[तत्र प्रथमो ऽध्यायः]
उक्ताः प्रायश आश्रमधर्माः । अथ वर्णधर्मान् आह ।
विश्वास-प्रस्तुतिः
द्विजातीनाम् अध्ययनम् इज्या दानम् ॥ १०।१ ॥
मूलम्
द्विजातीनाम् अध्ययनम् इज्या दानम् ॥ १०।१ ॥
यथासंख्यम् अत्र न भवति । उत्तरत्राधिकग्रहणात् तत्रैव वक्तव्यं भविष्यति । अध्ययनं वेदग्रहणाभ्यासरूपम् । इज्या यागो देवपितृपूजा । दानं पात्रे द्रव्यत्यागः । द्विजातीनाम् इति वचनाद् यदा द्विजातयः संपन्नाः कृतोपनयनास् तत आरभैते धर्माः । तेनानुपनीतानां दाने ऽप्य् अधिकारो नास्तीति केचित् । नेति च वयम् । द्विजातीनाम् इत्य् उपलक्षणं येषां द्विजातिर् जन्म तेषाम् इति । तेनानुपनीतस्याप्य् अर्थवतो हितैषिभिः प्रवर्तितस्य दानं भवत्य् एव ॥ १०।१ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः ॥ १०।२ ॥
मूलम्
ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः ॥ १०।२ ॥
हरदत्तः
प्रवचनम् अध्यापनम् । याजनम् आर्त्विज्यम् । प्रतिग्रहः प्रसिद्धः । एते ब्राह्मणस्याधिकाराः पूर्वेभ्यो ऽध्ययनादिभिः । ते चामी च समुच्चिता इत्य् उक्तं भवति । अत्राप्य् अनुपनीतस्यापि प्रतिग्रहो भवति । याजनाध्यापने त्व् असंभवान् न भवतः । ब्राह्मणस्य प्रवचनयाजनप्रतिग्रहा इत्य् एव सिद्धे ऽधिकग्रहणं पूर्वत्र यथासंख्यं मा भूद् इति पूर्वे तावद् अवस्थिताः ॥ १०।२ ॥
विश्वास-प्रस्तुतिः
पूर्वेषु नियमस् तु ॥ १०।३ ॥
मूलम्
पूर्वेषु नियमस् तु ॥ १०।३ ॥
हरदत्तः
नियमो ऽवश्यकर्तव्यता । पूर्वाण्य् अध्ययनादीन्य् अवश्यकर्तव्यानि । अकुर्वन् प्रत्यवैति कुर्वंश् चाभ्युदेति । प्रवचनादीनि तु वृत्त्यर्थानि । अतो ऽकरणे न प्रत्यवायः करणे नाभ्युदयः ॥ १०।३ ॥
विश्वास-प्रस्तुतिः
आचार्यज्ञातिप्रियगुरुधनविद्यानियमेषु ब्रह्मणः
संप्रदानम् अन्यत्र यथोक्तम् ॥ १०।४ ॥
मूलम्
आचार्यज्ञातिप्रियगुरुधनविद्यानियमेषु ब्रह्मणः
संप्रदानम् अन्यत्र यथोक्तम् ॥ १०।४ ॥
हरदत्तः
ब्रह्मः वेदः । तस्य संप्रदानं सम्यक् प्रदानम् । “अनुज्ञात उपविशेत्” [ग्ध् १।५५] इत्य् आरभ्य शुश्रूषवो ऽध्याप्या इत्य् उक्तं स यथोको नियमः । तस्माद् अन्यत्र विनापीति तेनाचार्यादिभ्यो ब्रह्म प्रदेयम् इत्य् उच्यते । आचार्य उक्तः । ज्ञातयो भ्रातृपितृव्यादयः । प्रियः सखा । गुरवो मातुलादयः । एतेषु ब्रह्म सम्यक् प्रदेयम् । तथा धनविद्यानियमेषु । धनेन विद्यायाः परिवर्तनं धननियमः । विद्यान्तरेण परिवर्तनं विद्यानियमः । तेष्व् अपि ब्रह्म संप्रदेयम् । धनविद्यानियमो ऽपि योग्यविषय एव । शिष्टाध्यापक इत्य् उक्तत्वात् । न च तस्याप्य् अयम् अपवादः । यथावद् ग्रहणविधिनाध्ययनम् उक्तं तस्यैवायम् अपवाद इति ॥ १०।४ ॥
विश्वास-प्रस्तुतिः
कृषिवाणिज्ये वास्वयंकृते ॥ १०।५ ॥
मूलम्
कृषिवाणिज्ये वास्वयंकृते ॥ १०।५ ॥
हरदत्तः
कृषिः कर्षणेन सस्योत्पादनं वाणिज्या क्रयविक्रयव्यवहारः । ते च ब्राह्मणस्याधिके यद्य् अस्वयंकृते । अन्येन कारयितुं शक्येते ॥ १०।५ ॥
विश्वास-प्रस्तुतिः
कुसीदं च ॥ १०।६ ॥
मूलम्
कुसीदं च ॥ १०।६ ॥
हरदत्तः
कुसीदम् उपचयार्थो धनप्रयोगः । तद् अप्य् अस्वयंकृतं चेद् ब्राह्मणस्याधिकम् ॥ १०।६ ॥
विश्वास-प्रस्तुतिः
राज्ञो ऽधिकं रक्षणं सर्वभूतानाम् ॥ १०।७ ॥
मूलम्
राज्ञो ऽधिकं रक्षणं सर्वभूतानाम् ॥ १०।७ ॥
हरदत्तः
राज्ञो ऽभिषिक्तस्य सर्वभूतानां रक्षणम् अधिकम् । सर्वग्रहणात् स्थावरादीनाम् अप्य् अश्वत्थादीनां छेदननिरोधेन ॥ १०।७ ॥
विश्वास-प्रस्तुतिः
न्याय्यदण्डत्वम् ॥ १०।८ ॥
मूलम्
न्याय्यदण्डत्वम् ॥ १०।८ ॥
न्यायाद् अनपेतो न्याय्यः शास्त्राविरुद्धो दण्डो यस्य तद्भावो न्याय्यदण्डत्वम् । न्यायदण्डत्वम् इत्य् अपि पाठ एष एवार्थः । स च राज्ञो धर्मः । रागद्वेषादिना न न्यूनाधिकदण्डः स्याद् इति ॥ १०।८ ॥
विश्वास-प्रस्तुतिः
बिभृयाद् ब्राह्मणाञ् श्रोत्रियान् ॥ १०।९ ॥
मूलम्
बिभृयाद् ब्राह्मणाञ् श्रोत्रियान् ॥ १०।९ ॥
हरदत्तः
श्रोत्रिया अधीतवेदास् तान् ब्राह्मणान् अन्नादिदानेन बिभृयात् ॥ १०।९ ॥
विश्वास-प्रस्तुतिः
निरुत्साहांश् च ब्राह्मणान् ॥ १०।१० ॥
मूलम्
निरुत्साहांश् च ब्राह्मणान् ॥ १०।१० ॥
हरदत्तः
जीवनार्थम् उत्साहं कर्तुम् असमर्था निरुत्साहास् तान् ब्राह्मणान् अपि बिभृयात् । किं पुनर् ब्राह्मणान् । पूर्वसूत्रे सर्जने समर्थान् अपि श्रोत्रियान् समम् आहूय बिभृयाद् इति ॥ १०।१० ॥
विश्वास-प्रस्तुतिः
अकरांश् च ॥ १०।११ ॥
मूलम्
अकरांश् च ॥ १०।११ ॥
हरदत्तः
ये पूर्वैर् दत्ता अकरा ब्राह्मणादिभ्यस् तांश् च यथापूर्वं बिभृयाद् बाधकादिनिरासेन । स्वयं च नापूर्वं करम् उत्पादयेद् इति ॥ १०।११ ॥
विश्वास-प्रस्तुतिः
उपकुर्वाणांश् च ॥ १०।१२ ॥
मूलम्
उपकुर्वाणांश् च ॥ १०।१२ ॥
आधीयाना [अधी-?] ब्रह्मचारिण उपकुर्वाणास् तांश् च बिभृयाद् अन्नादिदानेन । यद्य् अर्थिनः स्वयं जीवितवन्तो वनसूकरादिव्यावर्तनेन । अपर आह – उपकुर्वाणा लोकोपकुर्वाणा वैद्यादय इति ॥ १०।१२ ॥
विश्वास-प्रस्तुतिः
योगश् च विजये ॥ १०।१३ ॥
मूलम्
योगश् च विजये ॥ १०।१३ ॥
हरदत्तः
योग उपायो विजयविशयश् च योगः कार्यः । अयम् अपि राज्ञो ऽधिको धर्म इति ॥ १०।१३ ॥
विश्वास-प्रस्तुतिः
भये विशेषेण ॥ १०।१४ ॥
मूलम्
भये विशेषेण ॥ १०।१४ ॥
हरदत्तः
अन्याभिभवादिनिमित्ते विशेषेण योगः कार्यः ॥ १०।१४ ॥
विश्वास-प्रस्तुतिः
चर्या च रथधनुभ्याम् ॥ १०।१५ ॥
मूलम्
चर्या च रथधनुभ्याम् ॥ १०।१५ ॥
हरदत्तः
चरणं चर्या । बहिःप्रदेशे चरन् रथम् आरूढो धनुर्हस्तश् च चरेत् । रथग्रहणं हस्त्यश्वादेर् उपलक्षणं धनुर्ग्रहणं च खड्गादेः ॥ १०।१५ ॥
विश्वास-प्रस्तुतिः
संग्रामे संस्थानम् अनिवृत्तिश् च ॥ १०।१६ ॥
मूलम्
संग्रामे संस्थानम् अनिवृत्तिश् च ॥ १०।१६ ॥
हरदत्तः
संग्रामो युद्धं तत्र संस्थानं प्राणात्ययः । निवृत्तिः पलायनं तदभावो ऽनिवृत्तिः । एतौ च राज्ञो ऽधिकौ धर्मौ ॥ १०।१६ ॥
विश्वास-प्रस्तुतिः
न दोषो हिंसायाम् आहवे ॥ १०।१७ ॥
मूलम्
न दोषो हिंसायाम् आहवे ॥ १०।१७ ॥
हरदत्तः
यत्र परस्परम् आह्वयन्ते स आहवः । तादृशे युद्धे शत्रूणां हिंसायाम् अपि न दोषः । नित्यम् अहिंस्र इत्य् अस्यायम् अपवादः ॥ १०।१७ ॥
विश्वास-प्रस्तुतिः
अन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेश-
पराङ्मुखोपविष्टस्थलवृक्षाधिरूढदूतगो-
ब्राःमणवादिभ्यः ॥ १०।१८ ॥
मूलम्
अन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेश-
पराङ्मुखोपविष्टस्थलवृक्षाधिरूढदूतगो-
ब्राःमणवादिभ्यः ॥ १०।१८ ॥
हरदत्तः
विशब्दश् च त्रिभिः संबध्यते । व्यश्वो विसारथिर् व्यायुध इति । यस्याश्वो हतः स व्यश्वः । यस्य सारथिर् हतः स विसारथिः । यस्यायुधं कृत्तं पतितं वा स व्यायुधः । कृताञ्जलिर् भयेन । प्रकीर्णकेशः केशान् अपि नियन्तुम् अक्षमः । पराङ्मुखो भयेन पृष्ठीकृत्य पलायमानः । उपविष्टः पलायितुम् अप्य् असमर्थ आसीनः । स्थलवृक्षाधिरूढः । स्थलम् उन्नतप्रदेशस् तम् वृक्षं वारूढः । दूतो वार्ताहरः । गौर् अस्मि ब्राह्मणो ऽस्मीति ये वदन्ति ते गोब्राह्मणवादिनः । एतेभ्यो ऽन्यत्राहवे हिंसायां न दोषः । एतेषु दोष इति ॥ १०।१८ ॥
विश्वास-प्रस्तुतिः
क्षत्रियश् चेद् अन्यस् तम् उपजीवेत् तद्वृत्त्या ॥ १०।१९ ॥
मूलम्
क्षत्रियश् चेद् अन्यस् तम् उपजीवेत् तद्वृत्त्या ॥ १०।१९ ॥
हरदत्तः
अन्यश् चेत् क्षत्रियस् तं राजानं देशोपप्लवादिनोपजीवेत् तदा तद्वृत्त्या तस्य राज्ञो या वृत्तिश् चर्या रथधनुर्भ्याम् इत्यादिका तया युक्तः संजीवेत् । तेन राज्ञैवम् असौ संमत इति ॥ १०।१९ ॥
विश्वास-प्रस्तुतिः
जेता लभेत सांग्रामिकं वित्तम् ॥ १०।२० ॥
मूलम्
जेता लभेत सांग्रामिकं वित्तम् ॥ १०।२० ॥
हरदत्तः
राज्ञा नियुक्तो राजभृत्यादिः संग्रामे शत्रून् निर्जित्य यद् वित्तं लभते तत् स एव जेता लभेत न राजा ॥ १०।२० ॥
विश्वास-प्रस्तुतिः
वाहनं तु राज्ञः ॥ १०।२१ ॥
मूलम्
वाहनं तु राज्ञः ॥ १०।२१ ॥
हरदत्तः
वाहनं हस्त्यश्वादिकं निर्जित्य लब्धं राज्ञो भवति न जेतुः ॥ १०।२१ ॥
विश्वास-प्रस्तुतिः
उद्धारश् चापृथग्जये ॥ १०।२२ ॥
मूलम्
उद्धारश् चापृथग्जये ॥ १०।२२ ॥
हरदत्तः
यदि सर्वे सैनिकाः संभूय जयेयुर् जित्वा च किम् अपि लभेरंस् तस्मिन्न् अपृथग्जये राज्ञः उद्धारो विशेषद्रव्यं स्वयं वृतो देयः ॥ १०।२२ ॥
विश्वास-प्रस्तुतिः
अन्यत् तु यथार्हं भाजयेद् राजा ॥ १०।२३ ॥
मूलम्
अन्यत् तु यथार्हं भाजयेद् राजा ॥ १०।२३ ॥
हरदत्तः
यत् स्वयं वृतं माणिक्यादि ततो ऽन्यद् यथार्हं यस्य यावान् व्यापारो यावद् वा शौर्यं तदनुरूपेण भाजयेत् । यथैते तदनुरूपं भजेरंस् तथा कारयेद् इति ॥ १०।२३ ॥
विश्वास-प्रस्तुतिः
राज्ञो बलिदानं कर्षकैर् दशमम् अष्टमं
षष्ठं वा ॥ १०।२४ ॥
मूलम्
राज्ञो बलिदानं कर्षकैर् दशमम् अष्टमं
षष्ठं वा ॥ १०।२४ ॥
हरदत्तः
कर्षकैः क्षेत्रे यल् लब्धं तस्य दशमभागो ऽष्टमः षष्ठो वांशो राज्ञो बलिदानं कररूपेण देयः । अस्य राज्ञः कर्षकैः क्षेत्रे यल् लब्धं तद् रक्षणनिमित्ता वृत्तिर् एषा । कृष्टाया भूमेर् अतिभोगमध्यमभोगाल्पभोगविषयो ऽयं व्यवस्थितो विकल्पः । अतिभोगो दशमांशो मध्यमभोगे ऽष्टमांशो ऽल्पभोगे षष्ठांश इति ॥ १०।२४ ॥
विश्वास-प्रस्तुतिः
पशुहिरण्ययोर् अप्य् एके पञ्चाशद्भागः ॥ १०।२५ ॥
मूलम्
पशुहिरण्ययोर् अप्य् एके पञ्चाशद्भागः ॥ १०।२५ ॥
हरदत्तः
ये पशुभिर् जीवन्ति ये वा हिरण्यप्रयोक्तारो वार्धुषिकास् तैः पञ्चाशत्तमो भागो राज्ञे देय इत्य् एके । तद् यथा – यस्य पञ्चाशत् पशवः सन्ति स प्रतिसंवत्सरम् एकं पशुं राज्ञे दद्यात् । यस्य वा पञ्चाशन् निष्कैर् वृद्धिप्रयोगः स प्रतिसंवत्सरम् एकैकं निष्कं राज्ञे बलिरूपेण दद्याद् इति ॥ १०।२५ ॥
विश्वास-प्रस्तुतिः
विंशतिभागः शुल्कः पण्ये ॥ १०।२६ ॥
मूलम्
विंशतिभागः शुल्कः पण्ये ॥ १०।२६ ॥
हरदत्तः
यद् वणिग्भिर् विक्रीयते तत् पण्यम् । तत्र विंशतितमो भागो राज्ञे देयस् तस्यैव दीयमानस्य शुल्क इति संज्ञा । शुल्कप्रदेशाः प्रतिभाव्यं वणिक्शुल्कम् इत्यादयः ॥ १०।२६ ॥
विश्वास-प्रस्तुतिः
मूलफलपुष्पौषधमधुमांसतृनेन्धनानां
षष्ठः ॥ १०।२७ ॥
मूलम्
मूलफलपुष्पौषधमधुमांसतृनेन्धनानां
षष्ठः ॥ १०।२७ ॥
हरदत्तः
मूलं हरिद्रादि । फलम् आम्रादि । पुष्पम् उत्पलादि । औषधं बिल्वादि । शिष्टानि प्रसिद्धानि । एतेषु पण्येषु षष्टि(ष्ठ)तमो भागो राज्ञे देयो विक्रेत्रा ॥ १०।२७ ॥
हरदत्त-प्रस्तावः
कस्मात् पुनर् एवं राज्ञे देय इत्य् अत आह ।
विश्वास-प्रस्तुतिः
तद्रक्षणधर्मित्वात् ॥ १०।२८ ॥
मूलम्
तद्रक्षणधर्मित्वात् ॥ १०।२८ ॥
हरदत्तः
तेषां करदायिनां रक्षणरूपेण धर्मेण तद्वत्त्वात् तेषाम् अयं रक्षक इति कृत्वेति ॥ १०।२८ ॥
विश्वास-प्रस्तुतिः
तेषु तु नित्ययुक्तः स्यात् ॥ १०।२९ ॥
मूलम्
तेषु तु नित्ययुक्तः स्यात् ॥ १०।२९ ॥
तेषु कर्षकादिषु नित्ययुक्तः स्याद् रक्षणे नित्यम् अवहितः स्यात् । अपर आह – तेषु बल्यादिषु नित्ययुक्तः स्यात् । तात्पर्येणाददीत शुल्कम् । ह्यस्यै (?) तद् धनम् इति ॥ १०।२९ ॥
विश्वास-प्रस्तुतिः
अधिकेन वृत्तिः ॥ १०।३० ॥
मूलम्
अधिकेन वृत्तिः ॥ १०।३० ॥
हरदत्तः
राज्ञो ऽधिकं रक्षणम् इति यद् उक्तं तद्द्वारेण यद् आगतं धनं तद् अधिकं तेनात्मनः पोष्यवर्गस्य च हस्त्यश्वादीनां च वृत्तिः स्यान् न तु पूर्वैर् यत् संचित्य खातं कोशरूपेन तेन जीवेत् । आपदि तु तेनापि जीवेत् । तथा च व्याघ्रः ।
कुटुम्बपोषणं कुर्यान् नित्यं कोशं च धारयेत् ।
आपदो ऽन्यत्र कोशात् तु न गृह्णीयात् कदाचन ॥ इति ॥ १०।३० ॥
विश्वास-प्रस्तुतिः
शिल्पिनो मासि मास्य् एकैकं कर्म कुर्युः ॥ १०।३१ ॥
मूलम्
शिल्पिनो मासि मास्य् एकैकं कर्म कुर्युः ॥ १०।३१ ॥
हरदत्तः
एकेनाह्ना साध्यम् एकं कर्म । शिल्पिनो लोहकारादयः । ते ऽपि प्रतिमासं राज्ञे स्वीयम् एकम् अहः कर्म कुर्युः । एष एषां शुल्कः ॥ १०।३१ ॥
विश्वास-प्रस्तुतिः
एतेनात्मनोपजीविनो व्याख्याताः ॥ १०।३२ ॥
मूलम्
एतेनात्मनोपजीविनो व्याख्याताः ॥ १०।३२ ॥
हरदत्तः
आत्मोपजीविनो ये शरीरायासेन जीवन्ति काष्ठवाहादयस् ते ऽप्य् एते च शिल्पिषूक्तप्रकारेण व्याख्याता मासि मास्य् एकैकं कर्म कुर्युर् इति । नर्तकादिष्व् अप्य् एषैव गतिः ॥ १०।३२ ॥
विश्वास-प्रस्तुतिः
नौचक्रीवन्तश् च ॥ १०।३३ ॥
मूलम्
नौचक्रीवन्तश् च ॥ १०।३३ ॥
हरदत्तः
नौश् च चक्रं च नौचक्रे । चक्रशब्देन तद्वच्छकटं लक्ष्यते । तद्वन्तो नौचक्रीवन्तः । आसन्दीवद् अष्ठीवद् इत्यादिना कथंचिद् रूपसिद्धिः । नौवन्तो नौजीविनः चक्र(क्री)वन्तः । ते ऽपि राज्ञ एकम् अहस् तत्कर्म कुर्युः ॥ १०।३३ ॥
विश्वास-प्रस्तुतिः
भक्तं तेभ्यो दद्यात् ॥ १०।३४ ॥
मूलम्
भक्तं तेभ्यो दद्यात् ॥ १०।३४ ॥
हरदत्तः
शिल्पिनो मासि मासीत्य् आरभ्य ये ऽनुक्रान्तास् तेभ्यः कर्म कुर्वद्भ्यो भक्तम् अन्नं दिवा भोजनं दद्याद् राजा ॥ १०।३४ ॥
विश्वास-प्रस्तुतिः
पण्यं वणिग्भिर् अर्थापचयेन देयम् ॥ १०।३४ ॥
मूलम्
पण्यं वणिग्भिर् अर्थापचयेन देयम् ॥ १०।३४ ॥
हरदत्तः
मासि मास्य् एकैकम् इत्य् अनुवर्तते । विंशतिभगः शुल्कः पण्य इत्य् उक्तम् । ततः शुल्काद् अधिकम् इदं मासि साम्स्य् एकं पण्यम् अर्थापचयेन प्राप्तस्य मूल्यस्य किंचिन् न्यूनतां कल्पयित्वा वणिजो राज्ञे दद्युः । तत्र बृहस्पतिः ।
शुल्कं ददुस् ततो मासम् एकैकं पण्यम् एव च ।
अर्धावरं च मूल्येन वणिजस् ते पृथक् पृथक् ॥ इति ॥ १०।३४ ॥
विश्वास-प्रस्तुतिः
प्रनष्टम् अस्वामिकम् अधिगम्य राज्ञे
प्रब्रूयुः ॥ १०।३६ ॥
मूलम्
प्रनष्टम् अस्वामिकम् अधिगम्य राज्ञे
प्रब्रूयुः ॥ १०।३६ ॥
हरदत्तः
प्रनष्ट स्वामिसकाशात् प्रभ्रष्टम् । अस्वामिकम् अज्ञायमानस्वामिकम् । अधिगम्य भूमौ पतितम् उपलभ्य जनपदपालने नियुक्ता एते राज्ञे प्रब्रूयुः । अन्ये वा केचिद् दृष्टवन्तस् ते ऽपि ब्रूयुः ॥ १०।३६ ॥
हरदत्त-प्रस्तावः
ततः किं कर्तव्यं राज्ञा ।
विश्वास-प्रस्तुतिः
विख्याप्य संवत्सरं राज्ञा रक्ष्यम् ॥ १०।३७ ॥
मूलम्
विख्याप्य संवत्सरं राज्ञा रक्ष्यम् ॥ १०।३७ ॥
हरदत्तः
विख्याप्य – इदम् एवंजातीयकं वस्त्वासादितं रक्ष्यते । यस्यैतत् स आगच्छतु, इति नगरे पटहेन घोषयित्वा संवत्सरं रक्ष्यम् । प्राक् चेत् संवत्सरात् स्वाम्य् आगच्छति ततो लक्षणानि पृष्ट्वा साम्यं चेत् तत् तस्मै देयम् । वैषम्ये स दण्ड्यः । तथा च याज्ञवल्क्यः ।
प्रनष्टाधिगतं देयं नृपेण धनिने धनम् ।
विभावयेन् न चेल् लिङ्गैस् तत्समं दण्डम् अर्हति ॥ इति ।
एवम् अधिगम्याप्र्ब्रुवतो दण्ड्याः ॥ १०।३७ ॥
हरदत्त-प्रस्तावः
अथ संवत्सराद् ऊर्ध्वं किं कार्यम् इत्य् आह ।
विश्वास-प्रस्तुतिः
ऊर्ध्वम् अधिगन्तुश् चतुर्थं राज्ञः शेषः ॥ १०।३८ ॥
मूलम्
ऊर्ध्वम् अधिगन्तुश् चतुर्थं राज्ञः शेषः ॥ १०।३८ ॥
हरदत्तः
येनाधिगम्याख्यातं तस्मै चतुर्थम् अंशं दत्वा शेषो राज्ञा ग्राह्यः ॥ १०।३८ ॥
विश्वास-प्रस्तुतिः
स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु
॥ १०।३९ ॥
मूलम्
स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु
॥ १०।३९ ॥
हरदत्तः
रिक्थं पित्रादीनाम् अभावे प्राप्तम् । क्रयो मूल्येन स्वीकारः । संविभागो भ्रात्रादीनां साधारणस्य परस्परविभागः । परिग्रहो वन्येष्व् अस्वामिकेषु वृक्षादिषु पूर्वस्वीकारः । अधिगमः प्रनष्टस्याज्ञातस्वामिकस्य निध्यादेः स्वीकारः । एतेषु कारणेषु द्रव्यस्वीकर्ता स्वामी भवति । तेन प्रनष्टो ऽधिगते राज्ञो ऽधिगन्तुश् च स्वाम्यम् उपपन्नम् इति प्रकरणसंगतिः । क्षेत्रेषूत्पन्नानि सस्यादीनि क्षेत्रवद् एव क्षेत्रवतः स्वानि । एतेनाकरेषूत्पन्नं लवणादि व्याख्यातम् । एतानि सर्ववर्णसाधारणानि स्वाम्यकारणानि ॥
॥ १०।३९ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणस्याधिकं लब्धम् ॥ १०।४० ॥
मूलम्
ब्राह्मणस्याधिकं लब्धम् ॥ १०।४० ॥
हरदत्तः
यल् लब्धं दानरूपेण तद् ब्राह्मणस्याधिकं स्वाम्यमूलम् ॥ १०।४० ॥
विश्वास-प्रस्तुतिः
क्षत्रियस विजितम् ॥ १०।४१ ॥
मूलम्
क्षत्रियस विजितम् ॥ १०।४१ ॥
हरदत्तः
विजयेन लब्धं क्षत्रियस्याधिकं स्वम् ॥ १०।४१ ॥
विश्वास-प्रस्तुतिः
निर्विष्टं वैश्यशूद्रयोः ॥ १०।४२ ॥
मूलम्
निर्विष्टं वैश्यशूद्रयोः ॥ १०।४२ ॥
हरदत्तः
निर्विष्टं कर्मणोपात्तम् । कृष्यादिना वैश्यस्य शुश्रूषादिना शूद्रस्य । तद् अधिकम् अनयोः ॥ १०।४२ ॥
हरदत्त-प्रस्तावः
अथ प्रनष्टाधिगताधिगन्तुश् चतुर्थम् इत्य् अस्यापवादम् आह ।
विश्वास-प्रस्तुतिः
निध्यधिगमो राजधनम् ॥ १०।४३ ॥
मूलम्
निध्यधिगमो राजधनम् ॥ १०।४३ ॥
हरदत्तः
निधिश् चेद् अघिगतस् तद् राजधनम् एव भवति । अधिगन्त्रे ऽनुग्रहानुरूपं किंचिद् देयम् इति ॥ १०।४३ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणस्याभिरूपस्य ॥ १०।४४ ॥
मूलम्
ब्राह्मणस्याभिरूपस्य ॥ १०।४४ ॥
हरदत्तः
अभिरूपः षट्कर्मनिरतः । तस्य ब्राह्मणस्य चेन् निध्यधिगमो न तद् राजधनं किं तर्ह्य् अधिगन्तुर् ब्राह्मणस्यैवेति ॥ १०।४४ ॥
विश्वास-प्रस्तुतिः
अब्राह्मणो ऽप्य् आख्याता षष्ठं लभेतेत्य् एके ॥ १०।४५ ॥
मूलम्
अब्राह्मणो ऽप्य् आख्याता षष्ठं लभेतेत्य् एके ॥ १०।४५ ॥
हरदत्तः
अब्राह्मणो ऽपि निधिम् अधिगम्य यद्य् आचष्ट इदम् इत्थम् आसादितम् इति स तस्य निधेः षष्टं लभेतेय् एके स्मर्तारो मन्यन्ते । ब्राह्मने ऽनभिरूपे कल्प्यः ॥ १०।४५ ॥
विश्वास-प्रस्तुतिः
चौरहृतम् अपजित्य यथास्थानं गमयेत् ॥ १०।४६ ॥
मूलम्
चौरहृतम् अपजित्य यथास्थानं गमयेत् ॥ १०।४६ ॥
हरदत्तः
चौरैर् हृतं द्रव्यं तान् अपजित्य यथास्थानं गमयेत् । स्वामिन एव दद्यात् । जेतुस् तु जयफलं किंचित् ॥ १०।४६ ॥
विश्वास-प्रस्तुतिः
कोशाद् वा दद्यात् ॥ १०।४७ ॥
मूलम्
कोशाद् वा दद्यात् ॥ १०।४७ ॥
हरदत्तः
यद्य् अन्विष्यापि चोरा न दृष्टास् त एव वा जित्वा गतास् तदा स्वकोशाद् आदाय तावद् धनं स्वामिने दद्याद् यावद् अपहृतं चौरैर् इति ॥ १०।४७ ॥
विश्वास-प्रस्तुतिः
रक्ष्यं बालधनम् आ व्यवहारप्रापणात् ॥ १०।४८ ॥
मूलम्
रक्ष्यं बालधनम् आ व्यवहारप्रापणात् ॥ १०।४८ ॥
हरदत्तः
बालो ऽप्रात्पषोडशवर्षः । तस्य यदि हितैषिणो रक्षकाश् च पित्रादयो न सन्ति सन्तो वा मूर्खाश् चाधार्मिकाश् च तदा तद्धनं राज्ञा रक्ष्यम् । आ कुतः । व्यवहारपापणात् । यावद् असौ व्यवहारप्राप्तः षोडशवर्षो भवति ॥ १०।४८ ॥
विश्वास-प्रस्तुतिः
समावृत्तेर् वा ॥ १०।४९ ॥
मूलम्
समावृत्तेर् वा ॥ १०।४९ ॥
हरदत्तः
आङ् अनुवर्तते । अधीतवेदस्य गुरुकुलान् निवृत्तिः समावृत्तिः । आ वा तस्या इति ॥ १०।४९ ॥
हरदत्त-प्रस्तावः
एवं राज्ञो ऽधिकं स्वत्वमूलम् उक्तम् । सांप्रथं वैश्यस्याह ।
विश्वास-प्रस्तुतिः
वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् ॥ १०।५० ॥
मूलम्
वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् ॥ १०।५० ॥
हरदत्तः
कृषिः प्रसिद्धा । वणिग् इति वाणिज्यम् । पशुपालस्य कर्म पाशुपाल्यम् । कुसीदं वृद्ध्यर्थो धनप्रयोगः । कृष्यादिभिर् यल् लब्धं तद् अधिकं स्वं वैश्यस्य ॥ १०।५० ॥
विश्वास-प्रस्तुतिः
शूद्रश् चतुर्थो वर्ण एकजातिः ॥ १०।५१ ॥
मूलम्
शूद्रश् चतुर्थो वर्ण एकजातिः ॥ १०।५१ ॥
हरदत्तः
चतुर्थो वर्ण इति । वर्णसामान्यत्वे सत्य् अपि चतुर्थग्रहणं पूर्वेषां त्रयाणां ब्राह्मणादिवर्णानां पृथग्वर्णत्वोपपादनार्थम् । त्रैवर्णिका अपि सिद्धत्वाद् एकजतिर् उपनयनं पूर्वेषां द्वितीयजन्म तद् अस्य नास्तीति । उपनयनप्रतिषेधात् तत्पूर्वकम् अध्ययनम् अपि न भवति । तद्विषये गृह्यकार आह: “शूद्रस्यापि निषेकपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलान्य् अमन्त्रकाणि यथाकालम् उपदिष्टानि” इति । विवाहो ऽप्य् अमन्त्रको यथाचारं भवति ॥ १०।५१ ॥
विश्वास-प्रस्तुतिः
तस्यापि सत्यम् अक्रोधः शौचम् ॥ १०।५२ ॥
मूलम्
तस्यापि सत्यम् अक्रोधः शौचम् ॥ १०।५२ ॥
हरदत्तः
उपनयनाध्ययनरहितत्वे ऽपि यथावृत्तिकत्वं मा भूद् इति तस्यापि शूद्रस्य सत्यादयो धर्मा भवन्ति । सत्यं यथादृष्टार्थवादित्वम् । अक्रोधः परानभिद्रोहबुद्धिः । शौचं पूर्वोक्तद्रव्यशौचं मनः शौचम् इत्यादि । वसिष्ठस् तु: “सर्वेषां सत्यम् अक्रोधो दानम् अहिंसा प्रजननं च” इति ॥ १०।५२ ॥
विश्वास-प्रस्तुतिः
आचमनार्थे पाणिपादप्रक्षालनम् एवैके ॥ १०।५३ ॥
मूलम्
आचमनार्थे पाणिपादप्रक्षालनम् एवैके ॥ १०।५३ ॥
हरदत्तः
पूर्वेषां वर्णानां यत्राचमनम् उक्तं तस्मिन् विषये शूद्रस्य पाणिपादप्रक्षालनम् एव भवति नान्य आचमनकल्प इत्य् एके मन्यन्ते । मनुस् तु सकृद् अम्बुपानम् इच्छति: “स्त्रीशूद्रौ तु सकृत् सकृत्” इति । नित्यस्नानविषये तु उशना: “सच्छूद्रः स्नायाद् असच्छूद्रः पाणिपादं प्रक्षालयेत्” इति ॥ १०।५३ ॥
विश्वास-प्रस्तुतिः
श्राद्धकर्म ॥ १०।५४ ॥
मूलम्
श्राद्धकर्म ॥ १०।५४ ॥
हरदत्तः
अमावास्यायाम् इत्य् आरभ्य यच् छ्राद्धकर्म वक्ष्यते तद् अपि शूद्रस्य कर्तव्यं मन्त्रवर्जम् ॥ १०।५४ ॥
विश्वास-प्रस्तुतिः
भृत्यभरणम् ॥ १०।५५ ॥
मूलम्
भृत्यभरणम् ॥ १०।५५ ॥
हरदत्तः
भृत्यो भरणीयः पोष्यवर्गः । तस्य च भरणं कर्तव्यम् । तेन तदनुरूपम् अर्थार्जनम् अप्य् अस्य कर्तव्यम् इति ॥ १०।५५ ॥
विश्वास-प्रस्तुतिः
स्वदारवृत्तिः ॥ १०।५६ ॥
मूलम्
स्वदारवृत्तिः ॥ १०।५६ ॥
स्वेष्व् एव दारेष्व् अस्य वृत्तिः । सजातीयेष्व् अपि परदारेषु वेश्यासु च प्रसञ्जन् दण्ड्य इति । अपर आह – स्वदारवृत्तिर् एवास्य भवति नाश्रमान्तरप्राप्तिर् इति ॥ १०।५६ ॥
विश्वास-प्रस्तुतिः
परिचर्या चोत्तरेषाम् ॥ १०।५७ ॥
मूलम्
परिचर्या चोत्तरेषाम् ॥ १०।५७ ॥
हरदत्तः
उत्तरेषां त्रयाणां वर्णानां परिचर्या शुश्रूषा च ॥ १०।५७ ॥
हरदत्त-प्रस्तावः
सैषा वृत्त्यर्थेत्य् आह ।
विश्वास-प्रस्तुतिः
तेभ्यो वृत्तिर् लिप्सेत ॥ १०।५८ ॥
मूलम्
तेभ्यो वृत्तिर् लिप्सेत ॥ १०।५८ ॥
हरदत्तः
तेभ्यः परिचरितेभ्यो जीवनं लिप्सेत ॥ १०।५८ ॥
विश्वास-प्रस्तुतिः
तत्र पूर्वं पूर्वं परिचरेत् ॥ १०।५९ ॥
मूलम्
तत्र पूर्वं पूर्वं परिचरेत् ॥ १०।५९ ॥
हरदत्तः
तथा च आपस्तम्बः: “पूर्वस्मिन् पूर्वस्मिन् वर्णे निःश्रेयसं भूयः” इति [आप्ध् १।१।८] । तद् एवं यथा याजनाध्यापनप्रतिग्रहेषु ब्राह्मणस्य प्रतिग्रहो मुख्या वृत्तिस् तथा शूद्रस्य परिचर्या । तत्रापि पूर्वस्मिन् पूर्वस्मिन् वर्ण इति ॥ १०।५९ ॥
विश्वास-प्रस्तुतिः
जीर्णान्य् उपानच्छत्रवासःकूर्चादीनि ॥ १०।६० ॥
मूलम्
जीर्णान्य् उपानच्छत्रवासःकूर्चादीनि ॥ १०।६० ॥
हरदत्तः
कूर्चं तृणादि । शेषं प्रसिद्धम् । जीर्णान्य् उपभुक्तान्य् उपानदादीनि परिचरते शूद्राय देयानि । अयं तु शुश्रूषावृत्तेः शूद्रस्य नियमो न गृहस्थवृत्तेः । तस्य तु वृत्त्यनपक्षं सामान्याकारेण विशेषत्वम् ॥ १०।६० ॥
हरदत्त-प्रस्तावः
पुनः प्रकृतम् अनुसरति ।
विश्वास-प्रस्तुतिः
उच्छिष्टाशनम् ॥ १०।६१ ॥
मूलम्
उच्छिष्टाशनम् ॥ १०।६१ ॥
भोजनपात्रे यद् भुक्तावशिष्टं तद् अस्याशनम् । नाब्राह्मणायोच्छिष्टं प्रयच्छेद् इत्य् एतत् तु दासविषयम् । गृहस्थशूद्रविषयम् अन्ये । तथा च व्याघ्रः ।
उच्छिष्टम् अन्नं दातव्यं शूद्रायागृहमेधिने ।
गृहस्थाय तु दातव्यम् अनुच्छिष्टं दिने दिने ॥ इति ॥ १०।६१ ॥
विश्वास-प्रस्तुतिः
शिल्पवृत्तिश् च ॥ १०।६२ ॥
मूलम्
शिल्पवृत्तिश् च ॥ १०।६२ ॥
हरदत्तः
शिल्पानि चित्रकर्मादीनि । तैर् अप्य् अयं वर्तेत । अत्र मानवो विशेषः ।
अशक्नुवंस् तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।
पुत्रदाराद्ययं प्राप्तो जीवेत् कारुककर्मभिः ॥ इति ॥ १०।६२ ॥
विश्वास-प्रस्तुतिः
यं चायम् आश्रयेद् भर्तव्यस् तेन क्षीणो ऽपि ॥ १०।६३ ॥
मूलम्
यं चायम् आश्रयेद् भर्तव्यस् तेन क्षीणो ऽपि ॥ १०।६३ ॥
हरदत्तः
परिचर्यया वर्तमानः शूद्रो यदि क्षीणः कर्म कर्तुम् असमर्थो भवति तथापि (तदापि) यम् असौ पूर्वम् आश्रितः कर्माण्य् अकरोत् तेनासौ भर्तव्यः । पूर्वकृतापेक्षया ॥ १०।६३ ॥
विश्वास-प्रस्तुतिः
तेन चोत्तरः ॥ १०।६४ ॥
मूलम्
तेन चोत्तरः ॥ १०।६४ ॥
हरदत्तः
तेन च शूद्रेणोत्तरो वृत्तिक्षीणो भर्तव्यः शिल्पादिभिः । पूर्वकृतापेक्षयैव । अत्र जातूकर्ण्यः ।
यो नीचम् आश्रयेद् आर्य आत्मानं दर्शयेत् सदा ।
आत्मानं दासवत् कृत्वा चरेन् नीचो ऽपि तं प्रति ॥
दरिद्रो ब्राह्मणो दान्तो वेदानां चैव पारगः ।
शूद्रेणापि सदाप्य् एष भर्तव्यो ऽनाश्रितो ऽपि सन् ॥
बिभृयाद् ब्राह्मणं नित्यं सर्वयत्नेन बुद्धिमान् ।
अन्यं चाप्य् आनृशंस्यार्थं शूद्रो ऽपि द्रव्यवान् भवेत् ॥ इति ॥ १०।६४ ॥
विश्वास-प्रस्तुतिः
तदर्थो ऽस्य निचयः स्यात् ॥ १०।६५ ॥
मूलम्
तदर्थो ऽस्य निचयः स्यात् ॥ १०।६५ ॥
हरदत्तः
अस्य शूद्रस्य निचयो ऽर्थसंचयस् तदर्थः स्यात् तस्योत्तरस्य पोषणार्थः स्यात् । पूर्वसूत्रस्य हेतुर् अयम् ॥ १०।६५ ॥
विश्वास-प्रस्तुतिः
अनुज्ञातो ऽस्य नमस्कारो मन्त्रः ॥ १०।६६ ॥
मूलम्
अनुज्ञातो ऽस्य नमस्कारो मन्त्रः ॥ १०।६६ ॥
हरदत्तः
अस्य शूद्रस्य वैश्वदेवदिषु तत्तद्देवतापदं चतुर्थ्यन्तं मनसा ध्यात्वा नमो नम इत्य् एवंरूपो मन्त्रो ऽनुज्ञातो धर्मज्ञैः । अपर आह ।
देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यम् एव नमो नमः ॥
इत्य् अयं मन्त्रो नमस्कारशब्देन विवक्षितः । स पित्र्येषु कर्मसु भवति । तच् चाह गृह्यकारः: “ब्राह्मणान् उपवेश्य देवतादिकं मन्त्रं जपेत्” ॥ १०।६६ ॥
विश्वास-प्रस्तुतिः
पाकयज्ञैः स्वयं यजेत्य् एके ॥ १०।६७ ॥
मूलम्
पाकयज्ञैः स्वयं यजेत्य् एके ॥ १०।६७ ॥
हरदत्तः
पक्वगुणकेष्व् अपक्वगुणकेषु च गार्ह्येषु कर्मसु पाकयज्ञशब्दः प्रसिद्धः । यथाह आपस्तम्बः: “लौकिकानां पाकयज्ञशब्दः” इति ॥ १०।६७ ॥
विश्वास-प्रस्तुतिः
सर्वे चोत्तरोत्तरं परिचरेयुः ॥ १०।६८ ॥
मूलम्
सर्वे चोत्तरोत्तरं परिचरेयुः ॥ १०।६८ ॥
सर्व एव वैश्यादयो ऽप्य् उत्तरम् उत्तरं वर्णं परिचरेयुर् न केवलं शूद्र एव ब्राह्मणस्य तूत्तरो नास्ति । मध्ये क्षत्रियवैश्यौ । तथापि सर्वशब्दे बहुवचनम् अवान्तरप्रभवाणां ग्रहणार्थम् । अपर आह – समाने ऽपि वर्णे यो यो ऽपि गुणत उत्तरस् तं तम् अवरो ऽवरः परिचरेद् इत्य् एवमर्थम् ॥ १०।६८ ॥
विश्वास-प्रस्तुतिः
आर्यानार्ययोर् व्यतिक्षेपे कर्मणः साम्यं
साम्यम् ॥ १०।६९ ॥
मूलम्
आर्यानार्ययोर् व्यतिक्षेपे कर्मणः साम्यं
साम्यम् ॥ १०।६९ ॥
हरदत्तः
आर्यस् त्रैवर्णिकः । अनार्यः शूद्रः । तयोः कर्मण आचारस्य व्यतिक्षेपे व्यत्यासे सति तयोः साम्यम् एव भवति न परिचार्यपरिचारकभावः । ब्राह्मणादिर् अप्य् अनार्यकर्मा चेन् न शूद्रेण परिचरणीयः । शूद्रो ऽप्य् आर्यकर्मा चेद् अनार्यकर्भिर् इतरैर् जात्यपकर्षेण नावमन्तव्य इति । एतेन ब्राह्मणक्षत्रियौ क्षत्रियवैश्यौ न व्याख्यातौ । [अभ्यासो ऽध्यायसमाप्त्यर्थः] ॥ १०।६९ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने दशमो ऽध्यायः