अथ तृतीयो ऽध्यायः
विश्वास-प्रस्तुतिः
तस्याश्रमविकल्पम् एके ब्रुवते ॥ ३।१ ॥
मूलम्
तस्याश्रमविकल्पम् एके ब्रुवते ॥ ३।१ ॥
हरदत्तः
तस्यैवम् अधीतवेदस्य ब्रह्मचारिणो वक्ष्यमाणाश् चत्वार आश्रमा विकल्प्यन्त इत्य् एक आचार्या ब्रुवते । अन्ये तु समुच्चीयन्त इति । तत्र आपस्तम्बः: “तेषु सर्वेषु यथोपदेशम् अव्यग्रो वर्तमानः क्षेमं गच्छति” इति । “बुद्ध्वा कर्माणि यत् कामयेत तद् आरभेत” इति च । तथा च ब्रह्मचर्याश्रमम् उक्त्वा “अत एव ब्रह्मचर्यवान् प्रव्रजति” इति बौधायनः । मनुना तु समुच्चयो दर्शितः ।
ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु व्रजमानः पतत्य् अधः ॥
सर्वे ऽपि क्रमशस् त्व् एते यथाशास्त्रं निवेषिताः ।
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ इति ॥ ३।१ ॥
हरदत्त-प्रस्तावः
के पुनस् त आश्रमाः_ ।
विश्वास-प्रस्तुतिः
ब्रह्मचारी गृहस्थो भिक्षुर् वैखानसः ॥ ३।२ ॥
मूलम्
ब्रह्मचारी गृहस्थो भिक्षुर् वैखानसः ॥ ३।२ ॥
हरदत्तः
यद्य् अप्य् असौ पूर्वम् अपि ब्रह्मचर्याश्रम उक्तस् तथापि प्रपित्सितनैष्ठिकब्रह्मचारित्वम् अत्र विवक्षितम् । भिक्षुः संन्यासी । वैखानसो वानप्रस्थः । वैखानसप्रोक्तेन मार्गेण वर्तत इति । तेन स आश्रमः प्राधान्येन दर्शितः । शास्त्रान्तरेषु वैखानसस्स् तृतीयो भिक्षुस् चतुर्थ आश्रमः । इह तु क्रमभेदः “प्रागुक्तास् त्रय आश्रमिणः” (ग्ध् २८।४९) इत्य् अत्र वैखानसवर्जनार्थः ॥ ३।२ ॥
विश्वास-प्रस्तुतिः
तेषां गृहस्थो योनिर् अप्रजनत्वाद् इतरेषाम् ॥ ३।३ ॥
मूलम्
तेषां गृहस्थो योनिर् अप्रजनत्वाद् इतरेषाम् ॥ ३।३ ॥
हरदत्तः
तेषां चतुर्ष्व् अप्य् आश्रमेषु वर्तमानानां गृहस्थो योनिर् उपसत्ति[उत्पत्ति]स्थानम् । गृहस्थेनैवोत्पादिताश् चतुर्भिर् आश्रमैर् अधिक्रियन्ते । गृहस्थव्यतिरिक्ताश्रमस्थानां प्रजोत्पादनस्य निषिद्धत्वात् । तत्र शातातपः ।
चण्डालाः प्रत्यवसिताः परिव्राजकतापसाः ।
तेषां जातान्य् अपत्यानि चण्डालैः सह वासयेत् ॥ इति ॥ ३।३ ॥
हरदत्त-प्रस्तावः
इदानीम् आश्रमधर्मान् वक्ष्यन् प्रथमनिर्दिष्टस्य ब्रह्मचारिण आह ।
विश्वास-प्रस्तुतिः
तत्रोक्तं ब्रह्मचारिणः ॥ ३।४ ॥
मूलम्
तत्रोक्तं ब्रह्मचारिणः ॥ ३।४ ॥
हरदत्तः
तत्र तेषां मध्ये ब्रह्मचारिणो नैष्ठिकस्य यद् उपकुर्वानस्योपनयनादिर् नियम इत्य् आरभ्योक्तम् तद् एवास्यापीत्य् उक्तं भवति ॥ ३।४ ॥
हरदत्त-प्रस्तावः
तत्र विशेषः_ ।
विश्वास-प्रस्तुतिः
आचार्याधीनत्वम् आन्तम् ॥ ३।५ ॥
मूलम्
आचार्याधीनत्वम् आन्तम् ॥ ३।५ ॥
हरदत्तः
आन्तम् आ देहपातम् । आचार्यकुल एव तच्छुश्रूषया वर्तेत ॥ ३।५ ॥
विश्वास-प्रस्तुतिः
गुरोः कर्मशेषेण जपेत् ॥ ३।६ ॥
मूलम्
गुरोः कर्मशेषेण जपेत् ॥ ३।६ ॥
हरदत्तः
आचार्ये प्रकृते गुरुशब्दः पित्रोर् अपि ग्रहणार्थः । ततश् चाचार्यं पितरौ च शुश्रूषमाणस् तद्व्यतिरिक्ते काले जपेद् वेदम् अधीयीत । न तु स्वाधीनो भवेत् ॥ ३।६ ॥
विश्वास-प्रस्तुतिः
गुर्वभावे तदपत्यवृत्तिस् तदभावे वृद्धे
सब्रह्मचारिण्य् अग्नौ वा ॥ ३।७ ॥
मूलम्
गुर्वभावे तदपत्यवृत्तिस् तदभावे वृद्धे
सब्रह्मचारिण्य् अग्नौ वा ॥ ३।७ ॥
हरदत्तः
आचार्ये या वृत्तिर् अभिहिता सा तदभावे तत्पुत्रे, तत्पुत्राभावे वृद्धे विद्यया वयसा वाधिके, वृद्धाभावे सब्रह्मचारिणि, सब्रह्मचार्यभावे ऽग्नौ वा कर्तव्या । समिदाधानादिभिर् अग्नौ वृत्तिः ॥ ३।७ ॥
विश्वास-प्रस्तुतिः
एवंवृत्तो ब्रह्मलोकम् अवाप्नोति जितेन्द्रियः ॥ ३।८ ॥
मूलम्
एवंवृत्तो ब्रह्मलोकम् अवाप्नोति जितेन्द्रियः ॥ ३।८ ॥
हरदत्तः
स्पष्टो ऽर्थः । जितेन्द्रियत्वं मनुना दर्शितम् ।
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ ३।८ ॥
विश्वास-प्रस्तुतिः
उत्तरेषां चैतद् अविरोधि ॥ ३।९ ॥
मूलम्
उत्तरेषां चैतद् अविरोधि ॥ ३।९ ॥
हरदत्तः
उत्तरेषाम् अप्य् आश्रमाणाम् अस्मिन् वृत्ते यद् अविरुद्धं तत् समानम् । यथा द्यूतादिवर्जनम् । विरुद्धं यथा – अग्निकार्यं प्रव्रजितस्य, गुरुकुलवासो वैखानसस्य, ब्रह्मचर्यं गृहस्थस्येत्य् अपरा वृत्तिः । उत्तरेषां चाश्रमाणां धर्मजातम् एतस्य द्रष्टव्यम् । किम् अविशेषेण । न । एतद् अविरोधि । एतद् आश्रमधर्माविरोधि “न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत” इत्य् एवमाद्य् अस्यापि भवति ॥ ३।९ ॥
हरदत्त-प्रस्तावः
बहुवक्तव्यत्वात् क्रमप्राप्तम् अपि गृहस्थम् उल्लङ्घ्य भिक्षोर् धर्मान् आह ।
विश्वास-प्रस्तुतिः
अनिचयो भिक्षुः ॥ ३।१० ॥
मूलम्
अनिचयो भिक्षुः ॥ ३।१० ॥
हरदत्तः
निचयो द्रव्यसंग्रहस् तद्रहितः स्यात् ॥ ३।१० ॥
विश्वास-प्रस्तुतिः
ऊर्ध्वरेताः ॥ ३।११ ॥
मूलम्
ऊर्ध्वरेताः ॥ ३।११ ॥
हरदत्तः
उत्तरेषां चैतद् अविरोधीति जितेन्द्रियत्वे सिद्धे ऽपि पुनर् ऊर्ध्वरेता इति रेतसः स्रोतोभङ्गो यथा भवेत् तथा प्रयतेतेत्य् एवमर्थम् ॥ ३।११ ॥
विश्वास-प्रस्तुतिः
ध्रुवशीलो वर्षासु ॥ ३।१२ ॥
मूलम्
ध्रुवशीलो वर्षासु ॥ ३।१२ ॥
हरदत्तः
वर्षाशब्दो नित्यं बहुवचनान्तः । वर्षर्तौ सति ध्रुवशीलः स्याद् एकत्र तिष्ठेद् इति ॥ ३।१२ ॥
विश्वास-प्रस्तुतिः
भिक्षार्थी ग्रामम् इयात् ॥ ३।१३ ॥
मूलम्
भिक्षार्थी ग्रामम् इयात् ॥ ३।१३ ॥
हरदत्तः
भिक्षाकाल एव ग्रामं प्रविशेत् । शेषकालं देवालयादौ वृक्षमूलेषु वा वसेत् ॥ ३।१३ ॥
विश्वास-प्रस्तुतिः
जघन्यम् अनिवृत्तं चरेत् ॥ ३।१४ ॥
मूलम्
जघन्यम् अनिवृत्तं चरेत् ॥ ३।१४ ॥
हरदत्तः
भिक्षाकाले यद् गृहम् अनुपपत्त्या विलम्बितं न तद् भूयस् तदहः प्रविशेत् । तत्र मनुः ।
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश् चरेत् ॥ ३।१४ ॥
विश्वास-प्रस्तुतिः
निवृत्ताशीः ॥ ३।१५ ॥
मूलम्
निवृत्ताशीः ॥ ३।१५ ॥
हरदत्तः
अधिकभिक्षालाभार्थं गृहेष्व् आशीर्वादपरो न स्यात् ॥ ३।१५ ॥
विश्वास-प्रस्तुतिः
वाक्चक्षुःकर्मसंयतः ॥ ३।१६ ॥
मूलम्
वाक्चक्षुःकर्मसंयतः ॥ ३।१६ ॥
हरदत्तः
वाक्संयमो मौनम् । चक्षुःसंयमः पादविक्षेपप्रदेशाद् अन्यत्र चक्षुषोर् अप्रवर्तनम् । कर्मसंयमो भिक्षोश् चोदितकर्मानतिक्रमः । अत्र वाक्संयमविरोधे तु स्मृत्यन्तरम् ।
धर्मयोगं पथिप्रश्नं स्वाध्यायं च तथैव च ।
भिक्षार्थं देहिवचनं न निन्दति यतेर् अपि ॥ इति ॥ ३।१६ ॥
विश्वास-प्रस्तुतिः
कौपीनाच्छादनार्थे वासो बिभृयात् ॥ ३।१७ ॥
मूलम्
कौपीनाच्छादनार्थे वासो बिभृयात् ॥ ३।१७ ॥
हरदत्तः
कौपीनम् इति गुह्यप्रदेशस्य नाम । तद् आच्छाद्यते यावता तावद् एव वासो बिभृयात् । अधिकं तु प्रावरणादि न बिभृयात् ॥ ३।१७ ॥
विश्वास-प्रस्तुतिः
प्रहीणम् एके निर्णिज्य ॥ ३।१८ ॥
मूलम्
प्रहीणम् एके निर्णिज्य ॥ ३।१८ ॥
हरदत्तः
एके मन्यन्ते तद् अपि कौपीनाच्छादनं प्रहीणं जीर्णं तथान्यैस् त्यक्तं प्रक्षाल्य बिभृयात् ॥ ३।१८ ॥
विश्वास-प्रस्तुतिः
नाविप्रयुक्तम् ओषधिवनस्पतीनाम् अङ्गम्
उपाददीत ॥ ३।१९ ॥
मूलम्
नाविप्रयुक्तम् ओषधिवनस्पतीनाम् अङ्गम्
उपाददीत ॥ ३।१९ ॥
हरदत्तः
वृक्षलतादीनाम् अङ्गं फलपत्राद्यविप्रयुक्तं ततो ऽप्रच्युतं नोपाददीत न गृह्णीयात् । स्वयं पतितं तु गृह्णीयात् ॥ ३।१९ ॥
विश्वास-प्रस्तुतिः
न द्वितीयाम् अपर्तु रात्रिं ग्रामे वसेत् ॥ ३।२० ॥
मूलम्
न द्वितीयाम् अपर्तु रात्रिं ग्रामे वसेत् ॥ ३।२० ॥
हरदत्तः
यत्र वर्षर्तौ ध्रुवशीलतोका तम् ऋतुं वर्जयित्वा ऋत्वन्तरेषु यत्रैकां रात्रिम् उषितस् तत्र ग्रामे न द्वितीयां वसेत् । ग्रामैकरात्रः स्याद् इति ॥ ३।२० ॥
विश्वास-प्रस्तुतिः
मुण्डः शिखी वा ॥ ३।२१ ॥
मूलम्
मुण्डः शिखी वा ॥ ३।२१ ॥
हरदत्तः
सर्वान् एव केशान् सह शिकया वापयेत् । शिखावर्जं वापयेद् वा । मुण्डः शिखी वेति विकल्पेनैकदण्डत्रिदण्डग्रहणविकल्पो ऽप्य् उक्तः । अत्र श्रुतिस्मृती ।
अग्नेर् इव शिखा नान्या यस्य ज्ञानमयी शिखा ।
स शिखीत्य् उच्यते विद्वान् नेतरे केशधारिणः ॥ इति ।
सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद् बुधः ।
एकदण्डं गृहीत्वा च भिक्षुधर्मं समाचरेत् ॥
शिखी यज्ञोपवीती च यद् वा सम्यक् प्रबोधितः ।
त्रिदण्डग्रहणं कृत्वा भिक्षुधर्मं समाचरेत् ॥ ३।२१ ॥
विश्वास-प्रस्तुतिः
वर्जयेद् बीजवधम् ॥ ३।२२ ॥
मूलम्
वर्जयेद् बीजवधम् ॥ ३।२२ ॥
हरदत्तः
बीजानि व्रीह्यादीनि तेषां वधो मुसलादिनावघातस् तं न कुर्यात् । तेन तण्डुलस्यौदनीकरणम् अप्य् उपलक्षितम् । पक्वान्नस्यैव स्वामित्वाद् अस्य ॥ ३।२२ ॥
विश्वास-प्रस्तुतिः
समो भूतेषु हिंसानुग्रहयोः ॥ ३।२३ ॥
मूलम्
समो भूतेषु हिंसानुग्रहयोः ॥ ३।२३ ॥
हरदत्तः
हिंसायाम् अनुग्रहे च भूतेषु समो यो हिनस्ति यो वानुगृह्णाति तत्र तत्र निर्विकार इति ॥ ३।२३ ॥
विश्वास-प्रस्तुतिः
अनारम्भी ॥ ३।२४ ॥
मूलम्
अनारम्भी ॥ ३।२४ ॥
हरदत्तः
ऐहिकं पारत्रिकं च न कंचिद् आरम्भं कुर्यात् । यथाह आपस्तम्बः: “अनिहो ऽनमुतश् चरेत्” इति ॥ ३।२४ ॥
हरदत्त-प्रस्तावः
अथ वैखानसस्याह ।
विश्वास-प्रस्तुतिः
वैखानसो वने मूलफलाशी तपःशीलः ॥ ३।२५ ॥
मूलम्
वैखानसो वने मूलफलाशी तपःशीलः ॥ ३।२५ ॥
हरदत्तः
वैखानसो वानप्रस्थो वने वसन् मूलानि फलानि च पक्वानि वाश्नीयान् न पुनर् ओदनम् । तपः कायपरिशोषणम् । ततश् च मूलफलान्य् अपि स्वल्पान्य् एवाश्नीयाद् इति ॥ ३।२५ ॥
विश्वास-प्रस्तुतिः
श्रावणकेनाग्निम् आधाय ॥ ३।२६ ॥
मूलम्
श्रावणकेनाग्निम् आधाय ॥ ३।२६ ॥
हरदत्तः
श्रावणकं नाम वैखानसं शास्त्रम् । तदुक्तेन प्रकारेणाग्निम् आधाय सायं प्रातर् जुहुयाद् इति शेषः ॥ ३।२६ ॥
विश्वास-प्रस्तुतिः
अग्राम्यभोजी ॥ ३।२७ ॥
मूलम्
अग्राम्यभोजी ॥ ३।२७ ॥
हरदत्तः
फलमूलान्य् अपि ग्राम्याणि न भुञ्जीत ॥ ३।२७ ॥
विश्वास-प्रस्तुतिः
देवपितृमनुष्यभूतर्षिपूजकः ॥ ३।२८ ॥
मूलम्
देवपितृमनुष्यभूतर्षिपूजकः ॥ ३।२८ ॥
हरदत्तः
वन्यैर् एव फलमूलैर् अहर् अहः पञ्च महायज्ञान् कुर्यात् । अत्र मनुः ।
आरण्यैर् विविधैर् मेध्यैः शाकमूलफलेन वा ।
एतान् एव महायज्ञान् निर्वपेद् विधिपूर्वकम् ॥ इति ॥ ३।२८ ॥
विश्वास-प्रस्तुतिः
सर्वातिथिः प्रतिषिद्धवर्जम् ॥ ३।२९ ॥
मूलम्
सर्वातिथिः प्रतिषिद्धवर्जम् ॥ ३।२९ ॥
हरदत्तः
य एनम् उपागच्छन्ति ते सर्वे ऽस्यातिथयः । न पुनर् ब्राह्मणस्यानतिथिर् अब्राःमण इत्य् अयं नियमो ऽस्ति । तत्रापि स्तेनपतितादीन् वर्जयेत् प्रतिषिद्धवर्जम् ॥ ३।२९ ॥
विश्वास-प्रस्तुतिः
वैष्कम् अप्य् उपयुञ्जीत ॥ ३।३० ॥
मूलम्
वैष्कम् अप्य् उपयुञ्जीत ॥ ३।३० ॥
हरदत्तः
विष्का दुष्टमृगा व्याघ्रादयस् तैर् हतं मांसं वैष्कं तद् अप्य् उपयुञ्जीत । अपिशब्दो गौणार्थः । फलमूलाद्यभावे तद् अपि भक्ष्यम् इति । तत्रापि पञ्च पञ्चनखा भक्ष्या इत्य् एतद् वातिरिक्तं वर्जयित्वा । प्रतिषिद्धवर्जम् इति पदं काकाक्षिन्यायेनोभयत्र संबध्यते ॥ ३।३० ॥
विश्वास-प्रस्तुतिः
न फालकृष्टम् अधितिष्ठेत् ॥ ३।३१ ॥
मूलम्
न फालकृष्टम् अधितिष्ठेत् ॥ ३।३१ ॥
हरदत्तः
अरण्ये वसन् हलेन कृष्टं प्रदेशं नाधिवसेत् ॥ ३।३१ ॥
विश्वास-प्रस्तुतिः
ग्रामं च न प्रविशेत् ॥ ३।३२ ॥
मूलम्
ग्रामं च न प्रविशेत् ॥ ३।३२ ॥
हरदत्तः
वने वसतो ऽपि यादृच्छिकोपग्रामप्रवेशो निषिद्धः ॥ ३।३२ ॥
विश्वास-प्रस्तुतिः
जटिलश् चीराजिनवासाः ॥ ३।३३ ॥
मूलम्
जटिलश् चीराजिनवासाः ॥ ३।३३ ॥
हरदत्तः
जटिलः केशश्मश्रुलोमनखधारी । चीरं दर्भादिनिर्मितं वासः । अजिनम् उत्तरीयम् । तथा च स्मृत्यन्तरे व्यवस्थादर्शनात् ॥ ३।३३ ॥
विश्वास-प्रस्तुतिः
नातिसंवत्सरं भुञ्जीत ॥ ३।३४ ॥
मूलम्
नातिसंवत्सरं भुञ्जीत ॥ ३।३४ ॥
हरदत्तः
संवत्सरम् अतिक्रान्तम् अतिसंवत्सरं तद् आरण्यम् अपि नाश्नीयात् । अत्र मनुः ।
त्यजेद् आश्वजुये मासि ह्य् उत्पन्नं पूर्वसंचितम् ।
जीर्णानि चैव वासांसि पुष्पमूलफलानि च ॥ इति ॥ ३।३४ ॥
हरदत्त-प्रस्तावः
उक्ता आश्रमास् तेषां विकल्पसमुच्चयाव् अपि दर्शितौ । तेषां प्राधान्यं दर्शयति ।
विश्वास-प्रस्तुतिः
ऐकाश्रम्यं त्व् आचार्याः प्रत्यक्षविधानाद्
गार्हस्थ्यस्य गार्हस्थ्यस्य ॥ ३।३५ ॥
मूलम्
ऐकाश्रम्यं त्व् आचार्याः प्रत्यक्षविधानाद्
गार्हस्थ्यस्य गार्हस्थ्यस्य ॥ ३।३५ ॥
हरदत्तः
तुशब्दो विशेषवाची । सर्वेषु वेदशास्त्रेतिहासपुराणेषु गृहस्थधर्मा एवाग्निहोत्रादयः प्राचुर्येण विधीयन्ते । ततः सर्व एवाचार्या गार्हस्थस्यैकाश्रम्यं प्राधान्यं मन्यन्ते । तत्राशक्तानाम् इतराश्रमधर्मा विधीयन्ते । प्रत्यक्षविधानाद् इतराश्रमाणां प्रत्यक्षेणोपजीव्यत्वात् । दिव्रुक्तिर् व्याख्याता ॥ ३।३५ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
प्रथमप्रश्ने तृतीयो ऽध्यायः