर्णम् अयाचितं ब्राह्मणाय दद्यात्” इति श्रूयते । पूर्ववत् पुरुषे वृत्तिः । पञ्चाग्निः सभ्यावसथाभ्यां सह पञ्चानाम् अनुवाकानाम् अध्येता । स्नातको विद्याव्रताभ्याम् मन्त्रब्राह्मणविन् मन्त्रब्राह्मणयोर् अथज्ञः । धर्मज्ञो धर्मशास्त्राणाम् अर्थज्ञः । ब्रह्मदेयानुसंतानो ब्राह्मविवाहोढासंतानः । इतिकरणाद्यश् चान्य एवंयुक्तः । ये मातृतः पितृतश् चेति दशवर्षं समनुष्ठिता विद्यातपोभ्यां पुण्यैश् च कर्मभिर् येषाम् उभयतो नाब्राह्मणं निनयेयुः । पितृत इत्य् एक इत्य् एवमादिलक्षणः । स एष सर्वः पङ्क्तिपावनः ॥ १५।२९ ॥
विश्वास-प्रस्तुतिः
हविःषु चैवम् ॥ १५।३० ॥
मूलम्
हविःषु चैवम् ॥ १५।३० ॥
हरदत्तः
हविःशब्देन दैवानि मानुषाणि च कर्माण्य् उच्यन्ते । ज्येष्ठा अप्य् एवम् उक्तलक्षणा एव ब्राह्मणा भोजयितव्या न तु प्रतिषिद्धाः स्तेनादयः इति ॥ १५।३० ॥
विश्वास-प्रस्तुतिः
दुर्वालादीञ् श्राद्ध एवैके ॥ १५।३१ ॥
मूलम्
दुर्वालादीञ् श्राद्ध एवैके ॥ १५।३१ ॥
हरदत्तः
एके तु दुर्वालान् आरभ्य ये ऽनुक्रान्तास् ताञ् श्राद्ध एव न भोजयेन् न तु दैवमानुषयोर् इति मन्यन्ते । स्वमते तु ते तत्राप्य् अभोज्या एवेति ॥ १५।३१ ॥
विश्वास-प्रस्तुतिः
अकृतान्नश्राद्धे चैवं चैवम् ॥ १५।३२ ॥
मूलम्
अकृतान्नश्राद्धे चैवं चैवम् ॥ १५।३२ ॥
हरदत्तः
द्विरुक्तिः पूर्ववत् ॥ १५।३२ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने पञ्चदशो ऽध्यायः