०४

अथ चतुर्थो ऽध्यायः

हरदत्त-प्रस्तावः

गृहस्थधर्मा उच्यन्ते ।

विश्वास-प्रस्तुतिः

गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्वां
यवीयसीम् ॥ ४।१ ॥

मूलम्

गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्वां
यवीयसीम् ॥ ४।१ ॥

हरदत्तः

गृहस्थ इत् भाविसंज्ञाव्यपदेशः । अथ वा गृहस्थस्य ये धर्मास् ते विवाहात् प्राग् अपि स्नातकस्यापि समा इति दर्शनार्थं च । जात्या कुलेन च सदृशीम् । अन्यस्मै वाचाप्य् अदत्ताम् । अवरवयसीम् एवंभूतां भार्यां विन्देत उद्वहेत् ॥ ४।१ ॥

विश्वास-प्रस्तुतिः

असमानप्रवरैर् विवाहः ॥ ४।२ ॥

मूलम्

असमानप्रवरैर् विवाहः ॥ ४।२ ॥

हरदत्तः

समान एकः प्रवरो येषां तैः सह न विवाहः । तद् यथा हरितकुत्सपिङ्गशङ्खदर्भहैमकभवानाम् आङ्गिरसाम्बरीषयौवनाश् चेति । हारीतः कत्सीं नोद्वहेद् इत्यादिप्रवरप्रपञ्च आपस्तम्बीये द्रष्टव्यः ॥ ४।२ ॥

विश्वास-प्रस्तुतिः

ऊर्ध्वं सप्तमात् पितृबन्धुभ्यो बीजिनश् च
मातृबन्धुभ्यः पञ्चमात् ॥ ४।३ ॥

मूलम्

ऊर्ध्वं सप्तमात् पितृबन्धुभ्यो बीजिनश् च
मातृबन्धुभ्यः पञ्चमात् ॥ ४।३ ॥

हरदत्तः

पितरम् आरभ्य तद्बन्धुवर्गे गण्यमाने सप्तमाच् छ्रिरस ऊर्ध्वं जातां कन्यकाम् उद्वहेत् । मातरम् आरभ्य तद्बन्धुवर्गे गण्यमाने पञ्चमाच् छिरस ऊर्ध्वं जाताम् उद्वहेत् । बीजिनश् च सप्तमाद् ऊर्ध्वम् इति चकारात् सिध्यति । यथा क्षेत्री बध्न्यो रुग्णो वा देवरं प्रार्थयते मम क्षेत्रे पुत्रम् उत्पादयेति । यद् वा संतानक्षये विधवां गुरवो नियुञ्जते, दृष्टं विचित्रवीर्यक्षेत्रे सत्यवतीवाक्याद् व्यासो धृतराष्ट्रादीन् उत्पादितवान् इति । यथाह याज्ञवल्क्यः ।

अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोर् अप्य् असौ रिक्थी पिण्डदाता च धर्मतः ॥ इति ।

तद्विषयम् एतद् बीजिनश् चेति ॥ ४।३ ॥

हरदत्त-प्रस्तावः

अथ विवाहभेदाः ।

विश्वास-प्रस्तुतिः

ब्रह्मो विद्याचारित्रबन्धुशीलसंपन्नाय दद्याद्
आच्छाद्यालंकृताम् ॥ ४।४ ॥

मूलम्

ब्रह्मो विद्याचारित्रबन्धुशीलसंपन्नाय दद्याद्
आच्छाद्यालंकृताम् ॥ ४।४ ॥

हरदत्तः

विद्या वेदविद्या । चारित्रं चोदितकर्मानुष्ठानम् । बन्धवो ज्ञातयो मातुलादयश् च । शीलं विहितेषु श्रद्धा । एतैर् गुणैः संपन्नाय वस्त्रयुगुलेनाच्छाद्य यथाविभवम् अलंकृतां कन्यां दद्यात् । एवंविधस्य विवाहस्य ब्राह्मसंज्ञा ॥ ४।४ ॥

विश्वास-प्रस्तुतिः

संयोगमन्त्रः प्राजापत्ये सह धर्मश्
चर्यताम् इति ॥ ४।५ ॥

मूलम्

संयोगमन्त्रः प्राजापत्ये सह धर्मश्
चर्यताम् इति ॥ ४।५ ॥

हरदत्तः

प्राजापत्यसंज्ञके विवाहे सह धर्मश् चर्यताम् इति प्रदानमन्त्रः । यद्य् अपि ब्राह्मादिष्व् अपि सह धर्मचर्या भवति तथाप्य् आन्ताद् अनया सहा धर्मश् चरितव्यः । नाश्रमान्तरं प्रवेष्टव्यं नापि स्त्र्यन्तरम् उपयन्तव्यम् इति मन्त्रेण समहः क्रियते । एष ब्राह्मादेः प्राजापत्यस्य विशेषः । आच्छाद्यालंकृताम् इति समानम् ॥ ४।५ ॥

विश्वास-प्रस्तुतिः

आर्षे गोमिथुनं कन्यावते दद्यात् ॥ ४।६ ॥

मूलम्

आर्षे गोमिथुनं कन्यावते दद्यात् ॥ ४।६ ॥

हरदत्तः

आर्षसंज्ञके विवाहे गोमिथुनं स्त्रीपूंरूपं कन्यावते दद्याद् वरस् तद्बन्धुर् वा कश्चित् । आच्छाद्यालंकृताम् इति समानम् ॥ ४।६ ॥

विश्वास-प्रस्तुतिः

अन्तर्वेद्य् ऋत्विजे दानं दैवो ऽल्ंकृत्य ॥ ४।७ ॥

मूलम्

अन्तर्वेद्य् ऋत्विजे दानं दैवो ऽल्ंकृत्य ॥ ४।७ ॥

हरदत्तः

अन्तर्वेदि, वेद्या दक्षिणाकाल ऋत्विजे कर्म कुर्वते यद् अलंकृत्य कन्याया दानं स दैवो विवाहः । आच्छाद्यालंकृताम् इति । प्रकृते पुनर् अलंकृत्येति वचनं वरस्याप्य् अङ्गुलीयकादिभिर् अलंकारार्थम् ॥ ४।७ ॥

विश्वास-प्रस्तुतिः

इच्छन्त्याः स्वयं संयोगो गान्धर्वः ॥ ४।८ ॥

मूलम्

इच्छन्त्याः स्वयं संयोगो गान्धर्वः ॥ ४।८ ॥

हरदत्तः

इच्छन्त्या वध्वा इच्छतो वरस्य संयोगो गान्धर्वो विवाहः । स्वयम् इति वचनाद् वरेच्छा गम्यते ॥ ४।८ ॥

विश्वास-प्रस्तुतिः

वित्तेनानतिः स्त्रीमताम् आसुरः ॥ ४।९ ॥

मूलम्

वित्तेनानतिः स्त्रीमताम् आसुरः ॥ ४।९ ॥

हरदत्तः

यत्र स्त्रीमतां कन्यावतां पित्रादीनां वित्तेन धनप्रदानेनानतिर् आर्जनं क्रियते स आसुरो विवाहः । अत्र याज्ञवल्क्यः: “आसुरो द्रवणादानाद्” इति । मनुश् च ।

ज्ञातिभ्यो द्रविणं दत्वा कन्यायै च स्वशक्तितः ।
कन्याप्रदानं स्वाच् छन्द्याद् आसुरो धर्म उच्यते ॥

स्त्रीमताम् इति वचनान् न केवलं कन्यायै धनप्रदानम् आसुरत्वनिबन्धनम् । तथा च स्मृत्यन्तरम् ।

यासां नाददते शुल्कं ज्ञातयो न स विक्रयः ।
अर्हणं तत् कुमारीणाम् आनृशंस्यान् न केवलम् ॥ इति ॥ ४।९ ॥

विश्वास-प्रस्तुतिः

प्रसह्यादानाद् राक्षसः ॥ ४।१० ॥

मूलम्

प्रसह्यादानाद् राक्षसः ॥ ४।१० ॥

हरदत्तः

बलात्कारेण कन्यावतो निर्जित्य यद् आदानं स राक्षसो विवाहः ॥ ४।१० ॥

विश्वास-प्रस्तुतिः

असंविज्ञातोपसंगमात् पैशाचः ॥ ४।११ ॥

मूलम्

असंविज्ञातोपसंगमात् पैशाचः ॥ ४।११ ॥

हरदत्तः

सुप्ता मात्ता प्रमत्ता वा यत्रासंविज्ञातम् उपगम्यते स पैशाचो विवाहः ॥ ४।११ ॥

हरदत्त-प्रस्तावः

एवम् अष्टौ विवाहा उक्तास् तेषु

विश्वास-प्रस्तुतिः

चत्वारो धर्म्याः प्रथमाः ॥ ४।१२ ॥

मूलम्

चत्वारो धर्म्याः प्रथमाः ॥ ४।१२ ॥

हरदत्तः

आदितश् चत्वारो विवाहाः सर्ववर्णानां धर्म्या धर्माद् अनपेताः प्रशस्ता भवन्ति ॥ ४।१२ ॥

विश्वास-प्रस्तुतिः

षड् इत्य् एके ॥ ४।१३ ॥

मूलम्

षड् इत्य् एके ॥ ४।१३ ॥

हरदत्तः

एके स्मर्तारः षड् धर्म्या इत्य् आहुः । गान्धर्वासुरयोर् अपि धर्माद् अनपेतत्वम्

इच्छन्ति ॥ ४।१३ ॥

हरदत्त-प्रस्तावः

क्रयविवाहे क्षत्रियादिषु स्त्रीषु ब्राह्मणादिभ्यो जातानां पुत्राणां शास्स्त्रेषु संकेतितं संज्ञाभेदम् आह ।

विश्वास-प्रस्तुतिः

अनुलोमान्तरैकान्तरद्व्यन्तरासु जाताः
सवर्णाम्बष्ठोग्रनिषाददौष्मन्तपारशवाः ॥ ४।१४ ॥

मूलम्

अनुलोमान्तरैकान्तरद्व्यन्तरासु जाताः
सवर्णाम्बष्ठोग्रनिषाददौष्मन्तपारशवाः ॥ ४।१४ ॥

हरदत्तः

ब्राह्मणस्यानन्तरा क्षत्रिया तस्यां जातः सवर्णः । क्षत्रियस्य वैश्या तस्यां तस्माद् अम्बष्ठः । वैश्यस्यानन्तरा शूद्रा तस्यां तस्माद् उग्रह् । ब्राह्मणस्यैकन्तरा वैश्या तस्यां तस्मान् निषादः । क्षत्रियस्यैकन्तरा शूद्रा तस्यां तस्माद् दौष्मन्तः । ब्राह्मणस्य द्व्यन्तरा शूद्रा तस्यां तस्मात् पारशवः । प्रपञ्चो जातिनिर्णयस्य स्मृत्यन्तरे द्रष्टव्यः ॥ ४।१४ ॥

हरदत्त-प्रस्तावः

प्रातिलोम्येन जातान् आह ।

विश्वास-प्रस्तुतिः

प्रतिलोमास् तु सूतमागधायोगवकृतवैदेहक-
चण्डालाः ॥ ४।१५ ॥

मूलम्

प्रतिलोमास् तु सूतमागधायोगवकृतवैदेहक-
चण्डालाः ॥ ४।१५ ॥

हरदत्तः

अनन्तरैकान्तरद्व्यन्तरासु जाता इत्य् अन्य्वर्तते । क्षत्रियस्यानन्तरा ब्राह्मणी तस्यां तस्मात् सूतः । वैश्यस्यानन्तरा क्षत्रिया तस्यां तस्मान् मागधः । शूद्रस्यानन्तरा वैश्या तस्यां तस्माद् आयोगवः । वैश्यसैकान्तरा ब्राह्मणी तस्यां तस्मात् कृतः । शूद्रस्यैकान्तरा क्षत्रिया तस्यां तस्माद् वैदेहकः । शूद्रस्य द्व्यन्तरा ब्राह्मणी तस्यां तस्माच् चण्डल इति ॥ ४।१५ ॥

हरदत्त-प्रस्तावः

अन्येषां मतेन तेषाम् एव प्रतिवर्णं संगृह्य संज्ञाभेदान् आह }

विश्वास-प्रस्तुतिः

ब्राह्मण्य् अजीजनत् पुत्रान् वर्णेभ्य आनुपूर्व्याद्
ब्राह्मणसूतमागधचण्डलान् ॥ ४।१६ ॥

मूलम्

ब्राह्मण्य् अजीजनत् पुत्रान् वर्णेभ्य आनुपूर्व्याद्
ब्राह्मणसूतमागधचण्डलान् ॥ ४।१६ ॥

हरदत्तः

स्पष्टो ऽर्थः । अत्रानुपूर्व्यग्रहणं वर्णक्रमविवक्षापरम् । न त्व् अनुलोमपरम् ॥ ४।१६ ॥

विश्वास-प्रस्तुतिः

तेभ्य एव क्षत्रिया मूर्धवसिक्थक्षत्रियधीवर-
पुल्कसांस् तेभ्य एव वैश्या भृज्जकण्ठमाहिष्य-
वैश्यवैदेहान् पारशवयवनकरणशूद्राञ्
छूद्रेत्य् एके ॥ ४।१७ ॥

मूलम्

तेभ्य एव क्षत्रिया मूर्धवसिक्थक्षत्रियधीवर-
पुल्कसांस् तेभ्य एव वैश्या भृज्जकण्ठमाहिष्य-
वैश्यवैदेहान् पारशवयवनकरणशूद्राञ्
छूद्रेत्य् एके ॥ ४।१७ ॥

हरदत्तः

एके स्मर्तार इत्य् उक्तक्रमेण ब्राह्मण्य् अजीजनद् इत्य् आरभ्य ब्राह्मणिक्षत्रियावैश्याशूद्रासु ब्राह्मणादिवर्णेभ्यः क्रमेन जातानां संज्ञाभेदान् मन्यन्ते ॥ ४।१७ ॥

विश्वास-प्रस्तुतिः

वर्णान्तरगमनम् उत्कर्षापकर्षाभ्यां सप्तमे
पञ्चमे वाचार्याः ॥ ४।१८ ॥

मूलम्

वर्णान्तरगमनम् उत्कर्षापकर्षाभ्यां सप्तमे
पञ्चमे वाचार्याः ॥ ४।१८ ॥

हरदत्तः

मन्यन्त इति वाक्यशेषः । तेषाम् एव सवर्णादीनाम् अनुलोमजातानाम् उत्कर्षेण पितृद्वारा सप्तमपुरुषाद् उत्कृष्टवर्णान्तरप्राप्तिर् भवति । अपकर्षेण मातृद्वारा पञ्च्मपुरुषाद् अपकृष्टवर्णान्तरप्राप्तिर् भवति । तद् यथा – ब्राह्मणेनोढायां क्षत्रियायाम् उत्पादिता सवर्णा सापि ब्राह्मणेनोढा तस्याम् उत्पादिता चेत्य् एवम् आ सप्तम्याः सप्तमी तु ब्राह्मणेनोढा यद् अपत्यं सूते तद् ब्राह्मणजातीयम् एव भवति । एवं ब्राह्मणेन क्षत्रियायाम् उत्पादितः पुत्रः सवर्णः सो ऽपि क्षत्रियाम् उद्वाह्य पुत्रम् उत्पादयति सो ऽपि क्षत्रियाम् इत्य् एव्म् आ पञ्चमात् पञ्चमस् तु क्षत्रियायां यद् अपत्यम् उत्पादयति तत् क्षत्रियजातीयम् एव भवति । विकल्पस्यैवं चार्थः । तत्रापि वर्णान्तर्गमने वृत्तस्वाध्यायबाहुल्ये सति पञ्चमेनोत्कृष्टं भवति । हीनवृत्त्या पञ्चमेनापकृष्टं च भवतीति । एवं क्षत्रियस्य वैश्यायां वैश्यस्य शूद्रायाम् अपि द्रष्टव्यम् ॥ ४।१८ ॥

विश्वास-प्रस्तुतिः

सृष्ट्यन्तरजातानां च ॥ ४।१९ ॥

मूलम्

सृष्ट्यन्तरजातानां च ॥ ४।१९ ॥

हरदत्तः

चातुर्वर्ण्यम् अन्तरेण चानुलोमजातानां सवर्णाम्बष्ठादीनाम् अप्य् उत्कर्षापकर्षाभ्याम् अन्योन्यवर्णान्तरगमनं भवति । तद् यथा – सवर्णेनोढायाम् अम्बष्ठ्याम् उत्पादिता दुहिता पुनः सवर्णेनोह्यते । तस्याम् अप्य् उत्पादिता सवर्णेनेत्य् आ सप्तमात् सप्तमी तु सवर्णेनोढा यद् अपत्यं स एव भवति । एवं सैवाम्बष्ठेनोढायां दुहितरं सूते साप्य् अम्बष्ठेनेति सप्तमी त्व् अम्बष्ठेनोढा यद् अपत्यम् उत्पादयति सो ऽम्बष्ठ एव भवति । एवम् अम्बष्ठयोर् अपि द्रष्टव्यम् ॥ ४।१९ ॥

विश्वास-प्रस्तुतिः

प्रतिलोमास् तु धर्महीनाः ॥ ४।२० ॥

मूलम्

प्रतिलोमास् तु धर्महीनाः ॥ ४।२० ॥

हरदत्तः

प्रतिलोमाज् जाताः सूतादयो धर्महीना उपनयनादिधर्महीनाः । तत्र सूतस्यैकस्योपनयनमात्रं शास्त्रान्तरे ऽङ्गीकृतम् ॥ ४।२० ॥

विश्वास-प्रस्तुतिः

शूद्रायां च ॥ ४।२१ ॥

मूलम्

शूद्रायां च ॥ ४।२१ ॥

हरदत्तः

आनुलोम्येनापि शूद्रायाम् उत्पन्नः पारशवादिर् धर्महीनः । एवं च सवर्णादीनाम् अनुलोमानां सिद्धो धर्माङ्गीकारः । तथा च मनुः ।

स्वजातिजात्यन्तर्जाः षट् सुता द्विजधर्मिणः ।
शूद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः ॥ म्ध् १०।४१ ॥ ४।२१ ॥

विश्वास-प्रस्तुतिः

असमानायां तु शूद्रात् पतित्वृत्तिः ॥ ४।२२ ॥

मूलम्

असमानायां तु शूद्रात् पतित्वृत्तिः ॥ ४।२२ ॥

हरदत्तः

शूद्राद् असमानायां वैश्यादिस्त्रियाम् उत्पादित आयोगवादिः पतितवृत्तिः पतितवद् दर्शनस्पर्शनप्रतिग्रहादौ वर्जनीयः । एवं च वैश्यात् क्षत्रियायां क्षत्रियाद् ब्राह्मण्यां जातो न पतितवृत्तिः ॥ ४।२२ ॥

विश्वास-प्रस्तुतिः

अन्त्यः पापिष्ठः ॥ ४।२३ ॥

मूलम्

अन्त्यः पापिष्ठः ॥ ४।२३ ॥

हरदत्तः

शूद्राद् असमानाज् जनितेषु तेषु यो ऽन्त्यो ब्राह्मण्यां जातश् चण्डालः पापिष्ठो ऽत्यन्तं वर्जनीयः । तथा च स्मृत्यन्तरम्: “चण्डालम् आजगोवालव्यजनान् परिहरेत्” इति ॥ ४।२३ ॥

हरदत्त-प्रस्तावः

अथ प्रकृतान् विवाहान् स्तौति_ ।

विश्वास-प्रस्तुतिः

पुनन्ति साधवः पुत्राः ॥ ४।२४ ॥

मूलम्

पुनन्ति साधवः पुत्राः ॥ ४।२४ ॥

हरदत्तः

अच्छासु [अस्मासु] जाताः साधवः साधुवृत्तयः पुत्रा जनयितुः कुलं पुनन्ति ॥ ४।२४ ॥

हरदत्त-प्रस्तावः

तत्र विशेषः ।

विश्वास-प्रस्तुतिः

त्रिपुरुषम् आर्षात् ॥ ४।२५ ॥

मूलम्

त्रिपुरुषम् आर्षात् ॥ ४।२५ ॥

हरदत्तः

आर्षविवाहोढायां जातः पुत्रस् त्रीन् पुरुषान् पुनाति नरकाद् उद्धरति ॥ ४।२५ ॥

विश्वास-प्रस्तुतिः

दश दैवाद् दशैव प्राजापत्यात् ॥ ४।२६ ॥

मूलम्

दश दैवाद् दशैव प्राजापत्यात् ॥ ४।२६ ॥

हरदत्तः

उपसमस्तम् अपि पुरुषपदम् अत्र दशशब्देन संबध्यते । एवकारो निर्धारणपरः ॥ ४।२६ ॥

विश्वास-प्रस्तुतिः

दश पूर्वान् दश परान् आत्मानं च ब्राह्मीपुत्रो
ब्राह्मीपुत्रः ॥ ४।२७ ॥

मूलम्

दश पूर्वान् दश परान् आत्मानं च ब्राह्मीपुत्रो
ब्राह्मीपुत्रः ॥ ४।२७ ॥

हरदत्तः

ब्राह्मविवाहेनोढा ब्राह्मी तस्यां जातः पुत्रः पित्रादीन् दश पूर्वान् दश परान् भविष्यतः पुत्रादींश् च दशात्मानं चैकविंशं पुनाति । तस्माद् ब्राह्मो विवाहः प्रशस्ततमः ॥ ४।२७ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां

प्रथमप्रश्ने चतुर्थो ऽध्यायः