०९

अथ नवमो ऽध्यायः

विश्वास-प्रस्तुतिः

स विधिपूर्वकं स्नात्वा भार्याम् अधिगम्य यथोकान्
गृहस्थधर्मान् प्रयुञ्जान इमानि व्रतान्य्
अनुकर्षेत् ॥ ९।१ ॥

मूलम्

स विधिपूर्वकं स्नात्वा भार्याम् अधिगम्य यथोकान्
गृहस्थधर्मान् प्रयुञ्जान इमानि व्रतान्य्
अनुकर्षेत् ॥ ९।१ ॥

हरदत्तः

तच्छब्देन पूर्वाध्यायोक्तराजा ब्राह्मणश् च परामृश्यते । वैश्यस्य तु स्नातकविषये विशेषं वक्ष्यति । विधिपूर्वं विधिं पुरस्कृत्य स्नात्वा वेदव्रतानि पारं नीत्वा समावर्तनं क्र्त्वा भार्याम् अधिगम्य विवाहं कृत्वा तदनन्तरं यथिकान् अतिथिपूजादिगृहस्थधर्मान् अनुतिष्ठन्न् इमान्य् अपि वक्ष्यमाणानि व्रतान्य् अनुकर्षेत् । आत्मानं प्रापयेद् अनुतिष्ठेद् इति ॥ ९।१ ॥

विश्वास-प्रस्तुतिः

स्नातकः ॥ ९।२ ॥

मूलम्

स्नातकः ॥ ९।२ ॥

हरदत्तः

चलोपो द्रष्टव्यः । स्नातकश् चैतानि गृहस्थव्रतान्य् अनुतिष्ठेत् । ब्रह्मचर्यान् निवृत्तत्वाद् गार्हस्थ्यव्यतिरिक्ताश्रमान्तरभावाच् च भार्याधिगमाद् ऊर्ध्वम् इति पूर्वसूत्रम् आरब्धम् । स्नातकस्य तु भार्याधिगमासंभवे यावज्जीवं गृहस्थधर्मा एवानुष्ठेया इति सूत्रान्तरम् आरब्धम् । एतच् च राजब्राह्मणयोर् एव स्नातकव्रतानुष्ठानं तदतिक्रमे प्रायश्चित्तं च विधीयते । तथा च स्मृत्यन्तरम्: “राजब्राह्मणयोर् एव नेतरेषां कथंचन” इति ॥ ९।२ ॥

हरदत्त-प्रस्तावः

कानि पुनस् तानि व्रतानि ।

विश्वास-प्रस्तुतिः

नित्यं शुचिः सुगन्धिः स्नानशीलः ॥ ९।३ ॥

मूलम्

नित्यं शुचिः सुगन्धिः स्नानशीलः ॥ ९।३ ॥

हरदत्तः

आचमनादिना नित्यं शुचिः शक्तिविषये न मुहूर्तम् अप्य् अप्रयतः स्यात् । सुगन्धिश् चन्दनाद्यनुलिप्तेन सुरभिताङ्गः । यद् वा गन्धः शीलं सुशीलः स्याद् इति । स्नानशीलो नित्यस्नायी स्यात् । अत्र स्नातकविषये वसिष्ठः ।

स्नातकानां तु नित्यं स्याद् अन्तर्वासस् तथोत्तरम् ।
यज्ञोपवीते द्वे यष्टिः सोदकश् च कमण्डलुः ॥ इति ।

मनुः ।

वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ इति ।

वेदो धभमुष्टिः ॥ ९।३ ॥

विश्वास-प्रस्तुतिः

सति विभवे न जीर्णमलवद्वासाः स्यात् ॥ ९।४ ॥

मूलम्

सति विभवे न जीर्णमलवद्वासाः स्यात् ॥ ९।४ ॥

हरदत्तः

विभवे ऽन्यस्य संभवे सति जीर्णं मलवच् च वासो न धारयेत् ॥ ९।४ ॥

विश्वास-प्रस्तुतिः

न रक्तम् उल्बणम् अन्यधृतं वासो बिभृयात् ॥ ९।५ ॥

मूलम्

न रक्तम् उल्बणम् अन्यधृतं वासो बिभृयात् ॥ ९।५ ॥

हरदत्तः

कुसुम्भादिरागयुक्तम् उल्बणं बहुमूल्यम् अन्यधृतं गुरुवर्जम् अन्यैः पूर्वधृतम् एवाम्विधानि वासांसि न धारयेत् । सति विभव इत्य् अनुवर्तते ॥ ९।५ ॥

विश्वास-प्रस्तुतिः

न स्रगुपानहौ ॥ ९।६ ॥

मूलम्

न स्रगुपानहौ ॥ ९।६ ॥

हरदत्तः

स्रगुपानहाव् अप्य् अन्यधृते न धारयेत् ॥ ९।६ ॥

विश्वास-प्रस्तुतिः

निर्णिक्तम् अशक्तौ ॥ ९।७ ॥

मूलम्

निर्णिक्तम् अशक्तौ ॥ ९।७ ॥

हरदत्तः

अन्यस्यालाभो ऽशक्तिः । अशक्ताव् अन्यधृतं वासः स्रगुपानहौ च निर्णिज्य धारयेत् । तत्र वासोनिर्णेजनम् ऊषरोदके पक्वं कार्यम् ॥ ९।७ ॥

विश्वास-प्रस्तुतिः

न रूढश्मश्रुर् अकस्मात् ॥ ९।८ ॥

मूलम्

न रूढश्मश्रुर् अकस्मात् ॥ ९।८ ॥

हरदत्तः

श्मश्रुग्रहणं नखादीनाम् अप्य् उपलक्षणार्थम् । अकारणान् न रूढश्मश्रुः स्यात् । कारणे सति रूढश्मश्रुः स्यात् । कारणं तु स्मृत्यन्तरे पठितम् ।

षष्ठाब्दे षोडशाब्दे च विवाहाब्दे तथैव च ।
अन्तर्वत्न्यां च जायायां क्षौरकर्म विवर्जयेत् ॥ इति ।

वपनस्यापि “गङ्गायां भास्करक्षेत्रे” इत्यादिना चोदितकालत्वात् कथं तर्हि स्यात् । तत्र मनुः” “कॢप्तकेशनखश्मश्रुः” इति कल्पना कर्तनेन समीकरणम् । याज्ञवल्क्यश् च ।

शुक्लाम्बरधरो नीचकेशश्मरुनखः शुचिः । इति ॥ ९।८ ॥

विश्वास-प्रस्तुतिः

नाग्निम् अपश् च युगपद् धारयेत् ॥ ९।९ ॥

मूलम्

नाग्निम् अपश् च युगपद् धारयेत् ॥ ९।९ ॥

हरदत्तः

एकेन हस्तेनाग्निम् अपरेणापश् च युगपन् न धारयेत् । अत्र व्याघ्रो विशेषम् आह ।

न धारेयेद् अपश् चाग्निम् अपश् चान्नं तथैव च ।
युगपत् स्नातको नित्यं तद्भार्यापि तथैव च ॥ इति ॥ ९।९ ॥

विश्वास-प्रस्तुतिः

नाञ्जलिना पिबेत् ॥ ९।१० ॥

मूलम्

नाञ्जलिना पिबेत् ॥ ९।१० ॥

हरदत्तः

यत् किंचित् क्षीरोदकादि पेयम् अञ्जलिना न पिबेत् । संयुक्तौ हस्ताव् अञ्जलिः ॥ ९।१० ॥

विश्वास-प्रस्तुतिः

न तिष्ठन्न् उद्धृतोदकेनाचामेत् ॥ ९।११ ॥

मूलम्

न तिष्ठन्न् उद्धृतोदकेनाचामेत् ॥ ९।११ ॥

हरदत्तः

उद्धृतोदकेन तिष्ठन् नाचामेत् । आसीन एवाचामेत् । उद्धृतोदकेनेति वचनात् तटाकादिषु तीरप्रदेशस्यासुचित्वे जानुदघ्ने जले तिष्ठतो ऽप्य् आचमनम् अप्रतिषिद्धम् । आचारो ऽप्य् एवम् एव शिष्टानाम् ॥ ९।११ ॥

विश्वास-प्रस्तुतिः

न शूद्राशुच्येकपाण्यावर्जितेन ॥ ९।१२ ॥

मूलम्

न शूद्राशुच्येकपाण्यावर्जितेन ॥ ९।१२ ॥

हरदत्तः

शूद्रेण शुचिनाप्य् अस्पृश्यस्पर्शादिदूषितेन द्विजेनाप्य् एकेन पाणिना च यद् आवर्जितं तेनोदकेन नाचामेत् । स्वयं तु वामहस्तावर्जितेनोदकेनाचमनविषय एकपाण्यावर्जितत्वं समानम् इति चेन्, न, हस्तद्वयस्याप्य् आचमनकर्मसंबन्धात् तथा च शिष्टाचारदर्शनात् ॥ ९।१२ ॥

विश्वास-प्रस्तुतिः

न वाय्वग्निविप्रादित्यापो देवता गाश् च प्रति पश्यन् वा
मूत्रपुरीषामेध्यान् व्युदस्येत् ॥ ९।१३ ॥

मूलम्

न वाय्वग्निविप्रादित्यापो देवता गाश् च प्रति पश्यन् वा
मूत्रपुरीषामेध्यान् व्युदस्येत् ॥ ९।१३ ॥

हरदत्तः

अप्शब्दान्ते द्वन्द्व आर्षत्वात् समासान्तो न कृतः । अनित्याः समासान्ता इति केषांचित् पक्षः । देवताः प्रतिमाः । वाय्वादीन् प्रति मूत्रादीनि न व्युदस्येत् पश्यन् वा न कुर्याद् इति प्रतिपश्यन् वेत्य् अर्थः । प्रति न कुर्याद् इत्य् आभिमुख्यवर्जनम् । पश्यन् न कुर्याद् इति नियमाद् आभिमुख्ये सत्य् अप्य् अनवलोकनम् । मूत्रपुरीषयोः पृथग् उपादानाद् अमेध्यशब्देन निष्ठीवनोच्छिष्टादि विवक्षितम् । तर्ह्य् अमेध्यशब्देनैवालम् । मूत्रपुरीषग्रहणं तु तयोर् अतिशयेन वर्जनार्थम् ॥ ९।१३ ॥

विश्वास-प्रस्तुतिः

नैता देवताः प्रति पादौ प्रसारयेत् ॥ ९।१४ ॥

मूलम्

नैता देवताः प्रति पादौ प्रसारयेत् ॥ ९।१४ ॥

हरदत्तः

एता वाय्वाद्या देवताः प्रति पादौ न प्रसारयेत् । पादाव् इत्य् उपलक्षणं पादं च न प्रसारयेत् । गोषु विप्रेषु च देवतापदप्रयोगस् तद्वद् उपचारार्थः ॥ ९।१४ ॥

विश्वास-प्रस्तुतिः

न पर्णलोष्टास्वभिर् मूत्रपुरीषापकर्षणं
कुर्यात् ॥ ९।१५ ॥

मूलम्

न पर्णलोष्टास्वभिर् मूत्रपुरीषापकर्षणं
कुर्यात् ॥ ९।१५ ॥

हरदत्तः

न पर्णादिभिर् मूत्रपुरीषयोर् कर्षणम् अपमार्जनं कुर्यात् । अन्यैस् तु कुर्याद् इति ॥ ९।१५ ॥

विश्वास-प्रस्तुतिः

न भस्मकेशनखतुषकपालमेधान्य्
अधितिष्ठेत् ॥ ९।१६ ॥

मूलम्

न भस्मकेशनखतुषकपालमेधान्य्
अधितिष्ठेत् ॥ ९।१६ ॥

हरदत्तः

भस्मादीनि नाक्रामेत् । तुषा व्रीह्यादीनां त्वचः । अन्ये प्रसिद्धाः । तेषाम् उपरि न तिष्ठेत् । अधितिष्ठेद् इत्य् अनेन यादृच्छिकस्पर्शमात्रे न दोषः ॥ ९।१६ ॥

विश्वास-प्रस्तुतिः

न म्लेच्छाशुच्यधामिकैः सह संभाषेत ॥ ९।१७ ॥

मूलम्

न म्लेच्छाशुच्यधामिकैः सह संभाषेत ॥ ९।१७ ॥

हरदत्तः

वर्णाश्रमधर्मरहिते देशे सिंहलद्वीपादौ ये वसन्ति ते म्लेच्छाः । अशुचय आर्या अपि विहितानि संध्यावन्दनादीनि ये न कुर्वन्ति ते तथोक्ताः । अधार्मिकाः पतितादयस् तैः सह न संभाषेत । संशब्दप्रयोगाद् एव सिद्धे सहग्रहणं तैः सहैककार्यो भूत्वा न संभाषेतेत्य् एवमर्थम् । तेन मार्गप्रश्नादौ न दोषः ॥ ९।१७ ॥

विश्वास-प्रस्तुतिः

संभाष्य पुण्यकृतो मनसा ध्यायेत् ॥ ९।१८ ॥

मूलम्

संभाष्य पुण्यकृतो मनसा ध्यायेत् ॥ ९।१८ ॥

हरदत्तः

यदि कारणवशात् तैः सह संभाषेत ततः पुण्यकृतो वसिष्ठादीन् मनसा ध्यायेत् । मनसेति ध्यानस्वभावानुवादः ॥ ९।१८ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणेन वा सह संभाषेत ॥ ९।१९ ॥

मूलम्

ब्राह्मणेन वा सह संभाषेत ॥ ९।१९ ॥

हरदत्तः

प्रकरणाद् ब्राह्मणो ऽपि पुण्यकृद् एव ॥ ९।१९ ॥

विश्वास-प्रस्तुतिः

अधेनुं धेनुभव्येति ब्रूयत् ॥ ९।२० ॥

मूलम्

अधेनुं धेनुभव्येति ब्रूयत् ॥ ९।२० ॥

हरदत्तः

धेनुः पयस्विनी गौः । अधेनुस् तद्विपरीता । ताम् अपि धेनुभव्येति ब्रूयान् न पुनर् अधेनुर् इति ॥ ९।२० ॥

विश्वास-प्रस्तुतिः

अभद्रं भद्रम् इति ॥ ९।२१ ॥

मूलम्

अभद्रं भद्रम् इति ॥ ९।२१ ॥

हरदत्तः

अभद्रम् अपि वस्तु भद्रम् इत्य् एव ब्रूयत् ॥ ९।२१ ॥

विश्वास-प्रस्तुतिः

कपालं भगालम् इति ॥ ९।२२ ॥

मूलम्

कपालं भगालम् इति ॥ ९।२२ ॥

हरदत्तः

कपालं ब्रुवन् भगालम् इति ब्रूयात् ॥ ९।२२ ॥

विश्वास-प्रस्तुतिः

मणिधनुर् इतीन्द्रधनुः ॥ ९।२३ ॥

मूलम्

मणिधनुर् इतीन्द्रधनुः ॥ ९।२३ ॥

हरदत्तः

इन्द्रधनुर् इति ब्रुवन् मणिधनुर् इति ब्रूयात् ॥ ९।२३ ॥

विश्वास-प्रस्तुतिः

गां धयन्तीं परस्मै नाचक्षीत ॥ ९।२४ ॥

मूलम्

गां धयन्तीं परस्मै नाचक्षीत ॥ ९।२४ ॥

हरदत्तः

धेट् पाने । व्यत्ययेनायं कर्मणि कर्तृप्रत्ययः । वत्सेन धीयमानां गां परस्मै स्वामिने न ब्रूयात् । यस्य हविषे वत्सा अपाकृता धयेयुर् इत्यादिके निमित्ते त्व् आख्यातव्यम् एव “संसृष्टां च वत्सेन” [आप्ध् १।३१।१०] इत्य् आपस्तम्बीये विशेषात् ॥ ९।२४ ॥

विश्वास-प्रस्तुतिः

न चैनां वरयेत् ॥ ९।२५ ॥

मूलम्

न चैनां वरयेत् ॥ ९।२५ ॥

हरदत्तः

न च स्वयम् अप्य् एनां वारयेद् इति ॥ ९।२५ ॥

विश्वास-प्रस्तुतिः

न मिथुनी भूत्वा शौचं प्रति विलम्बेत ॥ ९।२६ ॥

मूलम्

न मिथुनी भूत्वा शौचं प्रति विलम्बेत ॥ ९।२६ ॥

हरदत्तः

मिथुनीभूय श्त्रियम् उपगम्य शौचं प्रति न विलम्बेत । तत्क्षण एव कुर्यत् । शौचं त्व् आपस्तम्बेनाभिहितम्: “उदकोपस्पर्शनम् अपि वा लेपान् प्रक्षाल्याचम्य प्रोक्षणम् अङ्गानाम्” इति [आप्ध् २।१२३; २।२।१] ॥ ९।२६ ॥

विश्वास-प्रस्तुतिः

न च तस्मिन् शयने स्वाध्यायम् अधीयीत ॥ ९।२७ ॥

मूलम्

न च तस्मिन् शयने स्वाध्यायम् अधीयीत ॥ ९।२७ ॥

हरदत्तः

यस्मिन् मिथुनम् आचरितम् ॥ ९।२७ ॥

विश्वास-प्रस्तुतिः

न चापररात्रम् अधीत्य पुनः प्रतिसंविशेत् ॥ ९।२८ ॥

मूलम्

न चापररात्रम् अधीत्य पुनः प्रतिसंविशेत् ॥ ९।२८ ॥

यः पूर्वरात्रे सुप्त्वापररात्र उत्थायाधीते । न स पुनः प्रतिसंविशेत् । कालदैर्घ्ये सति पुनर् न स्वप्याच् छेषां रात्रिं जागृयाद् एवेति । पुनर्ग्रहणात् पूर्वरात्रे ऽसुप्तस्य स्वापे न दोषः ॥ ९।२८ ॥

विश्वास-प्रस्तुतिः

नाकल्पां नारीम् अभिरमेत् ॥ ९।२९ ॥

मूलम्

नाकल्पां नारीम् अभिरमेत् ॥ ९।२९ ॥

हरदत्तः

अकल्पां रोगादिनास्वस्थां नारीं नाभिरमेत् । नानया मिथुनी भवेत् ॥ ९।२९ ॥

विश्वास-प्रस्तुतिः

न रजस्वलाम् ॥ ९।३० ॥

मूलम्

न रजस्वलाम् ॥ ९।३० ॥

हरदत्तः

रजस्वलाम् अपि नारीं नाभिरमयेत् । उदक्यागमने त्रिरात्रम् इति प्रायश्चित्तं वक्ष्यति तेनैव सिद्धे वचनम् इदं त्रिरात्राद् ऊर्ध्वम् अप्य् अनिवृत्ते रजसि गमनप्रतिषेधार्थम् ॥ ९।३० ॥

विश्वास-प्रस्तुतिः

न चैनां श्लिष्येन् न कन्याम् ॥ ९।३१ ॥

मूलम्

न चैनां श्लिष्येन् न कन्याम् ॥ ९।३१ ॥

हरदत्तः

एनां रजस्वलां कन्याम् अनूढाम् अपि न श्लिष्येन् नालिङ्गेत् ॥ ९।३१ ॥

विश्वास-प्रस्तुतिः

अग्निमुखोपधमनविगृह्यवादबहिर्गन्धमाल्य-धारणपापीयसावलेखनभार्ययासहभोजनाञ्जन्त्य्-
अवेषणकुद्वारप्रवेशनपादपादधावनासन्दीस्थ-
भोजननदीबाहुतरणवृक्षविषमारोहणावरोहण-
प्राणव्यायच्छनानि वर्जयेत् ॥ ९।३२ ॥

मूलम्

अग्निमुखोपधमनविगृह्यवादबहिर्गन्धमाल्य-धारणपापीयसावलेखनभार्ययासहभोजनाञ्जन्त्य्-
अवेषणकुद्वारप्रवेशनपादपादधावनासन्दीस्थ-
भोजननदीबाहुतरणवृक्षविषमारोहणावरोहण-
प्राणव्यायच्छनानि वर्जयेत् ॥ ९।३२ ॥

उपधमनम् उपध्मानं नाग्निं मुखेनोपधमयेन् न ज्वलयेत् । विगृह्यवादो वाक्कलहः । गन्धमाल्ययोर् बहिर्धारणं प्रकाशधारणम् इति । “अनाविःस्रगनुलेपनः” स्याद् इत्य् आपस्तम्बः [आप्ध् १।३२।५] । पापीयसावलेखनम् अशुचिना काष्ठादिना शिरःप्रभृतेः कण्डूयनं तृतीयाया अलुक्छान्दसः । भार्यया सह भोजनं भार्यया सहैकस्मिन् भाजने भोजनम् । केषुचिद् देशेष्व् आचारात् प्राप्तौ सत्यां निषेधः । अन्ये त्व् एकस्मिन् काले भोजनं सहभोजनम् इच्छन्ति । अञ्जन्त्यवेक्षणम् । अञ्जन्ती तैनाभ्यङ्गं कुर्वत्य् अञ्जनादिभिर् अलंक्रियमाणा वा तस्या अवेक्षणं तच् च भार्याविषयम् इत्य् एके । स्त्रीमात्रविषयम् इत्य् अन्ये । कुद्वारप्रवेशनं द्वारव्यतिरिक्तप्रदेशेन देवालयगृहादेः प्रवेशनम् अप्रसिद्धमार्गेण नगरग्रामादेः प्रवेशनम् इति । यथा च आपस्तम्बः: “न कुसृत्या ग्रामं प्रविशेद् यदि प्रविशेन् नमो रुद्राय वास्तोष्पतय इत्य् एताम् ऋचं जपेद् अन्यां वा रौद्रीम्” इति [आप्ध् १।३१।२१] । पादपादधावनं पादेन पादप्रक्षालनम् । श्सन्दीस्थभोजनम्, आसन्दी पीठिका तत्रस्थस्यान्नस्य भोजनम् आसन्दीस्थभोजनम् । यद् वा यत्रासीनो भुङ्क्ते तत्रासने भोजनपात्रं निधाय यद् भोजनं तद् वा । नदीबाहुतरणं बाहुभ्यां नद्यास्तरणं पारगमनम् । बाहुतरनात् प्लवादौ न दोषः । नदीग्रहणं तडागादीनाम् अप्य् उपलक्षणम् । वृक्षविषमारोहणावरोहणे वृक्षस्यारोहणं विषमस्य कूपादेर् अवरोहणं च । वृक्षविषमग्रहणेनात्युन्नतनिम्नस्थलं लक्ष्यते । प्राणव्यायच्छनं प्रानोपरोध्युल्लङ्घनजलयन्त्राद्यधिरोहणम् । एतान्य् अग्निमुखोपधमनादीनि वर्जयेत् ॥ ९।३२ ॥

विश्वास-प्रस्तुतिः

न संदिग्धांं नावम् अधिरोहेत् ॥ ९।३३ ॥

मूलम्

न संदिग्धांं नावम् अधिरोहेत् ॥ ९।३३ ॥

हरदत्तः

पारगमने संदिग्धाम् असमर्थां नावं नाधितिष्थेत् ॥ ९।३३ ॥

हरदत्त-प्रस्तावः

प्रतिपदपाठस्याशक्यत्वात् संक्षिप्याह ।

विश्वास-प्रस्तुतिः

सर्वत एवात्मानं गोपायेत् ॥ ९।३४ ॥

मूलम्

सर्वत एवात्मानं गोपायेत् ॥ ९।३४ ॥

हरदत्तः

सर्वेभ्य उपायेभ्य आत्मानं रक्षयेत् । एको न गच्छेद् अध्वानम् इत्यादिभ्यः ॥ ९।३४ ॥

विश्वास-प्रस्तुतिः

न प्रावृत्य शिरो ऽहनि पर्यटेत् ॥ ९।३५ ॥

मूलम्

न प्रावृत्य शिरो ऽहनि पर्यटेत् ॥ ९।३५ ॥

हरदत्तः

प्रावृत्याशिरसो दिवा चङ्ग्रमणप्रतिषेधः । आसीनस्य यथारुचि । मार्गे वर्षातपादिबाधे प्रावृत्यापि चङ्क्रमणे न दोषः । “सर्वत एवात्मानं गोपायेत्” इत्य् उक्तत्वात् । ९।३५ ॥

विश्वास-प्रस्तुतिः

प्रावृत्य रात्रौ ॥ ९।३६ ॥

मूलम्

प्रावृत्य रात्रौ ॥ ९।३६ ॥

हरदत्तः

रात्रौ तु शिरः प्रावृत्यैव पर्यटेत् ॥ ९।३६ ॥

विश्वास-प्रस्तुतिः

मूत्रोच्चारे च ॥ ९।३७ ॥

मूलम्

मूत्रोच्चारे च ॥ ९।३७ ॥

हरदत्तः

मूत्रणं मूत्र उच्चारः पुरीषकर्म तयोः समाहारद्वन्द्वः । तत्र च शिरः प्रावृत्य प्रावृतशिराः कर्म कुर्याद् इति शेषः ॥ ९।३७ ॥

विश्वास-प्रस्तुतिः

न भूमाव् अनन्तर्धाय ॥ ९।३८ ॥

मूलम्

न भूमाव् अनन्तर्धाय ॥ ९।३८ ॥

हरदत्तः

मूत्रपुरीषकर्मणी भूमौ तृणादिभिर् अन्तर्धायैव कुर्यात् । “अयज्ञियैस् तृणैः” इति स्मृत्यन्तरे ॥ ९।३८ ॥

विश्वास-प्रस्तुतिः

नाराच् चावसथात् ॥ ९।३९ ॥

मूलम्

नाराच् चावसथात् ॥ ९।३९ ॥

हरदत्तः

आवसथो गृहम् । तत्समीपे न कुर्यात् ॥ ९।३९ ॥

विश्वास-प्रस्तुतिः

न भस्मकरीषकृष्टच्छायापथिकाम्येषु ॥ ९।४० ॥

मूलम्

न भस्मकरीषकृष्टच्छायापथिकाम्येषु ॥ ९।४० ॥

हरदत्तः

करीषं गोमयम् । छायोपजीव्याः पथिकादयो यत्र विशाम्यन्ति । काम्यं कमनीयः प्रदेशः । भस्मादिष्व् एतेषु मूत्रपुरीषकर्मणी न कुर्यात् ॥ ९।४० ॥

विश्वास-प्रस्तुतिः

उभे मूत्रपुरीषे तु दिवा कुर्याद् उदङ्मुखः ॥ ९।४१ ॥

मूलम्

उभे मूत्रपुरीषे तु दिवा कुर्याद् उदङ्मुखः ॥ ९।४१ ॥

हरदत्तः

मूत्रपुरीषे दिवा चेद् उदङ्मुख एव कुर्यात् ॥ ९।४१ ॥

विश्वास-प्रस्तुतिः

संध्ययोश् च ॥ ९।४२ ॥

मूलम्

संध्ययोश् च ॥ ९।४२ ॥

हरदत्तः

उदङ्मुखः कुर्याद् इति ॥ ९।४२ ॥

विश्वास-प्रस्तुतिः

रात्रौ दक्षिणामुखः ॥ ९।४३ ॥

मूलम्

रात्रौ दक्षिणामुखः ॥ ९।४३ ॥

हरदत्तः

स्पष्टम् ॥ ९।४३ ॥

विश्वास-प्रस्तुतिः

पालाशम् आसनं पादुके दन्तधावनम् इति च
वर्जयेत् ॥ ९।४४ ॥

मूलम्

पालाशम् आसनं पादुके दन्तधावनम् इति च
वर्जयेत् ॥ ९।४४ ॥

हरदत्तः

इतिकारा[दा]द्यर्थाद् यच् चान्यद् एवं युक्तम् रथादि तद् अपि पालाशं वर्जयेत् । अत्र पठन्ति ।

आसनं शयनं यानं गृहोपकरणं तथा ।
वर्जयेत् पादुकां चैव पालाशं दन्तधावनम् ॥ इति ॥ ९।४४ ॥

विश्वास-प्रस्तुतिः

सोपानत्करश्चासनाभिवादननमस्कारान्
वर्जयेत् ॥ ९।४५ ॥

मूलम्

सोपानत्करश्चासनाभिवादननमस्कारान्
वर्जयेत् ॥ ९।४५ ॥

हरदत्तः

अभिवादनं पूर्वोक्तम्, नमस्कारो देवताप्रणामः । अभिवादनादीनि सोपानत्को न कुर्यात् । उपानद्ग्रहणं पादुकादेर् अप्य् उपलक्षणम् ॥ ९।४५ ॥

विश्वास-प्रस्तुतिः

न पूर्वाह्णमध्यंदिनापराह्णान् अफलान् कुर्याद्
यथाशक्ति धर्मार्थकामेभ्यः ॥ ९।४६ ॥

मूलम्

न पूर्वाह्णमध्यंदिनापराह्णान् अफलान् कुर्याद्
यथाशक्ति धर्मार्थकामेभ्यः ॥ ९।४६ ॥

हरदत्तः

तृतीयार्थे चतुर्थी पञ्चमी वा । पूर्वाह्णादीन् अह्नस् त्रीन् भागान् धर्मादिभिस् त्रिभिर् यथाशक्त्य् अफलान् न कुर्यात् किं तर्हि सफलान् एव कुर्याद् यथासंख्यम् ॥ ९।४६ ॥

विश्वास-प्रस्तुतिः

तेषु तु धर्मोत्तरः स्यात् ॥ ९।४७ ॥

मूलम्

तेषु तु धर्मोत्तरः स्यात् ॥ ९।४७ ॥

हरदत्तः

तुशब्दो ऽनवस्थां परिहरति । तेषु धर्मार्थकामेषु धर्मोत्तरः स्याद् धर्मप्रधानः स्यात् । धर्माविरोधेनार्थकामौ सेवेतेति । तथा च मनुः ।

परित्यजेद् अर्थकामौ यौ स्यातां धर्मवर्जितौ ॥ इति ॥ ९।४७ ॥

विश्वास-प्रस्तुतिः

न नग्नां परयोषितम् ईक्षेत ॥ ९।४८ ॥

मूलम्

न नग्नां परयोषितम् ईक्षेत ॥ ९।४८ ॥

हरदत्तः

परा चासौ योषिच् च परयोषित् । अन्यथा विधवानूढावेश्यादयो न स्युः ताम् नग्नां सतीं नेक्षेत ॥ ९।४८ ॥

विश्वास-प्रस्तुतिः

न पदासनम् आकर्षेत् ॥ ९।४९ ॥

मूलम्

न पदासनम् आकर्षेत् ॥ ९।४९ ॥

हरदत्तः

पादेनासनम् आत्मसमीपं न प्रापयेत् ॥ ९।४९ ॥

विश्वास-प्रस्तुतिः

न शिश्नोदरपाणिपादवाक्चक्षुश् चापलानि कुर्यात् ॥ ९।५० ॥

मूलम्

न शिश्नोदरपाणिपादवाक्चक्षुश् चापलानि कुर्यात् ॥ ९।५० ॥

हरदत्तः

चापलशब्दः प्रत्येकं संबध्यते । शिश्नचापलम् अकाले मैथुनेच्छा । उदरचापलं सर्वदा बिभक्षयिषा । पाणिचापलं शिल्पकर्मशिक्षाभिलाषः । पादचापलं पर्यटनम् । वाक्चापलं “नापृष्टः कस्यचिद् ब्रूयान् न चान्यायेन पृच्छतः” [म्ध् २।११०] इत्य् एतद् अतिक्रमेण व्यवहारः । चक्षुश्चापलं नृत्यादिदिदृक्षा । एतानि न कुर्यात् ॥ ९।५० ॥

विश्वास-प्रस्तुतिः

छेदनभेदनविलेखनविमर्दनावस्फोटनानि
नाकस्मात् कुर्यात् ॥ ९।५१ ॥

मूलम्

छेदनभेदनविलेखनविमर्दनावस्फोटनानि
नाकस्मात् कुर्यात् ॥ ९।५१ ॥

हरदत्तः

छेदनं तृणादीनाम् । भेदनं घटादेः । विलेखनं कुड्यभूम्यादौ नखादिभिर् विलेखनम् । विमर्दनं लोष्टादीनां चूर्णीकरणम् । अवस्फोटनम् अङ्गुलीनां सशब्दं प्रसारणम् । एतद् अकस्मान् न कुर्यात् । कारणे त्व् अवस्फोटनादिषु न दोषः । छेदनादिष्व् अपि यथासंभवं मृग्यम् ॥ ९।५१ ॥

विश्वास-प्रस्तुतिः

नोपरि वत्सतन्तीं गच्छेत् ॥ ९।५२ ॥

मूलम्

नोपरि वत्सतन्तीं गच्छेत् ॥ ९।५२ ॥

हरदत्तः

वत्सबन्धनी रज्जुर् वत्सतन्ती । ताम् उपरि न गच्छेत् । वत्सशब्दो गोजातेर् उपलक्षणम् ॥ ९।५२ ॥

विश्वास-प्रस्तुतिः

न कुलंकुलः स्यात् ॥ ९।५३ ॥

मूलम्

न कुलंकुलः स्यात् ॥ ९।५३ ॥

कुलम् एव कुलं यस्य स कुलंकुलः । छान्दसो मुमागमः । एवंविधो न स्यात् । अन्यत्र गमने ऽध्ययनादिलाभे सति स्वकुल एव न तिष्ठेद् इति । अपर आह – कुलात् कुलान्तरगामी कुलंकुलो दत्तादिरूपेण तथाविधो न स्यात् । स्वसूत्रपरित्यागेन परसूत्रं न भजेद् इति । तत्र स्मृत्यन्तरम् ।

यः स्वसूत्रं परित्यज्य परसूत्रं निषेवते ।
शाखारण्डः स विज्ञेयः सर्वकर्मबहिष्कृतः ॥ इति ॥ ९।५३ ॥

विश्वास-प्रस्तुतिः

न यज्ञम् अवृतो गच्छेत् ॥ ९।५४ ॥

मूलम्

न यज्ञम् अवृतो गच्छेत् ॥ ९।५४ ॥

हरदत्तः

अवृतो ऽनुपामन्त्रितो यज्ञं न गच्छेत् ॥ ९।५४ ॥

विश्वास-प्रस्तुतिः

दर्शनाय तु कामम् ॥ ९।५५ ॥

मूलम्

दर्शनाय तु कामम् ॥ ९।५५ ॥

हरदत्तः

अवृतो ऽपि कामं दर्शनाय यज्ञं गच्छेत् । न त्व् आर्त्विज्यादिलिप्सया ॥ ९।५५ ॥

विश्वास-प्रस्तुतिः

न भक्षान् उत्सङ्गे भक्षयेत् ॥ ९।५६ ॥

मूलम्

न भक्षान् उत्सङ्गे भक्षयेत् ॥ ९।५६ ॥

हरदत्तः

भक्षाः पृथुकादयस् तान् उत्सङ्गे कृत्वा न बक्षयेत् ॥ ९।५७ ॥

विश्वास-प्रस्तुतिः

न रात्रौ प्रेष्याहृतम् ॥ ९।५७ ॥

मूलम्

न रात्रौ प्रेष्याहृतम् ॥ ९।५७ ॥

हरदत्तः

रात्रौ प्रेष्येण किंकरेण यद् आनीतं तद् यत् किंच्द् अपि न भक्षयेत् । न भक्षान् एव, एकवचननिर्देशात् ॥ ९।५७ ॥

विश्वास-प्रस्तुतिः

उद्धृतस्नेहविलपनपिण्याकमथितप्रभृतीनि
चात्तवीर्याणि नाश्नीयात् ॥ ९।५८ ॥

मूलम्

उद्धृतस्नेहविलपनपिण्याकमथितप्रभृतीनि
चात्तवीर्याणि नाश्नीयात् ॥ ९।५८ ॥

हरदत्तः

आत्तवीर्याण्य् उपात्तसारांशानि नाश्नीयात् । कानि पुनस् तानि तेषाम् उदाहरणप्रपञ्चः । उद्धृतस्नेहे उपात्ताग्रमण्डे दधिपयसी । बिलपनं नवनीतमलम् । यन्त्रे पीडितानां तिलानां कल्कः पिण्याकम् । यस्य मथनमात्रं नाम्बुसंसर्गस् तद् अपि मथितम् । यद् आहुर् नैघण्टिकाः:

तक्रं ह्य् उदश्विन् मथितं पादाम्ब्व् अर्धाम्बु निर्जलम् ॥ इति ।

तच् च द्विविधम्, आत्तनवनीतम् इतरच् च । तत्राप्य् अस्येह ग्रहणं तद् ध्य् आत्तवीर्यस्योदाहरणम् । प्रभृतिग्रहणेन यच् चान्यद् एवंविधं कल्मरूपं तस्य ग्रहणम् । उद्धृतनवनीतं तक्रम् आश्यम् अनाश्यम् इति चिन्त्यम् । आचारस् त्व अशनम् एव । अभक्ष्यप्रकरणे वक्तव्य इह वचनात् स्नातकव्रलोपे यत् प्रायश्चित्तं तद् एवैषम् अशने भवति नाभक्ष्यभक्षणनिमित्तम् ॥ ९।५८ ॥

विश्वास-प्रस्तुतिः

सायंप्रातस् त्व् अन्नम् अभिपूजितम् अनिन्दितम्
भुञ्जीत ॥ ९।५९ ॥

मूलम्

सायंप्रातस् त्व् अन्नम् अभिपूजितम् अनिन्दितम्
भुञ्जीत ॥ ९।५९ ॥

हरदत्तः

तुशब्दस् त्व् अवधारणे । सायं रात्रिः प्रातस् अहस् तयोर् द्वयोर् एककालयोर् अशनं भुञ्जीत । नान्तरेति प्राप्तस्य भोजनस्य परिसंख्येयम् । तत्र गुणविधिर् अभिपूजितम् अनिन्दन्न् इति । अभिपूजितं रोचत इति । अनिन्दन् कदन्नत्वादिदोषेणाकुत्सयन् । “सायं प्रातर् अशनान्य् अभिपूजयेत्” [वध् ३।६९] इति वसिष्ठः ॥ ९।५९ ॥

विश्वास-प्रस्तुतिः

न कदाचिद् रात्रौ नग्नः स्वपेत् ॥ ९।६० ॥

मूलम्

न कदाचिद् रात्रौ नग्नः स्वपेत् ॥ ९।६० ॥

हरदत्तः

सुप्ताद् रात्रौ न तु नग्नः स्वपेत् । तद् एवं रात्रौ नग्नस्य स्वापप्रतिषेधो दिवा तु सर्वथेति । कदाचिद् ग्रहणाद् इदं लभ्यते । अन्यथा रात्रौ न नग्नः स्वपेद् इत्य् एव वाच्यं स्यात् ॥ ९।६० ॥

विश्वास-प्रस्तुतिः

स्नायाद् वा ॥ ९।६१ ॥

मूलम्

स्नायाद् वा ॥ ९।६१ ॥

हरदत्तः

न नग्न इत्य् एव । “नग्नो जलं नावतरेत्” इति स्मृत्यन्तरम् ॥ ९।६१ ॥

हरदत्त-प्रस्तावः

आनन्त्याद् आचाराणां प्रतिपदपाठो न शक्य इति संक्षिप्याह ।

विश्वास-प्रस्तुतिः

यच् चात्मवन्तो वृद्धाः सम्यग् विनीता दम्भलोभ-
मोहवियुक्ता वेदविद आचक्षते तत् समाचरेत् ॥ ९।६२ ॥

मूलम्

यच् चात्मवन्तो वृद्धाः सम्यग् विनीता दम्भलोभ-
मोहवियुक्ता वेदविद आचक्षते तत् समाचरेत् ॥ ९।६२ ॥

हरदत्तः

आत्मवन्तो जितेन्द्रियाः । वृद्धाः परिणतवयसो यौवने विषयवश्यतासंभवात् । सम्यग् विनीता गुरुभिः शिक्षिताः । दम्भो दर्मच्छलेन लोकवञ्चनम् । लोभो ऽन्यायेन परद्रव्यादित्सा । मोहो ऽज्ञानं लोकविरुद्धज्ञानं वा तेन त्यक्ताः । वेदविदः पाठतश् चार्थतश् च वेदानां चोदितारः । अत्र वृद्धा इति विशेष्यम् । एवंभूता वृद्धा यद् आचक्षते तत् कर्तव्यम् इति । बहुवचननिर्देशाद् बहूनाम् ऐकमत्ये तद् भवति ॥ ९।६२ ॥

विश्वास-प्रस्तुतिः

योगक्षेमार्थम् ईश्वरम् अधिगच्छेत् ॥ ९।६३ ॥

मूलम्

योगक्षेमार्थम् ईश्वरम् अधिगच्छेत् ॥ ९।६३ ॥

हरदत्तः

अलब्धस्य लाभो योगः । लब्धस्य परिपालनं क्षेम । तदर्थम् ईश्वरं राजानम् अधिगच्छेत् । अधिशब्दप्रयोगाद् अधिर् ऐर्श्वर्य इत्य् अस्माद् अकार्पण्येन स्वतन्तो गच्छेद् इति ॥ ९।६३ ॥

विश्वास-प्रस्तुतिः

नान्यम् अन्यत्र देवगुरुधार्मिकेभ्यः ॥ ९।६४ ॥

मूलम्

नान्यम् अन्यत्र देवगुरुधार्मिकेभ्यः ॥ ९।६४ ॥

हरदत्तः

अन्यं राजव्यतिरिक्तं योगक्षेमसमर्थम् अपि नाधिगच्छेद् इत्य् अनुवादः । देवा इन्द्रादयः । गुरवः पित्रादयः । धार्मिका धर्माचरणशीलाः । एतेभ्यो ऽन्यत्र । एतान् अधिगच्छेद् एवेति ॥ ९।६४ ॥

विश्वास-प्रस्तुतिः

प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणम्
आर्यजनभूयिष्ठम् अनलससमृद्धं
धार्मिकाधिष्ठं निकेतन्म् आवसितुं यतेत ॥ ९।६५ ॥

मूलम्

प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणम्
आर्यजनभूयिष्ठम् अनलससमृद्धं
धार्मिकाधिष्ठं निकेतन्म् आवसितुं यतेत ॥ ९।६५ ॥

हरदत्तः

एधः काष्ठम् उदकं स्नानपानयोग्यं यवसं तृणानि गवार्थम् । कुशाः प्रसिद्धाः । माल्यानि पुष्पाणि देवाद्यर्चनार्थम् । उपनिष्क्रम्यते यत्र तद् उपनिष्क्रमणं बहिरवकाशः संचाराद्यर्थम् । एवमादीनि प्रभूतानि यत्र । आर्यास् त्रैवर्णिकास् त एव जनास् तैर् भूयिष्ठं व्याप्तम् । अलसाः कृत्येषु निरुद्यमास् तद्विपरीता अनलसास् तैर् समृद्धम् । धार्मिका धर्मशीलास् तैर् अधिष्ठातृभिर् अधिष्ठितम् । एवंभूतं निकेतनम् आवसितुं यतेत । एवंभूते स्थाने यत्नेनापि वसेद् इति ॥ ९।६५ ॥

विश्वास-प्रस्तुतिः

प्रशस्तमङ्गल्यदेवतायतनचतुष्पदं
प्रदक्षिणम् आवर्तेत ॥ ९।६६ ॥

मूलम्

प्रशस्तमङ्गल्यदेवतायतनचतुष्पदं
प्रदक्षिणम् आवर्तेत ॥ ९।६६ ॥

हरदत्तः

निर्गमनप्रवेशादिषु यथा ते दक्षिणपार्श्वे भवन्ति तथा कुर्याद् इति ॥ ९।६६ ॥

विश्वास-प्रस्तुतिः

मनसा वा तत्समग्रम् आचारम् अनुपालयेद्
आपत्कल्पः ॥ ९।६७ ॥

मूलम्

मनसा वा तत्समग्रम् आचारम् अनुपालयेद्
आपत्कल्पः ॥ ९।६७ ॥

हरदत्तः

संभवे तु साक्षाद् अनुष्ठानम् एवेति ॥ ९।६७ ॥

विश्वास-प्रस्तुतिः

सत्यधर्मा ॥ ९।६८ ॥

मूलम्

सत्यधर्मा ॥ ९।६८ ॥

हरदत्तः

सत्यवचनस्वभावः । स्याद् इति वक्xयमाणम् अपेक्षते ॥ ९।६८ ॥

विश्वास-प्रस्तुतिः

आर्यवृत्तः ॥ ९।६९ ॥

मूलम्

आर्यवृत्तः ॥ ९।६९ ॥

हरदत्तः

पूर्वभाषी प्रियंवद इत्याद्यार्याणां वृत्तिम् इव वृत्तं यस्य स तथा । उष्ट्रमुखवन् मध्यमपदलोपः ॥ ९।६९ ॥

विश्वास-प्रस्तुतिः

शिष्टाध्यापकः ॥ ९।७० ॥

मूलम्

शिष्टाध्यापकः ॥ ९।७० ॥

हरदत्तः

सताम् अध्यापयिता न त्व् अयोग्यानाम् ॥ ९।७० ॥

विश्वास-प्रस्तुतिः

शौचशिष्टः ॥ ९।७१ ॥

मूलम्

शौचशिष्टः ॥ ९।७१ ॥

हरदत्तः

शिष्टं शास्त्रविहितं शौचं यस्यास्ति स तथा । निष्ठान् तस्य परनिपातः । शास्त्रविहितेन शौचेन तद्वान् । शौचस्य पुनः पुनर् वचनं तात्पर्यार्थम् ॥ ९।७१ ॥

विश्वास-प्रस्तुतिः

श्रुतिनिरतः स्यात् ॥ ९।७२ ॥

मूलम्

श्रुतिनिरतः स्यात् ॥ ९।७२ ॥

हरदत्तः

वेदाभ्यासरतः ॥ ९।७२ ॥

विश्वास-प्रस्तुतिः

नित्यम् अहिंस्रो मृदुर् दृढकारी दमदानशीलः ॥ ९।७३ ॥

मूलम्

नित्यम् अहिंस्रो मृदुर् दृढकारी दमदानशीलः ॥ ९।७३ ॥

हरदत्तः

नित्यं निमित्ते सत्य् अप्य् अहिंस्रो ऽहिंसाशीलः । मृदुः कृतापराधे ऽपि सहकः । दृढकारी पारब्धस्य समापयिता न प्राक्रमिकः । दम इन्द्रियनिग्रहः । दानं संविभागः । तच्छीलः स्याद् इति सर्वत्रापेक्ष्यते ॥ ९।७३ ॥

विश्वास-प्रस्तुतिः

एवमाचारो मातापितरौ पूर्वापरांश् च संबन्धान्
दुरितेभ्यो मोक्षयिष्यन् स्नातकः शश्वद् ब्रह्मलोकान्
न च्यवते न च्यवते ॥ ९।७४ ॥

मूलम्

एवमाचारो मातापितरौ पूर्वापरांश् च संबन्धान्
दुरितेभ्यो मोक्षयिष्यन् स्नातकः शश्वद् ब्रह्मलोकान्
न च्यवते न च्यवते ॥ ९।७४ ॥

हरदत्तः

एवम् उक्तप्रकार आचारो यस्य स एवमाचारः । एवंभूतः स्नातको मातापितरौ पूर्वसंबन्धाः पितामहादयः । अपरसंबन्धाः पुत्रादयः । तांश् च पूर्वापरसंबन्धान् दुरितेभ्यः पापेभ्यो मोक्षयिष्यन् ये पूर्वं भूतास् तांस् तदैव नरकादिभ्यो मोचयति ये तु भविष्यन्तः पुत्रादयस् तांश् च मोक्षयिष्यन् । सप्रत्ययस्यार्थो मृग्यः (?) । मोचयिष्यन् भवति । स एवंभूतः स्नातकः शश्वद् बहुकालं ब्रह्मलोकान् न च्यवते । द्विरुक्तिर् अध्यायसमाप्त्यर्था । पुनःस्नातकग्रहणं स्नातकधर्माणाम् एवैतत् फलं न गृहस्थधर्मसहितानाम् इत्य् एवमर्थम् ॥ ९।७४ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां

नवमो ऽध्यायः

प्रथमः प्रश्नः समाप्तः

——————

अथ द्वितीयः प्रश्नः