अथ त्रयोदशो ऽध्यायः
विश्वास-प्रस्तुतिः
विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था ॥ १३।१ ॥
मूलम्
विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था ॥ १३।१ ॥
हरदत्तः
विप्रतिपत्तौ साक्षिणः प्रष्टव्याः । तैर् यथोक्तं तथा सत्यं व्यवस्थाप्यम् । अत्र नारदः ।
एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः ।
कृतः पञ्चविधस् तेषां षड्विधो ऽकृत उच्यते ॥
लिखितः स्मारितश् चैव यदृच्छाभिज्ञ एव च ।
गूढश् चोत्तरसाक्षी च साक्षी पञ्चविधः कृतः ॥
अन्ये पुनर् अनुद्दिष्टाः साक्षिणः समुदाहृताः ।
ग्रामश् च प्राड्विवाकश् च राजा च व्यवहारिणाम् ॥
कार्येष्व् अभ्यन्तरो यश् च अर्थिना प्रहितश् च यः ।
कुल्याकुल्यविवादेषु भवेयुस् ते ऽपि साक्षिणः ॥ इति ॥ १३।१ ॥
हरदत्त-प्रस्तावः
ते पुनः कीदृशाः कियन्तो वेत्य् आह ।
विश्वास-प्रस्तुतिः
बहवः स्युर् अनिन्दिताः स्वकर्मसु प्रात्ययिका राजां
निष्प्रीत्यनभितापाश् चान्यतरस्मिन् ॥ १३।२ ॥
मूलम्
बहवः स्युर् अनिन्दिताः स्वकर्मसु प्रात्ययिका राजां
निष्प्रीत्यनभितापाश् चान्यतरस्मिन् ॥ १३।२ ॥
हरदत्तः
वर्णप्रयुक्तान्य् आश्रमप्रयुक्तान्य् उभयप्रयुक्तानि स्वानि कर्माणि श्रौतानि स्मार्तानि च । तेष्व् अनिन्दिता अकरणाद् अन्यथाकरणाद् वा । अथ याज्ञावल्क्यः ।
त्र्यवराः साक्षिनो ज्ञेयाः श्रौतस्मार्तक्रियापराः ॥ इति ।
प्रत्ययो विश्वासस् तेन ये चरन्ति ते प्रात्ययिकाः । य एवंभूत्[स् ते] राज्ञाम् अदृष्टदोषतया विश्वसनीयाः । अर्थिप्रत्यर्थिनोर् अन्यतरस्मिन् निष्प्रीतयो निःस्नेहा अनभिताया अकृतद्वेषाः । एवंभूता बहवः साक्षिणः स्युः । अत्र याज्ञवल्क्यः ।
उभयानुमतः साक्षी भवत्य् एको ऽपि धर्मवित् ॥ इति ।
अभ्यन्तरस् तु निक्षेपे साक्ष्य्म् एको ऽपि वाच्यते ।
अर्थिना प्रहितः साक्षी भवत्य् एको ऽपि याचितः ॥
इति कात्यायनः ।
प्रअमाणम् एको ऽपि भवेत् साहसेषु विशेषतः ।
इति व्यासः ॥ १३।२ ॥
विश्वास-प्रस्तुतिः
अपि शूद्राः ॥ १३।३ ॥
मूलम्
अपि शूद्राः ॥ १३।३ ॥
हरदत्तः
शूद्रा अप्य् एवंविधाश् चेत् साक्षिणो भवेयुः किं पुनर् द्विजातय इति । एवं च गुणवद्द्विजात्यभावे शूद्रा अप्य् एवंविधा भवन्तीति द्रष्टव्यम् ॥ १३।३ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणस् त्व् अब्राह्मणवचनाद् अनवरोधो
ऽनिबद्धश् चेत् ॥ १३।४ ॥
मूलम्
ब्राह्मणस् त्व् अब्राह्मणवचनाद् अनवरोधो
ऽनिबद्धश् चेत् ॥ १३।४ ॥
हरदत्तः
ब्राह्मणो नात्र श्रोत्रियः । अस्य वृत्तान्तस्यासौ ब्राह्मणः साक्षीत्य् अब्राह्मणेनोक्ते राज्ञा साक्षित्वेन नावरोध्यो न निर्बन्धेन ग्राह्यः । अनिबद्धश् चेत् । स चेल् लेखनिबद्धो न भवति । लेख्यारूढस् तु भवत्य् एव साक्षी । नात्र कश्चिद् धेतुर् अस्ति वचनम् एव प्रमाणम् । अत्र नारदः ।
असाक्ष्य् अपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद् दोषतो भेदात् स्वयम् उक्तेर् मतान्तरात् ॥
श्रोत्रियाद् या वचनतः स्तेनाद् या दोषदर्शनात् ।
भेदाद् विप्रतिपत्तिः स्याद् विवादे यत्र साक्षिणाम् ॥
स्वयमुक्तिर् अनिर्दिष्टः स्वयम् एवैत्य यो वदेत् ।
मृतान्तरो ऽर्थिनि प्रेते मुमूर्षुः श्राविताद् ऋते ॥ इति ।
तद् इह श्रोत्रियः क्वचिद् अपि साक्षी न भवतीति नारदस्य पक्षः । इहाब्राह्मणवचनाद् इत्य् उक्तत्वाद् ब्राह्मणेनोकतः श्रोत्रियो ऽपि भवत्य् एव साक्षी ॥ १३।४ ॥
विश्वास-प्रस्तुतिः
नासमवेतापृष्टाः प्रब्रूयुः ॥ १३।५ ॥
मूलम्
नासमवेतापृष्टाः प्रब्रूयुः ॥ १३।५ ॥
हरदत्तः
असमवेता असमुदिता राज्ञा प्राड्विवाकेन वापृष्टाः सन्तो न ब्रूयुः । किं तु समवेताः पृष्टाश् च प्रब्रूयुः ॥ १३।५ ॥
विश्वास-प्रस्तुतिः
अवचने ऽन्यथावचने च दोषिणः स्युः ॥ १३।६ ॥
मूलम्
अवचने ऽन्यथावचने च दोषिणः स्युः ॥ १३।६ ॥
हरदत्तः
ते चैवंभूता यदि जानन्त एव न [ब्रूयुर् अन्यथा वा] ब्रूयुस् तदा दोषिणो दुष्टाः स्युः । इह राज्ञा दण्ड्या परत्र च नाराकिणः ॥ १३।६ ॥
विश्वास-प्रस्तुतिः
स्वर्गः सत्यवचने विपर्यये नरकः ॥ १३।७ ॥
मूलम्
स्वर्गः सत्यवचने विपर्यये नरकः ॥ १३।७ ॥
हरदत्तः
ब्रुवन्तस् तु यदि सत्यं ब्रुवन्ति तदा स्वर्गो भवति । विपर्यये ऽसत्यवचने नरको भवतीति ॥ १३।७ ॥
विश्वास-प्रस्तुतिः
अनिबद्धैर् अपि वक्तव्यम् ॥ १३।८ ॥
मूलम्
अनिबद्धैर् अपि वक्तव्यम् ॥ १३।८ ॥
हरदत्तः
निबद्धा निर्दिष्टा यूयम् अत्र साक्षिण इति । तद्विपरीता अनिबद्धास् तैर् अपि साक्ष्यं वक्तव्यम् । ते च नारदेनान्ये पुनर् अनिर्दिष्टा इत्य् आरभ्य कथिता द्रष्टव्यः ॥ १३।८ ॥
विश्वास-प्रस्तुतिः
न पीडाकृते निबन्धः ॥ १३।९ ॥
मूलम्
न पीडाकृते निबन्धः ॥ १३।९ ॥
हरदत्तः
पीडाकृतं पीडाकरणम् । निबन्धो निबन्धनम् अर्थसंबन्धादि । पीडाकरणे हिंसाविषये साक्षिणां निबन्धो न निरूप्यः । अर्थसंबन्धादि न किंचिद् अपि दूषणं भवति । आह व्याघ्रः ।
स्तेये च साहसे चैव संसर्गे च स्त्रियास् तथा ।
गरादीनां प्रयोगे च न दोषः साक्षिषु स्मृतः ॥ इति ॥ १३।९ ॥
विश्वास-प्रस्तुतिः
प्रमत्तोक्ते च ॥ १३।१० ॥
मूलम्
प्रमत्तोक्ते च ॥ १३।१० ॥
हरदत्तः
प्रमादो ऽनवधानम् । अन्त्ये परे वाक्ये साक्षिणा यदृच्छया यद् उक्तं तत्रापि निबन्धो न भवति । अर्थसंबन्धादिदूषणं न भवति ॥ १३।१० ॥
हरदत्त-प्रस्तावः
विपर्यये नरक उक्तः । न स केवलं साक्षिण एव किं तर्हि ।
विश्वास-प्रस्तुतिः
साक्षिसभ्यराजकर्तृषु दोषो धर्मतन्त्रपीडायाम्
॥ १३।११ ॥
मूलम्
साक्षिसभ्यराजकर्तृषु दोषो धर्मतन्त्रपीडायाम्
॥ १३।११ ॥
हरदत्तः
तन्त्रं लोकव्यवहारः । धर्मतन्त्रयोः पीडायां सत्यां साक्षिषु सभ्येषु राजनि कर्तरि च सर्वेषु दोषो भवति । कर्तृग्रहणं दृष्टान्तार्थम् । यावान् कर्तुर् दोषस् तावान् साक्ष्यादीनाम् अपीति । यद्य् अपि साक्षिणः पूर्वं दोष उक्तस् तथापीह ग्रहणं सभ्यादीनां ससाक्षिके ऽपि दोषग्रहणार्थम् । अन्यथासाक्षिकव्यवहारे सभ्यादीनां दोषः । ससाक्षिके तु साक्षिणाम् एवेत्य् उक्तं स्यात् ॥ १३।११ ॥
विश्वास-प्रस्तुतिः
शपथेनैके सत्य् अकर्म ॥ १३।१२ ॥
मूलम्
शपथेनैके सत्य् अकर्म ॥ १३।१२ ॥
हरदत्तः
यत्र साक्षिषु तथा विश्वासो न भवति तत्र शपथेन सत्यकर्म शपथं कारयित्वा सत्यं वाचनीयम् इत्य् एके मन्यन्ते ॥ १३।१२ ॥
विश्वास-प्रस्तुतिः
तद् देवराजब्राह्मणसंसदि स्याद्
अब्राह्मणानाम् ॥ १३।१३ ॥
मूलम्
तद् देवराजब्राह्मणसंसदि स्याद्
अब्राह्मणानाम् ॥ १३।१३ ॥
हरदत्तः
तच् छपथेन सत्यकर्म देवसंसदि, उग्राणां देवतानां संनिधौ ब्राह्मणानां संसदि परिषदि वा भवति । क्षत्रियादीनाम् अर्थगुरुत्वलघुत्वापेक्षो विकल्पः । महत्य् अर्थे देवतासंनिधाव् अल्पीयस्य् अन्यत्रेति । अब्राह्मणानाम् इति वचनाद् ब्राह्मणानां शपथकर्म न भवति । अत्र विष्णुः: “पृच्छेद् ब्रूहीति ब्राह्मणम् । सत्यं ब्रूहीति राजन्यम् । गोबीजकाञ्चनैर् वैश्यम् । सर्वपातकैः शूद्रम् । एवं हि साक्षिणः पृच्छेद् वर्णानुक्रमतो नृप इति । मनुस् तु ।
सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यंण् शूद्रं सर्वैस् तु पातकैः ॥ इति ॥ १३।१३ ॥
हरदत्त-प्रस्तावः
विपर्यये नरक इति सामान्येन साक्षिणो दोष उक्तः । इदानीं व्यवहारविशेषे दोषविशेषम् आह ।
विश्वास-प्रस्तुतिः
क्षुद्रपश्वनृत् साक्षी दश हन्ति ॥ १३।१४ ॥
मूलम्
क्षुद्रपश्वनृत् साक्षी दश हन्ति ॥ १३।१४ ॥
हरदत्तः
क्षुद्रपशवो ऽजाविकादयः । तद्विषये ऽनृतवदने साक्षी दश हन्ति । तेषां दशानां वधे यावान् दोषस् तावान् अस्य भवतीति । दण्डप्रायश्चित्ते अपि तदनुगुणे द्रष्टव्ये ॥ १३।१४ ॥
विश्वास-प्रस्तुतिः
गो’श्वपुरुषभूमिषु दशगुणोत्तरान् ॥ १३।१५ ॥
मूलम्
गो’श्वपुरुषभूमिषु दशगुणोत्तरान् ॥ १३।१५ ॥
हरदत्तः
उक्तानाम् उत्तरं दश गुणान् दशगुणोत्तरान् । गवादिविषये ऽनृते साक्षी पूर्वोक्ताद् दशगुणोत्तरं तत्तद्वधयुक्तदोषो भवति । एतद् उक्तं भवति । गवानृते साक्षिणो गोशतहननदोषः । अश्वानृते ऽश्वसहस्रहननदोषः । पुरुषानृते ऽयुतपुरुषहननदोषः । भूम्यनृते यस्य सा भूमिस् तज्जातीयानां लक्षहननदोष इति ।
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥
इत्य् एतत् त्व् अत्यन्तक्षुद्रपश्वादिविषयम् ॥ १३।१५ ॥
विश्वास-प्रस्तुतिः
सर्वं वा भूमौ ॥ १३।१६ ॥
मूलम्
सर्वं वा भूमौ ॥ १३।१६ ॥
हरदत्तः
यदि वा भूमिविषये ऽनृते सर्वम् एव मनुष्यजातं हन्ति । ग्रामदेशादिमहाभूमिविषयो विकल्पः ॥ १३।१६ ॥
विश्वास-प्रस्तुतिः
हरणे नरकः ॥ १३।१७ ॥
मूलम्
हरणे नरकः ॥ १३।१७ ॥
हरदत्तः
प्रासङ्गिकम् इदम् । भूमेर् इति विपरिणामेन संबन्धः । भूमेर् हरणे नरको भवति । कालान्तरावधिः शास्त्रान्तरावसेयः ॥ १३।१७ ॥
हरदत्त-प्रस्तावः
प्रकृतम् आह ।
विश्वास-प्रस्तुतिः
भूमिवद् अप्सु ॥ १३।१८
मूलम्
भूमिवद् अप्सु ॥ १३।१८
हरदत्तः
अब्विषये ऽनृते भूमिवल् लक्षहननदोषो हरणे नरक इति च समानम् । अप्शब्देन कूपतडागादिरूपलक्षितः ॥ १३।१८ ॥
विश्वास-प्रस्तुतिः
मैथुनसंयोगे च ॥ १३।१९ ॥
मूलम्
मैथुनसंयोगे च ॥ १३।१९ ॥
हरदत्तः
मैथुनसंयुक्ते चानृते परदारानसौ गच्छतीत्य् आदौ भूमिवद् इति चकाराद् गम्यते ॥ १३।१९ ॥
विश्वास-प्रस्तुतिः
पशुवन् मधुसर्पिषोः ॥ १३।२० ॥
मूलम्
पशुवन् मधुसर्पिषोः ॥ १३।२० ॥
हरदत्तः
मधुसर्पिर्विषये ऽनृते क्षुद्रपशुवद् दोषः ॥ १३।२० ॥
विश्वास-प्रस्तुतिः
गोवद् वस्त्रहिरण्यधान्यब्रह्मसु ॥ १३।२१ ॥
मूलम्
गोवद् वस्त्रहिरण्यधान्यब्रह्मसु ॥ १३।२१ ॥
हरदत्तः
ब्रह्म वेदः । वस्त्रादिविषये ऽनृते गोवद् दोषः । अधीत्य नास्मान् मयाधीतम् इत्यादि ब्रह्मानृतम् ॥ १३।२१ ॥
विश्वास-प्रस्तुतिः
यानेष्व् अश्ववत् ॥ १३।२२
मूलम्
यानेष्व् अश्ववत् ॥ १३।२२
हस्तिशकटशिबिकादीनि यानानि । तद्विषये ऽनृते ऽश्ववद् दोषः । अन्ये तु क्षुद्रपश्वनृत इत्य् आरभ्य साक्षिश्रावणे योजयन्ति । क्षुद्रपश्वनृते साक्षिणो दशपशुहननदोषः । तस्मात् त्वया सत्यम् एव वक्तव्यम् इति साक्षी श्रावयितव्य इति । एवं सर्वत्रोपरिषाद् अपि ॥ १३।२२ ॥
हरदत्त-प्रस्तावः
एवम् अदृष्टविषये दोषम् उक्त्वा दृष्टविषये साक्षिणो दण्डम् आह ।
विश्वास-प्रस्तुतिः
मिथ्यावचने याप्यो दण्ड्यश् च साक्षी ॥ १३।२३ ॥
मूलम्
मिथ्यावचने याप्यो दण्ड्यश् च साक्षी ॥ १३।२३ ॥
हरदत्तः
मिथ्यावचने दृष्टे साक्षी याप्यो गर्ह्यः सर्वैर् अयम् असंव्यवहार्य इति, दण्ड्यश् च राज्ञा । अत्र मनुः ।
लोभात् सहस्रं दण्ड्यस् तु मोहात् पूर्वं तु साहसम् ।
भयाद् द्वौ मध्यमौ दण्ड्यौ मैत्र्यात् पूर्वं चतुर्गुणम् ॥
कामाद् दशगुणं पूर्वं क्रोधात् तद्द्विगुणं परम् ।
अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥
कूटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् धार्मिको नृपः ।
प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ इति ।
विष्णुः: “कूटसाक्षिणां सर्वस्वापहार उक्तश् चोपजीविनां च” इति ॥ १३।२३ ॥
विश्वास-प्रस्तुतिः
नानृतवचने दोषो जीवनं चेत् तदधीनम् ॥ १३।२४ ॥
मूलम्
नानृतवचने दोषो जीवनं चेत् तदधीनम् ॥ १३।२४ ॥
हरदत्तः
यदा सत्यवचनात् परस्परवधो ऽनृतवदने तु तदधीनम् अनृतवचननिबन्धनम् अन्यस्य जीवनं भवति न वधस् तत्रानृतवचने न पूर्वोक्तो दोष इति । अत्र याज्ञवल्क्यः ।
वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् ।
तत्पावनाय निर्वाप्यश् चरुः सारस्वतो द्विजैः ॥ इति ॥ १३।२४ ॥
विश्वास-प्रस्तुतिः
न तु पापीयसो जीवनम् ॥ १३।२५ ॥
मूलम्
न तु पापीयसो जीवनम् ॥ १३।२५ ॥
हरदत्तः
यदि त्व् अनृतवचनेन पापीयसः पापवत्तरस्य परपीडारतस्य जीवनं भवति तदा न तु न दोषः । अपि तु दोष एवेति ॥ १३।२५ ॥
हरदत्त-प्रस्तावः
अथ साक्षिणः केन प्रष्टव्यास् तम् आह ।
विश्वास-प्रस्तुतिः
राजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित् ॥ १३।२६ ॥
मूलम्
राजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित् ॥ १३।२६ ॥
हरदत्तः
पृच्छतीत् प्राट् । विविच्य वक्तीति विवाकः । न्यङ्कादिषु दर्शनाद् वृद्धिकुत्वे । राजा प्राड्विवाकः स्यात् । अन्यपरे तु तस्मिंस् तेन नियुक्तो ब्राह्मणो वा शास्त्रवित् । अत्र मनुः ।
यद् वा स्वयं न कुर्यात् तु नृपतिः कार्यनिर्णयम् ।
तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यनिर्णये ॥ इति ॥ १३।२६ ॥
विश्वास-प्रस्तुतिः
प्राड्विवाकम् अध्याभवेत् ॥ १३।२७ ॥
मूलम्
प्राड्विवाकम् अध्याभवेत् ॥ १३।२७ ॥
हरदत्तः
अधिर् उपरिभाव ऐश्वर्ये वा । आङ् आगमनार्थे । एनम् उक्तलक्षणं प्राड्विवाकम् उपर्य् आसीनम् अधःस्थितश् चिरं वा गुणभूतः सन्न् आगच्छेत् कार्यार्थी । न तु प्राड्विवाकः स्वयं कार्यम् उत्पाद्याह्वयेद् इति । तथा च मनुः ।
नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पूरुषः । इति ॥ १३।२७ ॥
विश्वास-प्रस्तुतिः
संवत्सरं प्रतीक्षेताप्रतिभायाम् ॥ १३।२८ ॥
मूलम्
संवत्सरं प्रतीक्षेताप्रतिभायाम् ॥ १३।२८ ॥
हरदत्तः
यदाभियुक्तस्यार्थिनः साक्षिणो वाप्रतिभा भवति वक्तव्यं न प्रतिभाति स्वयं जाड्याद्युपेतत्वाद् अर्थस्य वा चिरनिर्वृत्तत्वादिना दुर्निरूप्यत्वात् तदा संवत्सरं प्रतीक्षेत । एतावता कालेन निरूप्य ब्रूहीति कालं दद्यात् । अत्र कात्यायनः ।
अस्वतन्त्रजडोन्मत्तबालदीक्षितरोगिणाम् ।
कालः संवत्सराद् अर्वाक् स्वयम् एव यथेप्सितम् ॥
नारदः ।
गहनत्वाद् विवादानाम् असामर्थ्यात् स्मृतेर् अपि ।
ऋणादिषु हरेत् कालं कामं तत्त्वबुभुत्सया ॥ इति ।
प्रजापतिः ।
दिनम् एकम् अथ द्वे वा त्रीणि वा पञ्च सप्त वा ।
कालस् त्व् ऋणादौ गहन आ त्रिपक्षाद् अपि स्मृतः ॥ १३।२८ ॥
विश्वास-प्रस्तुतिः
धेन्वनडुत्स्त्रीप्रजननसंयुक्ते च शीघ्रम् ॥ १३।२९ ॥
मूलम्
धेन्वनडुत्स्त्रीप्रजननसंयुक्ते च शीघ्रम् ॥ १३।२९ ॥
हरदत्तः
संयुक्तशब्दः प्रत्येकं संबध्यते । धेन्वादिसंयुक्ते विवादे शीघ्रं विवादयेत् । प्रजननं विवाहस् तद्धेतुत्वात् । स्त्री दास्यादिः । तथाह कात्यायनः ।
धेनाव् अनुडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।
न्यासे चारित्रके दत्ते तथैव क्रयविक्रये ॥
कन्याया दूषणे स्तेये कलहे साहसे निधौ ।
उपधौ कूटसाक्ष्ये च सद्य एव विवादयेत् ॥ इति ॥ १३।२९ ॥
विश्वास-प्रस्तुतिः
आत्ययिके च ॥ १३।३० ॥
मूलम्
आत्ययिके च ॥ १३।३० ॥
हरदत्तः
व्यपैति गौरवं यत्र विनाशस् त्याग एव च ।
कालं तत्र न कुर्वीत कार्यम् आत्ययिकं हि तत् ॥
इति कात्यायनः । एवमादाव् आत्ययिके शीघ्रं विवादयेन् न कालं दद्याद् इति । याज्ञवक्यः \
साहसस्तेयपारुष्यगो’भिशापात्यये स्त्रियाम् ।
विवादयेत् सद्य एव कालो ऽन्यत्रेच्छया स्मृतः ॥ इति ॥ १३।३० ॥
विश्वास-प्रस्तुतिः
सर्वधर्मेभ्यो गरीयः प्राड्विवाके सत्यवचनं
सत्यवचनम् ॥ १३।३१ ॥
मूलम्
सर्वधर्मेभ्यो गरीयः प्राड्विवाके सत्यवचनं
सत्यवचनम् ॥ १३।३१ ॥
हरदत्तः
श्रुतिस्मृतिचोदितेभ्यः सर्वधर्मेभ्यो गुरुतरम् इदं यत् प्राड्विवाके पृच्छति सति सत्यं ब्रूयात् । द्विरुक्तिर् अध्यायसमाप्त्यर्था ॥ १३।३१ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने त्रय्दशो ऽध्यायः