०६

अथ षष्ठो ऽध्यायः

उक्तातिथिपूजा । अन्येषाम् अपि पूजाप्रकारम् आह ।

विश्वास-प्रस्तुतिः

पादोपसंग्रहणं समवाये ऽन्वहम् ॥ ६।१ ॥

मूलम्

पादोपसंग्रहणं समवाये ऽन्वहम् ॥ ६।१ ॥

हरदत्तः

वक्ष्यमाणानां मात्रादीनां समवाये संगमे प्रतिदिनं पादोपसंग्रहणं कार्यम् । व्यत्यस्तपाणिना कार्यम् इति पूर्वोक्तप्रकारेण ॥ ६।१ ॥

विश्वास-प्रस्तुतिः

अभिगम्य तु विप्रोष्य ॥ ६।२ ॥

मूलम्

अभिगम्य तु विप्रोष्य ॥ ६।२ ॥

हरदत्तः

तुशब्दः प्रकृतव्यावृत्तौ । विप्रोष्य स्वयं विप्रवासः कृत्वा तेषां विप्रवासे वा ते मातृपित्रादयो यत्रास्थितास् तत्राभिगम्य पादोपसंग्रहणं कार्यम् इति ॥ ६।२ ॥

हरदत्त-प्रस्तावः

तन्मातृपित्रादीन् आह ।

विश्वास-प्रस्तुतिः

मातृपितृतद्बन्धूनां पूर्वजानां विद्यागुरूणां
तद्गुरूणां च ॥ ६।३ ॥

मूलम्

मातृपितृतद्बन्धूनां पूर्वजानां विद्यागुरूणां
तद्गुरूणां च ॥ ६।३ ॥

हरदत्तः

मातापितरौ प्रसिद्धौ । तद्बन्धवो मातुलमातृष्वसृपितृव्यपितृषवस्रादयः । पूर्वजा ज्येष्ठभ्रातरः । विद्यागुरव आचार्योपाध्यायादयः । तद्गुरव [प्र्-?]आचार्यादयः । तद्विषयं पूर्वसूत्रवद् वयम् इति ॥ ६।३ ॥

विश्वास-प्रस्तुतिः

संनिपाते परस्य ॥ ६।४ ॥

मूलम्

संनिपाते परस्य ॥ ६।४ ॥

हरदत्तः

मात्रादीनां युगपत्संनिपाते समागमे परस्योत्कृष्टस्य प्रथमम् उपसंग्रहणं कार्यम् । आचार्यः श्रेष्ठो गुरूणां मातेय् एक इत्य् उत्कर्षः पूर्वोक्तः । आपस्तम्बेन तु: “आचार्यप्राचार्यसंनिपाते प्राचार्योपसंगृह्योपसंजिघृक्षेद् आचार्यम्” इत्यादिनोपसंग्रहणम् उक्तम् ॥ ६।४ ॥

हरदत्त-प्रस्तावः

अभिवादनविधिम् आह ।

विश्वास-प्रस्तुतिः

स्वनाम प्रोच्याहम् अयम् इत्य् अभिवादो
ज्ञसमवाये ॥ ६।५ ॥

मूलम्

स्वनाम प्रोच्याहम् अयम् इत्य् अभिवादो
ज्ञसमवाये ॥ ६।५ ॥

हरदत्तः

यः प्रत्यभिवादनाभिज्ञस् तेन संगमे स्वनाम प्रोच्ये व्यावहारिकं प्रसिद्धं नाम प्रोच्याहम् अयम् इति प्रकर्षेणोच्चैर् उक्त्वाभिवादः कार्यः । अभिवादो ऽभिवादनं ण्यन्तादेर् अच् । एवं चार्थज्ञानां ज्ञातवरसमवाये ऽभिवादनक्रमेणायम् अहम् इति स्वनाम गुह्यं प्रोच्याभिवादनं कार्यम् । हीनव्यतिरिकाभिवाद्यविषयम् । तद् यथा – अभिवादये हरदत्तशर्मा नामाहम् अस्मि भो इति । तत्र प्रत्यभिवादनविधिर् मनुना दर्शितः ।

आयुष्मान् भव सौम्येत् वाच्यो विप्रो ऽभिवादने ।
अकारश् चास्य नाम्नो ऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥

अस्यार्थः । विप्रशब्देन ब्राह्मणविषयम् इदम् । अभिवादयिता विप्र आयुष्मान् भव सौम्येति वाच्यः । अस्य नाम्नो ऽन्ते पूर्वाक्षरप्लुतो ऽकारश् च वाच्यः । पूर्वाक्षरप्लुत इत्य् अकारस्य विशेषणम् । यस्मात् पूर्वो यो ऽन्त्यः स प्लुतो वाच्यः । तेन व्यञ्जनव्यवधाने ऽपि भवति । आयुष्मान् भव सौम्य हरदत्ता३अ । व्यञ्जनव्यवधानेन यथायुष्मान् भव सौम्याग्नि३द । इति प्रयोगः । वसिष्ठस् तु संध्यक्षरे विशेषम् आह: “आमन्त्रिते यो ऽन्त्यः स्वरः स प्लवते संध्यक्षरम् अप्रगृह्यम् आहुः” [वध् १३।४६] [इ] आ उ भावं चापद्यत इति । “एचो ऽप्रगृह्यस्यादूराद् घूते पूर्वस्यार्धस्याद् उत्तरस्येदुतौ” इति वैयाकरणः । तत्रान्ते ऽकारे प्रयुक्ते तयोर् य्वाव् अचि संहितायाम् इति यकारवकारौ । आयुष्मान् भव सौम्य पिनाकपाणा३येति विष्णा३वेति च प्रयोगः । अज्ञसमवाय इति पक्षे नायम् अभिवादनप्रकारः । तत्र स्मृत्यन्तरम् ।

अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः ।
कामं तेषु तु विप्रोष्य स्त्रीष्व् इवायम् अहं वदेत् ॥ इति ।

यथा स्त्रीषूक्तप्रकारं विना तादात्मिकेन देशभाषादिना येन केनापि शब्देनाभिवादनं तद्वत् तेष्व् अपि भवति । अभिवादनम् इति सामान्योपलक्षणम् । प्रकारवर्जितस्य स्त्र्यादिप्रयुक्तस्याप्य् अभिधानात् । अभिवादनप्रकारे त्व् आपस्तम्बः: “दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणो ऽभिवादयीत उरःसमं राजन्यो मध्यमं वैश्यो नीचैः शूद्रः प्राञ्जलिर् इति ॥ ६।५ ॥

विश्वास-प्रस्तुतिः

स्त्रीपुंयोगे ऽभिवादतो ऽनियमम् एके ॥ ६।६ ॥

मूलम्

स्त्रीपुंयोगे ऽभिवादतो ऽनियमम् एके ॥ ६।६ ॥

हरदत्तः

स्त्रीपुंयोगे जायापतिसमवाये ऽभिवादतः सार्वविभक्तिकस् तसिः । अभिवादने प्राप्ते ऽनियमम् एके मन्यन्ते । यद्य् अपि भर्ता प्रत्यभिवादज्ञस् तथापि तदभिवादने भार्याया नियमं नेच्छन्ति । अभिवादये ऽहम् इयम् इत्यादिक्रमो नियमस् तं नेच्छन्ति । सामान्याभिवादनमात्रम् एव । एवं च भार्यया भर्तुर् अहर् अहर् नमस्कारः कार्यः । एक इति वचनाद् गौतमस्य पक्षे नियम एव ॥ ६।६ ॥

विश्वास-प्रस्तुतिः

नाविप्रोष्य स्त्रीणाम् अमातृपितृव्यभार्याभगिनीनाम् ॥ ६।७ ॥

मूलम्

नाविप्रोष्य स्त्रीणाम् अमातृपितृव्यभार्याभगिनीनाम् ॥ ६।७ ॥

हरदत्तः

समवाये ऽन्वहम् इत्य् अस्यापवादो ऽयम् । मातृपितृव्यभार्याभगिनीव्यतिरिक्तानां स्त्रीणाम् अविप्रोष्योपसंग्रहणम् अभिवादनं च न कार्यम् । किं तु विप्रोष्य प्रत्यागमन एव कार्यम् । मात्रादीनां त्व् अविप्रोष्यापि प्रत्यहम् । तथा च स्मृत्यन्तरम् ।

उपसंग्रहणं कुर्याद् भगिन्या मातुर् एव च ।
तथा पितृव्यभार्याणां समवाये ऽन्वहं द्विजः ॥ इति ॥ ६।७ ॥

विश्वास-प्रस्तुतिः

नोपसंग्रहणं भ्रातृभार्याणां स्वसॄणाम् ॥ ६।८ ॥

मूलम्

नोपसंग्रहणं भ्रातृभार्याणां स्वसॄणाम् ॥ ६।८ ॥

हरदत्तः

विप्रोष्य प्रत्यागतेनासाम् उपसंग्रहणं न कर्यम् । अभिवादनं तु भवत्य् एव । तत्रात्यन्तगुरुस्थानीयानां मातुलान्यादीनाम् उपसंग्रहणम् अन्यासाम् अभिवादनम् इति ॥ ६।८ ॥

विश्वास-प्रस्तुतिः

ऋत्वक्छ्वशुरपितृव्यमातुलानां तु यवीयसां
प्रत्युत्तानम् अभिवाद्याः ॥ ६।९ ॥

मूलम्

ऋत्वक्छ्वशुरपितृव्यमातुलानां तु यवीयसां
प्रत्युत्तानम् अभिवाद्याः ॥ ६।९ ॥

हरदत्तः

ऋत्विगादीनाम् आत्मनो यवीयसां प्रत्युत्तानमात्रेण पूजा कार्या न पुनस् ते ऽभिवाद्याः ॥ ६।९ ॥

विश्वास-प्रस्तुतिः

तथान्यः पूर्वः पौरो ऽशीतिकावरः शूद्रो ऽप्य्
अपत्यसमेन् ॥ ६।१० ॥

मूलम्

तथान्यः पूर्वः पौरो ऽशीतिकावरः शूद्रो ऽप्य्
अपत्यसमेन् ॥ ६।१० ॥

ऋत्विगादयो यथा प्रत्युत्थेया नाभिवाद्यास् तथायम् अपि । अन्यस् तेभ्यो ऽन्यः । पूर्वो वयसाधिकः । पौरः पुरवासी । वयसाधिक्ये ऽपि पुरवासाद् अपकर्ष उक्तः । अशीतिर् एवाशीतिका तथावरो ऽशीतिकावरः । न्यूनाशीतिक इत्य् अर्थः । एवंविधः शूद्रो ऽप्य् अपत्यसमेन प्रत्युत्थेयो नाभिवाद्यः । अपत्यसमेनेत्य् अन्तयवीयस्ता दर्शिता । शूद्रग्रहणम् अवरवर्णोपलक्षणम् । ततश् च शूद्रस् त्रिभिर् अपि वर्षैर् वैश्यो द्वाभ्यां क्षत्रियस् तु ब्राह्मणेनेति सिध्यति ॥ ६।१० ॥

विश्वास-प्रस्तुतिः

अवरो ऽप्य् आर्यः शूद्रेण ॥ ६।११ ॥

मूलम्

अवरो ऽप्य् आर्यः शूद्रेण ॥ ६।११ ॥

हरदत्तः

न्यूनाशीतिकेन शूद्रेणावरो ऽप्य् आर्यो यवीयान् अप्य् आर्यस् त्रैवर्णिकः प्रत्युत्थेयो नाभिवाद्यः । अत्रापि शूद्रग्रहणम् अवरवर्णोपलक्षणम् । ततश् च शूद्रेण त्रयो वर्णाः । वैश्येन द्वौ । क्षत्रियेण ब्राह्मण इत्य् अवरवयसः प्रत्युत्थेया नाभिवाद्या इति सिध्यति ॥ ६।११ ॥

विश्वास-प्रस्तुतिः

नाम वास्य वर्जयेत् ॥ ६।१२ ॥

मूलम्

नाम वास्य वर्जयेत् ॥ ६।१२ ॥

हरदत्तः

अस्येति अत्र वीप्सालोपः । अस्यास्योत्कृष्टोत्कृष्टस्यापकृष्टो न नाम गृह्णीयात् । किं त्व् औपचारिकं नाम गृह्णीयात् ॥ ६।१२ ॥

विश्वास-प्रस्तुतिः

राज्ञश् चाजपः प्रेष्यः ॥ ६।१३ ॥

मूलम्

राज्ञश् चाजपः प्रेष्यः ॥ ६।१३ ॥

हरदत्तः

अजपो ऽश्रोत्रियः । प्रेष्यः प्रेषकरः । स उत्कृष्टवर्णो ब्राह्मणो ऽपि राज्ञो ऽभिषिक्तस्य नाम वर्जयेत् ॥ ६।१३ ॥

विश्वास-प्रस्तुतिः

भो भवन्न् इति वयस्यः समाने ऽहनि जातः ॥ ६।१४ ॥

मूलम्

भो भवन्न् इति वयस्यः समाने ऽहनि जातः ॥ ६।१४ ॥

हरदत्तः

वयसा तुल्यो वयस्यः । समाने ऽहनि जातः । अत्राहःशब्दः संवत्सरवाचकः । एकस्मिन् संवत्सरे जातः स भो भवन्न् इत्य् अनयोर् अन्यतरेण शब्देन संभाष्यः ॥ ६।१४ ॥

विश्वास-प्रस्तुतिः

दशवर्षवृद्धः पौरः पञ्चभिः कलाभरः
श्रोत्रियश् चारणस् त्रिभिः ॥ ६।१५ ॥

मूलम्

दशवर्षवृद्धः पौरः पञ्चभिः कलाभरः
श्रोत्रियश् चारणस् त्रिभिः ॥ ६।१५ ॥

हरदत्तः

पुरे वसन् गुणहीनो दशवर्शवृद्धश् च तत्रापि कलाभरश् चतुःषष्टिकलास्व् अन्यतमया जीवन् पञ्चभिर् वर्षैर् वृद्धश् च । श्रोत्रियो ऽधीतवेदः । चारणः सहाध्यायी । एते सर्वे ऽपि भो भवन्न् इति संभाष्याः । आपस्तम्बस् तु सर्वत्राभिवादनम् इच्छति ।

दशवर्षं पौरसख्यं पञ्चवर्षं तु चारणम् ।
त्रिवर्षपूर्वः श्रोत्रियो ऽभिवादनम् अर्हति ॥ [आप्ध् १।१४।१३]

॥ ६।१५ ॥

विश्वास-प्रस्तुतिः

राजन्यवैश्यकर्मा विद्याहीनाः ॥ ६।१६ ॥

मूलम्

राजन्यवैश्यकर्मा विद्याहीनाः ॥ ६।१६ ॥

हरदत्तः

कर्मशब्दः प्रत्येकम् अभिसंबध्यते । राजन्यकर्मा वैश्यकर्मा । ब्राह्मणो ऽपि राजन्यकर्मणा वैश्यकर्मणा वा जीवन्न् अत्यन्तवृद्धो ऽपि भो भवान्न् इति संभाष्यः । विद्याहीनश् च वृद्धो ऽपि विद्याधिकेन तथा भाष्यः ॥ ६।१६ ॥

विश्वास-प्रस्तुतिः

दीक्षितश् च प्राक्क्रयात् ॥ ६।१७ ॥

मूलम्

दीक्षितश् च प्राक्क्रयात् ॥ ६।१७ ॥

हरदत्तः

वयस्यविषयम् इदम् । दीक्षितश् च वयस्यः सोमक्रयात् पूर्वं तथा भाष्यः । ततः परं वृद्धवन् मान्यः । उत्तमाश्रमविषय उशना: “श्रोत्रियवत् प्राशितः सर्वेषां गुरुर् भवति” इति ॥ ६।१७ ॥

विश्वास-प्रस्तुतिः

वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानि
परबलीयांसि ॥ ६।१८ ॥

मूलम्

वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानि
परबलीयांसि ॥ ६।१८ ॥

हरदत्तः

वित्तादीनां साक्षात् मान्यत्वासंभवात् तद्वन्तो मान्या इत्य् उपलक्ष्यन्ते । वित्तवान् आढ्यः । बन्धुमान् विशिष्टैः सोदर्यादिभिर् युक्तः । कर्मवान् यथोक्तकर्मकारी । जातिमान् अभिजनयुक्तः । विद्यावान् अधीतवेदशास्त्रः । वयस्वान् वयसाधिकः । एतादृशा अतादृशैर् मान्याः । परस्परसमवाये तु परः परो बलीयान् प्रथममान्यः । मान्ये ऽभिवादनादिसंमानः ॥ ६।१८ ॥

विश्वास-प्रस्तुतिः

श्रुतं तु सर्वेभ्यो गरीयः ॥ ६।१९ ॥

मूलम्

श्रुतं तु सर्वेभ्यो गरीयः ॥ ६।१९ ॥

हरदत्तः

श्रुतं मन्त्रब्राह्मणविभागेन वेदार्थपरिज्ञानम् । तत्सर्वेभ्यो वित्तादिभ्यो गरीयो गुरुतरम् । पूर्वसूत्रे परबलीयांसीति श्रुतम् अपरम् उपन्यस्तं तद्व्यावृत्त्यर्थं पृथक्सूत्रम् ॥ ६।१९ ॥

हरदत्त-प्रस्तावः

कुतः पुनः श्रुतं सर्वेभ्यो गरीय इत्य् अत आह ।

विश्वास-प्रस्तुतिः

तन्मूलत्वाद् धर्मस्य श्रुतेश् च ॥ ६।२० ॥

मूलम्

तन्मूलत्वाद् धर्मस्य श्रुतेश् च ॥ ६।२० ॥

हरदत्तः

श्रुतमूलम् अनुष्ठानम् अनुष्ठानमूलो धर्म इति श्रुतेश् चाप्य् अनुच्छिन्नसंप्रदायो मूलम् । तस्माच् छ्रुतस्य गरीयस्त्वम् । श्रुतस्य गरीयस्त्वं छान्दोग्ये प्रतिपादितम्: “ब्राह्मणं शैशवं भवति शिशुर् वै आङ्गिरसो मन्त्रकृतां मन्त्रकृद् आसीत्” इति । मनुर् अपि ।

अध्यापयामास पितॄञ् शिशुर् आङ्गिरसः कविः ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ इति ॥ ६।२० ॥

विश्वास-प्रस्तुतिः

चक्रिदशमीस्थानुग्राह्यवधूस्नातकराजभ्यः
पथो दानम् ॥ ६।२१ ॥

मूलम्

चक्रिदशमीस्थानुग्राह्यवधूस्नातकराजभ्यः
पथो दानम् ॥ ६।२१ ॥

हरदत्तः

चक्रि चक्रवच् छकटादि । तत्स्थश् चक्रिस्थः । दशम्यां दशायां स्थितो दशमीस्थो वृद्धः । अनुग्राह्यो रोगार्तः । वधूर् गर्भिणी । स्नातको विद्याव्रतस्नातः । राजाभिषिक्तः । पथि संगम एतेभ्यो ऽन्यैः पन्था देयः ॥ ६।२१ ॥

हरदत्त-प्रस्तावः

तत्र विशेषः ।

विश्वास-प्रस्तुतिः

राज्ञा तु श्रोत्रियाय श्रोत्रियाय ॥ ६।२२ ॥

मूलम्

राज्ञा तु श्रोत्रियाय श्रोत्रियाय ॥ ६।२२ ॥

हरदत्तः

श्रोत्रियसमागमे राज्ञैव पन्था देयः । अभ्यासो ऽध्यायसमाप्त्यर्थः ॥ ६।२२ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां

प्रथमप्रश्ने षष्ठो ऽध्यायः