अथ सप्तमो ऽध्यायः
श्रुतं तु सर्वेभ्यो गरीय इति विद्याप्राधान्यम् उक्तम् । सा विद्या ब्राह्मणाद् अधिगन्तव्येति प्रथमः कल्पः । तदभावे विद्याया अवश्याधिगन्तव्यत्वाद् आपत्कल्पम् आह ।
विश्वास-प्रस्तुतिः
आपत्कल्पो ब्राह्मणस्याभ्राह्मणाद्
विद्योपयोगः ॥ ७।१ ॥
मूलम्
आपत्कल्पो ब्राह्मणस्याभ्राह्मणाद्
विद्योपयोगः ॥ ७।१ ॥
हरदत्तः
अङ्गानि वेदाश् चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्य् एताश् चतुर्दश ॥
उपयोगो नियमपूर्वकं ग्रहणम् । अब्राह्मणः क्षत्रियो वैश्यश् च तस्माद् ब्राह्मणेन विद्योपयोगः कार्यः स आपत्कल्पः । आपद्विधिर् ब्राह्मणस्येत्य् उपलक्षणम् । तेन क्षत्रियेणापि वैश्याद् विद्योपयोगः कार्य इति सिध्यति । आपत्कल्प इत्य् अध्यायपरिसमाप्तेर् अधिक्रियते ॥ ७।१ ॥
विश्वास-प्रस्तुतिः
अनुगमनं शुश्रूषा ॥ ७।२ ॥
मूलम्
अनुगमनं शुश्रूषा ॥ ७।२ ॥
हरदत्तः
तत्र यावद् अध्ययनकालम् अनुगमनम् एव शुश्रूषा नान्यत् पादसंवाहनादि ॥ ७।२ ॥
विश्वास-प्रस्तुतिः
समाप्ते ब्राह्मणो गुरुः ॥ ७।३ ॥
मूलम्
समाप्ते ब्राह्मणो गुरुः ॥ ७।३ ॥
हरदत्तः
समाप्ते त्व् अध्ययने ब्राह्मण एव गुरुः ॥ ७।३ ॥
विश्वास-प्रस्तुतिः
याजनाध्यापनप्रतिग्रहाः सर्वेषाम् ॥ ७।४ ।
मूलम्
याजनाध्यापनप्रतिग्रहाः सर्वेषाम् ॥ ७।४ ।
हरदत्तः
याजनादयो ब्राह्मणस्य वृत्तयस् ता आपदि सर्वेषाम् अनुज्ञायन्ते न तु ब्राःमणस्यैवेति । अपर आह – आपदि सर्वे याजयितव्याः सर्वे ऽध्याप्याः सर्वतश् च प्रतिग्राह्यं न तु गर्हादोषो ऽस्तीति । तथा च मनुः ।
नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलनाम्बुसमो हि सः ॥ इति ॥ ७।४ ॥
विश्वास-प्रस्तुतिः
पूर्वः पूर्वो गुरुः ॥ ७।५ ॥
मूलम्
पूर्वः पूर्वो गुरुः ॥ ७।५ ॥
हरदत्तः
एतेषां याजनादीनां यो यः पूर्वनिर्दिष्टः स स उत्तरस्माद् गुरुर् ज्ञेयः । आपदि प्रतिग्रहेण जीवेत् तदसंभवे ऽध्यापनेन तदसंभवे याजनेनेति ॥ ७।५ ॥
विश्वास-प्रस्तुतिः
तदलाभे क्षत्रवृत्तिः ॥ ७।६ ॥
मूलम्
तदलाभे क्षत्रवृत्तिः ॥ ७।६ ॥
हरदत्तः
इदं ब्राह्मणविषयम् । गर्हितयाजनादेर् अप्य् अलाभे क्षत्रवृत्तिः स्यात् । ब्राह्मणः सेवादिना जीवेत् । आपदि निवृत्तायां नारदः ।
आपदं ब्राह्मणस् तीर्त्वा क्षत्रवृत्त्या भृते जने ।
उत्सृजेत् कात्रवृत्तिं तां कृत्वा पवनम् आत्मनः ॥ इति ॥ ७।६ ॥
विश्वास-प्रस्तुतिः
तदलाभे वैश्यवृत्तिः ॥ ७।७ ॥
मूलम्
तदलाभे वैश्यवृत्तिः ॥ ७।७ ॥
हरदत्तः
क्षत्रवृत्तेर् अप्य् अलाभे वैश्यवृत्त्यापि जीवेद् ब्राह्मणः । अलाभग्रहणं वृत्तिसंकरो मा भूद् इति । क्षत्रियस्य वैश्यवृत्त्युपजीवनं दण्डापूपन्यायेन सिद्धम् ॥ ७।७ ॥
विश्वास-प्रस्तुतिः
तस्यापण्यम् ॥ ७।८ ॥
मूलम्
तस्यापण्यम् ॥ ७।८ ॥
हरदत्तः
तस्य वैश्यवृत्तेर् ब्राह्मणस्यापण्येन विक्रेयं वक्ष्यते । तस्येति वचनात् क्षत्रियस्य वैश्यवृत्त्युपजीविनो वक्ष्यमाणम् अपण्यं न भवति ॥ ७।८ ॥
विश्वास-प्रस्तुतिः
गन्धरसकृतान्नतिलशाणक्षौमाजिनानि ॥ ७।९ ॥
मूलम्
गन्धरसकृतान्नतिलशाणक्षौमाजिनानि ॥ ७।९ ॥
हरदत्तः
गन्धश् चन्दनादिः । रसस् तैलघृतलवणगुडादिः । कृतान्नं मोदकापूपादि । तिलाः प्रसिद्धाः । शाणं शणविकारो गोण्यादिः । क्षौमं क्षुमोद्भूतं पट्टवस्त्रविशेषः । अजिनं चर्म कटादि । एतान्य् अविक्रेयाणि । शणक्षौमयोर् विकारनिषेधात् प्रकृतेर् अपर्तिषेधः ॥ ७।९ ॥
विश्वास-प्रस्तुतिः
रक्तनिर्णिक्ते वाससी ॥ ७।१० ॥
मूलम्
रक्तनिर्णिक्ते वाससी ॥ ७।१० ॥
हरदत्तः
रक्तं लाक्षादिना विकृतम् । निर्णिक्तं रजकादिना धौतम् । एवंभूते अपि वाससी अपण्ये ॥ ७।१० ॥
विश्वास-प्रस्तुतिः
क्षीरं सविकरम् ॥ ७।११ ॥
मूलम्
क्षीरं सविकरम् ॥ ७।११ ॥
हरदत्तः
दध्यादिभिर् विकारैः सह क्षीरम् अपण्यम् ॥ ७।११ ॥
विश्वास-प्रस्तुतिः
मूलफलपुष्पौषधमधुमांसतृणोदकापथ्यानि
॥ ७।१२ ॥
मूलम्
मूलफलपुष्पौषधमधुमांसतृणोदकापथ्यानि
॥ ७।१२ ॥
हरदत्तः
मूलम् आर्द्रकहरिद्रादि । फलं पूगादि । पुष्पं चम्बकादि । औषधं पिप्पल्यादि । मधु माक्षिकम् । मांसतृणोदकानि प्रसिद्धानि । अपथ्यं विषादि । एतान्य् अपण्यानि । रसशब्देन पूर्वम् एव निषिद्धे ऽपि पुनर् मधुग्रहणं सर्वथा वृत्तिर् अशक्ताव् इत्यादिपक्षे निषेधर्थम् ॥ ७।१२ ॥
विश्वास-प्रस्तुतिः
पशवश् च हिंसासंयोगे ॥ ७।१३ ॥
मूलम्
पशवश् च हिंसासंयोगे ॥ ७।१३ ॥
हरदत्तः
पशवो ऽजादयः । हिंसासंयोगे सौनिकादिभ्यो हिंसार्थे न विक्रेयाः ॥ ७।१३ ॥
विश्वास-प्रस्तुतिः
पुरुषवाशाकुमारीवेहतश् च नित्यम् ॥ ७।१४ ॥
मूलम्
पुरुषवाशाकुमारीवेहतश् च नित्यम् ॥ ७।१४ ॥
हरदत्तः
पुरुषाः दासादयः । वशा वन्ध्या गौः । कुमारी वत्सतरी । वेहद् गर्भोपघातिनी । एते नित्यम् अपण्याः । नित्यम् इत्य् उक्तत्वाद् धिंसासंयोगाद् अन्यत्रापि निषेधः । अपर आह – इह नित्यग्रहणात् पूर्वेषु तिलादिष्व् अनित्यः प्रतिषेध इति । तत्र वसिष्ठः: “कामं वा स्वयम् उत्पाद्य तिलान् विक्रीणीरन्” इति ॥ ७।१४ ॥
विश्वास-प्रस्तुतिः
भूमिव्रीहियवाजाव्यश्वऋषभधेन्वनडुहश्
चैके ॥ ७।१५ ॥
मूलम्
भूमिव्रीहियवाजाव्यश्वऋषभधेन्वनडुहश्
चैके ॥ ७।१५ ॥
हरदत्तः
भूमिर् गृहम् । व्रीहियवाजाव्यश्वाः प्रसिद्धाः । ऋषभः सेचनसमर्थो गौः । धेनुः सकृत्प्रसूता । अनड्वान् अनोवाहनयोग्यो बलीवर्दः । एते चापण्या इत्य् एके मन्यन्ते । एकशब्दाद् वयं त्व् अनुजानीमः । अत्राप्य् अजाविग्रहणं हिंसासंयोगविषयपरम् ॥ ७।१५ ॥
विश्वास-प्रस्तुतिः
नियमस् तु ॥ ७।१६ ॥
मूलम्
नियमस् तु ॥ ७।१६ ॥
हरदत्तः
नियमो विनिमयः परिवर्तनं तुशब्देन नियमो ऽनुज्ञायत इति ॥ ७।१६ ॥
विश्वास-प्रस्तुतिः
रसानां रसैः ॥ ७।१७ ॥
मूलम्
रसानां रसैः ॥ ७।१७ ॥
हरदत्तः
तैलघृतगुडादीनां रसैर् एव विनिमयः कर्यः । तद् यथा: तैलं दत्वा घृतं ग्राह्यम् इति । “रसैः समतो हीनतो वा” इति वसिष्ठः [वध् २।३७] ॥ ७।१७ ॥
विश्वास-प्रस्तुतिः
पशूनां च ॥ ७।१८ ॥
मूलम्
पशूनां च ॥ ७।१८ ॥
हरदत्तः
पशूनां चतुष्पदां पशुभिर् विनिमयः कर्यः ॥ ७।१८ ॥
विश्वास-प्रस्तुतिः
न लवणकृतान्नयोः ॥ ७।१९ ॥
मूलम्
न लवणकृतान्नयोः ॥ ७।१९ ॥
हरदत्तः
लवणस्य कृतान्नस्य च विनिमयो ऽपि प्रतिषिद्धः ॥ ७।१९ ॥
विश्वास-प्रस्तुतिः
तिलानां च ॥ ७।२० ॥
मूलम्
तिलानां च ॥ ७।२० ॥
हरदत्तः
तिलानां च विनिमयो न कार्यः । लवणकृतान्नतिलानां द्रव्यान्तरस्वीकारेण प्रदानं निषिद्धम् । समानद्रव्यविषये प्रवृत्तसंभवात् ॥ ७।२० ॥
विश्वास-प्रस्तुतिः
समेनासेमेन तु पक्वस्य संप्रत्यर्थे ॥ ७।२१ ॥
मूलम्
समेनासेमेन तु पक्वस्य संप्रत्यर्थे ॥ ७।२१ ॥
समेन समपरिमाणेनामेन तण्डुलेन संप्रत्यर्थे तादात्मिकोपयोगार्थे पक्वान्नस्य नियमः कार्यः । मनुस् तु “तिला धान्येन तत्समा” [म्ध् १०।९४] इति समेन धान्येन तिलानां नियमम् अनुजानाति । अपण्यम् इति विक्रयनिषेधात् सर्वत्र यावद् उपयोगक्रये निषेधो न स्यात् । रसादीनाम् अपि नियमशब्देन प्रदानम् एव विवक्षितम् । अन्यथा त्व् अविद्यमानेन रसान्तरादेर् द्रव्याण्य् आवृत्त्यसंभवात् ॥ ७।२१ ॥
विश्वास-प्रस्तुतिः
सर्वथा वृत्तिर् अशक्ताव् अशौद्रेण ॥ ७।२२ ॥
मूलम्
सर्वथा वृत्तिर् अशक्ताव् अशौद्रेण ॥ ७।२२ ॥
हरदत्तः
उक्तेन प्रकारेण कुटुम्बधारणस्यासंभवो ऽशक्तिः । तस्यां सत्यां सर्वथा वृत्तिः । प्रकारवचने थाल्, उक्तेन सर्वप्रकारेण निषिद्धेनापि जीवेत् । तत्रापि न शौद्रेण कर्मणा जीवेद् इति ॥ ७।२२ ॥
विश्वास-प्रस्तुतिः
तद् अप्य् एके प्राणसंशये ॥ ७।२३ ॥
मूलम्
तद् अप्य् एके प्राणसंशये ॥ ७।२३ ॥
हरदत्तः
एके त्व् आचार्याः प्राणसंशये सति तद् अपि शौद्रं कर्माप्य् अनुमन्यन्ते । यथाह व्यासः:
धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः ।
तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ इति ॥ ७।२३ ॥
विश्वास-प्रस्तुतिः
तद्वर्णसंकराभ्यक्ष्यनियमस् तु ॥ ७।२४ ॥
मूलम्
तद्वर्णसंकराभ्यक्ष्यनियमस् तु ॥ ७।२४ ॥
हरदत्तः
नियमो वर्जनम् । शूद्रवृत्तिस्थितेनापि ब्राह्मणेन तेन शूद्रवर्णेन सहासनाङ्गसंमेलनादिः संकरः । अभक्ष्यं च लशुनादि । तदुभयवर्जनं कर्तव्यं न तु शूद्रवृत्तिर् अस्मीति यथाकाम्यम् इति ॥ ७।२४ ॥
विश्वास-प्रस्तुतिः
प्राणसंशये ब्राह्मणो ऽपि शस्त्रम् आददीत ॥ ७।२५ ॥
मूलम्
प्राणसंशये ब्राह्मणो ऽपि शस्त्रम् आददीत ॥ ७।२५ ॥
हरदत्तः
प्राणसंशये सति ब्राह्मणो ऽपि रक्षार्थं शस्त्रम् आददीत । तदलाभे क्षत्रवृत्तिर् इति शस्त्रग्रहणे सिद्धे पुनर् आपादनं ब्राह्मणवृत्तेः सतो ऽप्य् अनिषेधार्थम् । अपिशब्दात् किं पुनर् वैश्यशूद्रौ ॥ ७।२५ ॥
विश्वास-प्रस्तुतिः
राजन्यो वैश्यकर्म [वैश्यकर्म] ॥ ७।२६ ॥
मूलम्
राजन्यो वैश्यकर्म [वैश्यकर्म] ॥ ७।२६ ॥
हरदत्तः
प्राणसंशये राजन्यो वैश्यकर्माददीत । तेनात्मानं रक्षेत् [अभ्यासो ऽध्यायसमाप्त्यर्थः] ॥ ७।२६ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
प्रथमप्रश्ने सप्तमो ऽध्यायः