अथ द्वादशो ऽध्यायः
हरदत्त-प्रस्तावः
दण्डेनादान्तान् दमयेद् इत्य् उक्तम् । तत्र कियत्य् अपराधे कियान् दण्ड इत्य् अत आह ।
विश्वास-प्रस्तुतिः
शूद्रो द्विजातीन् अभिसंधायाभिहत्य च वाग्दण्ड-
पारुष्याभाम् अङ्गमोच्यो येनोपहन्यात् ॥ १२।१ ॥
मूलम्
शूद्रो द्विजातीन् अभिसंधायाभिहत्य च वाग्दण्ड-
पारुष्याभाम् अङ्गमोच्यो येनोपहन्यात् ॥ १२।१ ॥
हरदत्तः
शूद्रश् चतुर्थो वर्णः । स द्विजातीन् ब्राह्मणादींस् त्रीन् वर्णान् । वाक्पार्युष्येणाभिसंधायाभिभूय दण्डपारुष्येनाभिहत्य च । अभिर् अभिसंधिपूर्वे बुद्धिपूऋवं ताडयित्वा । दण्डग्रहणं हस्तादेर् अप्य् उपलक्षणम् । एवं कुर्वन्न् अङ्गमोच्यो ऽवयवेन वियोजनीयो येनाङ्गेनोपहन्याद् अपराधं कुर्यात् तद् अङ्गं मोच्यः । हस्तेन ताडने हस्तच्छेदः पादेन ताडने पादच्छेदो वाचा जिह्वाच्छेदः । अत्र मनुः ।
येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् ।
तद् अङ्गं तस्य छेत्तव्यं तन् मनोर् अनुशासनम् ॥ इति ।
पारुष्यग्रहणात् परिहासेनाप्रियवचने परिहासादिना ताडने च नेदं भवति ॥ १२।१ ॥
विश्वास-प्रस्तुतिः
आर्यस्त्र्यभिगमने लिङ्गोद्धारः स्वहरणं
च ॥ १२।२ ॥
मूलम्
आर्यस्त्र्यभिगमने लिङ्गोद्धारः स्वहरणं
च ॥ १२।२ ॥
हरदत्तः
शूद्र इति प्रकृतं षष्ठ्यन्तम् अपेक्षते । आर्यास् त्रैवर्णिकाः । तेषां चेत् स्त्रियं शूद्रो ऽभिगच्छेत् तस्य लिङ्गोद्धारो लिङ्गोत्पाटनं कार्यं यच् च यावच् च स्वं तस्य च हरणं दण्डः । आर्याभिगमनम् इत्य् एव सिद्धे स्त्रीग्रहणम् आर्यगृहीतानां शूद्रायाम् अपीति सूचनार्थम् । तत्र वैश्यस्त्रियां स्वहरणं क्षत्रियायां लिङ्गोद्धारः । ब्राह्मण्याम् उभयम् इति ॥ १२।२ ॥
विश्वास-प्रस्तुतिः
गोप्ता चेद् वधो ऽधिकः ॥ १२।३ ॥
मूलम्
गोप्ता चेद् वधो ऽधिकः ॥ १२।३ ॥
हरदत्तः
स यदि शूद्रस् तासां रक्षिता भवति तदा वधः कार्यः । अधिकग्रहणात् पूर्वोक्तदण्डद्वयम् अपि भवति ॥ १२।३ ॥
विश्वास-प्रस्तुतिः
अथ हास्य वेदम् उपशृण्वतस् त्रपुजतुभ्यां
श्रोत्रप्रतिपूरणम् उदाहरणे जिह्वाच्छेदो धारणे
शरीरभेदः ॥ १२।४ ॥
मूलम्
अथ हास्य वेदम् उपशृण्वतस् त्रपुजतुभ्यां
श्रोत्रप्रतिपूरणम् उदाहरणे जिह्वाच्छेदो धारणे
शरीरभेदः ॥ १२।४ ॥
हरदत्तः
अथ हेति वाक्यालंकारे । उपश्रुत्य बुद्धिपूर्वम् अक्षरग्रहणम् उपश्रवणम् । अस्य शूद्रस्य वेदम् उपशृण्वतस् त्रपुजतुभ्यां त्रपुणा जतुना च द्रवीकृतेन श्रोत्रे प्रतिपूरयितव्ये । उपश्रणशब्देन यदृच्छया ध्वनिमात्रश्रवणे न दोषः । स चेद् द्विजातिभिः सह वेदाक्षरण्य् उदाहरेद् उच्चरेत् । तस्य जिह्वा छेद्या । धारणे सति यदान्यत्र गतो ऽपि स्वयम् उच्चारयितुं शक्नोति ततः परश्वादिना शरीरम् अस्य भेद्यम् ॥ १२।४ ॥
विश्वास-प्रस्तुतिः
आसनशयनवाक्पथेषु समप्रेप्सुर् दण्ड्यः ॥ १२।५ ॥
मूलम्
आसनशयनवाक्पथेषु समप्रेप्सुर् दण्ड्यः ॥ १२।५ ॥
हरदत्तः
शूद्रश् चेद् आसनादिषु द्विजातिभिः सह साम्यं प्रेप्सति तत्तुल्यभावं ततो ऽसौ दण्ड्यः । दण्डश् च आपस्तम्बेन दर्शितः: “वाचि पथि शय्यायाम् आसन इति समी भवतो दण्डताडनम्” इति । दन्डेनासौ ताड्य इति । अत्र मानवो विशेषः ।
सहासनम् अभिप्रेप्सुर् उत्कृष्टस्यापकृष्टकः ।
कट्यां कृताङ्को निर्वास्यः स्फिजौ वाप्य् अस्य कर्तयेत् ॥ इति ॥ १२।५ ॥
विश्वास-प्रस्तुतिः
शतं क्षत्रियो ब्राह्मणाक्रोशे ॥ १२।६ ॥
मूलम्
शतं क्षत्रियो ब्राह्मणाक्रोशे ॥ १२।६ ॥
हरदत्तः
क्षत्रियश् चेद् ब्राह्मणम् आक्रोशेद् वाचा परुषया निन्देत् ततः शतं दण्ड्यः । दण्डप्रकरणे सर्वत्र ताम्रिकस्य कार्षापणस्य ग्रहणम् इति स्मार्तो व्यवहारः । शतं कार्षापणानि दण्ड्यः । दण्डपारुष्ये द्विगुणम् । अथाह बृहस्पतिः ।
वाक्पारुष्ये कृते यस्य यथा दण्डो विधीयते ।
तस्यैव द्विगुणं दण्डं कारयेन् मरणाद् ऋते ॥ इति ॥ १२।६ ॥
विश्वास-प्रस्तुतिः
अध्यर्धं वैश्यः ॥ १२।७ ॥
मूलम्
अध्यर्धं वैश्यः ॥ १२।७ ॥
हरदत्तः
वैश्यस् तु ब्राह्मणाक्रोशे ऽध्यर्धं शतं दण्ड्यो ऽर्धाधिकं पञ्चाशदधिकं शतं दण्ड्यः ॥ १२।७ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणस् तु क्षत्रिये पञ्चाशत् ॥ १२।८ ॥
मूलम्
ब्राह्मणस् तु क्षत्रिये पञ्चाशत् ॥ १२।८ ॥
हरदत्तः
क्षत्रियाक्रोशे ब्राह्मणस् तु पञ्चाशत्पणान् दण्ड्यः ॥ १२।८ ॥
विश्वास-प्रस्तुतिः
तदर्धं वैश्ये ॥ १२।९ ॥
मूलम्
तदर्धं वैश्ये ॥ १२।९ ॥
हरदत्तः
वैश्याक्रोशे तदर्धं पञ्चविंशतिपणान् दण्ड्यः ॥ १२।९ ॥
विश्वास-प्रस्तुतिः
न शूद्रे किंचित् ॥ १२।१० ॥
मूलम्
न शूद्रे किंचित् ॥ १२।१० ॥
हरदत्तः
शूद्रे त्व् आक्रुष्टे न किंचिद् अपि द्रव्यं ब्राह्मणो दण्ड्यः । तद् इदं न वक्तव्यम्: अवचनाद् एव दण्डाभावः सिध्येत् । किं तु क्षत्रियवैश्ययोः शूद्राक्रोशे दण्डप्रापणार्थम् उक्तम् । तद् उक्तम् उशनसा: “शूद्रम् आक्रुश्य क्षत्रियश् चतुर्विंशतिपणान् दण्डभाग् वैश्यः षट्त्रिंशत्” इति ॥ १२।१० ॥
विश्वास-प्रस्तुतिः
ब्राह्मणराजन्यवत् क्षत्रियवैश्यौ ॥ १२।११ ॥
मूलम्
ब्राह्मणराजन्यवत् क्षत्रियवैश्यौ ॥ १२।११ ॥
हरदत्तः
ब्राह्मणराजन्ययोः परस्पराक्रोशे यादृशो दण्डस् तादृशः क्षत्रियवैश्ययोः परस्पराक्रोशे । ततश् चैवं सूत्रम् ऊहितव्यम् । शतं वैश्यः क्षत्रियाक्रोशे । क्षत्रियस् तु वैश्यं पञ्चाशत् । एवम् अन्तरप्रभवेष्व् अपि द्रष्टव्यम् । अत्र जमदग्निः: “मातृतुल्यम् अनुलोमानां पितृतुल्यं प्रतिलोमानाम्” इति ॥ १२।११ ॥
हरदत्त-प्रस्तावः
उक्तः साहसदण्डः । स्तेयदण्डम् आह ।
विश्वास-प्रस्तुतिः
अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य ॥ १२।१२ ॥
मूलम्
अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य ॥ १२।१२ ॥
हरदत्तः
स्तेयं चौर्यम् । स्तेयोपात्तं द्रव्यं किल्बिषनिमित्तत्वात् किल्बिषम् उच्यते । स्तेयेनोपात्तं द्रव्यम् अष्टगुणम् आपादनीयं शूद्रस्य । कर्तरि षष्ठ्य् एषा । स्तेयकिल्बिषं शूद्रो ऽष्टगुणम् आपादयेद् राज्ञे दण्डरूपेण प्रतिपादयेद् इति । तत्रैको गुणः स्वामिने देयः । शेषो राज्ञे । उक्तं च चोरहृतम् अवजित्येत्यादिना ॥ १२।१२ ॥
विश्वास-प्रस्तुतिः
द्विगुणोत्तराणीतरेषां प्रतिवर्णम् ॥ १२।१३ ॥
मूलम्
द्विगुणोत्तराणीतरेषां प्रतिवर्णम् ॥ १२।१३ ॥
हरदत्तः
इतरेषां वैश्यादीनां स्तेयकिल्बिषाणि प्रतिवर्णं द्विगुणोत्तराण्य् आपादनीयानि । वैश्यस्य षोडशगुणं क्षत्रियस्य द्वात्रिंशद्गुणं ब्राह्मणस्य चतुःषष्टिगुणम् इति ॥ १२।१३ ॥
हरदत्त-प्रस्तावः
कस्माद् इदम् एवम् इत्य् आह ।
विश्वास-प्रस्तुतिः
विदुषो ऽतिक्रमे दण्डभूयस्त्वम् ॥ १२।१४ ॥
मूलम्
विदुषो ऽतिक्रमे दण्डभूयस्त्वम् ॥ १२।१४ ॥
हरदत्तः
यथा यथा वर्णोत्कर्षेण विद्योत्कर्षस् तथा तथा विहितातिक्रमे दण्डभूयस्त्वं भवति । निषेधदोषं ज्ञात्वापि प्रवर्तमानस्य दोषाधिक्यं भवति । अजानतस् त्व् अन्धकूपपतनवद् अनुग्रहो ऽस्ति । अष्टापाद्यम् इत्यादेर् अपवादः ॥ १२।१४ ॥
विश्वास-प्रस्तुतिः
फलहरितधान्यशाकादाने पञ्चकृष्णलम्
अल्पम् ॥ १२।१५ ॥
मूलम्
फलहरितधान्यशाकादाने पञ्चकृष्णलम्
अल्पम् ॥ १२।१५ ॥
हरदत्तः
फलम् आम्रादि । हरितधान्यं स्तम्बे ऽवस्थितं व्रीह्यादि । शाकं वास्तूकादि । एतेषां स्तेयेनादाने पञ्चकृष्णलं दण्डः । कृष्णलं गुञ्जाबीजप्रमाणम् ।
माषो विंशतिभागस् तु ज्ञेयः कार्षापणस्य हि ।
कृष्णलस् तु चतुर्थांशो माषस्यैव प्रकीर्तितः ॥ इति ।
पञ्चानां कृष्णलानां समाहारः पञ्चकृष्णलम् । अल्पं तच् चेत् फलादि अल्पम् उदरपूरणमात्रम् । अधिके त्व् अष्टापाद्यम् एव ॥ १२।१५ ॥
विश्वास-प्रस्तुतिः
पशुपीडिते स्वामिदोषः ॥ १२।१६ ॥
मूलम्
पशुपीडिते स्वामिदोषः ॥ १२।१६ ॥
हरदत्तः
पशुभिर् उपहते सस्यादौ पशुमतो दोषः । दण्डपरिमाणं वक्ष्यति }} १२।१६ ॥
विश्वास-प्रस्तुतिः
पालसंयुक्ते तु तस्मिन् ॥ १२।१७ ॥
मूलम्
पालसंयुक्ते तु तस्मिन् ॥ १२।१७ ॥
हरदत्तः
स चेत् पशुः पालाय स्वामिना समर्पितस् तदा तस्मिन् पाले दोषः । पालयतीति पालओ गोपालः । इदं प्रमादकृते, बुद्धिपूर्वे तु द्विगुणो दण्डः, तथा स्मृत्यन्तरे दर्शनात् ॥ १२।१७ब् ॥
विश्वास-प्रस्तुतिः
पथि क्षेत्रे ऽनावृते पालक्षेत्रकयोः ॥ १२।१८ ॥
मूलम्
पथि क्षेत्रे ऽनावृते पालक्षेत्रकयोः ॥ १२।१८ ॥
हरदत्तः
क्षेत्रिकः क्षेत्रान्य् अस्य क्षेत्रं पथ्य् अनावृतं भवति तत्र पशुपीडिते पालक्षेत्रिकयोर् उभयोर् दण्डो ऽर्धम् अर्धम् । पालस्यानवधानात् क्षेत्रिकस्य वृत्त्यकरणाच् च,
वृतिं च तत्र कुर्वीत याम् उष्ट्रो नावलोकयेत् ।
इति मानवे दर्शनात् ॥ १२।१८ ॥
हरदत्त-प्रस्तावः
दण्डपरिमाणम् आह ।
विश्वास-प्रस्तुतिः
पञ्च माषा गवि ॥ १२।१९ ॥
मूलम्
पञ्च माषा गवि ॥ १२।१९ ॥
हरदत्तः
उशनसा माषो दर्शितः ।
माषो विंशतिभागस् तु ज्ञेयः कार्षापणस्य हि ।
काकिणी तु चतुर्थांशो माषस्यैव प्रकीर्तितः ॥ इति ॥
माषाः पञ्च गोपीडिते सस्यादौ दण्डः ॥ १२।१९ ॥
विश्वास-प्रस्तुतिः
षड् उष्ट्रखरे ॥ १२।२० ॥
मूलम्
षड् उष्ट्रखरे ॥ १२।२० ॥
हरदत्तः
द्वन्द्वैकवद्भावः । उष्ट्त्रखरे तूपहन्तरि प्रत्येकं षण्माषा दण्डः ॥ १२।२० ॥
विश्वास-प्रस्तुतिः
अश्वमहिष्योर् दश ॥ १२।२१ ॥
मूलम्
अश्वमहिष्योर् दश ॥ १२।२१ ॥
हरदत्तः
लिङ्गम् अविवक्षितम् । अश्वे महिषे च प्रत्येकं दश माषा दण्डः ॥ १२।२१ ॥
विश्वास-प्रस्तुतिः
अजाविषु द्वौ द्वौ ॥ १२।२२
मूलम्
अजाविषु द्वौ द्वौ ॥ १२।२२
हरदत्तः
अजेष्व् अविषु चोपसंहन्तृषु द्वौ द्वौ माषौ । संभूय चरन्तीति बहुवचनम् । प्रत्यजं प्रत्यविकं द्वौ द्वौ दण्डः ॥ १२।२२ ॥
विश्वास-प्रस्तुतिः
सर्वविनाशे शदः ॥ १२।२३ ॥
मूलम्
सर्वविनाशे शदः ॥ १२।२३ ॥
हरदत्तः
यथा पुनः प्ररोहो न भवेति तथा सर्वविनाशे शदो दण्डः । शद इति भागाभिधानम् । यावांस् तत्र भाग उत्पत्स्यते तावत् स्वामिने देयम् । राज्ञे चानुरूपो दण्डः ॥ १२।२३ ॥
विश्वास-प्रस्तुतिः
शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यं चैलपिण्डाद्
ऊर्ध्वं स्वहरणम् ॥ १२।२४ ॥
मूलम्
शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यं चैलपिण्डाद्
ऊर्ध्वं स्वहरणम् ॥ १२।२४ ॥
हरदत्तः
शिष्टं विहितम् । नित्यं शिष्टस्याकरणे नित्यं च प्रतिषिद्धसेवायां चैलपिण्डाद् ऊर्ध्वं चैलम् आच्छादनं पिण्डो ग्रासस् ताभ्याम् ऊर्ध्वं यावता तयोर् निवृत्तिस् ततो ऽधिकं यत् स्वं तस्य हरणं कार्यम् । आच्छादनासनार्थं यत् किंचित् परिहाप्यावशिष्टम् अस्य स्वं हर्तव्यम् इत्य् एवम् अतो निवृत्तेः ॥ १२।२४ ॥
हरदत्त-प्रस्तावः
अदत्तादाननिषेधविषये ऽपवादम् आह ।
विश्वास-प्रस्तुतिः
गो’ग्न्यर्थे तृणमेधान् वीरुद्वनस्पतीनां च पुष्पाणि
स्ववद् आददीत फलानि चापरिवृतानाम् ॥ १२।१५ ॥
मूलम्
गो’ग्न्यर्थे तृणमेधान् वीरुद्वनस्पतीनां च पुष्पाणि
स्ववद् आददीत फलानि चापरिवृतानाम् ॥ १२।१५ ॥
हरदत्तः
अग्निः श्रौतस्मार्तादिर् न लौकिकः । गवार्थे तृणानि । अग्न्यर्थ एधान् वीरुद्वनस्पतीनाम् । लतानां वृक्षाणां पुष्पाणि देवतार्चनार्थानि नोपभोगार्थानि । गवाग्निसाहचर्याद् देवतार्थानीति गम्यते । एतानि तृणादीनि स्वामिभिर् अदत्तान्य् अपि स्ववद् आददीत । यथा स्वामी निःशङ्कम् आदत्ते तद्वद् आददीत । ते वीरुद्वनस्पतयो ऽपरिवृताश् चेत् तेषां फलान्य् अपि स्ववद् आददीत न स्वाम्यपेक्षा । फलविषयम् एतद् अपरिवृतत्वं न तृणादिविषयम्, पृथग्वाक्यत्वात् ॥ १२।२५ ॥
विश्वास-प्रस्तुतिः
कुसीदवृद्धिर् धर्मा विंशतिः पञ्चमाषिकी
मासम् ॥ १२।२६ ॥
मूलम्
कुसीदवृद्धिर् धर्मा विंशतिः पञ्चमाषिकी
मासम् ॥ १२।२६ ॥
हरदत्तः
वृद्ध्यर्थं प्रयुक्तस्य द्रव्यस्य कुसीदसंज्ञा । “माषः कार्षापणस्य विंशतितमो भागः” इत्य् उशनसोक्तम् । पञ्च माषा वृद्धिरूपेण दीयन्ते यत्र विंशतौ सा पञ्चमाषिकी । तद् अस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयत इत्य् अत्रार्थे प्राग्वहसेष्ठक् । अध्यर्धपूर्वद्विगोर् लुग् असञ्जायाम् इति लुक्प्राप्तो न कृतः स्वाच्छन्द्याद् ऋषिणा । कार्षापणानां विंशतिः प्रतिमासं पञ्चमाषिकी यथा भवति तथा भवन्ती कुसीदवृद्धिधर्माद् अनपेता । अत्र मनुः ।
वसिष्ठविहितां वृद्धिं सृजेद् वित्तविवर्धिनीम् ।
अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शतः ॥ इति ।
अत्रापीयम् एव वृद्धिर् उक्ता । कथम् । पणस्य विंशतितमो भागो माषः । पणानां विंशतिश् चतुःशती माषाणां सम्पद्यते । चतुःशत्याः पञ्च माषा वृद्धिर् अशीतेर् एकः । पञ्चशतीति यश् चतुरशतीति (?) । याज्ञवल्क्यस् तु ।
अशीतिभागो वृद्धिः स्यान् मसि मासि सबन्धके ।
वर्णक्रमाच् छतं द्वित्रिचतुःपञ्चकम् अन्यथा ॥ इति ।
विश्वासार्थं यद् आधीयते सुवर्णादि तद् बन्धकम् । तद् उक्ते धनप्रयोगे वर्णानुपूर्व्याद् ब्राह्मणादिxव् अधमर्णेषु धनं द्वित्र्यादियुक्तं क्रमाद् भवति ॥ १२।२६ ॥
विश्वास-प्रस्तुतिः
नातिसांवत्सरीम् एके ॥ १२।२७ ॥
मूलम्
नातिसांवत्सरीम् एके ॥ १२।२७ ॥
हरदत्तः
येयम् अशीतिभागलक्षणा धर्म्या वृद्धिस् ताम् अतिसांवत्सरीं संवत्सरे ऽतिक्रान्ते भवां न गृह्णीयात्, एकस्मिन्न् एव संवत्सरे प्रतिमासम् अशीतिभागो ग्राह्यस् तत ऊर्ध्वं न किंचिद् अपि ग्राह्यम् एषा धर्म्या भवतीत्य् एके मन्यन्ते । अतिसांवत्सरीम् इति रूपसिद्धिश् चिन्त्या ॥ १२।२७ ॥
हरदत्त-प्रस्तावः
स्वमतम् आह ।
विश्वास-प्रस्तुतिः
चिरस्थाने द्वैगुण्यं प्रयोगस्य ॥ १२।२८ ॥
मूलम्
चिरस्थाने द्वैगुण्यं प्रयोगस्य ॥ १२।२८ ॥
हरदत्तः
यावता कालेन प्रयुक्तं धनं द्विगुणं भवति तावन्तम् एव कालं धर्म्यया वृद्ध्या विवर्धते नातः परम् इति । सुवर्णादिद्रव्यविषयम् एतत् । अत्र वसिष्ठः: “द्विगुणं हिरण्यं त्रिगुणं धान्यम् । धान्येनैव रसा व्याख्याताः । वृक्षमूलफलानि च तुलाधृतम् अष्टगुणम् इति । चिरग्रहणात् सहस्रेणापि संवत्सरैर् न द्वैगुण्यात् परं वर्धते इति ॥ १२।२८ ॥
विश्वास-प्रस्तुतिः
भुक्ताधिर् न वर्धते ॥ १२।२९ ॥
मूलम्
भुक्ताधिर् न वर्धते ॥ १२।२९ ॥
हरदत्तः
विश्वासार्थं यद् आधीयते कांस्याभरणादि स आधिः । स चेद् उपभुक्तः प्रयुक्तो ऽर्थो न वर्धते । भोग एव तत्र वृद्धिर् इति ॥ १२।२९ ॥
विश्वास-प्रस्तुतिः
दित्सतो ऽवरुद्धस्य च ॥ १२।३० ॥
मूलम्
दित्सतो ऽवरुद्धस्य च ॥ १२।३० ॥
हरदत्तः
धनिने धनं दातुम् इच्छतो ऽधमर्णस्य धनं न वर्धते । धनी वृद्धिलोभाद् व्याजेन न गृह्णाति चेत् तस्मिन्न् एव दिवसे परहस्ते स्थाप्यं तद् आरभ्य वृद्धिर् न वर्धते तथा यो दित्सन्न् अधमर्णो राजादिनावरुद्धस् तस्यापि दातुम् असमर्थस्य द्रव्यं तत आरभ्य न वर्धते ॥ १२।३० ॥
हरदत्त-प्रस्तावः
अथापदि वृद्ध्यन्तराण्य् आह ।
विश्वास-प्रस्तुतिः
चक्रकालवृद्धिः ॥ १२।३१ ॥
मूलम्
चक्रकालवृद्धिः ॥ १२।३१ ॥
हरदत्तः
वृद्धिशब्दः प्रत्येकम् अभिसंबध्यते । यावता कालेन यावती वृद्धिस् ताम् अपि मूलीकृत्य तावतो पुनर् वृद्धिश् चक्रवृद्धिः ॥ यथाह नारदः ।
वृद्धेर् अपि पुनर् वृद्धिश् चक्रवृद्धिर् उदाहृता ॥ इति ।
इयतः कालस्येयती वृद्धिर् इति यत्र समयेन गृह्यते सा कालवृद्धिः ॥ १२।३१ ॥
विश्वास-प्रस्तुतिः
कारिताकायिकाशिखाधिभोगाश् च ॥ १२।३२ ॥
मूलम्
कारिताकायिकाशिखाधिभोगाश् च ॥ १२।३२ ॥
हरदत्तः
वृद्धय इत् शेषः । प्रयोक्ता गृ(ग्र)हीत्रा च देशकालकार्यावस्थापेक्षया प्रभूता न्यूना वा स्वयम् एव कल्पिता वृद्धिः कारिता । कायिका कायकर्मसंशोध्या । तथा बृहस्पतिः: “कायिका कर्मसंयुका” इति । व्यासस् तु ।
दोह्यवाह्यकर्मयुक्ता कायिका समुदाहृता । इति ।
शिखावृद्धिं कात्यायन आह ।
प्रत्यहं गृह्यते या हि शिखावृद्धिस् तु सा स्मृता ।
शिखेन वर्धते नित्यं शिरश्छेदान् निवर्तते ॥
मूले दत्ते तथैवेषा शिखावृद्धिस् ततः स्मृता ॥ इति ।
उदाहरणम् – तण्डुलप्रस्थस्य प्रत्यहं तण्डुलमुष्टिर् गृहत इति । आधिभोग आहितस्य क्षेत्रस्य भोगो ऽनुभवः । तत्रानुभव एव वृद्धिः । सा च शतेनापि संवत्सरैर् न निवर्तते । क्षेत्रं चोत्तमर्णस्य न भवति । यदा कदाचिद् अपि मूलप्रदाने सत्य् अधमर्णस्य भवति । अधिभोग इत्य् अन्ये । भोगम् अधिकृत्य वर्तत इत्य् अधिभोगवृद्धिः । तत्राप्य् एष एवार्थः । एतासु चक्रवृद्ध्यादिषु वृद्धेर् द्वैगुण्यात् परम् अपि भवत्य् एव ॥ १२।३२ ॥
विश्वास-प्रस्तुतिः
कुसीदं पशूपजलोमक्षेत्रशदवाह्येषु
नातिपञ्चगुणम् ॥ १२।३३ ॥
मूलम्
कुसीदं पशूपजलोमक्षेत्रशदवाह्येषु
नातिपञ्चगुणम् ॥ १२।३३ ॥
हरदत्तः
पशोर् उपजातं पशूपजं घृतक्षीरादि । ऊर्णाकम्बलचामरवालव्यजनादि लोमक्षेत्रशदः क्षेत्रभोगः । वाह्यं बलीवर्दादि । वाह्यम् इति प्रायेण पठन्ति, तत्राप्य् एष एवार्थः । एतेषु पशूपजादिषु तत् कुसीदं यावत् पञ्चगुणं वर्धते पञ्चगुणतां नात्येति । अपर आह – पशूपजातिषु मूलत्वेन कल्पितस्य द्रव्यस्य तदानीम् अप्रदाने यावत् पञ्चगुणं वर्धते, धर्म्ययां च वृद्ध्या पञ्चगुणतां नत्येति ॥ १२।३३ ॥
विश्वास-प्रस्तुतिः
अजडापौगण्डधनं दशवर्षभुक्तं परैः
संनिधौ भोक्तुः ॥ १२।३४ ॥
मूलम्
अजडापौगण्डधनं दशवर्षभुक्तं परैः
संनिधौ भोक्तुः ॥ १२।३४ ॥
हरदत्तः
जड उन्मत्तः पौगण्डो व्याकृतव्यवहारः । यो जडो न भवति पौगण्डो वा न भवति तस्य धनं परैस् तत्संनिधाव् एव चेद् दश वर्षाणि भुक्तं भवति तदा तद् धनं भोक्तुर् एव स्वम् इति निश्चीयते । स एव भोगः स्वामिनः सकाशाद् दानादिरूपेण तस्य धनस्य निर्गतं सूचयति । कथम् अपरथैतावन्तं कालम् एवम् अर्थम् अपरलोके तूष्णीम् आसीतेति । अत्र क्षेत्रविषये याज्ञवल्क्यः ।
पश्यतो ऽब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥
इति ।
पश्यन्न् अन्यस्य ददतः क्षितिं यो न निवारयेत् ।
स्वामी सतापि लेखेन न स तल् लब्धुम् अर्हति ॥
इति बृहस्पतिः । अत्र मनुः ।
यत् किंचिद् दश वर्षाणि संनिधौ प्रेक्षते धनी ।
भुज्यमानं परैस् तूष्णीं न स तल् लब्धुम् अर्हति ॥ इति ।
अनागमं तु यो भुङ्क्त इत्यादि त्व् असंनिधिविषयाणि जडादिविषयाणि वा ॥ १२।३४ ॥
हरदत्त-प्रस्तावः
अस्यापवादः ।
विश्वास-प्रस्तुतिः
न श्रोत्रियप्रव्रजितराजपुरुषैः ॥ १२।३५ ॥
मूलम्
न श्रोत्रियप्रव्रजितराजपुरुषैः ॥ १२।३५ ॥
हरदत्तः
श्रोत्रियादिभिर् भुज्यमानं न भोगमात्रात् तेषां भवति, उपेक्षाकारणत्वोपपत्तेः । श्रोत्रियप्रव्रजितयोर् धर्मतृष्णयोपेक्षेति । राजपुरुषस्य तु भयेन । राजपुरुषग्रहणं सर्वेषां बलवताम् उपलक्षणम् । एतेन साहसिका व्याख्याताः । अपरिग्रहस्यापि प्रव्रजितस्य स्वस्वामिके शून्यग्रहादाव् उपभोगः संभवति ॥ १२।३५ ॥
विश्वास-प्रस्तुतिः
पशुभूमिस्त्रीणाम् अनतिभोगः ॥ १२।३६ ॥
मूलम्
पशुभूमिस्त्रीणाम् अनतिभोगः ॥ १२।३६ ॥
हरदत्तः
पशवश् चतुष्पादः । भूमिः क्षेत्रारामादिका । स्त्रियः परिचारिका दास्यः । पश्वादीनां स(स्व)त्वे नातिभोगो ऽपेक्षितः । अल्पेनापि भोगेन भोक्तुः स्वं भवति । कथम् अनन्तरगृहे दृश्यमानां गां स्वयं तक्रादि क्रीत्वोपयुञ्जान उपेक्षेत, कथं वा बहुफलम् आरामम्, कथं वा दासीं यौवनस्थानम् अन्वहं परिचारिकाम् ॥ १२।३६ ॥
विश्वास-प्रस्तुतिः
रिक्थभाज ऋणं प्रतिकुर्युः ॥ १२।३७ ॥
मूलम्
रिक्थभाज ऋणं प्रतिकुर्युः ॥ १२।३७ ॥
हरदत्तः
ये यस्य रक्थभाजस् ते तदृणं प्रतिदद्युः । पुत्रपौत्रैस् तु रिक्थाभावे ऽपि देयम् । तथा च बृहस्पतिः ।
ऋणम् आत्मीयवत् पित्र्यं पुत्रैर् देयं विभावितम् ।
पैतामहं समं देयं न देयं तत्सुत्रस्य तत् ॥ इति ।
नारदः ।
क्रमाद् अभ्यागतं प्राप्तं पुत्रैर् यन् नर्णम् उद्धृतम् ।
दद्युः पैतामहं पौत्रास् तच् चतुर्थान् निवर्तते ॥
याज्ञवल्क्यः ।
पितरि प्रोषिते प्रेते व्यसनाभिप्लुते ऽपि च ।
पुत्रपौत्रैर् ऋणं देयं निह्नवे साक्षिभावितम् ॥ इति ॥ १२।३७ ॥
विश्वास-प्रस्तुतिः
प्रातिभाव्यवणिक्शुल्कम्द्यद्यूतदाणाः
पुत्रान् नाभ्याभवेयुः ॥ १२।३८ ॥
मूलम्
प्रातिभाव्यवणिक्शुल्कम्द्यद्यूतदाणाः
पुत्रान् नाभ्याभवेयुः ॥ १२।३८ ॥
हरदत्तः
अत्र नारदः ।
उपस्थानाय दानाय् प्रत्ययाय तथैव हि ।
त्रिविधः प्रतिभूर् दृष्टस् त्रिष्व् एवार्थेषु सूरिभिः ॥ इति ॥
तस्य प्रतिभुवि प्रेते दायादान् अपि दापयेत् ॥ इति ॥
विष्णु-याज्ञवल्क्यौ ।
दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
आद्ये तु वितथे दाप्याव् इतरस्य सुता अपि ॥ इति ।
तस्माद् इदम् अपि दानप्रतिभूव्यतिरिक्तविषयं द्रष्टव्यम् ।
अहम् एनं दर्शयिष्यामीति प्रातिभाव्यं तद् दर्शयित्वा पितरि प्रेते न तत्पुत्रेणासौ दर्शयितव्य इति । वणिग् वाणिज्यार्थम् उपात्तं द्रव्यं तद् अपि न पुत्रान् अभ्याभवति । यदा सलाभमूलं दास्यामीति परिभाष्य कस्यचित् सकाशाद् द्रव्यं गृहीत्वा वाणिज्याय देशान्तरं गतो म्रियेत् तदा तत्पुत्रेण न तत् प्रतिकर्तव्यम् इति । तथा शुल्कं प्रतिश्रुत्य विवाहं कृत्वा मृते तत्पुत्रं न तच्छुक्लम् अभ्याभवति । तथा मूलं दास्यामीति मद्यं बहु पीत्वा मृते न तत्पुत्रेण तद् दातव्यम् । तथा द्यूतं कृत्वा पराजितस् तत्पणद्रव्यम् अदत्वैव यदि म्रियते तत्पुत्रो न दातुम् अर्हति । यथा (तथा) व्यवहारे पराजितो राज्ञे दण्डम् अदत्वैव यदि म्रियते तदा न सो ऽपि दण्डः पुत्रान् अभ्याभवति ॥ १२।३८ ॥
विश्वास-प्रस्तुतिः
निध्यन्वाधियाचितावक्रीताधयो नष्टाः सर्वान्
अनिन्दितान् पुरुषापराधेन ॥ १२।३९ ॥
मूलम्
निध्यन्वाधियाचितावक्रीताधयो नष्टाः सर्वान्
अनिन्दितान् पुरुषापराधेन ॥ १२।३९ ॥
हरदत्तः
निधिर् निक्षेपः ।
स्वं द्रव्यं यत्र विस्रम्भान् निक्षिपत्य् अविशङ्कितः ।
स निक्षेपः । अन्वाधिर् उपनिधिः । औपनिधिकम् इति स्मृत्यन्तरे प्रसिद्धम् । तत्र याज्ञवल्क्यः ।
भाजनस्थम् अनाख्याय हस्ते न्यस्य यद् अर्पयेत् ।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ इति ।
याचितम् उत्सवादिष्व् आभरणादि । अवक्रीतम् अदत्तमौल्यम् अर्धदत्तमौल्यं वा । आधिर् गोप्याधिः । एते निध्यादयो यदि पुरुषापराधेन विना नष्टा भवन्ति चोरादिभिर् अपहृताः [वा] सर्वांस् तान् अनिन्दितान् आहुर् अदोषान् आहुः । न केवलं पुत्रान् एव नाभ्याभवेयुः किं तर्हि येषां सकाशे निध्यादयः कृतास् तान् अपि नाभ्याभवन्ति । अनिन्दितेति ते यदि पूर्वं दृष्टदोषा भवन्ति तदा पूर्वम् इदम् । पुरुषापराधस् तु यदि धारयितारः स्वद्रव्यवन् न रक्षयेयुः, यद्य् अग्निभयादौ स्वद्रव्यं गृहीत्वा निध्याद्य् उपेक्षेरन् स्वद्रव्यं वा गुप्तं निधाय बहिर् निध्यादि स्थापयेयुः । एतस्मिन् पुरुषापराधे सति दद्युर् एव ॥ १२।३९ ॥
विश्वास-प्रस्तुतिः
स्तेनः प्रकीर्णकेशो मुसली राजानम् इयात् कर्माचक्षाणः ॥ १२।४० ॥
मूलम्
स्तेनः प्रकीर्णकेशो मुसली राजानम् इयात् कर्माचक्षाणः ॥ १२।४० ॥
हरदत्तः
स्तेनः सुवर्णस्तेयकृत् ।
सुवर्णस्तेयकृद् विप्रो राजानम् अभिगम्य तु ।
स्वकर्म ख्यापयन् ब्रूयान् मां भवान् अनुशास्त्व् इति ॥
इति मानवम् । प्रकीर्णकेशो मुक्तकेशः । आयसः खादिरो वा मुसल इति स्मृत्यन्तरम् । तद्वान् । “अंसे मुसलम् आधाय” इत्य् आपस्तम्बः । राजानम् इयात् कर्माचक्षाणः । एवंकरास्मि प्रशाधि माम् इति ब्रुवाणः ॥ १२।४० ॥
विश्वास-प्रस्तुतिः
पूतो वधमोक्षाभ्याम् ॥ १२।४१ ॥
मूलम्
पूतो वधमोक्षाभ्याम् ॥ १२।४१ ॥
हरदत्तः
वधस् ताडनं मरणान्तिकम् । “तेनैव हन्यात्” इत्य् आपस्तम्बः । सकृद् एव ताडनम्,
गृहीत्वा मुसलं राजा सकृद् धन्यात् तु तं स्वयम् ।
इति स्मरणात् । मोक्षो मोचनम् । पुनर् एवंविधं मा कार्षीर् गच्छेति । ताभ्यां च वधमोक्षाभ्यां स्तेनः पूतो भवति । हतो ऽपि शुध्यति मुक्तो ऽपि शुध्यतीति ॥ १२।४१ ॥
विश्वास-प्रस्तुतिः
अघ्नन्न् एनस्वी राजा ॥ १२।४२ ॥
मूलम्
अघ्नन्न् एनस्वी राजा ॥ १२।४२ ॥
हरदत्तः
यदि दयादिना तं न हन्याद् राजा स्वयम् एनस्वी भवति । चोरस्य यद् एनस् तद् अस्य भवतीति ॥ १२।४२ ॥
हरदत्त-प्रस्तावः
अयं तु दण्डो ब्राह्मणवर्जम् इति दर्शयति ।
विश्वास-प्रस्तुतिः
न शारीरो ब्राह्मणदण्डः ॥ १२।४३ ॥
मूलम्
न शारीरो ब्राह्मणदण्डः ॥ १२।४३ ॥
हरदत्तः
स्वयम् उपस्थितस्यापि ब्राह्मणस्य शारीरो दण्डो न कर्तव्यो मोक्ष एव । तथा च मनुः ।
वधेन शुध्यति स्तेनो ब्राह्मणस् तपसैव च ॥ इति ।
अत्रैवकारबलात् तदानीं तस्यापि ब्राह्मणस्य तपसा मोक्षः । न क्वापि निमित्ते हरतच्छेदादिकम् अपि कर्तव्यम् इत्य् एवमर्थः । तथा च मनुः ।
त्रिषु वर्णेषु तानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ॥ इति ।
तपस्विब्राह्मणविषयम् इदम् ॥ १२।४३ ॥
हरदत्त-प्रस्तावः
अन्यस्य तु यथापराधं दण्डम् आह ।
विश्वास-प्रस्तुतिः
कर्मवियोगविख्यापनविवासनाङ्ककरणानि ॥ १२।४४ ॥
मूलम्
कर्मवियोगविख्यापनविवासनाङ्ककरणानि ॥ १२।४४ ॥
हरदत्तः
यथा पुनस् तत् कर्म न करोति तथा करणं कर्मवियोगः । सर्वस्वहरणं प्रतिभूग्रहणम् इत्यादि । विख्यापनं चौर्यचिह्नेन ग्रामनगरादिष्व् आघोषणम् । विवासनं निर्वासनम् । यथापराधं ग्रामनगराद् राष्ट्राद् वा । अङ्ककरणं चिह्नकरणम् ।
तत्र मनुः ।
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये तु श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥ इति ।
एषां कर्मवियोगादीनाम् एनःसु गुरुषु गुरूणि लघुषु लघूनीति न्यायेनापराधानुरूपा व्यवस्था । एतन् महापातकविषयम् । अङ्ककरणं तु तपस्विब्राह्मणस्यापि भवत्य् एव ॥ १२।४४ ॥
विश्वास-प्रस्तुतिः
अप्रवृत्तौ प्रायश्चित्ती सः ॥ १२।४५ ॥
मूलम्
अप्रवृत्तौ प्रायश्चित्ती सः ॥ १२।४५ ॥
हरदत्तः
यस् तु राजा चोरविषयेष्व् एवंदण्डको न वर्तते तस्याम् अप्रवृत्तौ स्वयं प्रायश्चित्ती भवति । तत्र वसिष्ठः: “दण्ड्योत्सर्गे राजाइकरात्रम् उपवसेत् त्रिरात्रं पुरोहितः । कृच्छ्रम् अदण्ड्यदण्डने पुरोहित एकरात्रं त्रिरात्रं राजा” इति [वध् ४०–४३] ॥ १२।४५ ॥
विश्वास-प्रस्तुतिः
चोरसमः सचिवो मतिपूर्वे ॥ १२।४६ ॥
मूलम्
चोरसमः सचिवो मतिपूर्वे ॥ १२।४६ ॥
हरदत्तः
साचिव्यं प्रतिश्रयाशनदानादि साहाय्यम् । तच् चेन् मतिपूर्वं चोरो ऽयम् इति ज्ञात्वापि यदि साचिव्यं करोति स चोरसमश् चोरवद् दण्ड्यः । अज्ञाते पुनर् अज्ञानम् एव शरणम् ॥ १२।४६ ॥
विश्वास-प्रस्तुतिः
प्रतिग्रहीताप्य् अधर्मसंयुक्ते ॥ १२।४७ ॥
मूलम्
प्रतिग्रहीताप्य् अधर्मसंयुक्ते ॥ १२।४७ ॥
हरदत्तः
अपिशब्दान् मतिपूर्व इत्य् अनुवर्तते । यो ऽन्यस्य द्रव्यम् अनेन चोरितम् इति जानन्न् एव ततः प्रतिगृह्णाति सो ऽपि तस्मिन्न् अधर्मसंयुक्ते प्रतिग्रहे चोरसमः । प्रकरणाद् एव सिद्धे ऽधर्मसंयुक्तग्रहणम् अन्यत्रापि पापविषये प्रतिग्रहीतुस् तत् तत् पापं भवतीति ज्ञापनार्थम् ॥ १२।४७ ॥
विश्वास-प्रस्तुतिः
पुरुषशक्त्यपराधानुबन्धविज्ञानाद्
दण्डनियोगः ॥ १२।४८ ॥
मूलम्
पुरुषशक्त्यपराधानुबन्धविज्ञानाद्
दण्डनियोगः ॥ १२।४८ ॥
हरदत्तः
पुरुषो ब्राह्मणादिजातिः । शक्तिर् अर्थदण्डे बह्वर्थो ऽल्पार्थ इति, शरीरदण्डे दुर्बलः प्रबलो वेति चिन्ता । अपराधः साक्षात् कर्तृत्वं साचिव्यकर्तृत्वं वेति । अनुबन्धो ऽअभ्यासः । एतान् पुरुषादीन् विज्ञाय तदनुरूपो दण्डो नियोक्तव्य इति ॥ १२।४८ ॥
विश्वास-प्रस्तुतिः
अनुज्ञानं वा वेदवित्समवायवचनाद्
वेदवित्समवायवचनात् ॥ १२।४९ ॥
मूलम्
अनुज्ञानं वा वेदवित्समवायवचनाद्
वेदवित्समवायवचनात् ॥ १२।४९ ॥
हरदत्तः
वेदविदां त्रयाणां चतुर्णां वा समवायः संघः । अत्र मनुः ।
चत्वारो वा त्रयो वापि यं ब्रूयुर् वेदपरगाः ।
स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ॥ इति ।
तस्य संघस्य वचनाद् अनुज्ञानं वा कर्तव्यम् । अनुपरोधो धर्मो वचनीय इति यदि ते ब्रूयुस् तदा वक्तव्यम् अनुजानामि त्वां गच्छ यथेष्टम् इति । [अभ्यासो ऽध्यायसमाप्त्यर्थः] ॥ १२।४९ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने द्वादोशो ऽध्यायः