०५

अथ पञ्चमो ऽध्यायः

हरदत्त-प्रस्तावः

गर्भाधानकालं प्रस्तौति ।

विश्वास-प्रस्तुतिः

ऋताव् उपेयात् ॥ ५।१ ॥

मूलम्

ऋताव् उपेयात् ॥ ५।१ ॥

हरदत्तः

रजोदर्शनाद् आरभ्य षोडशाहोरात्रा ऋतुः स्त्रीणां गर्भग्रहणकालस् तत्रोपगच्छेद् भार्याम् । तत्र आपस्तम्बीये विशेषः: “चतुर्थीप्रभृत्य् आ षोडशीम् उत्तराम् उत्तरां युग्मां प्रजानिःश्रेयसम् ऋतुगमनम् इत्य् उपदिशन्ति” । मानवं तु ।

ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोढश स्मृताः ।
चतुर्भिर् एतैः सार्धम् अहोभिः सद्विगर्हितैः ॥
तासाम् आद्याश् चतस्रस् तु निन्द्या एकाद्शी तु या ।
त्रयोदशी च शेषास् तु प्रशस्ता दश रात्रयः ॥
अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रहमचारी भवेन् इत्यम् अप्य् ऋतौ स्नातको द्विजः ॥ इति ।

याज्ञवल्क्यस् तु ।

एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् ।
युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु ॥

इति च । तद् इह षोडशसु रात्रिष्व् आदितस् तिस्रः सर्वथा वर्ज्याः । इतरासु गच्छेद् इति सर्वस्मृतिचोदितनिषेदान् परित्यज्य गच्छन्न् उत्कृष्टं पुत्रं जनयति । द्वेषादिना ऋताव् अनुपयन् प्रत्यवेयाद् इति । तथा च देवलः ।

यः स्वदारान् ऋतुस्नातान् स्वस्थः सन् नोपगच्छति ।
भ्रूणहत्याम् अवाप्नोति गर्भं प्राप्तं विनाश्य सः ॥ इति ।

स्मृत्यन्तरं च ।

ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
तस्या रजसि तं मासं पितरस् तस्य शेरते ॥ इति ।

अयं तु रागतः प्राप्तत्वे सत्य् अप्य् अकरणे प्रत्यवायश्रवणाद् द्विविधश् च भवति । ऋताव् एवोपेयद् एवेति कस्यचिन् मतेन नियमश् च भवति ॥ ५।१ ॥

हरदत्त-प्रस्तावः

आचार्यस् तु परिसंख्यानं च प्रतिपादयति ।

विश्वास-प्रस्तुतिः

सर्वत्र वा प्रतिषिद्धवर्जम् ॥ ५।२ ॥

मूलम्

सर्वत्र वा प्रतिषिद्धवर्जम् ॥ ५।२ ॥

हरदत्तः

सर्वेषु वा कालेषूपेयाद् ऋताव् अनृतौ च प्रतिषिद्धदिवसान् वर्जयित्वा ।

यथाकामी भवेद् वापि स्त्रीणां वरम् अनुस्मरन् । इति ।

वरश् च – कामम् आ विजनितोः संभवामेति । यद् अप्य् आत्मनो जितेन्द्रियत्वे सत्य् अपि धर्मदाराः सर्वदा रक्षणीया इति स्मर्यते । अप्रमत्ता रक्षत तन्तुम् एनं मा वः क्षेत्रे परबीजानि वाप्सुर् इति ॥ ५।२ ॥

हरदत्त-प्रस्तावः

अथ पञ्च महायज्ञाः_ ।

विश्वास-प्रस्तुतिः

देवपितृमनुष्यभूतर्षिपूजकः ॥ ५।३ ॥

मूलम्

देवपितृमनुष्यभूतर्षिपूजकः ॥ ५।३ ॥

हरदत्तः

अत्र पूजकशब्दो देवादिषु प्रत्येकं संबध्यते । द्वंद्वान्त्यं श्रूयमाणं प्रत्येकम् अभिसंबध्यते । गृहस्थो नित्यं देवादिपूजकः स्यात् । तत्र देवपूजा वैश्वदेवसकलहोमाद्यग्निकार्यं च । पितृपूजां मनुर् आह ।

एकम् अप्य् आशयेद् विप्रं पित्रर्थे पाञ्चयाज्ञिके ।
न चैवात्राशयेत् किंचिद् वैश्वदेवं प्रति द्विजम् ॥ इति ।
दद्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन च ।
पयोमूलफलैर् वापि पितृभ्यः प्रीतिम् आवहन् ॥ इति च ।

मनुष्यपूजा अतिथिपूजा । भूतपूजा बलिहरणम् । ऋषिपूजा ब्रह्मयज्ञः । ऋषियज्ञो ब्रह्मयज्ञ इति पर्यायः ॥ ५।३ ॥

हरदत्त-प्रस्तावः

ते च प्रतिपाद्यन्ते । अत्र क्रमो न विवक्षितः । ब्रह्मयज्ञस् तु ।

विश्वास-प्रस्तुतिः

नित्यस्वाध्यायः ॥ ५।४ ॥

मूलम्

नित्यस्वाध्यायः ॥ ५।४ ॥

हरदत्तः

बहुव्रीहिर् अयम् । तत्प्रकारश् च “ब्रह्मयज्ञेन यक्ष्यमाण” इत्य् आरभ्य तैत्तिरीयके ऽभिहितः । अत्र नित्यशब्दाद् ब्रह्मयज्ञव्यतिरिक्तकाले ऽपि यथावसरम् अधीयीतेति दर्शितम् ॥ ५।४ ॥

हरदत्त-प्रस्तावः

पितृयज्ञस् तु ।

विश्वास-प्रस्तुतिः

पितृभ्यश् चोदकदानं यथोत्साहम् अन्यत् ॥ ५।५ ॥

मूलम्

पितृभ्यश् चोदकदानं यथोत्साहम् अन्यत् ॥ ५।५ ॥

हरदत्तः

पितृभ्यो नित्यम् उदकं दद्यात् । अन्यद् भोजनफलमूलादि यथोत्साहं यथाशक्ति दद्यात् । अत्र चकारान् नित्यं देवर्षीणाम् अपि तर्पणं कर्तव्यम् इति दर्शितम् । तत्र मनुर् ब्रह्मचारिणं प्रकृत्याह ।

नित्यं स्नत्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् ॥ इति ।

कात्यायनः ।

देवतानां पितॄणां च जले दद्याज् जलाञ्जलिम् ।
असंस्कृतप्रमीतानां स्थले दद्याज् जलाञ्जलिम् ॥ इति ।

भृगुः ।

नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना ।
नोपतिष्ठति तत् तोयं यद् भूम्यां न प्रदीयते ॥

उशना ।

आपो देवगणाः सर्व आपः पितृगणाः स्मृताः ।
तस्माद् अप्सु जलं देयं पितॄणां दत्तम् अक्षयम् ॥ इति ।

भृगुः प्रकारान्तरम् आह ।

नाभिमात्रे जले स्थित्वा चिन्तयन्न् ऊर्ध्वमानसः ।
आगच्छन्तु मे पितर इमं गृह्णन्त्व् अपो ऽञ्जलिम् ॥
त्रिस् त्रिर् अञ्जलिम् आकाशम् उच्चैर् उच्चतरं बुधः ।
उक्त्वा चोक्त्वा क्षिपन् वारि वाग्यतो दक्षिणामुखः ॥ इति ॥ ५।५ ॥

हरदत्त-प्रस्तावः

देवयज्ञस्याग्निकार्यमूलत्वाद् अग्निपरिग्रहकालं तावद् आह ।

विश्वास-प्रस्तुतिः

भार्यादिर् अग्निर् दायादिर् वा ॥ ५।६ ॥

मूलम्

भार्यादिर् अग्निर् दायादिर् वा ॥ ५।६ ॥

हरदत्तः

भार्याशब्देन विवाहो लक्ष्यते । यस्मिन्न् अग्नौ भार्योह्यते तम् अग्निम् आरभ्य वा यस्मिन्न् अहनि पितृभ्रात्रादिभिर् दायविभागः क्रियते तद् अहर् आरभ्य वा सायम् उपक्रमम् अग्निं परिचरेत् । दायविभागात् पूर्वं पितुर् ज्येष्ठभ्रातुर् वा कर्मण्य् उपजीवतां न प्रत्यवायः ॥ ५।६ ॥

विश्वास-प्रस्तुतिः

तस्मिन् गृह्याणि कर्माणि ॥ ५।७ ॥

मूलम्

तस्मिन् गृह्याणि कर्माणि ॥ ५।७ ॥

हरदत्तः

तस्मिन्न् एवंपरिगृहीते ऽग्नौ गृह्ये मनुष्यभूतानि पुंसवनादीनि कर्माणि कर्तव्यानीति ॥ ५।७ ॥

विश्वास-प्रस्तुतिः

देवपितृमनुष्ययज्ञाः स्वाध्यायश् च बलिकर्म ॥ ५।८ ॥

मूलम्

देवपितृमनुष्ययज्ञाः स्वाध्यायश् च बलिकर्म ॥ ५।८ ॥

हरदत्तः

तस्मिन्न् इत्य् अनुवर्तते । तत्र देवयज्ञस्याग्निसंबन्धः प्रसिद्धः । पितृमनुष्यभूतयज्ञानां तु तदर्थम् अन्नम् अस्मिन् गृह्याग्नौ पच्यत इति । ब्रह्मयज्ञस्याग्निसंबन्ध उशनसा पक्षे दर्शितः: “अग्निसमीप इत्य् एकेषाम्” इति । अपरिगृहीताग्नेर् अपि पञ्चमहायज्ञविधानाद् एते लौकिके ऽग्नौ कर्तव्याः ॥ ५।८ ॥

हरदत्त-प्रस्तावः

अत देवयज्ञवैश्वदेवप्रयोगम् आह ।

विश्वास-प्रस्तुतिः

अग्नाव् अग्निर् धन्वन्तरिर् विश्वे देवाः प्रजापतिः
स्विष्टकृद् इति होमः ॥ ५।९ ॥

मूलम्

अग्नाव् अग्निर् धन्वन्तरिर् विश्वे देवाः प्रजापतिः
स्विष्टकृद् इति होमः ॥ ५।९ ॥

हरदत्तः

अत्र “जुहोतिचोदनाः स्वाहाकारप्रद्(ह्)आनाः” इत्य् आपस्तम्बस्मरणाद् धोमशब्देन स्वाहारार उक्तः । अग्न्यादिभिः स्वाहाकारान्तैर् गनौ जुहुयात् । स्विष्टकृच् चाग्न्युपपदो द्रष्टव्यः । होमत्वादेवाग्निसिद्धाव् अग्नाव् इति वचनं बलिहरणवद् भूमौ न कर्तव्यम् इति वचनार्थ्म् । तस्माद् धोमधर्मः स्वाहाकारो बलिहरणेष्व् अपि भवति । तथा च आश्वलायनः: “स्वाहेत्य् अथ बलिहरणम्” इति । आपस्तम्बीयानां स्वाहाकारान्ता एव मन्त्राः पठिताः ॥ ५।९ ॥

हरदत्त-प्रस्तावः

अथ भूतयज्ञबलिहरणम् आह_ ।

विश्वास-प्रस्तुतिः

दिग्देवताभ्यश् च यथास्वम् ॥ ५।१० ॥

मूलम्

दिग्देवताभ्यश् च यथास्वम् ॥ ५।१० ॥

हरदत्तः

यस्या देवताया या दिक् तस्यां दिशि तस्यै देवतायै बलिर् हर्तव्यः । इन्द्राय स्वाहेतीशानपर्यन्तं प्रागादि प्रदक्षिणं कर्तव्यम् ॥ ५।१० ॥

विश्वास-प्रस्तुतिः

द्वार्षु महद्भ्यः ॥ ५।११ ॥

मूलम्

द्वार्षु महद्भ्यः ॥ ५।११ ॥

हरदत्तः

गृहस्य यावत्यो द्वारस् तासु महद्भ्यः स्वाहेति बलिहरणम् ॥ ५।११ ॥

विश्वास-प्रस्तुतिः

गृहदेवताभ्यः प्रविश्य ॥ ५।१२ ॥

मूलम्

गृहदेवताभ्यः प्रविश्य ॥ ५।१२ ॥

हरदत्तः

अन्तः प्रविश्य गृहदेवताभ्यः स्वाहेति बलिहरणम् । प्रविश्येति वचनाद् द्वारबहिष्ठेन न कर्तव्यम् ॥ ५।१२ ॥

विश्वास-प्रस्तुतिः

ब्रह्मणे मध्ये ॥ ५।१३ ॥

मूलम्

ब्रह्मणे मध्ये ॥ ५।१३ ॥

हरदत्तः

गृहस्य मधे ब्रह्मणे स्वाहेति बलिर् हर्तव्यः । दिग्देवताभ्यश् चेति चकारात् पृथिवी वायुः प्रजापतिर् विश्वे देवा इति सूत्रकारोक्तदेवताभ्यश् च ब्रह्मणो ऽनन्तरं बलिर् हर्तव्यः ॥ ५।१३ ॥

विश्वास-प्रस्तुतिः

आकाशायेत्य् अन्तर्क्षे बलिर् उत्क्षेप्यः ॥ ५।१४ ॥

मूलम्

आकाशायेत्य् अन्तर्क्षे बलिर् उत्क्षेप्यः ॥ ५।१४ ॥

हरदत्तः

विश्वेभ्यश् चैव देवेभ्यो बलिर् आकाश उत्क्षिपेत् ।
दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥ इति मनुः ॥ ५।१४ ॥

विश्वास-प्रस्तुतिः

नक्तंचरेभ्यश् च सायम् ॥ ५।१५ ॥

मूलम्

नक्तंचरेभ्यश् च सायम् ॥ ५।१५ ॥

हरदत्तः

सायं बलिहरणे ऽयं विशेषः । नक्तंचरेभ्यः स्वाहेति बलिर् हर्तव्यः । चकारात् पूर्वोकाभ्यश् च भवति ॥ ५।१५ ॥

विश्वास-प्रस्तुतिः

स्वस्तिवाच्य भिक्षादानम् अप्पूर्वम् ॥ ५।१६ ॥

मूलम्

स्वस्तिवाच्य भिक्षादानम् अप्पूर्वम् ॥ ५।१६ ॥

हरदत्तः

बलिहरणानन्तरं भिक्षादानं कर्तव्यम् । स्वस्त्य् अस्त्व् इति स्वस्तिवचनम् उक्त्वा भिक्षोर् हस्ते पूर्वम् अपो दत्वा चेति । परिव्राजके विशेषः ।

यतिहस्ते जलं दत्वा भैक्षं दत्वा पुनर् जलम् ।
भैक्षं पर्वतमात्रं स्यात् तज्जलं सागरोपमम् ॥ इति ।

एतद् भिक्षादानम् अतिथिपूजाभावे मनुष्ययज्ञः स्यात् । एते पञ्च महायज्ञा ब्रह्मयज्ञवर्जाः कर्तव्याः सायं प्रातश् च । कस्मात् । “अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयात्” इत्य् आश्वलायनस्मर्णात् । “सायं प्रातर् भूतम् इत्य् उक्त” इत्यादि कात्यायनसूत्रवचनाच् च ॥ ५।१६ ॥

विश्वास-प्रस्तुतिः

ददातिषु चैवं धर्म्येषु ॥ ५।१७ ॥

मूलम्

ददातिषु चैवं धर्म्येषु ॥ ५।१७ ॥

हरदत्तः

ददातयो दानानि यानि दानानि धर्म्यानि न भयादिनिमित्तानि तेषु चैवम् अप्पूर्वदानम् इति ॥ ५।१७ ॥

हरदत्त-प्रस्तावः

दानप्रसङ्गात् फलविशेषम् आह ।

विश्वास-प्रस्तुतिः

समद्विगुणसाहस्रान् आनन्त्यानि फलान्य्
अब्राह्मणब्राह्मणश्रोत्रियवेदपारगेभ्यः ॥ ५।१८ ॥

मूलम्

समद्विगुणसाहस्रान् आनन्त्यानि फलान्य्
अब्राह्मणब्राह्मणश्रोत्रियवेदपारगेभ्यः ॥ ५।१८ ॥

हरदत्तः

अब्राह्मणः क्षत्रियादिः ब्राह्मणो जातिमात्रम् । श्रोत्रियो ऽधीतवेदः । साङ्गं सकल्पं सरहस्यं चाधीतवेदो वेदपारगः । एभ्यो दत्तं यथाक्रमं समद्विगुणसाहस्रम् आनन्त्यं च फलं ददाति । तथा च मनुः ।

समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
श्रोत्रिये शतसाहस्रम् अनन्तं वेदपारगे ॥ इति ॥ ५।१८ ॥

हरदत्त-प्रस्तावः

दानप्रसङ्गाद् यत्रावश्यदेयम् अदाने च प्रत्यवायस् तं विषयम् आह ।

विश्वास-प्रस्तुतिः

गुर्वर्थनिवेशौषधार्थवृत्तिक्षीण- यक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु
द्रव्यसंविभागो बहिर्वेदि ॥ ५।१९ ॥

मूलम्

गुर्वर्थनिवेशौषधार्थवृत्तिक्षीण- यक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु
द्रव्यसंविभागो बहिर्वेदि ॥ ५।१९ ॥

हरदत्तः

यज्ञे दक्षिणाकाले सदस्येभ्यो यद् दानं तद् अन्तर्वेदि । ततो ऽन्यत्र बहिर्वेदि । द्रव्यसंविभागो हिरण्यादेर् दानम् । तद्गुर्वादिविषये ऽवश्यं कर्तव्यम् । अधीतवेदस्य दक्षिणार्थं गुर्वर्थम् । निवेशौषधार्थं निवेशो विवाहः । स च प्रथमस् तदर्थम् । औषधार्थं रुग्णस्य भैषजार्थम् ¦ वृत्त्या तदहर् जीवनेन हीनो वृत्तिक्षीणः । यक्ष्यमाणो यज्ञं करिष्यन् । अध्ययनाध्वसंयोगः । अध्ययनेन संयोगो यस्य सो ऽध्ययनसंयोगः । अध्वना संयोगो यस्य सो ऽध्वसंयोगः । बहुव्रीहिः । वैश्वजितः कृतविश्वजिद्यागः । सर्वस्वदानेन निर्द्रव्यः । एतैर् याचितो ऽवश्यं यथाशक्ति हिरण्यादि दद्यात् । अददत् प्रत्यवेयाद् इति । बहिर्वेदिग्रहणेन सदीक्षितविषयम् इदम् अन्तर्वेद्य् अन्येभ्यो ऽपि देयम् ॥ ५।१९ ॥

विश्वास-प्रस्तुतिः

भिक्षमाणेषु कृतान्नम् इतरेषु ॥ ५।२० ॥

मूलम्

भिक्षमाणेषु कृतान्नम् इतरेषु ॥ ५।२० ॥

हरदत्तः

इतरेषूक्तव्यतिरिक्तेषु भिक्षमाणेषु कृतान्नं पक्वान्नम् अवश्यं देयम् । द्रव्यादेर् अदाने न दोषः । कृतान्नविषये ऽपि वसिष्ठः ।

अव्रता ह्य् अनधीयाना यत्र भैक्षचरा द्विजाः ।
तं ग्रामं दण्डयेद् राजा चोरदण्डव्रतो हि सः ॥ इति ॥ ५।२० ॥

हरदत्त-प्रस्तावः

अथ दानापवादः ।

विश्वास-प्रस्तुतिः

प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात् ॥ ५।२१ ॥

मूलम्

प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात् ॥ ५।२१ ॥

हरदत्तः

दास्यामीति प्रतिश्रुत्याप्य् अधर्मसंयुक्तविषये न दद्यात् । यदि तेन द्रव्येणाधर्मसंयुक्तं वेश्यागमनाद्य् असौ करिष्यतीति विजानीयत् ॥ अधर्मसंयुक्त इति वचनाद् अन्यत्र प्रतिश्रुतम् अददत् प्रत्यवेयाद् इति दर्शयति ॥ ५।२१ ॥

हरदत्त-प्रस्तावः

प्रतिश्रवणविषये विशेषम् आह ।

विश्वास-प्रस्तुतिः

क्रुद्धहृष्टभीतार्तलुब्धबालस्थविरमूढ-
मत्तोन्मत्तवाक्यान्य् अनृतान्य् अपातकानि ॥ ५।२२ ॥

मूलम्

क्रुद्धहृष्टभीतार्तलुब्धबालस्थविरमूढ-
मत्तोन्मत्तवाक्यान्य् अनृतान्य् अपातकानि ॥ ५।२२ ॥

हरदत्तः

क्रुद्धादिवाक्यान्य् अनृतान्य् अयथार्थान्य् अप्य् अपातकानि न पापं जनयन्ति । क्रुद्धः क्रोधाविष्टः । हृष्टो हर्वाविष्टः । भीतो भयाविष्टः । एतेषां गुणान्तरैर् आविष्टत्वाद् वाक्यम् अप्रमाणम् । तस्मात् प्रतिश्रुत्यादाने ऽपि तेषाम् अदोषः ॥ ५।२२ ॥

हरदत्त-प्रस्तावः

अथ गृहस्थपूर्वभोज्यान् आह ।

विश्वास-प्रस्तुतिः

भोजयेत् पूर्वम् अतिथिकुमारव्याधितगर्भिणी-
स्ववासिनीस्थविराञ् जघन्यांश् च ॥ ५।२३ ॥

मूलम्

भोजयेत् पूर्वम् अतिथिकुमारव्याधितगर्भिणी-
स्ववासिनीस्थविराञ् जघन्यांश् च ॥ ५।२३ ॥

हरदत्तः

अतिथिर् वक्ष्यमाणः । कुमारा बालाः । व्याधितः संजातव्याधिः । गर्भिण्यः प्रसिद्धाः । स्ववासिन्यो दुहितरो भगिन्यश् च । स्थविरा वृद्धाः । जघन्याः परिचारकादयः । एतान् आत्मनः पूर्वं भोजयेत् पश्चात् स्वयं भुञ्जीत । जघन्यानां पृथक्पदत्वं तेषाम् आनन्तर्यसूचनार्थम् ॥ ५।२३ ॥

विश्वास-प्रस्तुतिः

आचार्यपितृसखीनां च निवेद्य वचनक्रिया॥ ५।२४ ॥

मूलम्

आचार्यपितृसखीनां च निवेद्य वचनक्रिया॥ ५।२४ ॥

हरदत्तः

यदि भोजनकाल आचार्याद्य आगच्छेयुस् तदा सिद्धम् अन्नं तेभ्यो निवेद्य तदन्नक्रिया तदिच्छातः कर्तव्याः । न तेषु संनिहितेषु स्वतन्त्रो भवेद् इत्य् अर्थः ॥ ५।२४ ॥

विश्वास-प्रस्तुतिः

ऋत्विगाचार्यश्वशुरपितृव्यमातुलानाम् उपस्थाने
मधुपर्कः ॥ ५।२५ ॥

मूलम्

ऋत्विगाचार्यश्वशुरपितृव्यमातुलानाम् उपस्थाने
मधुपर्कः ॥ ५।२५ ॥

हरदत्तः

ऋत्विगादिषु गृहम् आगतेषू मधुपर्को देयः ॥ ५।२५ ॥

विश्वास-प्रस्तुतिः

संवत्सरे पुनः ॥ ५।२६ ॥

मूलम्

संवत्सरे पुनः ॥ ५।२६ ॥

हरदत्तः

पूजितास् ते यदि संवत्सरात् पुनर् आगच्छेयुः पुनर् अपि मधुपर्को देयो नार्वाग् इति ॥ ५।२६ ॥

विश्वास-प्रस्तुतिः

यज्ञविवाहयोर् अर्वाक् ॥ ५।२७ ॥

मूलम्

यज्ञविवाहयोर् अर्वाक् ॥ ५।२७ ॥

हरदत्तः

संवत्सराद् अर्गाग् अपि यज्ञविवाहयोर् आगतेभ्यस् तेभ्यो मधुपर्को देयः । मधुपर्कविधिर् गृह्योक्तो द्रष्टव्यः ॥ ५।२७ ॥

विश्वास-प्रस्तुतिः

राज्ञश् च श्रोत्रियस्य ॥ ५।२८ ॥

मूलम्

राज्ञश् च श्रोत्रियस्य ॥ ५।२८ ॥

हरदत्तः

श्रोत्रियस्य सतो राज्ञश् चैवं मधुपर्को देयः ॥ ५।२८ ॥

विश्वास-प्रस्तुतिः

अश्रोत्रियस्यासनोदके ॥ ५।२९ ॥

मूलम्

अश्रोत्रियस्यासनोदके ॥ ५।२९ ॥

हरदत्तः

अश्रोत्रियस्य राज्ञ आसनोदकमात्रेण पूजनं मधुपर्कः ॥ ५।२९ ॥

विश्वास-प्रस्तुतिः

श्रोत्रियस्य तु पाद्यम् अर्घ्यम् अन्नविशेषांश् च
प्रकारयेत् ॥ ५।३० ॥

मूलम्

श्रोत्रियस्य तु पाद्यम् अर्घ्यम् अन्नविशेषांश् च
प्रकारयेत् ॥ ५।३० ॥

हरदत्तः

तुशब्दो न ब्राह्मणं व्यावर्तयति । श्रोत्रियस्य ब्राह्मणस्यातिथेः पाद्यं पादोदकम् । अर्घ्यं फलोपहारताम्बूलादि । अन्नविशेषाः पायसापूपादयस् तांश् च प्रकर्षेण कारयेत् समर्थः ॥ ५।३० ॥

हरदत्त-प्रस्तावः

असमर्थ तु ।

विश्वास-प्रस्तुतिः

नित्यं वा संस्कारविशिष्टम् ॥ ५।३१ ॥

मूलम्

नित्यं वा संस्कारविशिष्टम् ॥ ५।३१ ॥

हरदत्तः

यद् अस्य गृहे नित्यं विद्यमानं तद् एव मरीचजीरकादिसंस्कारविशिष्टं साधयेत् ॥ ५।३१ ॥

विश्वास-प्रस्तुतिः

मध्यतो ऽन्नदानम् अवैद्ये साधुवृत्ते ॥ ५।३२ ॥

मूलम्

मध्यतो ऽन्नदानम् अवैद्ये साधुवृत्ते ॥ ५।३२ ॥

हरदत्तः

यस् त्व् अतिथिर् विद्यारहितो ऽपि साधुवृत्तो भवति तस्मिन्न् उपस्थिते मध्यमेन संस्कारेणान्नं देयम् ॥ ५।३२ ॥

विश्वास-प्रस्तुतिः

विपरीतेषु तृणोदकभूमिस्वागतम् अन्ततः
पूजानत्याशश् च ॥ ५।३३ ॥

मूलम्

विपरीतेषु तृणोदकभूमिस्वागतम् अन्ततः
पूजानत्याशश् च ॥ ५।३३ ॥

हरदत्तः

विपरीतो विद्यायुक्तो ऽपि न साधुवृत्तः । तस्मिन्न् इहास्यताम् इति भूमिं तृणम् आसनम् उदकं च दद्यात् । स्वागतम् अन्ततो ऽनन्तरं स्वागतं च प्रयुञ्जीत । संभाशणेन पूजा कर्तव्या । अनत्याशश् च । अत्याशः पायसापूपादिविशिष्टक्रमस् तदन्यो मध्यमरीत्या कर्तव्यः । आशो ऽशनम् इति यावत् । ५।३३ ॥

विश्वास-प्रस्तुतिः

शय्यासनावसथानुव्रज्योपासनानि सदृक्श्रेयसोः
समानानि ॥ ५।३४ ॥

मूलम्

शय्यासनावसथानुव्रज्योपासनानि सदृक्श्रेयसोः
समानानि ॥ ५।३४ ॥

हरदत्तः

यो ऽतिथिर् विद्यावृत्तादिनात्मना सदृशो यश् च श्रेयांस् तयोर् द्वयोर् अप्य् आत्मना तुल्यानि शय्यासनादीनि देयानि । आवसथो गृहे स्थानविशेषः । अनुव्रज्योपासनयोर् आत्मन्य् असंभवात् तुल्यत्वं न संभवति ते अपि कार्ये इत्य् अर्थः ॥ ५।३४ ॥

विश्वास-प्रस्तुतिः

अल्पशो ऽपि हीने ॥ ५।३५ ॥

मूलम्

अल्पशो ऽपि हीने ॥ ५।३५ ॥

हरदत्तः

आत्मनो किंचिद् ऊने ऽप्य् अतिथाव् आगते समान्य् एव शय्यादीनि देयानीत्य् एके । वयं तु ब्रूमः । हीने ऽतिथाव् आगते ऽल्पशो ऽपि शय्यादीनि देयानि न तु हीन इति कृत्वात्यन्तलोपः कर्तव्यः ॥ ५।३५ ॥

हरदत्त-प्रस्तावः

अतिथिलक्षणम् आह ।

विश्वास-प्रस्तुतिः

असमानग्रामो ऽतिथिर् ऐकरात्रिको
ऽधिवृक्षसूरोपस्थायी ॥ ५।३६ ॥

मूलम्

असमानग्रामो ऽतिथिर् ऐकरात्रिको
ऽधिवृक्षसूरोपस्थायी ॥ ५।३६ ॥

हरदत्तः

असमानग्रामो ऽन्यग्रामवासी । ऐकरात्रिक एकां रात्रिं वसतीत्य् ऐकरात्रिकः । वृक्षाणाम् उपरि यदा सूर्यः सो ऽधिवृक्षसूर्यः कालो मध्याह्नः । अथ वा वृक्षाणाम् उपरि सूर्यरश्मयो यदा भवन्ति स कालः सायं वा । तस्मिन् काल उपस्थितो ऽतिथिः सर्वथा मान्यतमः ॥ ५।३६ ॥

विश्वास-प्रस्तुतिः

कुशलानामयारोग्याणाम् अनुप्रश्नः ॥ ५।३७ ॥

मूलम्

कुशलानामयारोग्याणाम् अनुप्रश्नः ॥ ५।३७ ॥

हरदत्तः

ब्राह्मणादिषु त्रिषु वर्णेषु पथ्यादिसंगतेषु कुशलादीनाम् आनुपूर्वेण प्रश्नः कर्तव्यः । अपि कुशलम् आयुष्मन्न् इति ब्राह्मणः प्रष्टव्यः । अप्य् अनामयं तत्र भवत इति क्षत्रियः । अप्य् अरोगो भवान् इति वैश्यः ॥ ५।३७ ॥

विश्वास-प्रस्तुतिः

अन्त्यं शूद्रस्य ॥ ५।३८ ॥

मूलम्

अन्त्यं शूद्रस्य ॥ ५।३८ ॥

हरदत्तः

कुशलादिषु य अन्त्यं तच् छूद्रस्य प्रयोक्तव्यम् अप्य् अरोगो ऽस्तीति ॥ ५।३८ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणस्यानतिथिर् अब्राह्मणः ॥ ५।३९ ॥

मूलम्

ब्राह्मणस्यानतिथिर् अब्राह्मणः ॥ ५।३९ ॥

हरदत्तः

अब्राह्मणः क्षत्रियादिर् ब्राह्मणस्यातिथिर् न भवति । पूर्वोक्ता अतिथिधर्मास् तत्र न प्रयोज्याः । केवलम् उदकान्नदानादिनाङ्गीकार्यः ॥ ५।३९ ॥

विश्वास-प्रस्तुतिः

यज्ञे संवृतश् चेत् ॥ ५।४० ॥

मूलम्

यज्ञे संवृतश् चेत् ॥ ५।४० ॥

हरदत्तः

यज्ञकाल आहूतश् चेद् अतिथिवत् पूज्यः ॥ ५।४० ॥

हरदत्त-प्रस्तावः

तत्रापि ।

विश्वास-प्रस्तुतिः

भोजनं तु क्षत्रियस्योर्ध्वं ब्राह्मणेभ्यः ॥ ५।४१ ॥

मूलम्

भोजनं तु क्षत्रियस्योर्ध्वं ब्राह्मणेभ्यः ॥ ५।४१ ॥

हरदत्तः

तस्यातिथिपक्षे ऽपि ब्राह्मणेषु भुक्तवत्सु पश्चाद् भोजनं देयम् ॥ ५।४१ ॥

विश्वास-प्रस्तुतिः

अन्यान् भृत्यैः सहानृशंस्यार्थम्
आनृशंस्यार्थम् ॥ ५।४२ ॥

मूलम्

अन्यान् भृत्यैः सहानृशंस्यार्थम्
आनृशंस्यार्थम् ॥ ५।४२ ॥

हरदत्तः

अन्याञ् शूद्रादीन् आतिथ्यकाल आगतान् भृत्यैः कर्मकरादिभिः सह सति विभवे भोजयेत् । यद्य् अपि तेषाम् अतिथित्वं न भवति तथाप्य् अनृशंस्यार्थम् । नृशंसता प्रत्यक्षक्रौर्यं तद्राहित्याय । आनृशंस्यं परो धर्म इत्य् आनृशंस्यम् अपि परो धर्म एवेति [अभ्यासो ऽध्यायसमाप्त्यर्थः] ॥ ५।४२ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां

प्रथमप्रश्ने पञ्चमो ऽध्यायः