अथ एकादशो ऽध्यायः
हरदत्त-प्रस्तावः
आर्यानार्ययोर् व्यतिक्षेपे निवारयिता राजा । अतस् तद्धर्मान् आह ।
विश्वास-प्रस्तुतिः
राजा सर्वस्येष्टे ब्राह्मणवर्जम् ॥ ११।१ ॥
मूलम्
राजा सर्वस्येष्टे ब्राह्मणवर्जम् ॥ ११।१ ॥
हरदत्तः
राजाभिषिक्तः सर्वस्य स्वजनपदवर्तिनो जनस्येष्टे निग्रहानुग्रहादिषु । किम् अविशेषेण । नेत्य् आह – ब्राह्मणवर्जं ब्राह्मणान् वर्जयित्वा । ततस् ते च्यवन्तो ऽपि स्वधर्मात् सान्त्वेन स्थाप्याः । स्वक्रियासु स्वातन्त्र्यख्यापनार्थं वचनम् । यथाह नारदः ।
अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ॥ इति ॥ ११।१ ॥
हरदत्त-प्रस्तावः
शास्त्राविरुद्धेष्व् एवास्य स्वातन्त्र्यम् इत्य् आह ।
विश्वास-प्रस्तुतिः
साधुकारी साधुवादी ॥ ११।२ ॥
मूलम्
साधुकारी साधुवादी ॥ ११।२ ॥
हरदत्तः
साधुकारी शास्त्राविरुद्धाचरणशीलः । साधुवादी व्यवहारकाले स्वपक्षापरपक्षसमवादी ॥ ११।२ ॥
विश्वास-प्रस्तुतिः
त्रय्याम् आन्वीक्षिक्या वाभिविनीतः ॥ ११।३ ॥
मूलम्
त्रय्याम् आन्वीक्षिक्या वाभिविनीतः ॥ ११।३ ॥
हरदत्तः
ऋग्यजुःसामात्मकास् त्रयो वेदास् त्रयी । अथर्वणश् च वेदस् तेष्व् अन्तर्भवति । तत्रापि हि मन्त्रा ऋचो यजूंषि वा भेदव्यवहारस् तु प्रवचननिमित्तः । शान्तिकपौष्टिकादिप्रमेयभेदनिबन्धो वा । आन्वीक्षिकी न्यावविद्या । तयोर् अभिविनीतो गुरुभिः सम्यक् शिक्षितः । मनुस् तु ।
त्रैविदेभ्यस् त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् ।
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भं च लोकतः ॥ इति ॥ ११।३ ॥
विश्वास-प्रस्तुतिः
शुचिर् जितेन्द्रियो गुणवत्सहायोपायसंपन्नः ॥ ११।४ ॥
मूलम्
शुचिर् जितेन्द्रियो गुणवत्सहायोपायसंपन्नः ॥ ११।४ ॥
हरदत्तः
शुचिः अन्तः परद्रव्यादिष्व् अस्पृहः बहिः स्नानादिपरः । जितेन्द्रियः स्त्रियो ऽक्षा मृगया पानम् इत्यादिव्यसनरहितः । गुणाः शान्त्यादयः । तद्वद्भिस् त्रिसामादिभिः सहायैः संपन्नः समवेतः । सामादिभिश् चोपायैः संपन्नो देशकालावस्थानुरूपं तेषां प्रयोक्ता । सर्वत्र स्याद् इति वक्ष्यमाणम् अपेक्ष्यते ॥ ११।४ ॥
विश्वास-प्रस्तुतिः
समः प्रजासु स्यात् ॥ ११।५ ॥
मूलम्
समः प्रजासु स्यात् ॥ ११।५ ॥
हरदत्तः
व्यवहारकाले द्वेष्ये प्रिये च समः स्यात् ॥ ११।५ ॥
विश्वास-प्रस्तुतिः
हितम् आसां कुर्वीत ॥ ११।६ ॥
मूलम्
हितम् आसां कुर्वीत ॥ ११।६ ॥
हरदत्तः
आसां प्रजानां योगक्षेमयोर् अवहितः स्यात् ॥ ११।६ ॥
विश्वास-प्रस्तुतिः
तम् उपर्य् आसीनम् अधस्ताद् उपासीरन्न् अन्ये
ब्राह्मण्ēभ्यः ॥ ११।७ ॥
मूलम्
तम् उपर्य् आसीनम् अधस्ताद् उपासीरन्न् अन्ये
ब्राह्मण्ēभ्यः ॥ ११।७ ॥
हरदत्तः
तम् एवंगुणं राजानम् उपरि सिंहासनादाव् उच्चैर् आसीनम् अधस्ताद् भूमाव् एवासीरन् । किम् अविशेषेण । न । अन्ये ब्राह्मणेभ्यो ब्राह्मणव्यतिरिक्ताः । अध उपासीरन्न् इत्य् एव सिद्ध उपर्य् आसीनम् इति स्वभावानुवादः । सर्वदायम् उपर्य् आसीनो भवति न तु रहस्य् अपि भूमाव् इति
॥ ११।७। ॥
विश्वास-प्रस्तुतिः
ते ऽप्य् एनं मन्येरन् ॥ ११।८ ॥
मूलम्
ते ऽप्य् एनं मन्येरन् ॥ ११।८ ॥
हरदत्तः
ते ऽपि ब्राह्मणा एनं राजानं मन्येरन्न् आशीर्वादादिभिः पूजयेयुः ॥ ११।८ ॥
विश्वास-प्रस्तुतिः
वर्णान् आश्रमांश् च न्यायतो ऽभिरक्षेत् ॥ ११।९ ॥
मूलम्
वर्णान् आश्रमांश् च न्यायतो ऽभिरक्षेत् ॥ ११।९ ॥
हरदत्तः
वर्णा ब्राह्मणादयः । आश्रमा ब्रह्मचर्यादयः । तान् न्यायतो यथाशास्त्रं षष्ठांशादिभागस्वीकारेणाभिरक्षेद् अभितो रक्षेत् । यथा वर्णाश्रमधर्मानुष्ठानेन निरपायास् ते भवेयुः । अथ वा न्यायत इति यथा देशादिधर्माणां भङ्गो न भवति तथा रक्षेद् इति । अनुलोमादयो ऽवान्तरप्रभवा वर्णा एष्व् एवान्तर्भूताः । रक्षणं सर्वभूतानाम् इति चोरादिभ्यो रक्षणं पूर्वोक्तम् । इदं तु वचनं वर्णाश्रमधर्मेषु संकरो मा भूद् इति ॥ ११।९ ॥
विश्वास-प्रस्तुतिः
चलतश् चैतान् स्वधर्मे स्थापयेत् ॥ ११।१० ॥
मूलम्
चलतश् चैतान् स्वधर्मे स्थापयेत् ॥ ११।१० ॥
हरदत्तः
ते यद्य् आलस्यादिना स्वधर्माच् चलेयुस् ततश् चलत एतान् स्वधर्म एव निगृह्य स्थापयेद् इति ॥ ११।१० ॥
हरदत्त-प्रस्तावः
कस्मात् पुनर् एवम् असौ करोतीत्य् आह ।
विश्वास-प्रस्तुतिः
धर्मस्य ह्य् अंशभाग् भवतीति ॥ ११।११ ॥
मूलम्
धर्मस्य ह्य् अंशभाग् भवतीति ॥ ११।११ ॥
हरदत्तः
विज्ञायते हि यस्माद् रक्षतो धर्मस्यांशो भवति । उपलक्षणम् एतत् । अरक्षतो ऽप्य् अधर्मस्यांशो भवतीति ज्ञेयम् । अत्र मनुः ।
सर्वतो धर्मषड्भागो राज्ञो भवति रक्षणात् ।
अधर्मस्यापि षड्भागो भवत्य् अस्य ह्य् अरक्षतः ॥ इति ॥ ११।११ ॥
विश्वास-प्रस्तुतिः
ब्राःमणं च पुरोदधीत विद्याभिजनवाग्रूप-
वयःशीलसंपन्नं न्यायवृत्तं तपस्विनम् ॥ ११।१२ ॥
मूलम्
ब्राःमणं च पुरोदधीत विद्याभिजनवाग्रूप-
वयःशीलसंपन्नं न्यायवृत्तं तपस्विनम् ॥ ११।१२ ॥
हरदत्तः
स एष बहुश्रुतो भवतीत्य् आरभ्योक्ता विद्या । विशिष्टकुले जन्माभिजनः । वाक्संस्कृता भारती । रूपं मनोहरम् । वयो मध्यमं नातिबालो नातिस्थविर इति । शीलम् अन्तःकरणशुद्धिर् बाह्यं वानुष्ठानम् । एतैर् विद्यादिभिः संपन्नं समृद्धम् । न्यायवृत्तं लोकाविरुद्धाचारम् । तपस्विनम् अभोगपरम् । एवंभूतं ब्राह्मणं पुरोदधीत पुरोहितं कुर्वीत ॥ ११।१२ ॥
हरदत्त-प्रस्तावः
सर्वेषु कर्मसु पुरो धीयत इति पुरोहितस् तद् दर्शयति ।
विश्वास-प्रस्तुतिः
तत्प्रसूतः कर्माणि कुर्वीत ॥ ११।१३ ॥
मूलम्
तत्प्रसूतः कर्माणि कुर्वीत ॥ ११।१३ ॥
हरदत्तः
तेन पुरोहितेन प्रसूतो ऽनुज्ञात इदम् इत्थं कर्तव्यम् इति कृतोपदेशः कर्माणि श्रौतस्मार्तादीनि पौराणिकानि नित्यनैमित्तिकानि शान्तिकपौष्टिकान्य् आभिचारिकाणि कुर्वीत । तत्प्रसूत इत्य् अस्य मूलत्वेन ब्राह्मणम् आकर्षति ॥ ११।१३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मप्रसूतं हि क्षत्र्म् ऋध्यते न व्यथत इति
च विज्ञायते ॥ ११।१४ ॥
मूलम्
ब्रह्मप्रसूतं हि क्षत्र्म् ऋध्यते न व्यथत इति
च विज्ञायते ॥ ११।१४ ॥
हरदत्तः
ब्रह्म ब्राह्मणस् तेन प्रसूतम् अनुज्ञातं हि क्षत्रं क्षत्रियम् ऋध्यते [क्षत्रियजातिर् ऋध्यते] समृद्धं भवतीति न व्यथते न कुतश्चिद् बिभेति । निरपायं स्याद् इत्य् अर्थः । इत्य् एवं प्रकारेण विज्ञायते परम्परया दृश्यते ॥ ११।१४ ॥
विश्वास-प्रस्तुतिः
यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस् तान्य्
आद्रियेत ॥ ११।१५ ॥
मूलम्
यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस् तान्य्
आद्रियेत ॥ ११।१५ ॥
हरदत्तः
दैवचिन्तका ज्योतिर्विदः । उत्पातचिन्तकाः शकुनज्ञाः । उत्पातानां चाग्रे फलानि जानते । ते यत् प्रब्रूयुर् इदम् अन्यग्रहवैकृतम् इदम् अद्य दुःशाकुनम् अयम् अद्योत्पातो ऽयम् एषां परिहार इति च तान्य् अपि सर्वाण्य् आद्रियेत नोपेक्षेत ॥ ११।१५ ॥
हरदत्त-प्रस्तावः
किम् अर्थम् ।
विश्वास-प्रस्तुतिः
तदधीनम् अपि ह्य् एके योगक्षेमं प्रतिजानते ॥ ११।१६ ॥
मूलम्
तदधीनम् अपि ह्य् एके योगक्षेमं प्रतिजानते ॥ ११।१६ ॥
हरदत्तः
न केवलं रक्षणादिविहितानुष्ठानं किं तर्हि तदधीनम् अपि दैवोत्पातचिन्तकैर् ग्रहवैकृतादौ यत् कर्तव्यतया प्रोक्तं तदधीनम् अपि योगक्षेमं भवति । अलब्धस्य लाभो योगः । लब्धस्य रक्षणं क्षेमः । तयोः समाहारद्वन्द्वः । आयोगप्रजा विन्देद् योगक्षेमो नः कल्पन्ताम् इत्यादाव् एकविंशत्यादिवत् परवल् लिङ्गता । तद् यथा – एकश् च विंशतिश् वैकविंशतिः । तं योगक्षेमं प्रतिजानत एक आचार्या इति ॥ ११।१६ ॥
विश्वास-प्रस्तुतिः
शान्तिपुण्याहस्वस्त्ययनायुष्मन्मङ्गलसंयुक्तान्य्
आभ्युदयकानि विद्वेषणसंवननाभिचार-
द्विषद्व्यृद्धियुक्तानि च शालाग्नौ कुर्यात् ॥ ११।१७ ॥
मूलम्
शान्तिपुण्याहस्वस्त्ययनायुष्मन्मङ्गलसंयुक्तान्य्
आभ्युदयकानि विद्वेषणसंवननाभिचार-
द्विषद्व्यृद्धियुक्तानि च शालाग्नौ कुर्यात् ॥ ११।१७ ॥
तत्र आपस्तम्बो “राज्ञस् तु विशेषाद् वक्ष्यामः” [आप्ध् २।२५।१] इति प्रकृत्य वेश्मावसथः, सभेति त्रिस्थानान्य् अभिसंधायाह “सर्वेष्व् एवाजस्रा अग्नयः स्युर् अग्निपूजा च नित्या यथा गृहमेधे” इति [आप्ध् २।२५।६–७] । तेषाम् अन्यतमो ऽत्र शालाग्निर् नौपासनो नापि त्रेताग्निर् गार्ह्यषु श्रौतेषु कर्मसु तयोर् नियतत्वात् । शान्तिसंयुक्तं दैवोत्पातचिन्तकसूचितापचयनिवृत्त्यर्थं यत् क्रियते ग्रहशान्तिमहाशन्त्यादि । पुण्याहसंयुक्तं दिनदोषनाशाय विवाहादौ यत् क्रियते । आयुष्मत्संयुक्तं जन्मनक्षत्रादाव् आयुर्वृद्ध्यर्थं यत् क्रियते । दूर्वाहोमादि मङ्गलसंयुक्तं गृहप्रवेशादौ यत् क्रियते वास्तुहोमादि । एतान्य् आभ्युदयिकान्य् अभ्युदयनिमित्तानि । विद्वेषणसंयुक्तं येनास्य शत्रुः प्रकृतीनां विद्वेष्यो भवति । संवननसंयुक्तं येनास्य शत्रवो वश्याः प्रणिपतन्ति । अभिचारसंयुक्तं येनास्य शत्रवो मिर्यन्ते । ऋद्धेर् अभावो व्यृद्धिः । द्विषतां व्यृद्धिर् द्विषद्व्यृद्धिः । येनास्य शत्रवो विगतैश्वर्या भवन्ति । उच्चाटनादीन्य् एतानि च शालाग्नौ कुर्यात् । कः । राजा । तस्य च कर्तृत्वम् इदम् एव । यत् तत् संविधातृत्वम् अर्थसंप्रदानादिना । तद् यथा यो ऽप्य् एकान्ते तूष्णीम् आसीनो भक्तबीजबलीवर्दैः प्रतिसंविधत्ते सो ऽप्य् उच्यन्ते पञ्चभिर् हलैः कृष्यतीति । अपर आह – आभ्युदयिकानि पुरोहितः स्वयं कुर्याद् इतराणि कारयेद् इति । यस्मिंश् चाग्नाव् आभ्युद्यिकानि न तत्रेतराणि कुर्वन्ति किं त्व् अग्न्यन्तरे पूर्वोक्तानाम् अन्यस्मिन् ॥ ११।१७ ॥
विश्वास-प्रस्तुतिः
यथोक्तम् ऋत्विजो ऽन्यानि ॥ ११।१८ ॥
मूलम्
यथोक्तम् ऋत्विजो ऽन्यानि ॥ ११।१८ ॥
हरदत्तः
अन्यानि गार्ह्याणि श्रौतानि च तानि कर्माणि यथोक्तं यस्मिन् कर्मणि यावन्त ऋत्विज उक्तास् तावन्तः कुर्युः । तद् यथा – औपासने चागिहोत्रे चाध्वर्युर् एकः । दर्शपूर्णमासयोश् चत्वारः । चातुर्मास्ये पञ्च । पशुबन्धे षट् । ज्योतिष्टोमादौ षोडश । अत्र मनुः ।
पुरोहितं च वृणुयाद् वृणुयाद् एव चर्त्विजः ॥ इति ।
तत्र येष्व् एव ऋत्विक् तत्र पुरोहितो ऽध्वर्युर् ब्रह्मेत्य् अन्ये ॥ ११।१८ ॥
विश्वास-प्रस्तुतिः
तस्य च व्यवहारो वेदो धर्मशास्त्राण्य् अङ्गान्य्
उपवेदाः पुराणम् ॥ ११।१९ ॥
मूलम्
तस्य च व्यवहारो वेदो धर्मशास्त्राण्य् अङ्गान्य्
उपवेदाः पुराणम् ॥ ११।१९ ॥
हरदत्तः
व्यवहरन्त्य् अनेनेति व्यवहारः । तस्य राज्ञः प्रजापालने ऽधिकृतस्य वेदादीनि व्यवहारसाधनानि । यथा वेदादिष्व् अभिहितं तथा व्यवहरेद् इति । व्यवहारो लोकमर्यादास्थापनम् ॥ ११।१९ ॥
विश्वास-प्रस्तुतिः
देशजातिकुलधर्माश् चाम्नायैर् अविरुद्धाह्
प्रमाणम् ॥ ११।२० ॥
मूलम्
देशजातिकुलधर्माश् चाम्नायैर् अविरुद्धाह्
प्रमाणम् ॥ ११।२० ॥
हरदत्तः
देशधर्मेषु जातिधर्मेषु च प्रतिनियतम् अनुष्ठीयमानेषु यद्य् अपि वेदादि मूलभूतं नोपलभ्यते तथापि यदि वेदादिभिर् विरोधो न भवति तथैव ते परिपालनीया न तु मूलानियोगेन विहन्तव्या इति । तत्र देशधर्माः – मेषस्थे सवितरि चौलेषु कुमार्यो नानावर्णै रजोभिर् भूमाव् आदित्यं सपरिवारम् आलिख्य सायं प्रातः पूजयन्ति । मार्गशीर्ष्यां चालंकृता ग्रामे पर्यट्य यल् लब्धं तद् देवाय निवेदयन्ते । कर्कटस्थे सवितरि पूर्वयोः फल्गुन्योर् भगवतीम् उमाम् आराध्य यथाविभवम् अरुद्भ्यो ऽङ्कुरितं मुद्गलवणं च प्रयच्छन्ति । मीनस्थे सवितर्य् उत्तरयोः फल्गुन्योर् गृहमेधिनः श्रियं देवीं पूजयन्ति । जातिधर्माः शूद्रा विवाहे मधे स्थूणां निखाय सहस्रवर्तीर् एकस्यां स्थाल्यां निधाय प्रतिवर्ति दीपान् आरोप्य वधूं हस्ते गृहीत्वा प्रदक्षिणयन्ति । अन्यद् अप्य् एवंजातीयकं द्रष्टव्यम् । कुलधर्माः – केचिन् मध्यशिखाः । केचित् पृष्टशिखाः । प्रवचनादयस् तु कालभेदेनोभयतःशिखाः । संबन्धश् चैतैस् तैः स्ववर्गैर् इति । ये त्व् आम्नायविरुद्धा मातुलसुतापरिणयनम्, अनधीत्य वेदान् अन्यत्र श्रम इत्यादयो देशधर्मा नेह प्रमाणम् ॥ ११।२० ॥
विश्वास-प्रस्तुतिः
कर्षकवणिक्पशुपालकुसीदिकारवः स्वे स्वे
वर्गे ॥ ११।२१ ॥
मूलम्
कर्षकवणिक्पशुपालकुसीदिकारवः स्वे स्वे
वर्गे ॥ ११।२१ ॥
हरदत्तः
कर्षकाः कृषिजीविनः । वणिजः क्रयविक्रयव्यवहारपराः । पशुपाला गोपालाः । कुसीदिनो वार्धुषिकाः । कारवस् तक्षरजकादयः । एते स्वे स्वे वर्गे स्ववर्गसंवेदे प्रमाणम् ॥ ११।२१ ॥
हरदत्त-प्रस्तावः
ततश् च कर्षकादिषु धर्मविप्रतिपत्तौ सत्याम् ।
विश्वास-प्रस्तुतिः
तेभ्यो यथाधिकारम् अर्थान् प्रत्यवहृत्य
धर्मव्यवस्था ॥ ११।२२ ॥
मूलम्
तेभ्यो यथाधिकारम् अर्थान् प्रत्यवहृत्य
धर्मव्यवस्था ॥ ११।२२ ॥
हरदत्तः
तेभ्यस् तत्तद्वर्गेभ्यो यथाधिकारं ये यत्र वर्गे व्यवस्थापकत्वेनाधिकृतास् तेभ्यो ऽर्थान् आचारप्रकारान् प्रत्यवहृत्य श्रुत्वावधार्य धर्मव्यवस्था कार्या । इत्थम् अस्माकं निकाम आचार इति तैर् उक्ते तथैव व्यवस्थाप्यम् इति ॥ ११।२२ ॥
हरदत्त-प्रस्तावः
अथ ते पक्षपातेन मिथ्या ब्रूयुस् तदा कथं तत्त्वं ज्ञातव्यम् ।
विश्वास-प्रस्तुतिः
न्यायाधिगमे तर्को ऽभ्युपायः ॥ ११।२३ ॥
मूलम्
न्यायाधिगमे तर्को ऽभ्युपायः ॥ ११।२३ ॥
हरदत्तः
न्याययुक्तस्यार्थस्याधिगमे ऽवधारणे तर्को ऽनुमानम् अभ्युपायः । अभिर् धात्वर्थानुवादी । तत्र मनुः ।
आकारैर् इङ्गितैर् गत्या चेष्टया हर्षितेन च ।
नेत्रवक्त्रविकारैश् च गृह्यते ऽन्तर्गतं मनः ॥ इति ॥ ११।२३ ॥
हरदत्त-प्रस्तावः
ततश् च_ ।
विश्वास-प्रस्तुतिः
तेनाभ्युह्य यथास्थानं गमयेत् ॥ ११।२४ ॥
मूलम्
तेनाभ्युह्य यथास्थानं गमयेत् ॥ ११।२४ ॥
हरदत्तः
तेन तर्केणाभ्यूह्यैवम् अयम् अर्थो भवितुम् अर्हतीति निश्चित्य यथास्थानं यत्र पक्षे ऽर्थस् तत्र गमयेत् ॥ ११।२४ ॥
हरदत्त-प्रस्तावः
अथात्मन एकाकिनस् तर्केणापि दुरधिगमत्वे सति ।
विश्वास-प्रस्तुतिः
विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्य
निष्ठां गमयेत् ॥ ११।२५ ॥
मूलम्
विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्य
निष्ठां गमयेत् ॥ ११।२५ ॥
हरदत्तः
विप्रतिपत्तौ सत्यां दुरधिगमत्वे सति त्रैविद्यवृद्धान् समानाय्य तैः सह विचार्यार्थतत्त्वं तेभ्यः प्रत्यवहृत्य निष्ठां गमयेत् । यत्र पक्षे ऽर्थो निष्ठितस् तं गमयेत् ॥ ११।२५ ॥
हरदत्त-प्रस्तावः
किम् एवं कुर्वतो भवति ।
विश्वास-प्रस्तुतिः
तथा ह्य् अस्य निःश्रेयसं भवति ॥ ११।२६ ॥
मूलम्
तथा ह्य् अस्य निःश्रेयसं भवति ॥ ११।२६ ॥
हरदत्तः
एवम् अस्य निर्णयं कुर्वतो निश्रेयसम् उभयोर् लोकयोर् भवति । इह जनानुरागेनामुत्र धर्मप्राप्त्या चेति हेतोः ॥ ११।२६ ॥
हरदत्त-प्रस्तावः
न केवलं राज्ञ एव सिद्धिः । किं तर्हि सह निर्णेतॄणां ब्राह्मणानाम् अपीति दर्शयितुं श्रुतिम् उदाहरति ।
विश्वास-प्रस्तुतिः
ब्रह्म क्षत्रेण सपृक्तं देवपितृमनुष्यान्
धारयतीति विज्ञायते ॥ ११।२७ ॥
मूलम्
ब्रह्म क्षत्रेण सपृक्तं देवपितृमनुष्यान्
धारयतीति विज्ञायते ॥ ११।२७ ॥
हरदत्तः
ब्रह्म त्रैविद्यलक्षणं क्षत्रेण संयुक्तं राज्ञा सह धर्मं विविञ्चेद् देवपितृमनुष्यान् धारयन्तीति श्रुतिसिद्धम् । एवं निर्णये कृते यथोकं कर्मानुतिष्ठन्ति मनुष्याः । तच् च धर्म्यं कर्म देवा उपजीवन्ति पितरश् च न क्षीयन्त इति न्यायेन सर्वेषां धारणं भवतीति ॥ ११।२७ ॥
हरदत्त-प्रस्तावः
अथ दौःशील्याद् व्यवस्थां नानुमन्यते ततः ।
विश्वास-प्रस्तुतिः
दण्डो दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत् ॥ ११।२८ ॥
मूलम्
दण्डो दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत् ॥ ११।२८ ॥
हरदत्तः
दमनयोगाद् दण्डशब्दस्य दण्डत्वम् इत्य् आहुर् धर्मज्ञाः । तेनादान्तान् अवश्यान् दमयेद् वशं नयेत् । दण्डेनादान्तान् दमयेद् इत्य् एवं सिद्धे दण्डः –
धिग्दण्डं प्रथमं कुर्याद् वाग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डं ततः परम् ॥
देवदानवगन्धर्वा रक्षांसि पतगोरगाः ।
ते ऽपि भोगाय कल्प्यन्ते दण्डेनैव निपीडिताः ॥ इति ॥ ११।२८ ॥
हरदत्त-प्रस्तावः
अथैवं शास्त्रवश्यतया राज्ञा च स्वधर्मे स्थाप्यमानानां वर्णानाम् आश्रमाणां च कथं सिद्धिर् इत्य् अत आह ।
विश्वास-प्रस्तुतिः
वर्णाश्रमाः स्वस्वधर्मनिष्ठाः प्रेत्य कर्मफलम्
अनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुत-
वृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते ॥ ११।२९ ॥
मूलम्
वर्णाश्रमाः स्वस्वधर्मनिष्ठाः प्रेत्य कर्मफलम्
अनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुत-
वृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते ॥ ११।२९ ॥
हरदत्तः
वर्णा ब्राह्मणादयः । आश्रमा ब्रह्मचर्यादयः । ते स्वधर्मनिष्ठा वर्णप्रयुक्तान् आश्रमप्रयुक्तान् उभयप्रयुक्तांश् च दर्मान् अनुष्थितवन्तः प्रेत्य मरणेन लोकान्तरं गत्वा तस्य तस्य कर्मणः फलं स्वर्गादिकम् अनुभूय ततस् तदनन्तरं शेषेण भुक्तावशिष्टेन कर्मणा विशिष्टदेशादिकान् भुक्त्वा जन्म प्रतिपद्यन्ते । तत्र विशिष्टशब्दो देशदिभिः सर्वैः संबध्यते । विशिष्टो देश आर्यावर्तादिः । विशिष्टजातिर् ब्राह्मणजातिः । विशिष्टकुलम् अध्ययनादिसंपन्नम् । विशिष्टरूपं कान्तिमत् । विशिष्टायुः सहषोडशं वर्षशतम् । सहषोडशं वर्षशतम् अजीवद् इति दर्शनात् । रोगरहितत्वम् अप्य् आयुषो विशेषः । विशिष्तश्रुतं ब्राह्मणश् च बहुश्रुत इत्य् अत्र व्याख्यातम् । विशिष्टवृत्तम् अनुपाधि चारित्रम् । विषिष्टवित्तं धर्मार्जितं धर्मे प्रयुज्यमानं च । सुखं निरपायस्थानाधिष्ठानेनानिषिद्धमुखसेवनम् । विशिष्टमेधा ग्रन्थार्थयोर् ग्रहणशक्तिर् इति । मेधाशब्दे सकारान्तत्वम् आर्षं सुमेधसो दुर्मेधस इत्यादिष्व् एव दर्शनात् । कर्माणि भुज्यमानानि पुण्यान्य् अपुण्यानि च सशेषाण्य् एवं भुज्यन्ते । ऐहिकस्य शरीरग्रहणादेर् अपि पुण्यापुण्यनिबन्धनत्वात् ॥ ११।२९ ॥
विश्वास-प्रस्तुतिः
विष्वञ्चो विपरीता नश्यन्ति ॥ ११।३० ॥
मूलम्
विष्वञ्चो विपरीता नश्यन्ति ॥ ११।३० ॥
हरदत्तः
ये वर्णाश्रमाः स्वानि कर्माणि यथावन् नानुतिष्ठन्ति ते विपरीता विष्वञ्चो नानायोनीर् गच्छन्तो नश्यन्ति । अनर्थपरम्पराम् अनुभवन्तीति ॥ ११।३० ॥
विश्वास-प्रस्तुतिः
नानाचार्योपेदेशो दण्डश् च पालयेत् ॥ ११।३१ ॥
मूलम्
नानाचार्योपेदेशो दण्डश् च पालयेत् ॥ ११।३१ ॥
हरदत्तः
तान् विपरीतान् यथोक्तम् अकुर्वतो वर्णान् आश्रमांश् चाचार्योपदेशस् तावत् पालयते । तत्राप्य् अतिष्ठतो राजदण्डः ॥ ११।३१ ॥
हरदत्त-प्रस्तावः
यत एवम् ।
विश्वास-प्रस्तुतिः
तस्माद् राजाचार्याव् अनिन्द्याव् अनिन्द्यौ ॥ ११।३२ ॥
मूलम्
तस्माद् राजाचार्याव् अनिन्द्याव् अनिन्द्यौ ॥ ११।३२ ॥
हरदत्तः
तस्माद् धेतो राजाचार्यौ मान्याव् अनिन्द्याव् इति । यद्य् अपि नियमनकाले हितैषितया प्रमुखपुरुषौ भवतस् तथापि तयोर् निन्दा न कार्या । [अभ्यासो ऽध्यायसमाप्त्यर्थः] ॥ ११।३२ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने एकादशो ऽध्यायः