तत्र प्रथमप्रश्ने प्रथमो ऽध्यायः
नमो रुद्राय
यद् धर्मशास्त्रं गौतमनिर्मितम् ।
क्रियते हरदत्तेन तस्य वृत्तिर् मिताक्षरा ॥
विश्वास-प्रस्तुतिः
वेदो धर्ममूलम् ॥ १।१
मूलम्
वेदो धर्ममूलम् ॥ १।१
हरदत्तः
कर्मजन्यो ऽभ्युदयनिःश्रेयसहेतुर् अपूर्वाख्य आत्मगुणो धर्मः । तस्य मूलं प्रमाणम् । वेदो मन्त्रब्राह्मणात्मकः । जाताव् एकवचनम् । चत्वारो वेदा ऋग्यजुःसामआत्मकास् त एव धर्मे प्रमाणम् । न योगिप्रत्यक्षं नानुमानं नार्थापत्तिर् न शाक्याद्यागमः । तेन तन्मूला एवोपनयनादयो धर्मा वक्ष्यन्ते न चैत्यवन्दनकेशोल्लुञ्चनादय इति । धर्मग्रहणम् उपलक्षणम् । अधर्मस्यापि प्रतिषेधात्मको वेद एव मूलम् । निषेधविधयो हि ब्रह्महत्यादौ विषये प्रवृत्तं निवर्तयन्ति । न च रागद्वेषादिना विषये प्रवृत्तस् ततो निवर्तयितुं शक्यः । यद्य् असौ निषयो ऽनुष्ठितः प्रत्यवायहेतुर् न स्याद् इति निषधविधिर् एव प्रत्यवायहेतुतां गमयति ॥ १।१ ॥
हरदत्त-प्रस्तावः
अथ यत्र प्रत्यक्षो वेदो मूलभूतो नोपपद्यते तत्र कथम् ।
विश्वास-प्रस्तुतिः
तद्विदां च स्मृतिशीले ॥ १।२ ॥
मूलम्
तद्विदां च स्मृतिशीले ॥ १।२ ॥
हरदत्तः
तद्विदां वेदविदां मन्वादीनां या स्मृतिस् तत्प्रणीतं धर्मशास्त्रं यच् च तेषां शीलम् अनुष्ठानं ते स्मृतिशीले अस्मदादीनां प्रमाणम् । न च तेषाम् अनुष्ठानं निर्मूलं संभवति । संभवति च वैदिकानाम् उत्सन्नपाठे वेदानुभव इति । तेषां तु तदानीं विद्यमानत्वेन संप्रदायाविद्धेदाच् च वैदिकानुष्ठानं वेदमूलम् एव । यथाह आपस्तम्बः: “तेषाम् उत्सन्नाः पाठाः प्रयोगाद् अनुमीयन्ते” इति ॥ १।२ ॥
हरदत्त-प्रस्तावः
यदि शीलं प्रमाणम् अतिप्रसङ्गः स्यात् । कथम् । कतकभरद्वाजौ व्यत्यस्य भार्ये जग्मतुः; वसिष्ठश् चण्डालीम् अक्षमालाम्; प्रजापतिः स्वां दुहितरम्; रामेण पितृवचनाद् अविचारेण मातुः शिरश् छिन्नम् – इत्यादिसाहसम् अपि प्रमाणम् स्यात् । नेत्य् आह –
विश्वास-प्रस्तुतिः
दृष्टो धर्मव्यतिक्रमः साहसं च महताम् ॥ १।३ ॥
मूलम्
दृष्टो धर्मव्यतिक्रमः साहसं च महताम् ॥ १।३ ॥
हरदत्तः
महताम् एतादृशं साहसम् अपि धर्मव्यतिक्रम एव दृष्टो न तु धर्मः,। रागद्वेषनिबन्ध्नत्वात् ॥ १।३ ॥
हरदत्त-प्रस्तावः
न च तेषाम् एवंविधं दृष्टम् इत्य् एतावतास्मदादीनाम् अपि प्रसङ्गः । कुतः –
विश्वास-प्रस्तुतिः
अवरदौर्बल्यात् ॥ १।४ ॥
मूलम्
अवरदौर्बल्यात् ॥ १।४ ॥
हरदत्तः
अवरेषाम् अस्मदादीनां दुर्बलत्वात् । तथा च श्रूयते ।
तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ।
तद् अन्वीक्ष्य प्रयुञ्जानः सीदत्य् अवरको जनः ॥ इति ॥ १।४ ॥
हरदत्त-प्रस्तावः
अथ यत्र द्वे विरुद्धे तुल्यबले प्रमाणे उपनिपततः । यथातिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति । उदिते जुहोत्य् अनुदिते जुहोतीति श्रुतिः । “नित्यम् अभोज्यं केशकीटावपन्नम्” इति गौतमः ।
पक्षिजग्धं गवाघ्रातम् अवधूतम् अवक्षतम् ।
केशकीटावपन्नं च मृत्प्रक्षेपेण शुध्यति ॥
इति मनुः । तत्र किं कर्तव्यम् ।
विश्वास-प्रस्तुतिः
तुल्यबलविरोधे विकल्पः ॥ १।५ ॥
मूलम्
तुल्यबलविरोधे विकल्पः ॥ १।५ ॥
हरदत्तः
तुल्यप्रमाणप्रापितयोर् एवंजातीयकयोर् अर्थयोर् विकल्पः । तद् वेदं वेत्य् अन्यतरस्वीकारः । न समुच्चयो ऽसंभवात् । प्रकर्षबोधने तु श्रुतिस्मृतिविरोधे स्मृत्यर्थो नादरणीयः, अतुल्यबलत्वात् । अत एव जाबालिर् आह ।
श्रुतिस्मृतिविरोधे तु श्रुतिर् एव गरीयसी ।
अविरोधे सदा कार्यं स्मार्तं वैदिकवत् सदा ॥ इति ॥ १।५ ॥
हरदत्त-प्रस्तावः
अथेदानीं दर्मान् वक्ष्यन्न् उपनयनपूर्वकत्वात् तेषाम् उपनयनं तावद् आह ।
विश्वास-प्रस्तुतिः
उपनयनं ब्राह्मणस्याष्टमे ॥ १।६ ॥
मूलम्
उपनयनं ब्राह्मणस्याष्टमे ॥ १।६ ॥
हरदत्तः
उपनयनानन्तरभाविनि ब्राह्मणत्वे ऽत्र [ब्राह्मणग्रहणम्] । ब्राह्मणग्रहणं तु ब्राह्मणस्य सत एवोपनयनं न तूपनयनादिसंस्करजन्यब्राह्मण्यम् इति ज्ञापनर्थम् । किं च ब्राह्मणो न हन्तव्यः । ब्राह्मणो न सुरां पिबेद् इति निषेधश्रुतिर् अनुपनीतविषये(या) न स्यात् । ब्राह्मणस्याष्टमं वर्षं मुख्यम् उपनयनकालः । प्रथमभाविनो गर्भाधानादीन् संस्कारान् उल्लङ्घ्योपनयनं व्याचक्षाणस् तस्य प्राधान्यं दर्शयति । तेन दैवानुपपत्त्या गर्भाधानादेर् अकरणे ऽप्य् उपनयनं भवेति । तस्याकरणे तु विवाहादिष्व् अनधिकार इति सिद्धम् ॥ १।६ ॥
विश्वास-प्रस्तुतिः
नवमे पञ्चमे वा काम्यम् ॥ १।७ ॥
मूलम्
नवमे पञ्चमे वा काम्यम् ॥ १।७ ॥
हरदत्तः
कामनिमित्तं काम्यम् । तन् नवमे पञ्चमे वा भवति । “नवमे तेजस्कामम्” इत्य् आपस्तम्बः ।
ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे ।
इति मनुः ॥ १।७ ॥
विश्वास-प्रस्तुतिः
गर्भादि संख्या वर्षाणाम् ॥ १।८ ॥
मूलम्
गर्भादि संख्या वर्षाणाम् ॥ १।८ ॥
हरदत्तः
वर्षाणां संख्या गर्भादिर् एव भवति, न जननादिः ॥ १।८ ॥
विश्वास-प्रस्तुतिः
तद् द्वितीयं जन्म ॥ १।९ ॥
मूलम्
तद् द्वितीयं जन्म ॥ १।९ ॥
हरदत्तः
तद् उपनयनं द्वितीयं जन्म । अत्रास्य माता सावित्री पिता त्व् आचार्यः । तेन द्विजन्मत्वसिद्धिः ॥ १।९ ॥
विश्वास-प्रस्तुतिः
तद् यस्मात् स आचार्यः ॥ १।१० ॥
मूलम्
तद् यस्मात् स आचार्यः ॥ १।१० ॥
हरदत्तः
तद् उपनयनं पितुर् अभावे यस्मात् पुरुषाद् भवति स आचार्यः ॥ १।१० ॥
हरदत्त-प्रस्तावः
न तु केवलाद् उपनयनात् । कस्मात् तर्हि –
विश्वास-प्रस्तुतिः
वेदानुवचनाच् च ॥ १।११ ॥
मूलम्
वेदानुवचनाच् च ॥ १।११ ॥
हरदत्तः
अनुवचनम् अधापनम् । अत्र मनुः ।
उपनीय तु यः शिष्यं वेदम् अध्यपयेद् द्विजः ।
सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते ॥ इति ॥ १।११ ॥
विश्वास-प्रस्तुतिः
एकादशद्वादशयोः क्षत्रियवैश्ययोः ॥ १।१२ ॥
मूलम्
एकादशद्वादशयोः क्षत्रियवैश्ययोः ॥ १।१२ ॥
हरदत्तः
नित्यो ऽयम् अनयोः कल्पः । काम्यस् तु मनुना दर्शितः ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्यार्थार्थिनो ऽष्टमे । इति ॥ १।१२ ॥
हरदत्त-प्रस्तावः
अथापत्कल्पान् आह ।
विश्वास-प्रस्तुतिः
आ षोडशाद् ब्राह्मणस्यापतिता सावित्री ॥ १।१३ ॥
मूलम्
आ षोडशाद् ब्राह्मणस्यापतिता सावित्री ॥ १।१३ ॥
हरदत्तः
अभिविधाव् आकारः । आ षोडशाद् वर्षाद् ब्राह्मणस्य सावित्र्य् अपतिता अप्रच्युता । सावित्रीशब्देन तदुपदेशनिमित्तम् उपनयनं लक्ष्यते । तद् उपनयनस्य कालः इत्य् अर्थः ॥ १।१३ ॥
विश्वास-प्रस्तुतिः
द्वाविंशते राजन्यस्य द्व्यधिकाया वैश्यस्य ॥ १।१४ ॥
मूलम्
द्वाविंशते राजन्यस्य द्व्यधिकाया वैश्यस्य ॥ १।१४ ॥
हरदत्तः
उभयत्राप्य् आङ् अनुवर्तते । पूरणप्रत्ययस्य लोपो द्रष्टव्यः । आ द्वादिंशाद् वर्षाद् राजन्यस्य आ चतुर्विंशास् वैश्यस्यापतिता सावित्री ॥ १।१४ ॥
विश्वास-प्रस्तुतिः
मौञ्जीज्यामौर्वीसौत्र्यो मेखलाः क्रमेण ॥ १।१५ ॥
मूलम्
मौञ्जीज्यामौर्वीसौत्र्यो मेखलाः क्रमेण ॥ १।१५ ॥
हरदत्तः
मुञ्जो दर्भविशेषस् तद्विकारो मौञ्जी । मूर्वा अरण्यौषधिविशेषः । (सरलीति द्रविडभाषायाम्) । तद्विकारो मौर्वीः । ज्या चासौ मौर्वी चेति कर्मधारयः । ज्याशब्देन धनुषो ग्राह्येति यावत् । सौत्री सूत्रविकारः । एता वर्णक्रमेण मेखला भवन्ति ॥ १।१५ ॥
विश्वास-प्रस्तुतिः
कृष्णरुरुबस्ताजिनानि ॥ १।१६ ॥
मूलम्
कृष्णरुरुबस्ताजिनानि ॥ १।१६ ॥
हरदत्तः
कृष्णः कृष्णसारः । रुरुर् बिन्दुमान् मृगः । बस्तश् छागः । एतेषाम् अजिनान्य् उत्तरीयाणि क्रमेण, “अजिनं त्व् एवोत्तरं धारयेत्” (आप्ध् १।३।१०) इत्य् आपस्तम्बीये दर्शनात् ॥ १।१६ ॥
विश्वास-प्रस्तुतिः
वासांसि शाणक्षौमचीरकुतपाः सर्वेषाम् ॥ १।१७ ॥
मूलम्
वासांसि शाणक्षौमचीरकुतपाः सर्वेषाम् ॥ १।१७ ॥
हरदत्तः
शणविकारः शाणः । क्षुमा अतसी तद्विकारः क्षौमम् । श्वेतपत्त इत्य् अन्ये । दर्भादिनिमितं चीरम् । ऊर्णानिर्मितः कम्बलः कुतपः । चत्वार्य् एतानि वासांसि सर्वेषाम् ॥ १।१७ ॥
विश्वास-प्रस्तुतिः
कार्पासं वाविकृतम् ॥ १।१८ ॥
मूलम्
कार्पासं वाविकृतम् ॥ १।१८ ॥
हरदत्तः
अविकृतं कार्पासं वासः सर्वेषाम् । कुसुम्भादिरागद्रव्यैर् वर्णान्तरकल्पनं विकृतस् तद्रहितम् ॥ १।१८ ॥
हरदत्त-प्रस्तावः
अनुमानान्य् आह ।
विश्वास-प्रस्तुतिः
काषायम् अप्य् एके ॥ १।१९ ॥
मूलम्
काषायम् अप्य् एके ॥ १।१९ ॥
हरदत्तः
एके त्व् आचार्याः कषायेण रक्तम् अपि धार्यं मन्यन्ते ॥ १।१९ ॥
हरदत्त-प्रस्तावः
तत्रापि नियमः_ ।
विश्वास-प्रस्तुतिः
वार्क्षं ब्राह्मणस्य माञ्जिष्ठहारिद्रे इतरयोः ॥ १।२० ॥
मूलम्
वार्क्षं ब्राह्मणस्य माञ्जिष्ठहारिद्रे इतरयोः ॥ १।२० ॥
हरदत्तः
वृक्षकषायेण रक्तं वार्क्षम् । तद् ब्राह्मणस्य । मञ्जिष्ठया रक्तं माञ्जिष्ठम् । हरिद्रया रक्तं हारिद्रम् । ते इतरयोः । क्षत्रियवैश्ययोर् इति यावत् ॥ १।२० ॥
विश्वास-प्रस्तुतिः
बैल्वपालाशौ ब्राह्मणदण्डौ ॥ १।२१ ॥
मूलम्
बैल्वपालाशौ ब्राह्मणदण्डौ ॥ १।२१ ॥
हरदत्तः
बैल्वः पालाशो वा ब्राह्मणस्य दण्डो न पुनः समुच्चितौ ॥ १।२१ ॥
विश्वास-प्रस्तुतिः
अश्वत्थपैलवौ शेषे ॥ १।२२ ॥
मूलम्
अश्वत्थपैलवौ शेषे ॥ १।२२ ॥
हरदत्तः
पीलुर् वृक्षविशेषः । उता इति प्रसिद्धः । शेषे क्षत्रियवैश्यविषये ॥ १।२२ ॥
विश्वास-प्रस्तुतिः
यज्ञियो वा सर्वेषाम् ॥ १।२३ ॥
मूलम्
यज्ञियो वा सर्वेषाम् ॥ १।२३ ॥
हरदत्तः
सर्वेषाम् उक्तालाभे यज्ञियो यज्ञियवृक्षो वा दण्डः स्यात् ॥ १।२३ ॥
विश्वास-प्रस्तुतिः
अपीडिता यूपवक्त्राः सशल्काः ॥ १।२४ ॥
मूलम्
अपीडिता यूपवक्त्राः सशल्काः ॥ १।२४ ॥
हरदत्तः
अपीडिताः कीटादिभिर् अदूषिताः । यूपवक्त्रा यूपवद् अग्रे वक्राः । सशल्काः शल्काः सत्वचः । एवंविधा दण्डाः सर्वेषाम् ॥ १।२४ ॥
विश्वास-प्रस्तुतिः
मूर्धललाटनासाग्रप्रमाणाः ॥ १।२५ ॥
मूलम्
मूर्धललाटनासाग्रप्रमाणाः ॥ १।२५ ॥
हरदत्तः
यथासंख्यम् अत्रेष्यते । मूर्धप्रमाणो ब्राह्मणस्य दण्दः । ललाटावधिः क्षत्रियस्य । नासावधिर् वैश्यस्येति ॥ १।२५ ॥
विश्वास-प्रस्तुतिः
मुण्डजटिलशिखाजटाश् च ॥ १।२६ ॥
मूलम्
मुण्डजटिलशिखाजटाश् च ॥ १।२६ ॥
हरदत्तः
अत्र न यथासंख्यम् । मुण्डा लुप्तसर्वकेशाः । जटिलाः केशधारिणः । जटा केशसंहतिः । शिखामात्रैव जटा येषां ते शिखाजटाः । सर्वेषाम् अयं सामान्यधर्मः । छन्दोगापेक्षया मुण्डशब्दग्रहणम् ॥ १।२६ ॥
विश्वास-प्रस्तुतिः
द्रव्यहस्तश् चेद् उच्छिष्टो ऽनिधायाचामेत् ॥ १।२७ ॥
मूलम्
द्रव्यहस्तश् चेद् उच्छिष्टो ऽनिधायाचामेत् ॥ १।२७ ॥
हरदत्तः
मूत्रपुरीषयोः कर्म, भोजनादि चोच्छिष्टत्वनिमित्तम् । द्रव्यहस्तः सन्न् उच्छिष्टश् चेत् तद् द्रव्यम् अनिधायाचामेत् । उच्छिष्टः सन् द्रव्यहस्तश् चेद् द्रव्यं निधायाचामेत् । तथा च मनुः ।
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।
अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥ इति ।
किं च भक्ष्यभोज्यादिद्रव्यविषये तद् द्रव्यं निध्यैव मूत्रपुरीषयोः कर्म कृत्वा पुनस् तत् पात्रं निधायाचामेत् । वस्त्रदण्डादिविषये त्व् अनिधायैवाचामेत् ॥ १।२७ ॥
हरदत्त-प्रस्तावः
अथ द्रव्यशुद्धिर् उच्यते ।
विश्वास-प्रस्तुतिः
द्रव्यशुद्धिः परिमार्जनप्रदाहतक्षणनिर्णेजनानि
तैजसमार्तिकदारवतान्तवानाम् ॥ १।२८ ॥
मूलम्
द्रव्यशुद्धिः परिमार्जनप्रदाहतक्षणनिर्णेजनानि
तैजसमार्तिकदारवतान्तवानाम् ॥ १।२८ ॥
हरदत्तः
तैजसादीनां द्रव्याणां यथाक्रमं परिमार्जनादिशुद्धयः । तैजसं कांश्यादि । मार्तिकं मृन्मयादि । दारवं दारुमयादि । तान्तवं तन्तुमयादि । तेषां क्रमेण परिमार्जनम् । तत्र भस्मना कांस्यस्य । शकृता सौवर्णराजतयोः । आम्लेन ताम्रस्य । इदम् उच्छिष्टलिप्तानाम् । तैजसानाम् एवंभूतानां भस्मादिभिर् इति कण्वः । रजस्वलाचण्डालादिस्पृष्टानाम् एकदिनं पञ्चगव्यं निक्षिप्यैकविंशतिकृत्वो मार्जनाच् छुद्धिः । मार्तिकानां प्रदाहः । प्रकृष्टो दाहो वर्णान्तरापत्तिर् यथा स्यात् तथाविधो दाहः शोधनम् । इदं स्पर्शोपहतानाम् । अत्र वसिष्ठः ।
मद्यमूत्रपुरीषैस् तु श्लेष्मपूयाश्रुशोणितैः ।
संस्पृष्टं नैव शुध्येत पुनर्दाहेन मृन्मयम् ॥ इति ।
दारवाणां तक्षणाच् छुद्धिः । इदम् अमेध्यादिवासितानाम् । अन्यत्र प्रोक्षणप्रक्षालनादि । तान्तवानां निर्णेजनाच् छुद्धिः । इदं स्पर्शदूषितानाम् । मलादिदूषितानां धावनं तन्मात्रच्छेदनं वा। स्पर्शदूषितानां बहूनां प्रोक्षणाच् छुद्धिर् इति ॥ १।२८ ॥
विश्वास-प्रस्तुतिः
तैजसवद् उपलमणिशङ्खमुक्तानाम् ॥ १।२९ ॥
मूलम्
तैजसवद् उपलमणिशङ्खमुक्तानाम् ॥ १।२९ ॥
हरदत्तः
उपलादीनां तैजसवच् छुद्धिः परिमार्जनम् इति ॥ १।२९ ॥
विश्वास-प्रस्तुतिः
दारुवद् अथिभूम्योः ॥ १।३० ॥
मूलम्
दारुवद् अथिभूम्योः ॥ १।३० ॥
हरदत्तः
अस्थि हस्तिदन्तादि । भूमिर् गृहादि । तयोर् दारुवच् छुद्धिस् तक्षणम् इति । दारववद् इति वक्तव्ये दारुवद् इति निर्देशाद् विकारस्य या शुद्धिर् विकारिणो ऽपि सैव शुद्धिर् इत्य् उक्तम् ॥ १।३० ॥
विश्वास-प्रस्तुतिः
आवपनं च भूमेः ॥ १।३१ ॥
मूलम्
आवपनं च भूमेः ॥ १।३१ ॥
हरदत्तः
आवपनम् अन्यत आनीय पूरणम् अधिका शुद्धिर् भूमेः । अत्र वसिष्ठः ।
खननाद् दहनाद् अद्भिर् गोभिर् आक्रमणेन च ।
चतुर्भिर् शुध्यते भूमिः पञ्चमात् तूपलेपनात् ॥ इति ॥ १।३१ ॥
विश्वास-प्रस्तुतिः
चैलवद् रज्जुविदलचर्मणाम् ॥ १।३२ ॥
मूलम्
चैलवद् रज्जुविदलचर्मणाम् ॥ १।३२ ॥
हरदत्तः
विदलं वेत्रवेणुविदलादिनिर्मितम् । पिच्छनिर्मितम् अप्य् अन्ये । रज्ज्वादीनां त्रयाणां चैलवद् वस्त्रवच् छुद्धिर् निर्णेजनम् इति । पैठीनसिस् तु: “रज्जुविदलचर्मणाम् अस्पृश्यस्पृष्टानां प्रोक्षणाच् छुद्धिः” इति ॥ १।३२ ॥
विश्वास-प्रस्तुतिः
उत्सर्गो वात्यन्तोपहतानाम् ॥ १।३३ ॥
मूलम्
उत्सर्गो वात्यन्तोपहतानाम् ॥ १।३३ ॥
हरदत्तः
इदं वासिष्ठेन समानविषयं मद्यमूत्रपुरीषैर् इत्यादिना । वाशब्दः पक्षव्यावृत्तौ ॥ १।३३ ॥
विश्वास-प्रस्तुतिः
प्राङ्मुख उदङ्मुखो वा शौचम् आरभेत ॥ १।३४ ॥
मूलम्
प्राङ्मुख उदङ्मुखो वा शौचम् आरभेत ॥ १।३४ ॥
हरदत्तः
इच्छातो विकल्प आरभेतेति वचनात् पादप्रक्षालनप्रभृतिदिङ्नियमः । आपस्तम्बस् तु “प्रत्यक्पादावनेजनम्” (आप्ध् १।३१।२) इत्य् आह । शौचग्रहणम् आचमन एव मा भून् मूत्रपुरीषादिशौचे ऽपि दिङ्नियमज्ञापनार्थम् ॥ १।३४ ॥
विश्वास-प्रस्तुतिः
शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा
यज्ञोपवीत्य् आ मणिबन्धनात् पाणी प्रक्षाल्य वाग्यतो
हृदयस्पृशस् त्रिश् चतुर् वाप आचामेत् ॥ १।३५ ॥
मूलम्
शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा
यज्ञोपवीत्य् आ मणिबन्धनात् पाणी प्रक्षाल्य वाग्यतो
हृदयस्पृशस् त्रिश् चतुर् वाप आचामेत् ॥ १।३५ ॥
हरदत्तः
इदम् एकं वाक्यम् । आचमनकाले शुचौ देशे ऽनुपहत आसीन इत्य् उपलक्षणम् आसीनस् तिष्ठन् प्रह्वो वेति । जान्वन्तरा जानुनोर् मध्ये दक्षिणबाहुं कृत्वा । दक्षिणं बाहुम् इत्य् उक्तत्वाद् वामहस्तस्य नावश्यंभावः । यज्ञोपवीतीति पूर्वं स्वस्थानस्थम् अपि यथास्थाननिवेशनार्थम् । अथ वोत्तरीयविन्यासार्थम् । तथा च आपस्तम्बः: “उपासने गुरूणां वृद्धानाम् अतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्याद् अपि वा सूत्रम् एवोपवीतार्थः” इति । आ मणिबन्धाद् यस्मिन् देशे मणिर् बध्यत आ तस्मात् पाणी प्रक्षाल्य । वाग्यतः शब्दम् अकुर्वन् । हृदयस्पृशः परिमाणार्थम् इदं यावत्यः पीता हृदहं स्पृशन्ति यासु माषो मज्जति तावतीर् अप आचामेत् त्रिश् चतुर् वा । यत्र मन्त्रवद् आचमनं विहितं तत्र तेन सह चतुः । अन्यत्र त्रिर् इति विकल्पः ॥ १।३५ ॥
विश्वास-प्रस्तुतिः
द्विः परिमृज्यते ॥ १।३६ ॥
मूलम्
द्विः परिमृज्यते ॥ १।३६ ॥
हरदत्तः
प्रतियोगं सोदकेन पाणिनौष्ठयोः परिमार्जनम् ॥ १।३६ ॥
विश्वास-प्रस्तुतिः
पादौ चाभ्युक्षेत् ॥ १।३७ ॥
मूलम्
पादौ चाभ्युक्षेत् ॥ १।३७ ॥
हरदत्तः
चकाराच् छिरश् च ।
विश्वास-प्रस्तुतिः
खानि चोपस्पृशेच् छीर्षण्यानि ॥ १।३८ ॥
मूलम्
खानि चोपस्पृशेच् छीर्षण्यानि ॥ १।३८ ॥
हरदत्तः
शीर्षे भवानि शीर्षण्यानि । शिरोभानीति यावत् । खानि इन्द्रियाणि । तान्य् उपस्पृशेत् । अत्र चकारः प्रतीन्द्रियोपस्पर्शनार्थः ॥ १।३८ ॥
विश्वास-प्रस्तुतिः
मूर्धनि च दद्यात् ॥ १।३९ ॥
मूलम्
मूर्धनि च दद्यात् ॥ १।३९ ॥
हरदत्तः
चकारान् नाभौ मूर्धनि च सर्वाभिर् अङ्गुलीभिर् उपस्पृशेद् इत्य् अर्थः ॥ १।३९ ॥
विश्वास-प्रस्तुतिः
सुप्त्वा भुक्त्वा क्षुत्वा च पुनः ॥ १।४० ॥
मूलम्
सुप्त्वा भुक्त्वा क्षुत्वा च पुनः ॥ १।४० ॥
हरदत्तः
स्वापादिनिमित्ते पुनर् द्विर् आचामेद् इति यावत् ॥ १।४० ॥
विश्वास-प्रस्तुतिः
दन्तश्लिष्टेषु दन्तवद् अन्यत्र जिह्वाभिमर्शनात् ॥ १।४१ ॥
मूलम्
दन्तश्लिष्टेषु दन्तवद् अन्यत्र जिह्वाभिमर्शनात् ॥ १।४१ ॥
हरदत्तः
दन्तश्लिष्टेषूच्छिष्टलेपेषु जिह्वाभिमर्शनाद् अन्यत्र दन्तवन् नाशुचित्वम् ॥ १।४१ ॥
हरदत्त-प्रस्तावः
तत्रापि –
विश्वास-प्रस्तुतिः
प्राक् च्युतेर् इत्य् एके ॥ १।४२ ॥
मूलम्
प्राक् च्युतेर् इत्य् एके ॥ १।४२ ॥
हरदत्तः
सत्य् अपि जिह्वाभिमर्शने यावल् लेपाः स्वस्थानान् न च्यवन्ते तावन् नाशुचित्वम् इति ॥ १।४२ ॥
विश्वास-प्रस्तुतिः
च्युतेष्व् आस्राववद् विद्यान् निगिरन्न् एव तच्छुचिः ॥ १।४३ ॥
मूलम्
च्युतेष्व् आस्राववद् विद्यान् निगिरन्न् एव तच्छुचिः ॥ १।४३ ॥
हरदत्तः
आस्राव आस्यजलम् । निगरणम् अन्तःप्रवेशनम् । च्युतेषु निगिरन्न् एव तच्छुचिर् इति वक्तव्य आस्राववद् विद्याद् इति वचनम् आस्रावे च निगरणाद् एव शुचिर् इति सूचनार्थम् ॥ १।४३ ॥
विश्वास-प्रस्तुतिः
न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति । न चेद् अङ्गे
निपतन्ति ॥ १।४४ ॥
मूलम्
न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति । न चेद् अङ्गे
निपतन्ति ॥ १।४४ ॥
हरदत्तः
मुखे भवा मुख्याः । विप्रुष आस्रावबिन्दवः । भूम्यादिषु पतिता नोच्छिष्टतां नयन्ति
॥ १।४४ ॥
विश्वास-प्रस्तुतिः
लेपगन्धापकर्षणं शौचम् अमेध्यस्य ॥ १।४५ ॥
मूलम्
लेपगन्धापकर्षणं शौचम् अमेध्यस्य ॥ १।४५ ॥
हरदत्तः
वसा शुक्रम् असृङ् मज्जा मूत्रविट्कर्णविण्नखाः ।
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥
इति मनुः । एतत् सर्वम् अमेध्यशब्देन विवक्षितम् । अस्य यावता गन्धो लेपश् चापकृष्यते ऽपनीयते तावता शौचम् इति । तत्र यस्य मलस्य गन्धमात्रं तस्य तदपकर्षणम् । यस्य गन्धो लेपश् च तस्य तदुभयापकर्षणम् ॥ १।४५ ॥
विश्वास-प्रस्तुतिः
तद् अद्भिः पूर्वं मृदा च ॥ १।४६ ॥
मूलम्
तद् अद्भिः पूर्वं मृदा च ॥ १।४६ ॥
हरदत्तः
तत् पूर्वं गन्धवन् मलापकर्षणम् अद्भिर् लेपगन्धवन् मलापकर्षणं मृदा चाद्भिश् चेति । इदं हस्तपादादेर् अमेध्यलिप्तस्य शौचम्, तैजसादिषु विशेषस्य पूर्वम् उक्तत्वात् ॥ १।४६ ॥
विश्वास-प्रस्तुतिः
मूत्रपुरीषस्नेहविस्रंसनाभ्यवहारसंयोगेषु
च ॥ १।४७ ॥
मूलम्
मूत्रपुरीषस्नेहविस्रंसनाभ्यवहारसंयोगेषु
च ॥ १।४७ ॥
हरदत्तः
चकारः पूर्वोक्तसमुच्चये । स्नेहो रेतः । मूत्रपुरीषस्नेहानां विस्रंसनं निरसनम् । अभ्यवहारम् अव्यवहार्यद्रव्यं तेन संयोगः । एषु निमित्तेषु पूर्ववन् मृदा चाद्भिः शौचम् इति ॥ १।४७ ॥
विश्वास-प्रस्तुतिः
यत्र चाम्नायो विदध्यात् ॥ १।४८ ॥
मूलम्
यत्र चाम्नायो विदध्यात् ॥ १।४८ ॥
हरदत्तः
यत्र विषये यच् छौचम् आम्नायो विदध्यात् तत्र तद् एव भवति । यथा चमसानाम् उच्छिष्टलिप्तानां मार्जालीयाद्भिः प्रक्षालनम् इति ॥ १।४८ ॥
हरदत्त-प्रस्तावः
अथ गुरूपसदनविधिः ।
विश्वास-प्रस्तुतिः
पाणिना सव्यम् उपसंगृह्यानङ्गुष्ठम् अधीहि भो
इत्य् आमन्त्रयेद् गुरुं तत्रचक्षुर्मनःप्राणोप-
स्पर्शणम् दर्भैः ॥ १।४९ ॥
मूलम्
पाणिना सव्यम् उपसंगृह्यानङ्गुष्ठम् अधीहि भो
इत्य् आमन्त्रयेद् गुरुं तत्रचक्षुर्मनःप्राणोप-
स्पर्शणम् दर्भैः ॥ १।४९ ॥
हरदत्तः
पाणिना स्वेन दक्षिणेन । सव्यम् इति विशेषनाद् दक्षिणेनेति गम्यते । गुरोः सव्यं पादम् अनङ्गुष्ठम् अङ्गुष्ठवर्जं गृहीत्वा, अधीहि भो इति गुरुम् आमन्त्रयेत् । तत्र गुरौ मनश्चक्षुषी च निधायावहितः स्याद् इति । प्राणाः शीर्षण्यानीन्दिर्याणि । तेषाम् आत्मीयानाम् आचमनोक्तक्रमेण दर्भैर् उपस्पर्शनं कर्तव्यं माणवकेन ॥ १।४९ ॥
विश्वास-प्रस्तुतिः
प्राणायामास् त्रयः पञ्चदशमात्राः ॥ १।५० ॥
मूलम्
प्राणायामास् त्रयः पञ्चदशमात्राः ॥ १।५० ॥
हरदत्तः
कार्या इति शेषः । जानुपार्श्वतः परिमृज्य त्रुटिम् एकां कुर्यात् सैका मात्रा । ताः पञ्चदश् पूर्यन्ते यावता कालेन तावन्तं कालं प्राणवायुं धारयेत् स एकः प्राणायामः । ते त्रयः कार्याः । मनुः ।
सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥ इति ॥ १।५० ॥
विश्वास-प्रस्तुतिः
प्राक्कूलेष्व् आसनं च ॥ १।५१ ॥
मूलम्
प्राक्कूलेष्व् आसनं च ॥ १।५१ ॥
हरदत्तः
प्रागग्रेषु दर्भेष्व् आसनं चकारात् कर्तव्यम् इति शेषः ॥ १।५१ ॥
विश्वास-प्रस्तुतिः
ओंपूर्वा व्याहृतयः पञ्च सत्यान्ताः ॥ १।५२ ॥
मूलम्
ओंपूर्वा व्याहृतयः पञ्च सत्यान्ताः ॥ १।५२ ॥
हरदत्तः
व्याहृतिर् नाम (?) भूर् भुवः स्वः सत्यं पुरुष इति पञ्च । अत्र तु पुरुषव्याह्र्तिश् चतुर्थी सत्यव्याहृतिः पञ्चमी वक्तव्या । ताश् च प्रत्येकं प्रणवपूर्वा वक्तव्याः ॥ १।५२ ॥
विश्वास-प्रस्तुतिः
गुरोः पादोपसंग्रहणं प्रातः ॥ १।५३ ॥
मूलम्
गुरोः पादोपसंग्रहणं प्रातः ॥ १।५३ ॥
हरदत्तः
अहर् अहः प्रातर् गुरोः पादोपसंग्रहणं कार्यम् । मनुः ।
व्यत्यस्तपाणिना कार्यम् उपसंग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ इति ॥ १।५३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मानुवचने चाद्यन्तयोः ॥ १।५४ ॥
मूलम्
ब्रह्मानुवचने चाद्यन्तयोः ॥ १।५४ ॥
हरदत्तः
ब्रह्म वेदः । अनुवचनम् अध्यापनम् । तत्राद्यन्तयोश् च गुरुपादोपसंग्रहणं कार्यम्
॥ १।५४ ॥
विश्वास-प्रस्तुतिः
अनुज्ञात उपविशेत् प्राङ्मुखो दक्षिणतः शिष्य
उदङ्मुखो वा ॥ १।५५ ॥
मूलम्
अनुज्ञात उपविशेत् प्राङ्मुखो दक्षिणतः शिष्य
उदङ्मुखो वा ॥ १।५५ ॥
हरदत्तः
आचार्येणानुज्ञातस् तद्दक्षिणतः प्राङ्मुख उदङ्मुखो वोपविशेत् । कार्यानुगुणो विकल्पः
॥ १।५५ ॥
विश्वास-प्रस्तुतिः
सावित्री चानुवचनम् ॥ १।५६ ॥
मूलम्
सावित्री चानुवचनम् ॥ १।५६ ॥
हरदत्तः
तत् सवितुर् वरेण्यम् इत्य् एषा न त्व् अन्या सवितृदेवत्या । सा वानुवचनं प्रत्यध्ययनं पठनीयेति ॥ १।५६ ॥
विश्वास-प्रस्तुतिः
आदितो ब्रह्मण आदाने ॥ १।५७ ॥
मूलम्
आदितो ब्रह्मण आदाने ॥ १।५७ ॥
हरदत्तः
पाणिना सव्यम् उपसंगृह्येत्यादि सावित्र्यनुवचनान्तं यद् उक्तं तद् इदं ब्रह्मणो वेदस्य गुरोः सकाशाद् आदित आदानकाले कर्तव्यम् । उपनयनाद् अनन्तरं सावित्र्युपदेशकाले च, प्रत्यहं तु तत्र चक्षुर्मनस्त्वम् । प्रातरध्ययनाद्यन्तयोश् च गुरोः पादोपसंग्रहणम् अनुज्ञातोपवेशनं च कर्तव्यम् ॥ १।५७ ॥
विश्वास-प्रस्तुतिः
ओंकारो ऽन्यत्रापि ॥ १।५८ ॥
मूलम्
ओंकारो ऽन्यत्रापि ॥ १।५८ ॥
हरदत्तः
सावित्र्युपदेशकाले च, प्रत्यहं तु तत्र चक्षुर्मनस्त्वम् । प्रातर् अध्ययनाद्यन्तयोश् च गुरोः पादोपसंग्रहणम् अनुज्ञातोपवेशनं च कर्तव्यम् ॥ १।५८ ॥
विश्वास-प्रस्तुतिः
अन्तरागमने पुनर् उपसदनम् ॥ १।५९ ॥
मूलम्
अन्तरागमने पुनर् उपसदनम् ॥ १।५९ ॥
हरदत्तः
गुरोः शिष्यस्य च मध्ये गमनम् अन्तरागमनम् । यस्य कस्याप्य् अन्तरागमने पुनर् उपसदनं कर्तव्यम् । पाणिना सव्यम् इत्याद्य् ओंकारो ऽन्यत्रापीत्य् अन्तम् उपसदनम् ॥ १।५९ ॥
विश्वास-प्रस्तुतिः
श्वनकुलसर्पमण्डूकमार्जाराणां त्र्यहम्
उपवासो विप्रवासश् च ॥ १।६० ॥
मूलम्
श्वनकुलसर्पमण्डूकमार्जाराणां त्र्यहम्
उपवासो विप्रवासश् च ॥ १।६० ॥
हरदत्तः
श्वादीनाम् अन्तरागमने त्र्यहम् उपवासो विप्रवासश् च कर्तव्यः । विप्रवास आचार्यकुलाद् अन्यत्र वासः । मनुस् तु ।
पशुमण्डूकमार्जारश्वसर्पनकुलेषु च ।
अन्तरागमने विद्याद् अनध्यायम् अहर्निशम् ॥ इति । [म्ध् ४।१२६]
तद् धारणाध्ययनविषयम् । गौतमीयं तु ग्रहणाध्ययनविषयम् ॥ १।६० ॥
विश्वास-प्रस्तुतिः
प्राणायामा घृतप्राशनं चेतरेषाम् ॥ १।६१ ॥
मूलम्
प्राणायामा घृतप्राशनं चेतरेषाम् ॥ १।६१ ॥
हरदत्तः
इतरेषां श्वादिव्यतिरिक्तानां पश्वादीनाम् अन्तरागमने प्राणायामास् त्रयः कार्या घृतप्राशनं च कार्यम् । एतत् सर्वं शिष्यस्य प्रायश्चित्तं न गुरोः, उभयोर् इत्य् अपरे ॥ १।६१ ॥
विश्वास-प्रस्तुतिः
श्मशानाभ्यध्ययने चैवम् ॥ १।६२ ॥
मूलम्
श्मशानाभ्यध्ययने चैवम् ॥ १।६२ ॥
हरदत्तः
अभिर् उपरिभावे श्मशानस्योपर्य् अध्ययने चैवं प्रायश्चित्तम् । प्राणायामा घृतप्राशनं चेति । द्विरुक्तिर् अध्यापनपरिसमाप्त्यर्था ॥ १।६२ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
प्रथमप्रश्ने प्रथमो ऽध्यायः