अथ चतुर्दशो ऽध्यायः
हरदत्त-प्रस्तावः
अथाशौचनिर्णयः ।
विश्वास-प्रस्तुतिः
शावम् आशौचं दशरात्रम् अनृत्विग्दीक्षित
ब्रह्मचारिणां सपिण्डानाम् ॥ १४।१ ॥
मूलम्
शावम् आशौचं दशरात्रम् अनृत्विग्दीक्षित
ब्रह्मचारिणां सपिण्डानाम् ॥ १४।१ ॥
हरदत्तः
शवनिमित्तं शावम् । अशुचिभाव आशौचम् । दशरात्रं दशाहोरात्रं भवति सपिण्डानाम् ऋत्विगादिवर्जितानाम् । ऋत्विग्याजकः कर्मणि वर्तमानः । दीक्षितः कृतदीक्षणीयः कर्मणि वर्तमानः । ब्रह्मचारी प्रसिद्धः । आवभृथं पूर्वयोः । आब्रह्मचर्यपर्यन्तं परस्य । किं पुनर् इदम् आशौचलक्षणम् । कर्मण्य् अनधिकारो ऽभोज्यान्नतास्पृश्यता दानादिष्व् अनधिकारिता । अत्र मनुः ।
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो यज्ञः स्वाध्यायश् च निवर्तते ॥
न स्पृशेयुर् अनासन्नाः प्रेतस्यासन्नबान्धवान् ॥ इति च ।
अङ्गिराः ।
सूतके तु यदा विप्रो ब्रह्मचारी विशेषतः ।
पिबेत् पानीयम् अज्ञानात् समश्नीयात् स्पृशेत वा ॥
पानीयमाने कुर्वीत पञ्चगन्व्यस्य भक्षणम् ।
त्रिरात्रं भोजने प्रोक्तं स्पृष्ट्वा स्नानं विधीयते ॥ इति ।
याज्ञवल्क्यः ।
उदक्याशौचिभिः स्नायात् संस्पृष्टस् तैर् उपस्पृशेत् ॥ इति ।
संवर्तः ।
अस्थिसंचयनाद् ऊर्ध्वम् अङ्गस्पर्शो विधीयते ॥ इति ।
व्याघ्रः ।
मरणाद् एव कर्तव्यं संयोगो यस्य नाग्निभिः ।
दहनाद् एव कर्तव्यं यस्य वैतानिको विधिः ॥ इति ।
शङ्खः ।
चतुर्थे दशरात्रं स्यात् षण्निशाः पुंसि पञ्चमे ।
षष्ठे चतुरहाच् छुद्धिः सप्तमे तु दिनत्रयम् ॥ इति ।
एतत् सर्वं निर्गुणविषयम् । गुणवद्विषये पराशरः ।
एकाहाच् छुध्यते विप्रो यो ऽग्निदेवसमन्वितः ।
त्र्यहात् केवलवेदस् तु निर्गुणो दशभिर् दिनैः ॥ इति ।
बृहस्पतिः ।
त्रिरात्रेण विशुध्येत विप्रो वेदाग्निसंयुतः ।
पञ्चाहेनाग्निहिनस् तु दशाहाद् ब्राह्मणब्रुवः ॥ इति ।
अत्र ब्रह्मचारिग्रहणं गृहस्थव्यतिरिक्तानाम् आश्रमाणाम् उपलक्षणार्थम् । अत्र बृहस्पतिः ।
नैष्ठिकानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् ।
नाशौचं सूतके प्रोक्तं शावए वापि तथैव च ॥ इति ।
दीक्षितग्रहणं चान्द्रायणादिव्रतप्रवृत्तानाम् उपलक्षणार्थम् । अत्र वसिष्ठः ।
न राज्ञाम् अथ दोषो ऽस्ति व्रतिनां सत्रिणां तथा ।
ऐन्द्रस्थानम् उपासीना न चापूता हि ते सदा ॥ इति ॥ १४।१ ॥
विश्वास-प्रस्तुतिः
एकादशरात्रं क्षत्रियस्य ॥ १४।२ ॥
मूलम्
एकादशरात्रं क्षत्रियस्य ॥ १४।२ ॥
हरदत्तः
दीक्षितब्रह्मचारिव्यतिरिकस्य ज्ञातिमरणे क्षत्रियस्यैकादशरात्रं भवति । द्वादशरात्रेणेति याज्ञवल्क्यः । पञ्चदशरात्रेणेति वसिष्ठः । दशरात्रेणेति पराशरः । षोडशाहम् इति पैठीनसिः । एतेषां वृताग्निस्वाध्यायसमासव्यासापेक्षो विकल्पः ॥ १४।२ ॥
विश्वास-प्रस्तुतिः
द्वादशरात्रं वैश्यस्यार्धमासम् एके ॥ १४।३ ॥
मूलम्
द्वादशरात्रं वैश्यस्यार्धमासम् एके ॥ १४।३ ॥
हरदत्तः
एकादशरात्रं पराशरः । विंशतिरात्रं वसिष्ठ-पैठीनसी । पूर्ववद् विकल्पः ॥ १४।३ ॥
विश्वास-प्रस्तुतिः
मासं शूद्रस्य ॥ १४।४ ॥
मूलम्
मासं शूद्रस्य ॥ १४।४ ॥
हरदत्तः
सच्छूद्राणाम् अर्धमासम् इत्य् उशना । ये त्रैवर्णिकान् परिचरन्तस् तेभ्यो वृत्तिं लिप्सन्ते ते सच्छूद्राः । सा हि तेषाम् उत्तमा वृत्तिर् इत्य् अवोचाम । दासविषये बृहस्पतिः ।
दासान्तेवासिभृतकाः शिष्याश् चैकत्रवासिनः ।
स्वामितुल्येन शौचेन शुध्यन्ति मृतसूतके ॥ इति ।
अत्र क्रमविवाहे बौधायनः ।
क्षत्रविट्शूद्रजातीया ये स्युर् विप्रस्य बान्धवाः ।
तेषाम् अशौचे विप्रस्य दशाहाच् छुद्धिर् इष्यते ॥
राजन्यवैश्याव् अप्य् एवं हीनजातिषु बन्धुषु ।
स्वम् एवाशौचं कुर्यातां विशुच्छ्यर्थम् असंशयः ॥ इति ।
बृहस्पतिस् तु ।
शुध्येद् विप्रो दशाहेन जन्महान्योः स्वयोनिषु ।
सप्तपञ्चत्रिरात्रैस् तु क्षत्रविट्शूद्रयोनिषु ॥ इति ।
अत्र विष्णुर् विशेषम् आह – ब्राह्मणस्य क्षत्रियविट्शूद्रेषु षड्रात्रत्रिरात्रैकरात्रैः । क्षत्रियस्य विट्शूद्रयोः षड्रात्रत्रिरात्राभ्याम् । वैश्यस्य शूद्रे षड्रात्राच् छुद्धिर् इति प्रकृतम् । एषां वृत्ताद्यपेक्षया व्यवस्था । अधिकवर्णविषये मनुः ।
सर्वे तूत्तमवर्णानाम् आशौचं कुर्युर् आदृताः ।
तद्वर्णविधिदृष्टेन स्वं त्व् आशौचं स्वयोनिषु ॥ इति ।
उत्तमवर्णानां मरणप्रयुक्तम् आशौचम् उक्तं तद्वर्णविधिदृष्टेन प्रकारेण कुर्युः, स्वयोनिषु तु स्वाशौचं स्वजातिनिमित्तं कुर्युर् इति । अत एव ज्ञायते मातृजातियुक्ता अनुलोमानां धर्मा इति ॥ १४।४ ॥
विश्वास-प्रस्तुतिः
तच् चेद् अन्तः पुनर् आपतेच् छेषेण शुध्येतन् ॥ १४।५ ॥
मूलम्
तच् चेद् अन्तः पुनर् आपतेच् छेषेण शुध्येतन् ॥ १४।५ ॥
हरदत्तः
अन्तरितस्य प्रतियोग्यपेक्षायां शावम् आशौचं दशरात्रम् इति प्रकृतं दशरात्राद्य् अभिसंबध्यते । शावस्य दशरात्रादेर् आशौचस्य मध्ये तस्मिन् वर्तमाने यद्य् अन्यच् छावाशौचं समानकालं न्यूनकालं वा पुनर् आपतेद् आगच्छेत् ततः शेषेण पूर्वं वर्तमानस्य दशरात्रादेर् यानि शिष्टान्य् अहानि तैर् एव शुध्येरन् । न पुनर् आपतितस्य कालप्रतीक्षेति । अत्र जनने ऽप्य् एवेम् इत्य् अतिदेशात् पूर्णस्य जननाशौचस्य मध्ये समानकालं वा न्यूनकालं वा जननाशौचम् आगच्छेच् छेषेण शुध्येरन् । यत्र न्यूनकालस्याशौचस्य मध्ये पूर्णकालम् आपतेत् तेनैव गच्छति । अत्र मनुः ।
अन्तर्दशाहे स्यातां चेत् पुनर् मरणजन्मनी ।
तावत् स्याद् अशुचिर् विप्रो यावत् तत् स्याद् अनिर्दशम् ॥ इति ।
देवलः ।
आद्यानां यौगपद्ये तु ज्ञेया शुद्धिर् गरीयसी ॥ इति ।
अङ्गिराः ।
मातर्य् अग्रे प्रमीतायाम् अशुद्धौ म्रियते पिता ।
पितुः शेषेण शुद्धिः स्यान् मातुः कुर्यात् तु पक्षिणीम् ॥ इति ।
सूतकाद् द्विगुणं शावं शावाद् द्विगुणम् आर्तवम् ।
आर्तवाद् द्विगुणा सूतिस् ततो ऽधिशवदाहके ॥ इति ।
वृद्धात्रिः: “अनेन दाहकस्य सूतिकायाश् च पूर्वाशौचविशेषेणोत्तरस्य शुद्धिः” इति । अत्र षट्त्रिंशन्मतम् ।
शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् ।
शावेन शुध्यते सूतिर् न सूतिः शावशोधनी ॥ इति ॥ १४।५ ॥
विश्वास-प्रस्तुतिः
रात्रिशेषे द्वाभ्याम् ॥ १४।६ ॥
मूलम्
रात्रिशेषे द्वाभ्याम् ॥ १४।६ ॥
हरदत्तः
पूर्वस्मिन्न् आशौचे रात्रिशेषे सति यद्य् अन्यद् आपतेत् ततो द्वाभ्याम् अहोभ्यां शुध्येरन् ॥ १४।६ ॥
विश्वास-प्रस्तुतिः
प्रभाते तिसृभिः ॥ १४।७ ॥
मूलम्
प्रभाते तिसृभिः ॥ १४।७ ॥
हरदत्तः
अथ दशाहादौ व्यतीते ऽपरेद्युः प्रभाते संगवे यद्य् अन्यद् आपतेर् ततस् तिसृभी रात्रिभिः शुध्येरन् । अत्र मनुः ।
विगतं तु विदेशस्थं शृणुयाद् यो ह्य् अनिर्दशम् ।
यच् छेषं दशरात्रस्य तावद् एवाशुचिर् भवेत् ॥ इति ॥ १४।७ ॥
विश्वास-प्रस्तुतिः
गोब्राह्मणहतानाम् अन्वक्षम् ॥ १४।८ ॥
मूलम्
गोब्राह्मणहतानाम् अन्वक्षम् ॥ १४।८ ॥
हरदत्तः
गवार्थे ब्राह्मणार्थे वा हतानां ये सपिण्डास् तेषाम् आशौचम् अन्वक्षम् । अन्वक्ष्यते प्रत्यक्ष्यते शवस् तावत् संस्कारान्ते स्नात्वा शुध्येरन्न् इति । अत्र सद्यःशौचाधिकारे मनुः ।
गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥ इति ।
गवा ब्राह्मणेन वा ये हतास् तज्ज्ञानीनाम् आशौचम् अन्वक्षम् इति चार्थः । तथाह् उशना: “गोभिर् हतानां ब्राह्मणैर् हतानां च सद्य शौचम्” इति ॥ १४।८ ॥
विश्वास-प्रस्तुतिः
राजक्रोधाच् च ॥ १४।९ ॥
मूलम्
राजक्रोधाच् च ॥ १४।९ ॥
हरदत्तः
हतानाम् इत्य् उपसमस्तम् अपेक्षते । राजक्रोधाद् ये हतास् तज्ज्ञातीनाम् अप्य् अन्वक्षम् आशौचम् ॥ १४।९ ॥
विश्वास-प्रस्तुतिः
युद्धे ॥ १४।१० ॥
मूलम्
युद्धे ॥ १४।१० ॥
हरदत्तः
चकारो ऽनुवर्तते । युद्धे च हतानाम् अन्वक्षम् आशौचम् । अत्र मनुः ।
डिम्बाहवहतानां च विद्युता पार्थिवेन च ॥ इति ।
डिम्बो जनसंमर्दः । सद्यःशौचं प्रकृतम् । पाठान्तरं त्व् अस्मभ्यं न रोचते । यदि वा स एव पाठः । आयुद्धेति पदच्छेदः । आयुद्धम् आयोधनम् । संग्राम इति यावत् । सर्वथा नञ्समासो न रोचते ॥ १४।१० ॥
विश्वास-प्रस्तुतिः
प्रायानाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश्
चेछताम् ॥ १४।११ ॥
मूलम्
प्रायानाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश्
चेछताम् ॥ १४।११ ॥
हरदत्तः
प्रायो महाप्रस्थानम् । तद् अनिच्छतो ऽपि राजभयादिना संभवतीतीच्छताम् इत्य् उक्तम् । एवम् उत्तरेष्व् अपि यथासंभवम् इच्छानिच्छे द्रष्टव्ये । अश भोजने ऽशनम् आशः । स एवाशकस् तद्विपर्ययो ऽनाशकः । सत्य् एव भोज्यद्रव्ये क्रोधादिना भोजननिवृत्तिः । शस्त्राग्निविषोदकोद्बन्धनानि प्रसिद्धानि । प्रपतनं वृक्षात् पर्वताद् वा पातः । एतैः प्रायादिभिर् आत्मव्यापादने चकाराद् अन्यैर् अप्य् एवंविधैर् अन्वक्षम् आशौचम् इति । अत्र ब्रह्मपुराणे ।
क्रोधात् प्रायं विषं वह्निः शस्त्रम् उद्बन्धनं जलम् ।
गिरिवृक्षप्रपातं च ये कुर्वन्ति नराधमाः ॥
ब्रह्मदण्डहता ये च ये चैव ब्राह्मणैर् हताः ।
महापातकिनो ये च पतितास् ते प्रकीर्तिताः ॥
पतितानां न दाहः स्यान् न च स्याद् अस्थिसंचयः ।
न चाश्रुपातः पिण्डो वा कार्या श्राद्दक्रिया न च ॥ इति ।
अत्र अङ्गिराः ।
यदि कश्चित् प्रमादेन म्रियेताग्न्युदकादिभिः ।
तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया ॥ इति ॥ १४।११ ॥
हरदत्त-प्रस्तावः
सपिण्डानाम् इत्य् उक्तम् । के ते सपिण्डास् तान् आह ।
विश्वास-प्रस्तुतिः
पिण्डनिवृत्तिः सप्तमे पञ्चमे वा ॥ १४।१२ ॥
मूलम्
पिण्डनिवृत्तिः सप्तमे पञ्चमे वा ॥ १४।१२ ॥
हरदत्तः
कूटस्थम् आरभ्य षष्ठपर्यन्तं सापिण्ड्यम् । सप्तमे तु निवृत्तिः । केचित् तु (?) सप्तमे सोदकत्वम्, “सप्तमे तु निवर्तते” इत्य् उक्तत्वात् । ततः परं सगोत्रत्वम् एव । पञ्चमे वेति यद् उक्तं तद् औरसव्यतिरिक्तविषयम् । तत्रापि यथासंभवं द्रष्टव्यम् । एवं चार्थः – पितृपितामहप्रपितामहेभ्यस् तत्परम् अपि द्वाभ्याम् इत्य् आत्मना सह षष्ठपर्यन्तं पिण्डं दद्यात् । सप्तमे तु निवृत्तिः । पञ्चमे वेति पुत्रिकापुत्रविषयम् एतत् । अत्र बौधायनः – “कथं कलु पुत्रिकापुत्रस्य पिण्डदानम् । एतत् ते ऽमुष्यै पितः, मम पितामह ये च त्वान् अनु, एतत् ते ऽमुष्यै पितामह मम प्रपितामह ये च त्वाम् अनु, एतत् ते ऽमुष्यै प्रपितामह मम प्रपितामह ये च त्वाम् अनु” इति । अस्यैवं पिण्डं ददतः पञ्चमे प्राप्ते पिण्डनिवृत्तिः । मात्स्यपुराणे ।
लेपभाजश् चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
सप्तमः पिण्डदस् तेषां सापिण्ड्यं साप्तपौरुषम् ॥ इति ॥ १४।१२ ॥
विश्वास-प्रस्तुतिः
जनने ऽप्य् एवम् ॥ १४।१३ ॥
मूलम्
जनने ऽप्य् एवम् ॥ १४।१३ ॥
हरदत्तः
शावम् आशौचं दशरात्रम् इत्यादेः प्रभाते तिसृभिर् इत्यन्तस्यातिदेशः । यथा शावम् आशौचं तथा जनने ऽपीति द्रष्टव्यम् ॥ १४।१३ ॥
विश्वास-प्रस्तुतिः
मातापित्रोस् तन्मातुर् वा ॥ १४।१४ ॥
मूलम्
मातापित्रोस् तन्मातुर् वा ॥ १४।१४ ॥
हरदत्तः
तज्जननाशौचं मातापित्रोर् वा मातुर् एव वा । मुख्यत्वाज् जनन्याः पितुः प्राग् एव । ज्ञातीनां तत्र व्याघ्रः ।
सूतकं तु सपिण्डानां पित्रोर् वा मातुर् एव वा ॥ इति ।
मातापित्रोर् वा तन्निमित्तत्वाद् इति । मनुस् तु ।
जनने ऽप्य् एवम् एव स्यान् निपुणां शुद्धिम् इच्छताम् ।
सर्वेषां शावम् आशौचं मातापित्रोस् तु सूतकम् ॥ इति ।
याज्ञवल्क्यः ।
त्रिरात्रं दशरात्रं वा शावम् आशौचम् इष्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुर् एव हि ॥ इति ।
बौधायनः: “जनने तावन् मातापित्रोर् दशाहम् आशौचे । मातुर् इत्य् एके । तत्परिहरणात् । पितुर् इत्य् एके । शुक्रप्राधान्यात् । अयोनिजा ह्य् अपि पुत्राः श्रूयन्ते । मातापित्रोर् एव तु संसर्गसामान्यात्” । अङ्गिराः ।
नाशौचं सूतके प्रोक्तं सपिण्डानां कथंचन ।
मातापित्रोर् अशौचं स्यात् सूतकं मातुर् एव च ॥
सर्वेषां शावम् आशौचं मातापित्रोस् तु सूतकम् ।
मातुर् वा सूतकं तस्माद् उपस्पृश्य पिता शुचिः ॥ इति ।
शङ्खलिखितौ: “जनने ऽप्य् एवम् । तत्र मातापितराव् अशुची इति । मातेत्य् एके” इति । पैठीनसिः ।
जनने सपिण्डाः शुचयो मातापित्रोस् तु सूतकम् ।
सूतकं मातुर् एव स्याद् उपस्पृश्य पिता शुचिः ॥ इति ।
अत्र वृत्ताद्यपेक्षो दशाहो नैषां विकल्पः । अन्ये भणन्ति अनधिकारलक्षणम् आशौचं सर्वेषां भवति, “उभयत्र दशाहानि कुलस्यान्नं न भुज्यते” इति मानवे दर्शनात् । अस्पर्शितालक्षणं तु मातापित्रोर् एवेति । गृहान्तरे वसतस् तत्संसर्गम् अगच्छतः पितुश् च नेति । “सूतके सूतकावर्जं संस्पर्शो न निषिध्यते” इति च पठन्ति ॥ १४।१४ ॥
विश्वास-प्रस्तुतिः
गर्भमाससमारात्रीः स्रंसने गर्भस्य ॥ १४।१५ ॥
मूलम्
गर्भमाससमारात्रीः स्रंसने गर्भस्य ॥ १४।१५ ॥
हरदत्तः
आ चतुर्थाद् भवेत् स्रावः पातः पञ्चमषष्ठयोः ।
अत ऊर्ध्वं तु नारीणां स्रवः प्रसव उच्यते ॥ इति ।
तिस्रो गर्भविपदस् ताः सर्वाः स्रंसनशब्देनोच्यन्ते । यावतिथे मासे गर्भस्य स्रंसनं तन्माससमा रात्रीर् आशौचं भवति । अत्यन्तसंयोगे द्वितीया । द्वितीयमासादियथामाससंख्यान्य् अहानीति ॥ १४।१५ ॥
विश्वास-प्रस्तुतिः
त्र्यहं वा ॥ १४।१६ ॥
मूलम्
त्र्यहं वा ॥ १४।१६ ॥
हरदत्तः
द्वितीये ऽपि मासे त्र्यहं वापि भवति । चतुर्षु तूत्कर्षः ॥ १४।१६ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् ॥ १४।१७ ॥
मूलम्
श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् ॥ १४।१७ ॥
हरदत्तः
दशमीग्रहणं दशाहादेः परिपूर्णाशौचस्योपलक्षणम् । अहर्द्वयमध्यगता रात्रिः पक्षिणी रात्रिद्वयम् अध्यगतम् अहर् वा । पूर्ववद् द्वितीयाप्राप्तिर् विपत्तिप्रकरणात् । मरणनिमित्तम् ऊर्ध्वं दशाहाद् आशौचकाले ऽतिक्रान्ते यदि ज्ञातिमरणं शृणुयात् ततः पक्षिणीम् आशौचं भवति । दिवा श्रवणे तदहर् अन्तरा रात्रिष्व् अपरेद्युश् चाहः । रात्रौ श्रवणे सा रात्रिर् अपरेद्युर् अहोरात्र इति । अत्र मनुः ।
अतिक्रान्ते दशाहे तु त्रिरात्रम् अशुचिर् भवेत् ॥ इति ।
तथा जाबालिः ।
अतीते सूतके स्वे स्वे त्रिरात्रम् अशुचिर् भवेत् ॥ इति ।
अत्र सूतकशब्द आशौचपर्यायः । विष्णुस् तु: “व्यतीते त्व् आसंवत्सरस्यान्त एकरात्रेण” इति । एषा देशकालधर्मापेक्षया व्यवस्था । वृद्धवसिष्ठः ।
मासत्रये त्रिरात्रं तु षण्मासे पक्षिणी भवेत् ।
एतच् च सर्वं संवत्सराद् अर्वाक् । अत्र मनुः ।
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥ इति ।
अत्र पैठीनसिः ।
पितरौ चेन् मृतौ स्यातां दूरस्थो ऽपि हि पुत्रकः ।
श्रुत्वा तद्दिनम् आरभ्य दशाहं सूतकी भवेत् ॥ इति ।
स्मृत्यन्तरे ।
पितृपत्न्यां व्यतीतायां मातृवर्जं द्विजोत्तमः ।
संवत्सरे व्यतिक्रान्ते त्रिरात्रम् अशुचिर् भवेत् ॥
निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ॥
एतत् तु समानोदकविषयम् ॥ १४।१७ ॥
विश्वास-प्रस्तुतिः
असपिण्डे योनिसंबन्धे सहाध्यायिनि च ॥ १४।१८ ॥
मूलम्
असपिण्डे योनिसंबन्धे सहाध्यायिनि च ॥ १४।१८ ॥
हरदत्तः
सपिण्डता यस्य निवृत्ता सो ऽसपिण्डः समानोदकः । योनिसंबन्धो मातामहमातृष्वसृतत्पुत्रादयः स्त्रीणां प्रत्तानां पित्रादयः स्वस्रादयश् च । सहाध्यायी एकस्माद् उपाध्यायाद् अधीतकृत्स्नवेदः । चकारात् स्मृत्यन्तर्पठिताः पितृष्वसृतदपत्यादयो ऽन्ये च । एतेषु मृतेषु परस्परं पक्षिणीम् आशौचं भवति । पक्षिणीकाले त्व् अतीते स्नानम् एव । मनुस् तु समानोदके त्रिरात्रम् आह ।
रजन्याह्नैव चैकेन त्रिरात्रैर् एव च त्रिभिः ।
शवस्पृशो विशुध्यन्ति त्र्यहात् तूदकदायिनः ॥ इति ।
अनयोः पूर्ववद् व्यवस्था । एतद् द्वयम् अप्य् अनुपनीतमरणविषयम् । ततो ऽर्वाक् स्नानम् एव । जनने ऽपि समानोदकानां मनुना त्र्यहो दर्शितः ।
जन्मन्य् एदोदकानां तु त्र्यहाच् छुद्धिर् इहेष्यते ॥ इति ॥ १४।१८ ॥
विश्वास-प्रस्तुतिः
सब्रह्मचार्ण्य् एकाहम् ॥ १४।१९ ॥
मूलम्
सब्रह्मचार्ण्य् एकाहम् ॥ १४।१९ ॥
हरदत्तः
समानो ब्रह्मचारी सब्रह्मचारी सुहृत् । तस्मिन् मृत एकम् अहोरात्रम् आशौचं भवति ॥ १४।१९ ॥
विश्वास-प्रस्तुतिः
श्रोत्रिये चोपसंपन्ने ॥ १४।२० ॥
मूलम्
श्रोत्रिये चोपसंपन्ने ॥ १४।२० ॥
हरदत्तः
श्रोत्रियो ऽधीतवेदः । उपसंपन्न आश्रितो गृहवासादिना । तस्मिन् मृत एकाहम् आशौचम् । चकाराद् एकाहम् इत्य् अनुवर्तते अत्र अङ्गिराः ।
गृहे यस्य मृतः कश्चित् तत्सपिण्डः कथंचन ।
तस्याप्य् अशौचं विज्ञेयं त्रिरात्रं नात्र संशयः ॥ इति ।
मनुः ।
श्रोत्रिये तूपसंपन्ने त्रिरात्रम् अशुचिर् भवेत् ॥ इति ।
आङ्गिरसम् अपि वचनं श्रोत्रियविषयम् । अत्र विष्णुर् अपि: “स्त्रीणां विवाहः संस्कारः संस्कृतासु स्त्रीषु नासौचं पितृपक्षे । तत्प्रसवमरणे पितृगृहे चेद् भवेतां तदैकरात्रं त्रिरात्रं चेति । प्रसव एकरात्रं मरणे त्रिरात्रम् इति व्यवस्थितो विकल्पः ॥ १४।२० ॥
विश्वास-प्रस्तुतिः
प्रेतोपस्पर्शने दशरात्रम् आशौचम् अभिसंधाय
चेत् ॥ १४।२१ ॥
मूलम्
प्रेतोपस्पर्शने दशरात्रम् आशौचम् अभिसंधाय
चेत् ॥ १४।२१ ॥
हरदत्तः
नात्रोपस्पर्शशब्देन स्पर्शमात्रं विवक्षितम् । पतितचण्डालेत्यादिना सचैलस्नानस्य तद्विषये वक्ष्यमाणत्वात् । किं तर्ह्य् उपस्पर्शनं प्रेतनिर्हरणम् । तस्मिन् दशरात्रम् आशौचं भवति । तच् चेन् निर्हरणम् अभिसंधाय वेतनादिप्रयोजनाभिसंधानेन भवति न धर्माऋथम् । सत्य् अप्य् आशौचाधिकारे पुनर् आशौचग्रहणं पूर्वस्माद् आशौचाद् अस्य चैधर्म्यज्ञापनार्थम् । तेन वक्ष्यमाणम् अधःशय्यासनादिकम् अस्मिन् विषये न भवति । अस्पृश्यताधिकारलक्षणम् एव ॥ १४।२१ ॥
विश्वास-प्रस्तुतिः
उक्तं वैश्यशूद्रयोः ॥ १४।२२ ॥
मूलम्
उक्तं वैश्यशूद्रयोः ॥ १४।२२ ॥
हरदत्तः
अस्मिन्न् अभिसंधाय प्रेतोपस्पर्शनादिविषये वैश्यशूद्रयोस् अनुक्तम् आशौचं द्वादशरात्रम् अर्धमासम् इति पूर्वोक्तम् ॥ १४।२२ ॥
विश्वास-प्रस्तुतिः
आर्तवीर् वा ॥ १४।२३ ॥
मूलम्
आर्तवीर् वा ॥ १४।२३ ॥
हरदत्तः
ऋतुसमानसंख्या वा रात्रीर् आशौचम् । षड् ऋतवः । पञ्च वा हेमन्तशिशिरयोः समासेन ॥ १४।२३ ॥
विश्वास-प्रस्तुतिः
पूर्वयोश् च ॥ १४।२४ ॥
मूलम्
पूर्वयोश् च ॥ १४।२४ ॥
हरदत्तः
पूर्वयोर् ब्राह्मणक्षत्रिययोर् अपि वर्णयोर् उक्तम् आशौचम् आर्तवीर् वा रात्रीर् आशौचम् । उक्तस्यापि ब्राह्मणस्य पूर्वयोर् इति पुनर् उपादानम् आर्तवीर् वेति विकल्पसिद्ध्यर्थम् । पूर्ववद् देशकालावस्थाद्यपेक्षो विकल्पः । अत्र भृतिरहिते निर्हारे मनुः ।
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ॥
यद्य् अन्नम् अत्ति तेषां यः स दशाहेन शुध्यति ।
अनदन्न् अन्नम् अह्नैव न चेत् तस्मिन् गृहे वसेत् ॥ इति ।
बन्धुवत् स्नेहादिना । ग्रामाद् बहिर् वासे वोढॄणां सज्योतिः । यथाह हारीतः: “प्रेतस्पृशो ग्रामं न प्रविशेयुर् आ नक्षत्रदर्शनाद् रात्रौ चेद् आदित्यदर्शनात् ततः शुद्धिः” इति । ग्रामप्रवेशे तु अनदन्न् अन्नम् अह्नैवेति मानवम् एकाहः । अनाठविषये पराशरः ।
अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे क्रतुफलम् आनुपूर्व्याल् लभन्ति ते ॥
प्रेतस्पर्शनसंस्कारैर् ब्राह्मणो नैव दुष्यति ।
वोढा चैवाग्निदाता च सद्यः स्नात्वा विशुध्यति ॥ इति ॥ १४।२४ ॥
विश्वास-प्रस्तुतिः
त्र्यहं वा ॥ १४।२५ ॥
मूलम्
त्र्यहं वा ॥ १४।२५ ॥
हरदत्तः
प्रेतोपस्पर्शन इत्य् आरभ्य सर्वेषां वर्णानां त्र्यहं वा । अत्युत्कृष्टविषयम् इदम् ॥ १४।२५ ॥
विश्वास-प्रस्तुतिः
आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् ॥ १४।२६ ॥
मूलम्
आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् ॥ १४।२६ ॥
“उपनीय तु यः शिष्यम्” इत्य् उक्तलक्षण आचार्यः । तत्पुत्र आचार्यपुत्रः । आचार्यस्त्री । याज्यो यजनीय ऋत्विगपेक्षया यजमानः । शिष्यः प्रसिद्धः । एतेषु मृतेषु चैवं त्र्यहम् इति ॥ १४।२६ ॥
हरदत्त-प्रस्तावः
विजातीयनिर्हारविषयम् आह ।
विश्वास-प्रस्तुतिः
अवरश् चेद् वर्णः पूर्ववर्णम् उपस्पृशेत् पूर्वो
वावरं तत्र शवोक्तम् आशौचम् ॥ १४।२७ ॥
मूलम्
अवरश् चेद् वर्णः पूर्ववर्णम् उपस्पृशेत् पूर्वो
वावरं तत्र शवोक्तम् आशौचम् ॥ १४।२७ ॥
हरदत्तः
अवरो जघन्यः क्षत्रियादिर् ब्राह्मणपेक्षया । पूर्वो ब्राह्मणादिः क्षत्रियाद्यपेक्षया । तयोर् अन्योन्यनिर्हारे शवजात्युक्तम् आशौचं भवति । ब्राह्मणशवनिर्हरणे क्षत्रियस्य दशरात्रम् । क्षत्रियस्य शवनिर्हरणे ब्राह्मणस्यैकादशरात्रम् इत्यादि । अत्रैव भृत्यर्थे व्याघ्रः ।
अवरश् चेद् वरं वर्णम् अवरं वा वरो यदि ।
चरेच् छावं तदाशौचं दृष्टार्थे द्विगुणं भवेत् ॥ इति ॥ १४।२७ ॥
हरदत्त-प्रस्तावः
बुद्धिपूर्वशवस्पर्शमात्रे प्रासङ्गिकेन सह शुद्धिम् आह ।
विश्वास-प्रस्तुतिः
पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्य्पस्पर्शने
सचैलोदकोपस्पर्शनाच् छुध्येत् ॥ १४।२८ ॥
मूलम्
पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्य्पस्पर्शने
सचैलोदकोपस्पर्शनाच् छुध्येत् ॥ १४।२८ ॥
हरदत्तः
पतितो ब्रह्महादिः । चण्डालसूतिकोदक्याशवाः प्रसिद्धाः । एतेषां स्पृष्टौ तत्स्पृष्टौ स्पृष्टृणां च स्पृष्टाव् उपस्पर्शने तदुपस्पर्शने, स्पष्टॄणां स्पर्शने च सचैकोदकोपस्पर्शनात् स्नानाच् छुध्येत् । स्नानेन सचैलत्वेन शुद्धौ । अतः क्रियाविशेषणपाठो ऽयुक्तः । अबुद्धिपूर्वे मानवम् ।
दिवाकीर्तिम् उदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ इति ॥ १४।२८ ॥
विश्वास-प्रस्तुतिः
शवानुगमने च ॥ १४।२९ ॥
मूलम्
शवानुगमने च ॥ १४।२९ ॥
हरदत्तः
अनुगम्येच्छयाप्य् एतं ज्ञातिम् अज्ञातिम् एव वा ।
स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥ इति ।
घृतप्राशनाद् ऊर्ध्वम् अपि स्नानं केचिद् इच्छन्ति । तत्र मूलं मृग्यम् । याज्ञवल्क्यो ऽपि: “स्पृष्ट्वाग्निं घृतभुक् शुचिः” इत्य् एतावद् एवाह । इदं सजातीयविषयम् । ब्राह्मणस्य क्षत्रियानुगमने वसिष्ठोक्तम्: “मनुष्यास्थि स्पृष्ट्वा त्रिरात्रम् आशौचम् अस्थिघ्ने त्व् अहोरात्रं शवानुगमने चैवम्” इति । एवम् इति त्रिरात्राहोरात्रयोर् अतिदेशः । अत्र क्षत्रियानुगमन एकरात्रं वैश्यानुगमने त्रिरात्रम् इति व्यव्स्था । शूद्रानुगमने त्व् अङ्गिराः ।
प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः ।
अनुगच्छेन् नीयमानं त्रिरात्रं सो ऽशुचिर् भवेत् ॥
त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ इति ।
क्षत्रियवैश्ययोर् वैश्यशूद्रानुगमने ब्राह्मणवत् कल्प्यम् । क्ष्त्रियस्य शूद्रानुगमन एकरात्रं प्राणायामशतं च । मनुः ।
नारं स्पृष्ट्वास्थि सस्नेहं सवासा जलम् आविशेत् ।
आचम्यैव तु निःस्नेहं गां स्पृष्ट्वा वीक्ष्य वा रविम् ॥ इति ।
इदम् अबुद्धिपूर्वविषयम् । वृद्धमनुः ।
दहनं वहनं चापि प्रेतस्यान्यस्य गर्भवान् ।
न कुर्याद् उभयं तत्र कुर्याद् एव पितुः सदा ॥
ज्येष्ठस्य वानपत्यस्य मातुलस्य सुतस्य वा ॥ इति ।
पितुर् इति मातुर् अप्य् उपलक्षणम् । आतुररोदने पारस्करः ।
अस्थिसंचयनाद् अर्वाग् रुदित्वा स्नानम् आचअरेत् ।
अनत्र्दशाहे विप्रस्य ऊर्ध्वम् आचमनं स्मृतम् ॥ इति ।
विप्रस्य मृतस्यान्तर्दशाहे रुदतां सर्वेषां वर्णानां समानम् इदम् । अत्र विष्णुः: “सर्वस्यैव प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा स्नानेन । अकृतास्थिसंचये सचैलस्नानेन शुद्धिर् इति प्रकरणाद् गम्यते । इदं क्षत्रियदिमरणे समानापकृष्टानां रोदने शूद्रवर्जम् । त्रिवर्णविषयातुररोदने ब्रह्मपुराणे पठन्ति ।
अनस्थिसंचयो विप्रो रौति चेत् क्षत्रवैश्ययोः ।
तदा स्नातः सचैलस् तु द्वितीये ऽहनि शुध्यति ॥
कृते तु संचये विप्रः स्नानेनैव शुचिर् भवेत् ॥ इति ।
क्षत्रियस्य वैश्यातुरव्यञ्जने ऽप्य् एवम् एवोहितव्यम् । शूद्रातुरव्यञ्जने पारस्करः ।
अस्थिसंचयनाद् अर्वाग् यदि विप्रो ऽश्रु पातयेत् ।
मृते शूद्रे गृहं गत्वा त्रिरात्रेण विशुध्यति ॥
अस्थिसंचयनाद् ऊर्ध्वं मासो यावद् द्विजातयः ।
अहोरात्रेण शुध्यन्ति वाससां क्षालनेन च ॥
इत्य् अलं प्रसक्तानुप्रसङ्गेन ॥ १४।२९ ॥
विश्वास-प्रस्तुतिः
शुनश् च ॥ १४।३० ॥
मूलम्
शुनश् च ॥ १४।३० ॥
हरदत्तः
उपसमस्तम् अप्य् अपेक्षते । शुनश् चोपस्पर्शने सचैलोदकोपस्पर्शनाच् छुधेत् । पृथक्करणं तत्स्पृष्टिन्यायनिवृत्त्यर्थम् ॥ १४।३० ॥
विश्वास-प्रस्तुतिः
यद् उपहन्याद् इत्य् एके ॥ १४।३१ ॥
मूलम्
यद् उपहन्याद् इत्य् एके ॥ १४।३१ ॥
हरदत्तः
एके तु यद् अङ्गं श्वोपहन्यात् तस्यैव प्रक्षालनम् इच्छन्ति । अत्र आपस्तम्बीयो विशेषः: “शुनोपहतः सचैलो ऽवहाहेत । प्रक्षाल्य वा तं देशम् अग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाचम्य प्रयतो भवतीति । ऊर्ध्वाङ्गस्पर्शे स्नानम् अधः प्रक्षालनम् इति व्यवस्थां जातूकर्ण्य आह ।
ऊर्ध्वं नाभेः करौ मुक्त्वा स्पृश्यत्य् अङ्गं खरो यदि ।
स्नानं तत्र विधातव्यं शेषे प्रक्षाल्य शुध्यति ॥ इति ॥ १४।३१ ॥
विश्वास-प्रस्तुतिः
उदकदानं सपिण्डैः कृतचूडस्य ॥ १४।३२ ॥
मूलम्
उदकदानं सपिण्डैः कृतचूडस्य ॥ १४।३२ ॥
हरदत्तः
कृतचूडान् तस्य प्रेतस्य सपिण्डैर् उदकदानं कर्तव्यं यावद् आशौचम् । न ततो ऽर्वाग् इति । अग्निसंस्कारो ऽप्य् अस्यैव । यथाह लौगाक्षिः ।
तूष्णीम् एवोदकं दद्यात् तूष्णीम् एवाग्निम् एव च ।
सर्वेषां कृतचूडानाम् अन्यत्रापीच्छया द्वयम् ॥ इति ।
एवं च कृतचूडस्य नियतो ऽग्निसंस्कार उदकदानं च । अकृतचूडस्य त्व् अनियतं तद् अकरणे न प्रयवायः । चूडाकरणेन कालो लक्ष्यते तृतीयं वर्षम् । बहुषु स्मृतिषु तथा दर्शनात् । मनुर् अपि ।
नात्रिवर्षस्य कर्तव्या ब्राह्मणैर् उदकक्रिया ।
जातदन्तस्य वा कुर्यान् नाम्नि चापि कृते सति ॥ इति ।
अग्न्युदकग्रहणम् और्ध्वदेहिकस्योपलक्षणम् । तत्र देवलो विशेषम् आह ।
द्वादशाद् वत्सराद् अर्वाक् पौगण्डमरणे सति ।
सपिण्डीकरणं न स्याद् एकोदिष्टानि करयेत् ॥ इति ॥ १४।३२ ॥
विश्वास-प्रस्तुतिः
तत्स्त्रीणां च ॥ १४।३३ ॥
मूलम्
तत्स्त्रीणां च ॥ १४।३३ ॥
हरदत्तः
तद् उदकदानं स्त्रीणां च कृतचूडानां कार्यम् ॥ १४।३३ ॥
विश्वास-प्रस्तुतिः
एके प्रत्तानाम् ॥ १४।३४ ॥
मूलम्
एके प्रत्तानाम् ॥ १४।३४ ॥
हरदत्तः
एके मन्यन्ते प्रत्तानाम् एव स्त्रीणाम् उदकदानम् अप्रत्तानां तु नैवेति । प्रत्तानां च भर्तृपक्षैर् देयम् ॥ १४।३४ ॥
हरदत्त-प्रस्तावः
अथाशौचकाले ज्ञातयः कथं वर्तेरन् ।
विश्वास-प्रस्तुतिः
अधःशय्यासनिनो ब्रह्मचारिणः सर्वे ॥ १४।३५ ॥
मूलम्
अधःशय्यासनिनो ब्रह्मचारिणः सर्वे ॥ १४।३५ ॥
हरदत्तः
भूमाव् एव शरीरन्न् आसीरंश् च न कटासनादिषु । मैथुनं च वर्जयेयुः । सर्वग्रहणं समानोदकार्थम् ॥ १४।३५ ॥
विश्वास-प्रस्तुतिः
न मार्जयीरन् ॥ १४।३६ ॥
मूलम्
न मार्जयीरन् ॥ १४।३६ ॥
हरदत्तः
मार्जनं गात्रमलापकर्षणम् । तच् च न कुर्युः ॥ १४।३६ ॥
विश्वास-प्रस्तुतिः
न मांसं भक्षयेउर् आ प्रदानात् ॥ १४।३७ ॥
मूलम्
न मांसं भक्षयेउर् आ प्रदानात् ॥ १४।३७ ॥
हरदत्तः
प्रदानं श्राद्धम् । आतदन्तं मांसं न भक्षयेयुः ॥ १४।३७ ॥
विश्वास-प्रस्तुतिः
प्रथमतृतीयसप्तमनवमेषूदकक्रिया ॥ १४।३८ ॥
मूलम्
प्रथमतृतीयसप्तमनवमेषूदकक्रिया ॥ १४।३८ ॥
हरदत्तः
प्रथमादिष्व् अहःसु सपिण्डैः प्रेताय तिलमिश्रम् उदकं देयम् एवंगोत्रायैवंशर्मणे प्रेतायैतत् तिलोदकं ददामीति । पर्थमे त्रीन् । तृतीये नव । सप्तमे त्रिंशत् । नवमे त्रयंस्त्रिशत् । इति पञ्चसप्ततिर् जलाञ्जलयो दयाः । आचारस् तु प्रथमे ऽह्नि त्रयः । द्वितीयादिष्व् एकोत्तरं दीयते ॥ १४।३८ ॥
विश्वास-प्रस्तुतिः
वाससां च त्यागः ॥ १४।३९ ॥
मूलम्
वाससां च त्यागः ॥ १४।३९ ॥
हरदत्तः
उदकदानकाले परिहितानि वासांसि प्रथमतृतीयस्पतमनवमेषु त्याज्यानि । अन्यानि क्रमेण परिधेयानि ॥ १४।३९ ॥
विश्वास-प्रस्तुतिः
अन्त्ये त्व् अन्त्यानाम् ॥ १४।४० ॥
मूलम्
अन्त्ये त्व् अन्त्यानाम् ॥ १४।४० ॥
हरदत्तः
वर्णेष्व् अन्त्यायाः शूद्रास् तेषम् अन्त्ये नवमे ऽहनि वाससां त्यागः ॥ १४।४० ॥
विश्वास-प्रस्तुतिः
दन्तजन्मादि मातापितृभ्याम् ॥ १४।४१ ॥
मूलम्
दन्तजन्मादि मातापितृभ्याम् ॥ १४।४१ ॥
हरदत्तः
दन्तजन्मप्रभृति पुत्रस्य मातापितरौ जलं दद्याताम् । तूष्णीं माता ॥ १४।४१ ॥
विश्वास-प्रस्तुतिः
बालदेशान्तरितप्रव्रजितासपिण्डानां
सद्यःशौचम् ॥ १४।४२ ॥
मूलम्
बालदेशान्तरितप्रव्रजितासपिण्डानां
सद्यःशौचम् ॥ १४।४२ ॥
हरदत्तः
बालो ऽकृतचूडः । देशान्तरितो देशेन व्यवहितो देशान्तरस्थः । प्रव्रजिता नैष्ठिकवानप्रस्थपरिव्राजकाः । असपिण्डाः समानोदकाः । तेषां मरणे ज्ञातीनां सद्यःशौचं स्नानेन शुद्धिः । बालविषये याज्ञवल्क्यः ।
ऊनद्विवार्षिकं प्रेतं निखनेन् नोदकं ततः ।
आ दन्तजन्मनः सद्य आ चूडान् नैशिकी स्मृता ॥
त्रिरात्रम् आव्रतादेशाद् दशरात्रम् अतः परम् ॥ इति ।
आङ्गिराः ।
यद्य् अप्य् अकृतचूडो वै जातदन्तस् तु संस्थितः ।
दाहयित्वा तथाप्य् एनम् आशौचं त्र्यहम् आचरेत् ॥ इति ।
मनुस् तु ।
ऊनद्विवार्षिकं प्रेतं निदध्युर् बान्दवा बहिः ।
अलंकृत्य शुचौ भूमाव् अस्थिसंचनयाद् ऋते ॥
नास्य कार्यो ऽग्निसंस्कारो नास्य कार्योदकक्रिया ।
अरण्ये काष्ठवत् त्यक्त्वा क्षपेत् त्र्यहम् एव तु ॥ इति ।
आश्वलायनः: “अदन्तजाते परिजात एकाहम्” इति । आपस्तम्बस् तु: “मातुश् च योनिसंबन्धेभ्यः पितुश् चा सप्तमात् पुरुषाद् यावता वा संबन्धो ज्ञायते तेषां प्रेत्षूदकोपस्पर्शनं गर्भान् परिहाप्यापरिसंवत्सरान् मातापितराव् एव तेषु हर्तारश् च” इति । एतेषां देशकुलधर्मापेक्षया व्यवस्था । अत्र कन्याविषय आपस्तम्बः:
अप्रौढायां तु कन्यायां सद्यशौचं विधीयते । इति ।
अप्रौढाकृतचूडा । [याज्ञवल्क्यः]:
अहस् त्व् अदत्तकन्यासु बालेषु च विशोधनम् । इति ।
इदं चौलाद् ऊर्ध्वम् । व्याघ्र आह ।
बाले मृते सपिण्डानां सद्यःशौचं विधीयते ।
दशाहेनैव दम्पत्योः सोदराणां तथैव च ॥ इति ।
इदं तु सूतकं दशाहान्तर्मरणविषयम् । तथा च ।
अन्तर्दशाहे जातस्य शिशोर् निष्क्रमणं यदि ।
सूतकेनैव शुद्धिः स्यात् पित्रोः शातातपो ऽब्रवीत् ॥ १४।४२ ॥
विश्वास-प्रस्तुतिः
राज्ञां च कार्यविरोधात् ॥ १४।४३ ॥
मूलम्
राज्ञां च कार्यविरोधात् ॥ १४।४३ ॥
हरदत्तः
राज्ञश् च सद्यःशौचं कार्यविरोधात् । कार्यं प्रजारक्षणादि । बहुवचननिर्देशाद् ये चान्ये ऽमात्यादयस् तत्कार्यवन्तस् तेषाम् अपि । “यस्य चेच्छति पार्थिवः” इति मनुः ॥ १४।४३ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थं
स्वाध्यायनिवृत्त्यर्थम् ॥ १४।४४ ॥
मूलम्
ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थं
स्वाध्यायनिवृत्त्यर्थम् ॥ १४।४४ ॥
हरदत्तः
ब्राह्मणस्य च सद्यःशौचं स्वाध्यायनिवृत्तिर् मा भूद् इति । बहुशिष्यस्याधापयत इदम् उक्तम् । [अभ्यासो ऽध्यायसमाप्त्यर्थः] । इत्य् आशौचम् ॥ १४।४४ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने चतुर्दशो ऽध्यायः