०२

अथ द्वितीयो ऽध्यायः

उपनीतप्रसङ्गेनानुपनीतधर्मा उच्यन्ते ।

विश्वास-प्रस्तुतिः

प्राग् उपनयनात् कामचारः कामवादः
कामभक्षः ॥ २।१ ॥

मूलम्

प्राग् उपनयनात् कामचारः कामवादः
कामभक्षः ॥ २।१ ॥

हरदत्तः

आ षोडशाद् ब्राह्मणस्येत्य् आपत्कल्पोपनयनविषयम् । कामचार इच्छाचरणम् । अपण्यान्य् अपि विक्रीणीयाच् छ्ववृत्त्यापि जीवेद् इति । कामवादो ऽश्लीलानृतादिवचनम् । कामभक्षो लशुनपर्युषितान्नादिभक्षणं चतुः पञ्चकृत्वो वा भोजनम् इत्य् एतावद् यस्य स तथोक्तः । न तु ब्रह्महत्यासुरापानाद्यतिप्रसङ्गः ॥ २।१ ॥

विश्वास-प्रस्तुतिः

अहुतात् ॥ २।२ ॥

मूलम्

अहुतात् ॥ २।२ ॥

हरदत्तः

हुतशेषं पुरोडाशादि । तद् अत्तीति हुतात् । तद्विपरीतो ऽहुतात् । अनुपनीतो हुतं नाद्याद् इति ॥ २।२ ॥

विश्वास-प्रस्तुतिः

ब्रह्मचारी ॥ २।३ ॥

मूलम्

ब्रह्मचारी ॥ २।३ ॥

हरदत्तः

कामचारादेर् अयम् अपवादः । आ षोडशाद् इत्य् उक्तत्वात् स्त्रीषु प्रसङ्गयोग्यतास्त्य् अतो ब्रह्मचारी जितेन्द्रियः स्याद् इति । तथा च स्मृत्यन्तरे: “प्रायश्चित्तं विलुप्तम् अवकीर्णिव्रतेन शुद्धम् उपनयेन् न ऊर्ध्वं व्रात्यावकीर्णिव्रताभ्याम्” इति ॥ २।३ ॥

विश्वास-प्रस्तुतिः

यथोपपादितमूत्रपुरीषो भवति ॥ २।४ ॥

मूलम्

यथोपपादितमूत्रपुरीषो भवति ॥ २।४ ॥

हरदत्तः

मूत्रपुरीषे यथोपपद्येते यस्य स तथोक्तः प्राङ्मुखादिर् अपि कुर्यात् । “न भूमाव् अनन्तर्धाय” (ग्ध् ९।३८) इत्यादिस्थाननियमो ऽपि नास्ति ॥ २।४ ॥

विश्वास-प्रस्तुतिः

नास्याचमनकल्पो विद्यते ॥ २।५ ॥

मूलम्

नास्याचमनकल्पो विद्यते ॥ २।५ ॥

हरदत्तः

कल्पनिषेधाद् आचनम् अनुज्ञातं स्त्रीशूद्रवत् ॥ २।५ ॥

विश्वास-प्रस्तुतिः

अन्यत्रापमार्जनप्रधावनावोक्षनेभ्यः ॥ २।६ ॥

मूलम्

अन्यत्रापमार्जनप्रधावनावोक्षनेभ्यः ॥ २।६ ॥

अपमार्जनादीनि वर्जयित्वा, आचमनकल्पो नास्ति । अपमार्जनादिकम् अस्तीति यावत् । यद्य् अप्य् अपमार्जनादीन्य् आचमनकल्पे नान्तर्भवन्ति तथापि पर्युदासमुखेन तानि विधीयन्ते । अत्रमार्जनं (अत्रापमार्जनं) सोदकेन पाणिना परिमार्जनम् उच्छिष्टादिलिप्तस्य । प्रधावनम् अमेध्यादिलिप्तस्याद्भिर् मृदा च क्षालनम् । । अवोक्षणं रजस्वलादिस्पृष्टस्य । इदम् अत्यन्तबालविषयम् । षड्वर्षाद् ऊर्ध्वं स्नानम् इच्छन्ति । अस्यानुपनीतस्यैतावद् उत्त-मात्रकामचारादिव्यतिक्रमे प्रायश्चित्तम् अस्ति । तत्र स्मृत्यन्तरे ।

अशीतिर् यस्य वषाणि बालो वाप्य् ऊनषोडशः ।
प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो व्याधित एव च ॥
ऊनैकादशवर्षस्य पञ्चवर्षात् परस्य च ।
चरेद् गुरुः सुहृच् चैव प्रायश्चित्तं विशुद्धये ॥
अतो बालतरस्यास्य नापराधो न पातकम् ।
राजदण्डश् च तस्यातः प्रायश्चित्तं च नेष्यते ॥ इति ॥ २।६ ॥

विश्वास-प्रस्तुतिः

न तदुपस्पर्शनाद् अशौचम् ॥ २।७ ॥

मूलम्

न तदुपस्पर्शनाद् अशौचम् ॥ २।७ ॥

तदुपस्पर्शनात् तस्याकृतोपनयनस्योदक्यादिस्पृष्टस्याप्य् उपस्पर्शनाद् अशौचं न स्यात् । स्पृष्टास्पृष्टिर् उपस्पर्शनम् । तेन स्नानं न कर्तव्यम् । भुक्तोच्छिष्टस्य कृतमूत्रपुरीषस्य स्पर्शनाद् अपि नाचमनम् । इदम् अपि षड्वर्षात् प्राग् एव । किमर्थं तर्हि तस्य शौचं विहितम् । न तावद् अनुष्ठानार्थं नापि स्पर्शयोग्यतार्थम्, अकृतशौचस्यापि स्पर्शयोग्यत्वात् । रक्षणार्थम् इति ब्रूमः । तथा च स्मृत्यन्तरम् ।

बालस्य पञ्च्माद् वर्षाद् रक्षार्थं शौचम् आचरेत् । इति ॥ २।७ ॥

विश्वास-प्रस्तुतिः

न त्व् एवैनम् अग्निहवनबलिहरणयोर् नियुञ्ज्यात् ॥ २।८ ॥

मूलम्

न त्व् एवैनम् अग्निहवनबलिहरणयोर् नियुञ्ज्यात् ॥ २।८ ॥

हरदत्तः

एनम् अनुपनीतम् अग्निहवन औपासनहोमादौ बलिहरणे वैश्वदेवादौ न नियुञ्ज्यान् न नियुञ्जीतेति यावत् । तुशब्दाद् उक्ताद् अन्यत्रापि समन्त्रके कर्मणि न नियुञ्जीतेति । एवकारो ऽवधारणे । अथ आश्वलायनः: “पाणिग्रहणादि गृह्यं परिचरेत् स्वयं पत्न्य् अपि वा पुत्रः कुमार्य् अन्तेवासी वा” इति । छन्दोगाश् च पत्नी जुहुयाद् इति पत्नीकुमार्याद्यनुज्ञाते ऽस्मिन् पक्षे न त्व् एवैनम् इत्य् अर्थः ॥ २।८ ॥

विश्वास-प्रस्तुतिः

न ब्रह्माभिव्याहारयेद् अन्यत्र स्वधानिनयनात् ॥ २।९ ॥

मूलम्

न ब्रह्माभिव्याहारयेद् अन्यत्र स्वधानिनयनात् ॥ २।९ ॥

हरदत्तः

ब्रह्म वेदः । एनम् अनुपनीतं ब्रह्म नाभिव्याहारयेन् नोच्चारयेत् । किम् अविशेषेणेति । नेति आह । अन्यत्र स्वधानिनयनात् । पित्र्यस्य सर्वस्य कर्मण उपलक्षणम् । “अन्यत्रोदककर्मस्वधापितृसंयुक्तेभ्यः” (वध् २।७) इति वासिष्ठे दर्शनात् । अगृहीताक्षरः पुत्रः पित्रोः संस्कारम् अर्हतीत्यादि च । अन्यस्यासंभवे सर्वं पित्र्यं कर्म तदानीं मन्त्रान् ग्राहयित्वासौ कारयितव्यः ॥ २।९ ॥

विश्वास-प्रस्तुतिः

उपनयनादिर् नियमः ॥ २।१० ॥

मूलम्

उपनयनादिर् नियमः ॥ २।१० ॥

हरदत्तः

अग्नीन्धनादिर् यो नियमो वक्ष्यते स उपनयनादिर् एव । अनुपनीताधिकारेण विच्छिन्नत्वाद् उपनीताधिकारार्थम् इदम् ॥ २।१० ॥

विश्वास-प्रस्तुतिः

उक्तं ब्रह्मचर्यम् ॥ २।११ ॥

मूलम्

उक्तं ब्रह्मचर्यम् ॥ २।११ ॥

अनुपनीतस्य यद् उक्तं ब्रह्मचर्यं तद् उपनीतस्यापि समानम् । ननु च “स्त्रीप्रेक्षणालम्भने” [ग्ध् २।१६] इति नेषेधो वक्ष्यते । तथापि स्मरणकीर्तनादिनिषेधार्थम् इदम् ॥ २।११ ॥

विश्वास-प्रस्तुतिः

अग्नीन्धनभक्षचरणे ॥ २।१२ ॥

मूलम्

अग्नीन्धनभक्षचरणे ॥ २।१२ ॥

हरदत्तः

अग्नीन्धनं समिद्धोमः । भिक्षाणां समूहो भैक्षम् । तदर्थं प्रतिगृहं चरणं भैक्षचरणम् । ते प्रत्यहं कर्तव्ये । तत्र मनुः ।

दूराद् आहृत्य समिधः संनिदध्याद् विहायसि ।
सायं प्रातश् च जुहुयात् ताभिर् अग्निम् अतन्द्रितः ॥
अकृत्वा भैक्षचरणम् असमिध्य च पावकम् ।
अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥ इति ।

आपस्तम्बस् तु: “सायम् एवाग्निपूजेत्य् एके” इति [आप्ध् १।४।१७] ॥ २।१२ ॥

विश्वास-प्रस्तुतिः

सत्यवचनम् ॥ २।१३ ॥

मूलम्

सत्यवचनम् ॥ २।१३ ॥

हरदत्तः

उपनीतेन सत्यम् एव वक्तव्यम् ॥ २।१३ ॥

विश्वास-प्रस्तुतिः

अपाम् उपस्पर्शनम् ॥ २।१४ ॥

मूलम्

अपाम् उपस्पर्शनम् ॥ २।१४ ॥

हरदत्तः

उपस्पर्शनम् स्नानम् । तद् अप्य् अहर् अहः कर्तव्यम् ॥ २।१४ ॥

विश्वास-प्रस्तुतिः

एके गोदानादि ॥ २।१५ ॥

मूलम्

एके गोदानादि ॥ २।१५ ॥

हरदत्तः

गोदानं नाम षोडशे वर्षे कर्तव्यं व्रतम् । तद् व्रतेषु द्वितीयम् । छन्दोगानाम् एके आचार्या गोदानादि स्नानम् इच्छन्ति न ततः प्राग् दीक्षितवद् अस्यापि ब्रह्मचर्यदीक्षानियुक्तत्वात् । नित्यस्नानस्यायं प्रतिषेधः । नैमित्तिकं तु कर्तव्यम्, तत्र दण्डवद् आप्लवनम् “नाप्सु श्लाघमानः स्नायात्” इत्य् आपस्तम्बस्मरणात् [आप्ध् १।२।३०] ॥ २।१५ ॥

विश्वास-प्रस्तुतिः

बहिःसंध्यत्वं च ॥ २।१६ ॥

मूलम्

बहिःसंध्यत्वं च ॥ २।१६ ॥

हरदत्तः

सायंप्रातर् द्वे संध्ये यस्य ग्रामाद् बहिर् भवतः स बहिःसंध्यस् तस्य भावः । ग्रामाद् बहिर् एव संध्योपासनं कर्तव्यम् इति ॥ २।१६ ॥

हरदत्त-प्रस्तावः

तत् कदा कथाम् चेत्य् आह ।

विश्वास-प्रस्तुतिः

तिष्ठेत् पूर्वाम् आसीतोत्तरां सज्योतिष्या ज्योतिषो
दर्शनाद् वाग्यतः ॥ २।१७ ॥

मूलम्

तिष्ठेत् पूर्वाम् आसीतोत्तरां सज्योतिष्या ज्योतिषो
दर्शनाद् वाग्यतः ॥ २।१७ ॥

हरदत्तः

प्रातःसंध्यां तिष्ठेत् सायंसंध्याम् आसीत । अत्यन्तसंयोगे द्वितीया । स्थानासनयोर् उप्रक्रमोपसंहारौ कथयति – सज्योतिषि काले समारभ्याज्योतिरन्तरदर्शनात् । प्रातर् नक्षत्रज्योतिर् आरभ्या सूर्यज्योतिर्दर्शनात् सायम् आदित्यज्योतिर् आरभ्या नक्षत्रदर्शनाद् इति । तावन्तं कालं वाग्यतश् च स्यात् । तथा च मनुः ।

पूर्वां संध्यां जपंस् तिष्ठेत् सावित्रीम् आर्कदर्शनात् ।
पश्चिमां तु समासीत सम्यग् ऋक्षविभावनात् ॥ इति [म्ध् २।१०१] ॥ २।१७ ॥

विश्वास-प्रस्तुतिः

नादित्यम् ईक्षेत ॥ २।१८ ॥

मूलम्

नादित्यम् ईक्षेत ॥ २।१८ ॥

ब्रह्मचारिणो ऽयं सदादित्यदर्शने प्रतिषेधः । स्नातकस्य तु मानवम्

नेक्षेतोद्यन्तम् आदित्यं नास्तं यान्तं कदाचन ।
नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ॥ इति [म्ध् ४।३७] ॥ २।१८ ॥

विश्वास-प्रस्तुतिः

वर्जयेन् मधुमांसगन्धमाल्य-
दिवास्वापाभ्यञ्जनयानोपानच्छत्रकामक्रोध-
लोभमोहवादवादनस्नानदन्तधावनहर्ष-
नृत्यगीतपरिवादभयानि ॥ २।१९ ॥

मूलम्

वर्जयेन् मधुमांसगन्धमाल्य-
दिवास्वापाभ्यञ्जनयानोपानच्छत्रकामक्रोध-
लोभमोहवादवादनस्नानदन्तधावनहर्ष-
नृत्यगीतपरिवादभयानि ॥ २।१९ ॥

हरदत्तः

मध्वादीनि वर्जयेत् । मधु माक्षिकम् । मांसं मृगादेः । गन्धश् चन्दनादिः । माल्यानि पुष्पाणि । दिवास्वप्नो दिवानिद्रा । अञ्जनम् अक्ष्णोः । अभ्यञ्जनं तैलाभ्यङ्गः । यानं शकटादि । उपनच्छत्रे प्रसिद्धे । कामः स्त्रीसङ्गः । क्रोधः कोपः । लोभो द्रव्याभिलाषः । मोहो विवेकशून्यता । वदो बहुजल्पः । वादनं वीणादीनाम् । स्नानं सुखार्थम् उष्णतोयादिना कण्ठाद् अधः प्रक्षालनम् । दन्तधावनं दन्तमलापकर्षणम् । हर्षो ऽभिमतलाभाच् चित्तोद्रेकः । नृत्यगीते प्रसिद्धे । प्रिवादः परदोषकथनम् । भयं भयहेतुः कान्तारप्रवेशादिः । इदं हर्षे ऽपि द्रष्टव्यम् ॥ २।१९ ॥

विश्वास-प्रस्तुतिः

गुरुदर्शने कण्ठप्रावृतावसिक्थकापाश्रयण-
पादप्रसारणानि ॥ २।२० ॥

मूलम्

गुरुदर्शने कण्ठप्रावृतावसिक्थकापाश्रयण-
पादप्रसारणानि ॥ २।२० ॥

गुरवः पित्राचार्यादयः । तेषां दर्शनयोग्ये देशे कण्ठप्रावृत्तादीनि वर्जयेत् । कण्ठप्रावृतं कण्ठप्रावरणं वस्त्रादिना । अवसक्थिका ऊरौ पादम् आरोप्यावस्थानम् । अपाश्रयणं कुड्यस्तम्भाद्याश्रित्यासनम् । पादप्रसारणं प्रसिद्धम् । गुरुजनसकाशे विनयसंकोचेन तिष्ठेद् इत्य् अर्थः ॥ २।२० ॥

विश्वास-प्रस्तुतिः

निष्ठीवितहसितविजृम्भितावस्फोटनानि ॥ २।२१ ॥

मूलम्

निष्ठीवितहसितविजृम्भितावस्फोटनानि ॥ २।२१ ॥

हरदत्तः

वर्जयेद् इति । निष्ठीवितं कण्ठच् छ्लेष्मणः सशब्दं बहिर् निरसनम् । हसितं हासः । विजृम्भितं जृम्भिका । अवस्फोटनम् अङ्गुलीनां सशब्दम् उपमर्दनम् ॥ २।२१ ॥

विश्वास-प्रस्तुतिः

स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् ॥ २।२२ ॥

मूलम्

स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् ॥ २।२२ ॥

हरदत्तः

स्त्रीणां प्रेक्षणम् अवयवशो निरूपणं न यादृच्छिकं दर्शनम् । आलम्भनं स्पर्शनं ते अपि वर्जयेत् । मैथुनशङ्कायाम् इति वचनाद् बालवृद्धातुरासु स्वयं च तथाविधस्य न दोषः

॥ २।२२ ॥

विश्वास-प्रस्तुतिः

द्यूतं हीनसेवाम् अदत्तादानं हिंसाम् ॥ २।२३ ॥

मूलम्

द्यूतं हीनसेवाम् अदत्तादानं हिंसाम् ॥ २।२३ ॥

हरदत्तः

द्यूतं वर्जयेद् इति । द्विविधं [द्यूतम्] पाण्यप्राणिभेदात् । प्राणिद्यूतं मेषयुद्धादि । अप्राणिद्यूतम् अक्षक्रीडादि । हीनसेवां हीनस्य सेवाम् अधोजातिप्रभृतेः । हीना चासौ सेवा च शौचादिजलाहरणम् । अदत्तादानं केनाप्य् अदत्तस्योत्सृष्टस्याप्य् अस्वामिकस्यादानम् । हिंसा प्राणिपीडा ॥ २।२३ ॥

विश्वास-प्रस्तुतिः

आचार्यतत्पुत्रस्त्रीदीक्षितनामानि ॥ २।२४ ॥

मूलम्

आचार्यतत्पुत्रस्त्रीदीक्षितनामानि ॥ २।२४ ॥

हरदत्तः

आचार्यस्य तत्पुत्रस्य तत्स्त्रिया दीक्षितस्य नामानि वर्जयेत् । परोक्षे ऽप्य् औपाधिकनामग्रहणं कर्तव्यम् इति ॥ २।२४ ॥

हरदत्त-प्रस्तावः

मधुमांसाद्येतत्पर्यन्तं वर्जयेद् इति क्रियान्वयो ऽस्यापि सूत्रस्य ।

विश्वास-प्रस्तुतिः

शुक्लवाचो मद्यं नित्यं ब्राह्मणः ॥ २।२५ ॥

मूलम्

शुक्लवाचो मद्यं नित्यं ब्राह्मणः ॥ २।२५ ॥

हरदत्तः

ब्राह्मणः शुक्ला अश्लीलाः परोद्वेगकारिण्यः । मद्यं मदकरं द्रव्यम् । ताश् च तच् च नित्यं वर्जयेत् । नित्यं ब्राह्मण इति वचनात् क्षत्रियवैश्ययोर् गृहस्थयोः पैष्टीव्यतिरिक्तमद्योपयोगे न प्रत्यवाय इति ॥ २।२५ ॥

विश्वास-प्रस्तुतिः

अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी ॥ २।२६ ॥

मूलम्

अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी ॥ २।२६ ॥

हरदत्तः

अस्यार्थो मानवे स्पष्टः ।

नीचं शय्यासनं चास्य नित्यं स्याद् गुरुसंनिधौ ।
उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ॥ इति [म्ध् २।१९४] ॥ २।२३ ॥

विश्वास-प्रस्तुतिः

वाग्बाहूदरसंयतः ॥ २।२७ ॥

मूलम्

वाग्बाहूदरसंयतः ॥ २।२७ ॥

हरदत्तः

वाक्संयमो बहुप्रलापविरहः । बाहुसंयमो लोष्टमर्दनाद्यभावः । उदरसंयमो मितभोजनम् ॥ २।२७ ॥

विश्वास-प्रस्तुतिः

नामगोत्रे गुरोः समानतो निर्दिशेत् ॥ २।२८ ॥

मूलम्

नामगोत्रे गुरोः समानतो निर्दिशेत् ॥ २।२८ ॥

हरदत्तः

आत्मनो नामगोत्रे गुरोः समानतो निर्दिशेत् । समानतो यथावद् अपलापरहितम् इत्य् अर्थः । अपर आह – गुरोर् नामगोत्रे समानतः सम्यग् आनतः प्रह्वो भूत्वा निर्दिशेद् इति ॥ २।२८ ॥

विश्वास-प्रस्तुतिः

अर्चिते श्रेयसि चैवम् ॥ २।२९ ॥

मूलम्

अर्चिते श्रेयसि चैवम् ॥ २।२९ ॥

हरदत्तः

अर्चितो लोके पूजितः । श्रेयान् विद्यादिभिर् अधिकः । तयोर् अप्य् एवम् एव सम्यग् आनत इति । अत्र स्मृत्यन्तरम् ।

आचार्यं चैव तत्पुत्रं तद्भार्यां दीक्षितं गुरुम् ।
पितरं वा पितृव्यं च मातुलं मातरं तथा ॥
हितैषिणं च विद्वांसं श्वशुरं पतिम् एव च ।
न ब्रूयान् नमतो विद्वान् मातुश् च भगिनीं तथा ॥

अर्चिते श्रेयसि चेत्येवंशब्दो यच् च यावच् च गुराव् उक्तं तत् सर्वम् अतिदिशति । तेन शय्यासनादिकम् अपि तयोः संनिधौ नीचं भवतीति ॥ २।२९ ॥

विश्वास-प्रस्तुतिः

शय्यासनस्थानानि विहाय प्रतिश्रवणम् ॥ २।३० ॥

मूलम्

शय्यासनस्थानानि विहाय प्रतिश्रवणम् ॥ २।३० ॥

हरदत्तः

गुराव् आज्ञापयति सति प्रतिश्रवणं प्रतिवचनं कुर्वञ् शय्यासनस्थानानि विहायाभिगच्छन् कुर्यात् ॥ २।३० ॥

विश्वास-प्रस्तुतिः

अभिक्रमणं वचनाद् अदृष्टेन ॥ २।३१ ॥

मूलम्

अभिक्रमणं वचनाद् अदृष्टेन ॥ २।३१ ॥

हरदत्तः

यदि बहिःस्थितो गुरुर् अपशन् नैव शिष्यं ब्रवीति तदा शिष्येणाभिक्रमणम् उपसर्पणं कर्तव्यं न पुनर् अदृष्टो ऽस्मीत्य् अनादरः कर्तव्यः ॥ २।३१ ॥

विश्वास-प्रस्तुतिः

अधःस्थानासनस् तिर्यग्वातसेवायां गुरुदर्शने
चोत्तिष्ठेत् ॥ २।३२ ॥

मूलम्

अधःस्थानासनस् तिर्यग्वातसेवायां गुरुदर्शने
चोत्तिष्ठेत् ॥ २।३२ ॥

हरदत्तः

यदा गुरुर् नीचैः स्थानम् आसनं चाधितिष्ठति स्वयम् उच्चैः स्थानासनस्थस् तदा गुरुं दृष्ट्वोत्तिष्ठेत् । तिर्यग्वातसेवायां मूत्रपुरीषोत्सर्गादौ च गुरुं दृष्त्वोत्तिष्ठेत् । चकारः पूर्वापेक्षया समुच्चयार्थः ॥ २।३२ ॥

विश्वास-प्रस्तुतिः

गच्छन्तम् अनुव्रजेत् ॥ २।३३ ॥

मूलम्

गच्छन्तम् अनुव्रजेत् ॥ २।३३ ॥

हरदत्तः

गच्छन्तं गुरुम् अनुगच्छेत् ॥ २।३३ ॥

विश्वास-प्रस्तुतिः

कर्म विज्ञाप्याख्याय ॥ २।३४ ॥

मूलम्

कर्म विज्ञाप्याख्याय ॥ २।३४ ॥

हरदत्तः

यत् किंचिद् अस्य शिष्यस्य कर्तव्यं तस्य निष्कृतिर् इदं करिष्यामीत्य् आचार्याय विज्ञाप्य यच् चाचार्यौपयिकम् उदकुम्भहरणादि तत् स्वयम् एव ज्ञात्वा कृत्वा च तस्मै कृतम् इत्य् आख्याय वर्तितव्यम् इत्य् अर्थः ॥ २।३४ ॥

विश्वास-प्रस्तुतिः

आहूतो ऽध्यायी ॥ २।३५ ॥

मूलम्

आहूतो ऽध्यायी ॥ २।३५ ॥

हरदत्तः

गुरुणाहूतः सन्न् अधीयीत न तु स्वयं चोदयेद् इति ॥ २।३५ ॥

विश्वास-प्रस्तुतिः

युक्तः प्रियहितयोः ॥ २।३६ ॥

मूलम्

युक्तः प्रियहितयोः ॥ २।३६ ॥

हरदत्तः

आचार्यस्य यत् प्रियं हितं च तत्र युक्तस् तत्परः स्यात् । प्रियं तत्कालप्रीतिकरम् । हितं कालान्तरे — तत्करम् ॥ २।३६ ॥

विश्वास-प्रस्तुतिः

तद्भार्यापुत्रेषु चैवम् ॥ २।३७ ॥

मूलम्

तद्भार्यापुत्रेषु चैवम् ॥ २।३७ ॥

हरदत्तः

तस्याचार्यस्य भार्यापुत्राश् च तेषु चैवम् आचार्यवद् वर्तितव्यम् ॥ २।३७ ॥

हरदत्त-प्रस्तावः

अस्यापवादः_ ।

विश्वास-प्रस्तुतिः

नोच्छिष्टाशनस्नापनप्रसाधनपाद-
प्रक्षालनोन्मर्दनोपसंग्रहणानि ॥ २।३८ ॥

मूलम्

नोच्छिष्टाशनस्नापनप्रसाधनपाद-
प्रक्षालनोन्मर्दनोपसंग्रहणानि ॥ २।३८ ॥

हरदत्तः

उच्छिष्टाशनं भुक्तशेषाशनम् । स्नापनं स्नानीयादिभिः शिरो’ङ्गमर्दनपूर्वकम् अभिषेकः । प्रसाधनम् अलंकरणम् । पादप्रक्षालनं प्रसिद्धम् । उन्मर्दनम् अभ्यङ्गशरीरसंवाहनादि । उपसंग्रहणं व्यत्यस्तपाणिनत्यादि पूर्वोक्तम् । एतानि गुरोर् भार्यापुत्रेषु च न कर्तव्यानि । अत एवाचार्ये कर्तव्यानीति सिद्धम् ॥ २।३८ ॥

हरदत्त-प्रस्तावः

अथोपसंग्रहणस्य प्रतिस्रवः ।

विश्वास-प्रस्तुतिः

विप्रोष्योपसंग्रहणं गुरुभार्याणाम् ॥ २।३९ ॥

मूलम्

विप्रोष्योपसंग्रहणं गुरुभार्याणाम् ॥ २।३९ ॥

हरदत्तः

विप्रोष्य प्रवासं गत्वा प्रत्यागतेन गुरुभार्याणाम् उपसंग्रहणं कार्यम् ॥ २।३९ ॥

हरदत्त-प्रस्तावः

तत्रापि_ –

विश्वास-प्रस्तुतिः

नैके युवतीनां व्यवहारप्राप्तेन ॥ २।४० ॥

मूलम्

नैके युवतीनां व्यवहारप्राप्तेन ॥ २।४० ॥

हरदत्तः

एके त्व् आचार्या युवतीनां गुरुभार्याणां व्यवहारप्राप्तेन षोडवर्षप्रायेण शिष्येण विर्पोष्याप्य् उपसंग्रहणं न कार्यम् इति मन्यन्ते ॥ २।४० ॥

हरदत्त-प्रस्तावः

अग्नीन्धनभैक्षचरण इत्य् उक्तम् । तत्राग्नीन्धनस्य प्रतिगृह्यं व्यवस्थितत्वात् साधारणभक्षचरणे विधिम् आह ।

विश्वास-प्रस्तुतिः

सार्ववर्णिकभैक्ष्यचरणम्
अभिशस्तपतितवर्जम् ॥ २।४१ ॥

मूलम्

सार्ववर्णिकभैक्ष्यचरणम्
अभिशस्तपतितवर्जम् ॥ २।४१ ॥

हरदत्तः

सर्वेषु वर्णेषु भवं सार्ववर्णिकम् । अभिशस्तान् पतितांश् च वर्जयित्वा सर्वेषु वर्णेषु भैक्ष्यं चरितव्यम् । अभिशस्ता उपपातकिनः ॥ २।४१ ॥

विश्वास-प्रस्तुतिः

आदिमध्यान्तेषु भवच्छब्दः प्रयोज्यो
वर्णानुक्रमेण ॥ २।४२ ॥

मूलम्

आदिमध्यान्तेषु भवच्छब्दः प्रयोज्यो
वर्णानुक्रमेण ॥ २।४२ ॥

हरदत्तः

भिक्षां देहीति पदद्वयस्यादिमध्यान्तेषु वर्णक्रमेण भवच्छब्दः संबुद्ध्यन्तः प्रयोक्तव्यः । स्त्रीषु स्त्रीलिङ्गः । ब्राह्मणस्य भवन् भिक्षां देहि । ब्रह्मण्यां भवति भिक्षां देहि । क्षत्रियस्य भिक्षां भवन् देहि । भिक्षां भवति देहि । वैश्यस्य भिक्षां देहि भवन् । भिक्षां देहि भवति ॥ २।४२ ॥

विश्वास-प्रस्तुतिः

आचार्यज्ञातिगुरु[स्वे]ष्व् अलाभे ऽन्यत्र ॥ २।४३ ॥

मूलम्

आचार्यज्ञातिगुरु[स्वे]ष्व् अलाभे ऽन्यत्र ॥ २।४३ ॥

हरदत्तः

आचार्य उक्तः । ज्ञातिः पितृव्यादिः सपिण्डः । गुरुर् मातुलादिः । स्वम् आत्मीयग्रहणम् । अन्यत्र भिक्षाया अभावे, आचार्यादिगृहेषु भैक्ष्यं चरितव्यम् ॥ २।४३ ॥

विश्वास-प्रस्तुतिः

तेषां पूर्वं पूर्वं परिहरेत् ॥ २।४४ ॥

मूलम्

तेषां पूर्वं पूर्वं परिहरेत् ॥ २।४४ ॥

हरदत्तः

तेषाम् आचार्यादीनां यो यः प्रथमनिर्दिष्टस् तं तं परिहरेत् । अन्यत्रालाभे स्वगृहे, तत्रालाभे गुरुषु, तत्रालाभे ज्ञातिषु, तत्रालाभ आचार्यगृह इति ॥ २।४४ ॥

विश्वास-प्रस्तुतिः

निवेद्य गुरवे ऽनुज्ञातो भुञ्जीत ॥ २।४५ ॥

मूलम्

निवेद्य गुरवे ऽनुज्ञातो भुञ्जीत ॥ २।४५ ॥

हरदत्तः

इदम् आनीतं भैक्ष्यम् इति गुरवे निवेद्य तदनुज्ञातो भुञ्जीत । यदि गुरुः स्वयं गृह्णीयात् ततो ऽन्यद् आहरेत् ॥ २।४५ ॥

विश्वास-प्रस्तुतिः

असंनिधौ तद्भार्यापुत्रसब्रह्मचारिभ्यः ॥ २।४६ ॥

मूलम्

असंनिधौ तद्भार्यापुत्रसब्रह्मचारिभ्यः ॥ २।४६ ॥

हरदत्तः

आचार्यासंनिधाने तद्भार्यादिभ्यो यथासंभवं निवेद्य तैर् अनुज्ञातो भुञ्जीत ॥ २।४६ ॥

विश्वास-प्रस्तुतिः

वाग्यतस् तृप्यन्न् अलोलुप्यमानः
संनिधायोदकम् ॥ २।४७ ॥

मूलम्

वाग्यतस् तृप्यन्न् अलोलुप्यमानः
संनिधायोदकम् ॥ २।४७ ॥

हरदत्तः

यावद्भुक्ति वाचंयमः । तृप्यन्न् अन्नदर्शनेन हृष्यन् । अलोलुप्यमानो ऽतिस्पृहाम् अकुर्वन् । संनिधायान्तर्भावितण्यर्थः । संनिधाप्येति । उदकम् उदकभाजनम् इति ॥ २।४७ ॥॥

हरदत्त-प्रस्तावः

शिष्यशासनप्रकारम् आह ।

विश्वास-प्रस्तुतिः

शिष्यशिष्टिर् अवधेन ॥ २।४८ ॥

मूलम्

शिष्यशिष्टिर् अवधेन ॥ २।४८ ॥

हरदत्तः

वधस् ताडनम् । अताड्यता गुरुणा भर्त्सनादिभिः शिष्यः शास्यः ॥ २।४८ ॥

विश्वास-प्रस्तुतिः

अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् ॥ २।४९ ॥

मूलम्

अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् ॥ २।४९ ॥

हरदत्तः

यदि भर्त्सनादिभिः शासितुम् अशक्यस् ततो रज्ज्वा तन्वा, तनुना वेणुविदलेन वेति । द्वंद्वनिर्दिष्टयोर् अपि विकल्पो “रज्ज्वा वेणुदलेन वा” [म्ध् ८।२२९] इति मानवे दर्शनात् । ताभ्यां दुर्बलाभ्यां ताडयित्वापि शासनीयः ॥ २।४९ ॥

विश्वास-प्रस्तुतिः

अन्येन घ्नन् राज्ञा शास्यः ॥ २।५० ॥

मूलम्

अन्येन घ्नन् राज्ञा शास्यः ॥ २।५० ॥

हरदत्तः

हस्तादिना क्रोधवशेन ताडयन् राज्ञा शास्य आचार्यः । एवं शिष्यस्य गुरुकुले वास उक्तः ॥ २।५० ॥

हरदत्त-प्रस्तावः

किमन्तं कालम् इत्य् अत आह_ ।

विश्वास-प्रस्तुतिः

द्वादश वर्षाण्य् एकवेदे ब्रह्मचर्यं चरेत् ॥ २।५१

मूलम्

द्वादश वर्षाण्य् एकवेदे ब्रह्मचर्यं चरेत् ॥ २।५१

हरदत्तः

यद्य् अप्य् एकैकस्य वेदस्य बह्व्यः शाखाः । एकविंशतिधा बह्वृच एकशतं यजुःशाखाः सहस्रवर्त्मा सामवेदो नवधाथर्वणो वेद इति । तथापि तत्र तत्र वेदे पूर्वैर् अध्ययनानुष्ठानाभ्यां परिगृहीता यवती शाखा तावत्य् अत्र वेदशब्देन विवक्षिता । य एकं वेदम् अधीते स द्वादश वर्षाणि गुरुकुले ब्रह्मचर्यं चरेत् ॥ २।५१ ॥

विश्वास-प्रस्तुतिः

प्रतिद्वादश वा सर्वेषु ॥ २।५२ ॥

मूलम्

प्रतिद्वादश वा सर्वेषु ॥ २।५२ ॥

हरदत्तः

यस् तु चतुरो वेदान् अध्येतुं शक्तः स प्रतिद्वादश प्रतिवेदे द्वादश वर्षाणीत्य् अर्थः । यथाह आपस्तम्बः: “उपेतस्याचार्यकुले ब्रह्मचारिवासो ऽष्टाचत्वारिंशद् वत्सराणि” इति ॥ २।५२ ॥

विश्वास-प्रस्तुतिः

ग्रहणान्तं वा ॥ २।५३ ॥

मूलम्

ग्रहणान्तं वा ॥ २।५३ ॥

हरदत्तः

यावता कालेनैको वेदो द्वौ त्रयश् चतुरो वा ग्रहीतुं शक्यास् तावन्तं कालम् इति ॥ २।५३ ॥

विश्वास-प्रस्तुतिः

विद्यान्ते गुरुर् अर्थेन निमन्त्र्यः ॥ २।५४ ॥

मूलम्

विद्यान्ते गुरुर् अर्थेन निमन्त्र्यः ॥ २।५४ ॥

हरदत्तः

विद्यासमाप्तौ गुरुर् अर्थेन प्रयोजनेन निमन्त्र्यः प्रष्टव्यः ॥ गुरो, इदं धनम् आहराणीति ॥ २।५४ ॥

विश्वास-प्रस्तुतिः

कृत्वानुज्ञातस्य वा स्नानम् ॥ २।५५ ॥

मूलम्

कृत्वानुज्ञातस्य वा स्नानम् ॥ २।५५ ॥

हरदत्तः

तत आहरेत्य् आचार्योक्तं कृत्वा स्नानं कर्तव्यम् । वत्स त्वद्गुणैर् एवाहम् अस्मि तोषितो धनेनालम् इति तेनानुज्ञातस्य वा, स्नानं समावर्तनं कर्तव्यम् इति ॥ २।५५ ॥

विश्वास-प्रस्तुतिः

आचार्यः श्रेष्ठो गुरूणां मातेत्य् एके मातेत्य् एके ॥ २।५६ ॥

मूलम्

आचार्यः श्रेष्ठो गुरूणां मातेत्य् एके मातेत्य् एके ॥ २।५६ ॥

हरदत्तः

गुरूणां पित्रादीनां मध्य उक्तलक्षण आचार्यः श्रेष्ठः । स हि विद्यातस् तं जनयति तच् छ्रेष्ठं जन्म । तेनानेकगुरुसमवाये स एव प्रथमं पूज्यः । एके त्व् आचार्या माता श्रेष्ठेति मन्यन्ते । तथा च वसिष्ठः ।

उपाध्यायाद् दशाचार्य आचार्याणां शतं पिता ।
पितुर् दशगुणं माता गौरवेणातिरिच्यते ॥

आपस्तम्बो ऽपि: “माता पुत्रत्वस्य भूयांसि कर्माण्य् आरभते तस्यां शुश्रूषा नित्या पतितायाम् अपि” । द्विरुक्तिर् अध्यायपरिसमाप्त्यर्था ॥ २।५६ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां

प्रथमप्रश्ने द्वितीयो ऽध्यायः