अथाष्टमो ऽध्यायः
हरदत्त-प्रस्तावः
आपद्वृत्तिम् आश्रितो यदि तत्रैव रमेत केनासौ निवार्यत इत्य् आह ।
विश्वास-प्रस्तुतिः
द्वौ लोके घृतव्रतौ राजा ब्राह्मणश् च
बहुश्रुतः ॥ ८।१ ॥
मूलम्
द्वौ लोके घृतव्रतौ राजा ब्राह्मणश् च
बहुश्रुतः ॥ ८।१ ॥
हरदत्तः
लोको राष्ट्रम् । वीप्सालोपश् चात्र द्रष्टव्यः । लोके लोके धृतव्रतौ व्रतानां कर्मणां धारयितारौ द्वौ राजा बहुश्रुतश् च ब्राह्मणः । तौ सर्वस्य सर्वापदो दण्डोपदेशाभ्यां निवारयितारौ ॥ ८।१ ॥
विश्वास-प्रस्तुतिः
तयोश् चतुर्विधस्य मनुष्यजातस्यान्तःसंज्ञानां
चलनपतनसर्पणानाम् आयत्तं जीवनम् ॥ ८।२ ॥
मूलम्
तयोश् चतुर्विधस्य मनुष्यजातस्यान्तःसंज्ञानां
चलनपतनसर्पणानाम् आयत्तं जीवनम् ॥ ८।२ ॥
हरदत्तः
चतुर्विधस्य मनुष्यजातस्य चातुर्वर्ण्यस्यान्तरप्रभा(भ)वास् त्व् अनुलोमादयस् तन्मूलत्वात् पृथङ् नोक्ताः । अन्तःसंज्ञा वृक्षादयः स्थावरा वृद्धिक्षयवन्तः । येषाम् अन्तःसंज्ञा न बहिस् ते तथोक्ताः । तथा च मनुः ।
तमसा बहुरूपेण चेष्टिताः कर्महेतुना ।
अन्तःसंज्ञा भवन्त्य् एते समदुःखसमन्विताः ॥ इति ।
चलनाः पश्वादयः । पतनाः पक्षिणः । सर्पणाः सरीसृपा भुजगादयः । एषां मनुष्यादीनां जीवनं तयो राजब्राह्मणयोर् आयत्तं तदधीनम् । राजा तु परिपन्थिनिग्रहादिना तेषां जीवनहेतुः । इतरस् तु कथं बहुश्रुत इत्य् अत आह ।
अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ [म्ध् ३।७६]
इत्यादिन्यायेन जीवने हेतुः ॥ ८।२ ॥
हरदत्त-प्रस्तावः
न च जीवनमात्रम् एव तदधीनं किं तर्हि –
विश्वास-प्रस्तुतिः
प्रसूतिरक्षणम् असंकरो धर्मः ॥ ८।३ ॥
मूलम्
प्रसूतिरक्षणम् असंकरो धर्मः ॥ ८।३ ॥
हरदत्तः
प्रसूतिर् अभिवृद्धिः । दण्डोपदेशाभ्यां यथोक्तकारितया वृष्ट्यादिद्वारेण रोगाद्युपद्रवशान्त्या चाभिवृद्धिर् भवति । चोरनिग्रहाद् रक्षणम् अपि । दण्डप्रायश्चित्तोपदेशाभ्यां भवति वर्णानाम् असंकरो ऽसंमेलनम् अपि । विहितोपदेशात् प्रतिषिद्धसेवायां दण्डधारणाच् धर्मो ऽपि भवति । एतत् सर्वं तयोर् आयत्तम् ॥ ८।३ ॥
हरदत्त-प्रस्तावः
बहुश्रुत इत्य् उक्तं प्रतिपादयति ।_ ।
विश्वास-प्रस्तुतिः
स एष (एव) बहुश्रुतो भवति ॥ ८।४ ॥
मूलम्
स एष (एव) बहुश्रुतो भवति ॥ ८।४ ॥
हरदत्तः
स एष इति वक्ष्यमाणनिर्देशः ॥ ८।४ ॥
विश्वास-प्रस्तुतिः
लोकवेदवेदाङ्गवित् ॥ ८।५ ॥
मूलम्
लोकवेदवेदाङ्गवित् ॥ ८।५ ॥
हरदत्तः
लोकशब्देन लोकव्यवहारसिद्धा जनपदादिधर्मा उच्यन्ते । तेषां वेदाश् चत्वार ऋग्यजुःसामाथर्वणाः । अङ्गानि षट् । व्याकरणं शिक्षा छन्दो ज्योतिषं कल्पसूत्राणि निरुक्तम् अपि । तेषां वेत्ता पाठतो ऽर्थथश् च ॥ ८।५ ॥
विश्वास-प्रस्तुतिः
वाकोवाक्येतिहासपुराणकुशलः ॥ ८।६ ॥
मूलम्
वाकोवाक्येतिहासपुराणकुशलः ॥ ८।६ ॥
हरदत्तः
वेदशास्त्रोपयोगीनि तर्कोक्तिप्रत्युक्तिरूपाणि वाक्यानि । यथा महाभारते – कः स्विद् एकाकी सूर्य एकाकी चरतीत्यादीनि वाकोवाक्यम् । भारतरामायणादीनीतिहासः । पुराणं विष्णुपुराणशिवपुराणाद्यष्टादशविधम् । तेषु कुशलः समर्थः ॥ ८।६ ॥
विश्वास-प्रस्तुतिः
तदपेक्षस् तद्वृत्तिः ॥ ८।७ ॥
मूलम्
तदपेक्षस् तद्वृत्तिः ॥ ८।७ ॥
हरदत्तः
यान्य् एतानि लोकादीन्य् अनूक्तानि तान्य् अपेक्षत इति । तद्वृत्तिस् तदभिहितानां कर्मणाम् अनुष्ठाता ॥ ८।७ ॥
विश्वास-प्रस्तुतिः
चत्वारिंशत्संस्कारैः संस्कृतः ॥ ८।८ ॥
मूलम्
चत्वारिंशत्संस्कारैः संस्कृतः ॥ ८।८ ॥
हरदत्तः
चत्वारिंशत्संस्कारा गर्भाधानादयो वक्ष्यन्ते । तैः संस्कृतः ॥ ८।८ ॥
विश्वास-प्रस्तुतिः
त्रिषु कर्मस्व् अभिरतः ॥ ८।९ ॥
मूलम्
त्रिषु कर्मस्व् अभिरतः ॥ ८।९ ॥
हरदत्तः
इज्याध्ययनदानानि त्रीणि कर्माणि । तेष्व् अभिरतः । तेषां सातत्येनानुष्ठाता । तद्वृत्तिर् इत्य् अनेनैव सिद्धे पुनर्वचनम् अतिदार्ढ्यार्थम् ॥ ८।९ ॥
विश्वास-प्रस्तुतिः
षट्सु वा ॥ ८।१० ॥
मूलम्
षट्सु वा ॥ ८।१० ॥
हरदत्तः
याजनाध्यापनप्रतिग्रहैः सह षट् कर्माणि तेष्व् अभिरतः । वाशब्देन पूर्वोक्तेषु नियमः ॥ ८।१० ॥
विश्वास-प्रस्तुतिः
सामयाचारिकेष्व् अभिविनीतः ॥ ८।११ ॥
मूलम्
सामयाचारिकेष्व् अभिविनीतः ॥ ८।११ ॥
हरदत्तः
पौरुषेयी व्यवस्था समयः । तन्मूला आचाराः समयाचारास् तेषु भवा सामयाचारिकाः स्मार्ता धर्मास् तेष्व् अभिविनीतः पित्रादिभिः सम्यक् शिक्षितः ॥ ८।११ ॥
हरदत्त-प्रस्तावः
स एवंरूपो ब्राह्मणः –
विश्वास-प्रस्तुतिः
षड्भिः परिहार्यो राज्ञा ॥ ८।१२ ॥
मूलम्
षड्भिः परिहार्यो राज्ञा ॥ ८।१२ ॥
हरदत्तः
षड्भिर् वक्ष्यमाणैर् वधादिभिः परिहार्यो राज्ञा भवति । परिहारो वर्जनम् ॥ ८।१२ ॥
हरदत्त-प्रस्तावः
तान् वधादीन् आह ।
विश्वास-प्रस्तुतिः
अवध्यश् चाबन्ध्यश् चादण्ड्यश् चाबहिष्कार्यश्
चापरिवाद्यश् चापरिहार्यश् चेति ॥ ८।१३ ॥
मूलम्
अवध्यश् चाबन्ध्यश् चादण्ड्यश् चाबहिष्कार्यश्
चापरिवाद्यश् चापरिहार्यश् चेति ॥ ८।१३ ॥
हरदत्तः
वधस् ताडनम् । बन्धो निगडनम् । दण्डो ऽर्थापहारः । बहिष्कारो ग्रामादिभ्यो निरसनम् । परिवादो दोषसंकीर्तनम् । परिहारस् त्यागः । षड् एते वधादय एवंभूते बहुश्रुते ब्राह्मणे सत्य् अबुद्धिपूर्वापराधे राज्ञा वर्ज्याः । बुद्धिपूर्वस्य तु प्रसङ्गाभावात् । इतिशब्धः प्रकारवचने । यच् चान्यद् एवंरूपसंभाषादि तद् अपि वर्ज्यम् इति ॥ ८।१३ ॥
चत्वारिंशत्संस्कारैर् इत्य् उक्तं तान् आह \
विश्वास-प्रस्तुतिः
गर्भादानपुंसवनसीमन्तोन्नयनजातकर्म-
नामकरणान्नप्राशनचौलोपनयनम् ॥ ८।१४ ॥
मूलम्
गर्भादानपुंसवनसीमन्तोन्नयनजातकर्म-
नामकरणान्नप्राशनचौलोपनयनम् ॥ ८।१४ ॥
हरदत्तः
समाहारद्वन्द्वः । गर्भाधानम् ऋताव् उपेयाद् इत्यादिकालनियमेन सूत्रवारोक्तविधाननिषेकः । गर्भाधानादयः संस्कारास् तत्तद्गृह्येषूक्ताः । इह तु संस्कारगणनार्थं स्वरूपनिर्देशमात्रं कृतम् ॥ ८।१४ ॥
विश्वास-प्रस्तुतिः
चत्वारि वेदव्रतानि ॥ ८।१५ ॥
मूलम्
चत्वारि वेदव्रतानि ॥ ८।१५ ॥
हरदत्तः
एतानि प्रतिवेदं प्रतिशाखं च गृह्येषूक्तानि ॥ ८।१५ ॥
विश्वास-प्रस्तुतिः
स्नानं सहधर्मचारिणीसंयोगः ॥ ८।१६ ॥
मूलम्
स्नानं सहधर्मचारिणीसंयोगः ॥ ८।१६ ॥
हरदत्तः
स्नानं समावर्तनम् । सहधर्मचारिणीसंयोगो विवाहः ॥ ८।१६ ॥
विश्वास-प्रस्तुतिः
पञ्चानां यज्ञानाम् अनुष्ठानं
देवपितृमनुष्यभूतब्रह्मणाम् ॥ ८।१७ ॥
मूलम्
पञ्चानां यज्ञानाम् अनुष्ठानं
देवपितृमनुष्यभूतब्रह्मणाम् ॥ ८।१७ ॥
हरदत्तः
पञ्चानां देवानां यज्ञास् तेषाम् अनुष्ठानम् । एतत् पञ्चमहायज्ञानुष्ठानम् अहर् अहः कर्तव्यम् । न तु सकृत्कृतेन संस्कारसिद्धिः । पञ्चग्रहणात् पञ्चैते पृथक्संस्कारा न पुनः समुदिता एकाः संस्काराः ॥ ८।१७ ॥
विश्वास-प्रस्तुतिः
एतेषां च ॥ ८।१८ ॥
मूलम्
एतेषां च ॥ ८।१८ ॥
हरदत्तः
वक्ष्यमाणानाम् अष्टकादीनां च पाकयज्ञानाम् अनुष्ठानं संस्कार इति ॥ ८।१८ ॥
विश्वास-प्रस्तुतिः
अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणी
चैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्थाः ॥ ८।१९ ॥
मूलम्
अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणी
चैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्थाः ॥ ८।१९ ॥
हरदत्तः
ऊर्ध्वम् आग्रहायण्यास् त्रयो ऽपरपक्षास् तेष्व् एकैकस्मिन्न् एकाष्टका भवतीति छन्दोगाः । हेमन्तशिशिरयोश् चतुर्णाम् अपरपक्षाणाम् अष्टमीष्व् अष्टकैकस्यां चेत्य् आश्वलायनः । या माध्याः पौर्णमास्या उपरिष्टान् मध्याष्टका तस्याम् अष्टमी ज्येष्ठया संपद्यते । ताम् एकाष्टकेत्य् आचक्षत इत्य् आपस्तम्बः । आग्रहायणी मार्गशीर्ष्यां पौर्णमास्यां क्रियमाणः सर्पबलिर् उत्सर्गहोमः । हेमन्ते प्रत्यवरोहणाख्यं च कर्माग्रहायणीशब्देनोच्यते । चैत्री शूलगवः । ईशानबलिर् इत्य् आपस्तम्बीयानां प्रसिद्धः स चैत्र्यां पौर्णमास्यां भवति । अथ शूलगवः शरदि वसन्ते चेत्य् आश्वलायनः । आश्वयुजीं रुद्याय स इति छन्दोगाः । आश्वयुज्यां पौर्णमास्यां तत् कर्मनिवेशनम् अलंक्र्त्य स्नाताः शुचिवाससः पशुपतये स्थालीपाकं निरुप्य जुहुयुर् इत्य् आश्वलायनः । अनाहिताग्नेर् आग्रयणम् अपि तत्रैव भवति । तद् इदं द्वयम् आश्वयुजीशब्देन विवक्षितम् । पाकयज्ञ इति गार्याणां कर्मणाम् आख्या । यथाह आपस्तम्बः: “लौकिकानां पाकयज्ञशब्दः” इति । संस्थाविधाः पाकयज्ञविधाः स्पतेत्य् अर्थः ॥ ८।१९ ॥
विश्वास-प्रस्तुतिः
अग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमासाव् आग्रयणं
चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त
हविर्यज्ञसंस्थाः ॥ ८।२० ॥
मूलम्
अग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमासाव् आग्रयणं
चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त
हविर्यज्ञसंस्थाः ॥ ८।२० ॥
हरदत्तः
अग्न्याधेयादयः श्रुतिसिद्धाः संस्कारेषु गण्यन्ते । सप्तग्रहणाद् दर्शपूर्णमासौ समुदायतयैकः संस्कारः । सोमसंबन्धाभावाद् धर्विर्यज्ञा इति ॥ ८।२० ॥
विश्वास-प्रस्तुतिः
अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयो ऽतिरात्रो
ऽतोर्याम इति सप्त सोमसंस्थाः ॥ ८।२१ ॥
मूलम्
अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयो ऽतिरात्रो
ऽतोर्याम इति सप्त सोमसंस्थाः ॥ ८।२१ ॥
हरदत्तः
अग्निष्टोमो राजन्यस्य । षोडशिग्रहो गृह्यते यत्र सो ऽत्यग्निष्टोमः । ब्राह्मणस्य कथम् अयं संस्कार इति चिन्त्यम् । अन्ये प्रसिद्धाः ॥ ८।२१ ॥
विश्वास-प्रस्तुतिः
इत्य् एते चत्वारिंशत् संस्काराः ॥ ८।२२ ॥
मूलम्
इत्य् एते चत्वारिंशत् संस्काराः ॥ ८।२२ ॥
हरदत्तः
इत्य् उक्तोपसंहारः । चत्वारिंशद्ग्रहणाद् एव तावन्त एव संस्काराः । अन्यानि स्मार्तकर्माणि काम्यादीनि चेति ॥ ८।२२ ॥
विश्वास-प्रस्तुतिः
अथाष्टाव् आत्मगुणाः ॥ ८।२३ ॥
मूलम्
अथाष्टाव् आत्मगुणाः ॥ ८।२३ ॥
हरदत्तः
वक्ष्यन्त इति शेषः । अथशब्दः संभावनायाम् ॥ ८।२३ ॥
विश्वास-प्रस्तुतिः
दया सर्वभूतेषु क्षान्तिर् अनसूया शौचम् अनायासो
मङ्गलम् अकार्पण्यम् अस्पृहेति ॥ ८।२४ ॥
मूलम्
दया सर्वभूतेषु क्षान्तिर् अनसूया शौचम् अनायासो
मङ्गलम् अकार्पण्यम् अस्पृहेति ॥ ८।२४ ॥
हरदत्तः
आत्मवत् सर्वभूतेषु यध् धिताय शिवाय च ।
वर्तते सततं हृष्टः कृत्स्ना ह्य् एषा दया स्मृता ॥ १ ॥
आक्रुष्टो ऽभिहतो वापि न क्रोशेन् न च ताडयेत् ।
अदुष्टो वाक्मनःकायैः सा तितिक्षा क्षमा स्मृता ॥ २ ॥
यो धर्मम् अर्थं कामं च लभते मोक्षम् एव च ।
न द्विष्यात् तं सदा प्राज्ञः सानसूया स्मृता बुधैः ॥ ३ ॥
द्रव्यशौचं मनःशौचं वाचिकं कायिकं तथा ।
शौचं चतुर्विधं प्रोक्तम् ऋषिभिस् तत्त्वदर्शिभिः ॥ ४ ॥
यद् आरम्भे भवेत् पीडा नित्यम् अत्यन्तम् आत्मनः ।
तद् वर्जयेद् धर्म्यम् अपि सो ऽनायासः प्रकीर्तितः ॥ ५ ॥
प्रशस्ताचरणं नित्यम् अप्रशस्तविवर्जनम् ।
एतद् धि मङ्गलं प्रोक्तं मुनिभिस् तत्त्वदर्शिभिः ॥ ६ ॥
आपद्य् अपि च कष्टायां भवेद् दीनो न कस्यचित् ।
संविभागरुचिश् च स्यात् तद् अकार्पण्यम् उच्यते ॥ ७ ॥
विवर्जयेद् असंतोषं विषयेषु सदा नरः ।
परद्रव्याभिलाषं च सास्पृहा कथ्यते बुधैः ॥ ८ ॥
इत्य् उक्तप्रकारेणाष्टाव् आत्मगुणाः ॥ ८।२४ ॥
हरदत्त-प्रस्तावः
एषाम् उत्कर्षम् आह ।
विश्वास-प्रस्तुतिः
यस्यैते चत्वारिंशत् संस्कारा न चाष्टाव् आत्मगुणा
न स ब्राह्मणः सायुज्यं सालोक्यं गच्छति ॥ ८।२५ ॥
मूलम्
यस्यैते चत्वारिंशत् संस्कारा न चाष्टाव् आत्मगुणा
न स ब्राह्मणः सायुज्यं सालोक्यं गच्छति ॥ ८।२५ ॥
हरदत्तः
सालोक्यं समानलोकवासित्वम् । एकदेशसंयोगात् सालोक्यं समस्तयोगात् सायुज्यम् इति ॥ ८।२५ ॥
विश्वास-प्रस्तुतिः
यस्य तु खलु संस्काराणाम् एकदेशो ऽप्य् अष्टाव्
आत्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यं च
गच्छति [गच्छति] ॥ ८।२६ ॥
मूलम्
यस्य तु खलु संस्काराणाम् एकदेशो ऽप्य् अष्टाव्
आत्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यं च
गच्छति [गच्छति] ॥ ८।२६ ॥
तुशब्दो विशेषवाची । खलुशब्दः प्रसिद्धौ । यस्य चत्वारिंशत्संस्कारेषु द्विजत्वमूलकतिपयसंस्कारसंबन्धे ऽप्य् अष्टाव् आत्मगुणाः सन्ति । अथ शब्दो निर्धारणे ब्रह्मणः सायुज्यं सालोक्यं च गच्छत्य् एव । [अभ्यासो ऽध्यायसमाप्त्यर्थः] ।
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
प्रथमप्रश्ने ऽष्टमो ऽध्यायः