विस्तारः (द्रष्टुं नोद्यम्)
Searchable Electronic Edition of Maskarin’s commentary on the Gautamadharmasūtra, transcribed, edited, formatted, and color-coded by Patrick Olivelle, is licensed under a Creative Commons Attribution 4.0 International License.
Last updated: January 2023
Patrick Olivelle (jpo@austin.utexas.edu)
University of Texas at Austin
Maskarin, Gautamasūtrabhāṣya
Edited by L Srinivasacharya
Government Oriental Library Series
Bibliotheca Sanskrita, No. 50
Mysore: Government Branch Press, 1917
Transcribed by Patrick Olivelle
सर्वधर्मस्वरूपाय सर्वकार्यलयाय च1 ।
प्रणिपत्यादिदेवाय वासुदेवाय भक्तितः ।
गौतमीयच्छलेनेदं सर्वस्मृतिनिबन्धनम् ॥
क्रियते ऽद्य मया भाष्यं सूनुना वामनस्य2 तु ॥
को वास्याभिसम्बन्धः3 । अयम् उच्यते – सन्ति चतुर्दश विद्यास्थानानि । तद् यथा –
अङ्गानि वेदाश् चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्य् एताश् चतुर्दश ॥ इति ।
तेषां मध्ये परिगणितम् इदं धर्मशास्त्रम् आरभ्यत इत्य् अभिसम्बन्धः । अथ वा – पुरुषस्य सुखदुःखोपभोगार्थैः शरीरेन्द्रियविषयैः संयोगवियोगरूपो जन्मजरामरणप्रबन्धः संसारः । स च धर्माधर्मनिमित्तो नान्यनिमित्तः । तयोश् च धर्माधर्मयोर् इष्टानिष्टोपभोगहेतुत्वाद् उपादानपरिवर्जनार्हौ तौ भवतः । तद् उभयम् अपरिज्ञाने न सम्भवतीति धर्माधर्मस्वरूपावबोधनार्थं गौतमेन शास्त्रं प्रणीतम् इति । प्रयोजनम् अपि चास्यैतद् एव, धर्माधर्मोपादानपरिवर्जनयोः पुरुषार्थत्वाद् इति । अभिधेयम् अष्टकादीनि, यथा श्रौतान्य् अग्निष्टोमादीन्य् अवश्यकर्तव्यानि तथाष्टकादीन्य् अपीति ।
तत्र सर्वकार्याणां कारणतः प्रवृत्तिदर्शनात् पूर्वं4_ कारणविशेषप्रतिपादनार्थम् आह ।_
वेदो धर्ममूलम् ॥ १.१ ॥
ननु विधिप्रतिषेधरूपत्वाच् छास्त्रस्य “उपनयनं ब्राह्मणस्याष्टमे” इत्याद्य् एव वक्तव्यम्, न त्व् अनुवादरूपत्वाद् “वेदो धर्ममूलम्” इत्यादि, निष्प्रयोजनत्वाद् अनुवादस्येति । न चानेन वेदस्य प्रामाण्यं प्रतिपाद्यते, तस्य स्वत एव सिद्धेः । अन्यथा येन प्रामाण्यं प्रतिपाद्यते तस्याप्य् अन्येन प्रामाण्यं तस्याप्य् अन्येनेत्य् अनवस्था स्याद् इति ।
उच्यते – वेदस्य धर्ममूलत्वानुवादः तद्द्वारेण स्मृतिशीलयोर् अपि धर्ममूलत्वप्रतिपादनार्थः । कथम् इति चेद्, उच्यते – वेदवचनाद् उच्चरितात् तत्पदार्थविदां विशिष्टे ऽर्थे या प्रतिपत्तिर् निःसन्दिग्धा जायते, न च कालान्तरे देशान्तरे पुरुषान्तरे ऽवस्थान्तरे वा विपर्येति सा धर्ममूलम् इति । यच् च निःसन्दिग्धम् अविपरीतं च ज्ञानम् उत्पद्यते तस्य प्रामाण्यम् अध्यवसितुं शक्यते । न च वेदजनितप्रत्ययस्य कारणदोषकृतं मिथ्यात्वं, कर्तुर् अनभ्युपगमात् । कर्तृगतो हि दोषः शब्दजनितस्य प्रत्ययस्य मिथ्यात्वम् आपादयति । एवम् उत्तरार्थो ऽनुवादः ।
इदानीं सूत्रं विव्रीयते – तत्र वेदो मन्त्रब्राह्मणाख्यो ग्रन्थराशिः । विद् ज्ञाने, ज्ञायते ऽनेन धर्मादिस्वरूपम् इति वेदः । यद्य् अपि स्मृत्यादेर् एतत् तुल्यत्वम्, तथापि परिव्राजकादिवद् रूढत्वाद् अदोषः । तथा च स्मृत्यन्तरम् ।
श्रुतिश् तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । इति । [म्ध् २.१०]
स च ऋग्वेदादिभेदेन भिद्यते । जात्यपेक्षयैकवचनम् । धर्मः कर्म आचार इत्यर्थः, अपूर्वाख्यो वा । मूलं कारणं ज्ञापकं, प्रमाणम् इत्य् अर्थः । तत्र विधिप्रतिषेधात्मको हि वेदो धर्माद्यवबोधकत्वं प्रतिपद्यते, न तु मन्त्रार्थवादरूप इति चेद्, उच्यते — अर्थवादादेर् अपि विध्येकवाक्यत्वेनोपकारकत्वात् पारम्पर्येण धर्ममूलत्वम् अविरुद्धम् । अर्थवादस् तावत् स्तुतिनिन्दाद्वारेण विधिप्रतिषेधरूपत्वं प्रतिपद्यते, मन्त्रस् त्व् अनुष्ठानकाले विहितार्थस्मारकत्वात् । ततः सर्वप्रकार एव वेदो धर्ममूलम् इति ।
केचिन् मन्त्रार्थवादमूलम् एव प्रतिजानते, यथा “धन्वन्न् इव प्रपा असि” [र्व् १०.४.१] इत्य् अत्र प्रपा कर्तव्येत्यादि ।
अन्ये त्व् आहुः — अध्ययनमात्राद् एव धर्मसिद्धिः5 । यथाह ।
आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः स्रग्व्य् अपि द्विजो ऽधीते स्वाध्यायं शक्तितो ऽन्वहम् ॥ इति6 ।
अतः पाठ एव धर्ममूलम् इति ।
तद् अयुक्तं, कर्मफलश्रुतेः आनर्थक्यप्रसङ्गात्, मीमांसकैर् अध्ययनफलस्य निरस्तत्वाच् च । अथ वा वेदवाच्या क्रिया वेदशब्देनोच्यते, स धर्मस्य मूलम् इति ।
श्येनादिषु न भवतीति चेत्,
उच्यते — तत्रापि वैरिवधात् प्राणधनपुत्रदारादिरक्षणद्वारेण धर्मो ऽस्त्य् एवेति । ततश् चावगम्यते — “यद् इदं पुत्रपशुग्रामादिदृष्टं, यच् च सर्गाद्यदृष्टं, तत् सर्वं धर्महेतुकम्” इति ।
धर्मः पञ्चप्रकारः — वर्णधर्म आश्रमधर्मो गुणधर्मो वर्णाश्रमधर्मो निमित्तधर्म इति । वर्णधर्मो ऽध्ययनादिः, आश्रमधर्मः समिदाधानादिः, गुणधर्मो ऽभिषेकादिगुणयुक्तस्य रक्षणादिः, वर्णाश्रमधर्मो ब्राह्मणस्य पालाशो दण्ड इत्यादिः, निमित्तधर्मः प्रायश्चित्तादिः । मूलं कारणम् । तथा चाह — “वेदाद् धर्मो हि निर्बभौ” [म्ध् २.१०] इति । सूत्रारम्भप्रयोजनं च — यथैव वेदो धर्ममूलं तथा स्मृतिशीले अपीति
॥ १.१ ॥
न तु केवलं वेद एव धर्ममूलं, किं तर्हि —
** तद्विदां च स्मृतिशीले ॥ १.२ ॥ **
वेदविदां च ये स्मृतिशीले ते ऽपि धर्ममूले भवतः । ते ऽपि वेदाविरोधिनी, तद्विदाम् इत्य् आरम्भात् । मूलशब्दश् चेह द्वाभ्याम् अभिसम्बध्यमानो द्विवचनान्तो द्रष्टव्यः । तच्छब्देन षडङ्गो वेदो लक्ष्यते । स्मृतिर् उपनिबन्धनं मनु-यम-वसिष्ठ-भृग्व्-अङ्गिरो-बृहस्पत्य्-उशनो-भारद्वाज-गौतम-आपस्तम्ब-संवर्त-व्यास-शतातप-शङ्ख-लिखित-हारीत-बोधायन-याज्ञवल्क्य-प्रचेतादिभिः कृतम् । शीलम् अनुपनिबद्धः समाचारः कौतुकमङ्गलादिः बहुत्वात् प्रतिदेशं भिद्यमानत्वाच् चानुपनिबद्धः । चकारो ऽनुक्तसमुच्चयार्थः । यथाह मनुः ।
वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश् चैव साधूनां आत्मनस् तुष्टिर् एव च ॥ इति । [म्ध् २.६]
सन्ध्योपरमणकाले त्रिः प्रदक्षिणादिः शिष्टाचारः । वेदविदां सकलानुष्ठानपराणां निर्दोषत्वेन यद् विज्ञानम् उत्पद्यते, सात्मतुष्टिः । वक्ष्यति “यच् चात्मवन्तो वृद्धाः” [ग्ध् ९.६२] इत्यादि ।
केचिद् वर्णयन्ति — अष्टकादिवद् एषां कौतुकमङ्गलादीनाम् अनुपनिबन्धो ऽकरणे प्रत्यवायाभावात् । आचारात्मतुष्टी अपि शील एवान्तर्भूते इति न पृथग् उपन्यस्ते । चकारो ऽप्य् उक्तसमुच्चयार्थ एवेति ॥ १.२ ॥
_इदानीं पूर्वपक्षीकरोति वेदविदां शीलं धर्ममूलं न भवति । यतः । _
**दृष्टो धर्मव्यतिक्रमः ॥ १.३ ॥ **
धर्ममूलत्वं न प्राप्नोतीति शेषः । यथा प्रजापतिः स्वां दुहितरम् अभ्यध्यायत्, यथेन्द्रस्याहल्यागमनादिः, यथा व्यासभीष्मादीनाम् अनाश्रमावस्थानम् ॥ १.३ ॥
किं च ।
साहसं च महताम् ॥ १.४ ॥
अत्रापि धर्ममूलत्वं न प्राप्नोतीति शेषः, चशब्दोपादानात् । सहःशब्देन बलम् उच्यते । यथा च नारदः- “सहो बलम् इहोच्यते” [न्स्म् १४.१] इति । तेन शास्त्रं लोकसंव्यवहारं चानवेक्ष्य यत् क्रियते तत् साहसम् । महतां लोकविख्यातानाम् इत्य् अर्थः । यथा रामस्य ताटकादिस्त्रीवधः, जामदग्न्यस्य मातुः शिरश्छेदः, वसिष्ठस्य जलप्रवेशः इत्यादि । तेन अयुक्तं शीलस्य धर्ममूलत्वम् इति ।
कथं पुनर् धर्मव्यतिक्रमसाहसयोः भेदः — विषयाभिलाषेण यद् अयुक्तम् आचर्यते, स धर्मव्यतिक्रमः, क्रोधाद्यभिभवेन यत् क्रियते तत् साहसम् ॥ १.४ ॥
अत्रोत्तरम् आह ।
**न तु दृष्टार्थे ऽवरदौर्बल्यात् ॥ १.५ ॥ **
तुशब्दः पक्षनिवृत्त्यर्थः । दृष्टार्थो दृष्टप्रयोजनः, तस्मिन् दृष्टप्रयोजने शीलं धर्ममूलं न भवति । तथा च वसिष्ठः- “अगृह्यमाणकारणो धर्मः” [वध् १.७] इति । नैताद् विवचनं, दृष्टार्थे धर्मव्यतिक्रमसाहसे इति । तस्मिन् गृह्यमाणे “ईद् उदेत्” [पाण् १.१.११] इत्यादिना प्रगृह्यसञ्ज्ञायां सत्यां “दृष्टार्थे अवरदौर्बल्यात्” इति पाठः प्राप्नोति । अवरदौर्बल्यात् न वरः अवरो निकृष्टः द्वेषाद्यभिभूतः अपरमार्थज्ञान इत्य् अर्थः । तस्य दौर्बल्यात् धर्माधर्मपरिज्ञानाशक्तेर् इत्य् अर्थः । एतच् चानेन ज्ञापितं भवति — महताम् अपि तद्विदां कदाचिद् अभिभवो ऽस्तीति, शरीरवतः प्रियाप्रिययोर् अवश्यम्भावित्वात् । तस्माद् यावद् एतेषां रागादिदोषेणाभिभवः, तावत् तेषाम् आचारो ऽपि न ग्राह्यः । तथा च वसिष्ठः- “शिष्टः पुनर् अकामात्मा” [वध् १.६] इति । अथ वा – अवरशब्देनेदानीन्तनाः कलियुगपुरुषा उच्यन्ते, तेषां दौर्बल्यात् असामर्थ्यात् ॥ १.५ ॥
एवं स्मृतिप्रमाणम् उक्त्वा अधुना एकार्थोपनिपतितानां वाक्यानां परस्परविरोधे सति किं क्रव्यम् इत्य् अत आह ।
**तुल्यबलविरोधे विकल्पः ॥ १.६ ॥ **
तुल्यप्रमाणप्रापितः पदार्थस् तुल्यबलः । तयोः परस्परविरोधे सति विकल्पो वेदितव्यः, अयं वायं वेति । नोभयपरित्यागः, उभयोः प्रमाणप्रापितत्वात् । नान्यतरपरिग्रहः, एकस्मिन् गृह्यमाणे द्वितीयस्यानर्थक्यप्रसङ्गः स्याद् इति । किम् उदाहरणम् — श्रुतौ तावत् “उदिते होतव्यम्, अनुदिते होतव्यम्” इत्येवमादि । स्मृताव् अपि, “नित्यम् अभोज्यं केशकीटावपन्नम्” [ग्ध् १७.८–९] इति गौतमः ।
पक्षिजग्धं गवाघ्रातम् अवधूतम् अवक्षुतम् ।
दूषितं केशकीटैश् च मृत्प्रक्षेपेण शुध्यति ॥ [म्ध् ५.१२५]
इति मनुः ।
ननु चात्र सामर्थ्याद् एव विकल्पप्रसिद्धेः अनर्थकम् इदं सूत्रम्, समुच्चयस् तावद् अत्र न सम्भवतीति । न ह्य् अनुदिते हुत्वा पुनर् उदिते होतुं शक्यते, गुणभूतकालवशेन प्रधानस्य होमस्यावृत्तेर् अन्याय्यत्वात् । प्रधानवशवर्तिनो हि गुणाः, न गुणवशवर्ति प्रधानम् इति । न चानावृत्तम् उभयोर् कालयोर् हेतुं शक्यते । एवं स्मृताव् अपि शुद्धिपरित्यागयोर् नैव समुच्चयः सम्भवतीति, परस्परविरोधाद् इति । न चोभयपरित्यागो युक्त इत्य् उक्तम् । तेनात्र विकल्प एव प्राप्नोतीति नार्थो ऽनेनेति ।
एवं तर्हि न्यायप्राप्तानुवादो ऽयं विशेषार्थः । को विशेषः? तुल्यबलयोर् एव विरोधे विकल्पः, अतुल्यबलयोस् तु बाध एवेति । तेन श्रुतिस्मृत्योर् विरोधे स्मृतिर् एव बाध्यते । श्रुतौ हि प्रत्यक्षः शब्दः स्मृताव् आनुमानिकः । न चानुमानं प्रत्यक्षविरोधे प्रमाणीभवति । एवं स्मृत्याचारविरोधे च मातुलदुहितृपरिणयनाद्याचारो बाध्यत इति, तत्र ह्य् आचारात् स्मृत्यनुमानम् इति । विरोधे विकल्पवचनात्, अविरोधे तु तुल्यप्रमाणशिष्टानां समुच्चयः यथा आचमनादीनां श्रौतेषु कर्मस्व् इति ।
ननु च यदि वेदलिङ्गप्रभवत्वाभ्युपगम एव स्मृतेः श्रुत्या सहातुल्यबलत्वम् उपपाद्यते, तदा हि मन्त्रार्थवादवाक्येष्व् अन्यपरेष्व् अपि यानि स्मार्तधर्ममूलभूतानि लिङ्गानि “कुमारा विशिखा इव” [र्व् ६.७५.२७] इत्य् एवमादीनि तेषां प्रत्यक्षवेदवाक्यविरोधे सति विरोधिवाक्यानुमानविरोधात् दुर्बलत्वं प्रसज्यते । यदा तूत्सन्नशाखापूर्विका स्मृतिर् अभ्युपगम्यते – यथाह आपस्तम्बः “ब्राह्मणोक्ता विधयस् तेषाम् उत्सन्नाः पाठाः प्रयोगाद् अनुमीयन्ते” [आप्ध् १.१२.१०] इति तदोभयोश् च वैदिकत्वात् तुल्यबलतैव प्रसज्यते । न ह्य् अनुमितस्य वेदवाक्यस्य प्रत्यक्षस्य च बलाबलविशेषो ऽस्ति प्रत्यक्षानुमानपरिच्छिन्नाग्निवद् इति । स्याद् एतत् यत्र स्मृतिवचने वेदविरोधो ऽस्ति तन् नैव वेदवाक्यानुमापकं भवति, किं तर्हि भ्रान्त्यादिप्रभवम् एवैतद् इति ।
तच् च न युक्तं, धर्मशास्त्रप्रणेतुर् अनाप्तत्वाभ्युपगमे अविश्वासप्रसङ्गात् । यदापि वेदवद् अविच्छिन्नपारम्पर्येणागता स्मृतिर् अभ्युपगम्यते, तदापि तुल्यबलत्वम् उपपद्यत इति तत्रापि तन् नैवोपपद्यते । यस् तावन् मातुलदुहितृपरिणयनादिकः समाचार उपन्यस्तः स कामाद्यभिभवे सति दुष्टाचारत्वाच् छिष्टाचार एव नोपपद्यते । यस् त्व् अविगानेनोक्तलक्षणैः शिष्टैर् आचर्यते तस्य वेदमूलत्वाविशेषात् स्मृत्या सह तुल्यबलत्वम् एव प्राप्नोति । निबन्धनानिबन्धनयोस् त्व् अन्यद् एव प्रयोजनम् उपदिष्टम् । न च समाचारस्य स्मृतिवाक्यान्तरितरूपस्य वेदवाक्यानुमानसन्निकर्षकृतं बलाबलत्वं सिध्यति ।
अत्रोच्यते — अतुल्यबलत्वं तावत् वेदादीनां सूत्रारम्भसामर्थ्याद् एवावगम्यते । यदा हि तुल्यबलान्य् एतानि स्युः, तदा विरोधे विकल्पः सार्मथ्याद् एव सिद्धः, किम् अनेन सूत्रेणेति तुल्यबलग्रहणं चानर्थकं स्याद् इति । अस्मिन् पक्षे वेदाद् दुर्बलतरत्वं स्मृतेर् उपपद्यते । तत्र लिङ्गप्रभवत्वम् उपपद्यते इत्य् उक्तम् । तेनायम् एव पक्षो युक्तः । यस् तु स्वतन्त्रपक्षो ऽभिहितः, स पक्षः “तद्विदां च स्मृतिशीले” [ग्ध् १.२] इत्य् एतस्मिन् सति दुरुपपाद एवेति । तस्माद् वेदलिङ्गप्रभवत्वम् एव स्मृतीनां निर्दोषतरम् इति ।
ननु चैवम् अपि नोपपद्यते, क्वचित् स्मृत्या श्रुतेर् बाधदर्शनात् । यथा सामान्येन प्रवृत्तो वैदिककर्माधिकारः स्मृत्या उपनीतादिपुरुषविशेष एवाधिक्रियते । तथा संस्कारैकदेशेनाप्य् आत्मगुणयोगे सति विशिष्टफलाभिधानात् । तथा “गाम् आलभेत” इति श्रुतिचोदितो ऽपि गोवधः स्मार्तप्रतिषेधबलीयस्त्वान् न क्रियते, तथाग्निहोत्रादिकं चोदितजीवनोपाधिकं कर्म द्रव्यसाध्यम् अपि न स्मार्तचौर्यादिप्रतिषद्धेनापि द्रव्यम् आर्जयित्वा तत्क्रियते । अतः “श्रुत्या स्मृतिर् बाध्यते” इत्य् अयुक्तम् उक्तम् इति ।
उच्यते — विरोधे सत प्रमाणानां बलाबलचिन्ता युज्यते । यत्र तु विरोधाभावः तत्र दुर्बलो ऽपि नैव बाध्यत इति । यस् तावद् उपनीतस्य कर्माधिकारः सः श्रुत्या नैव विरुध्यते, उपनयनस्य वेदग्रहणार्थत्वात्, तस्य च कर्मार्थत्वात्, न चापूर्वसंयोगम् अन्तरेण प्रधानसिद्धिः । यच् चोक्तं “गोवधस् तु श्रुतिचोदितो ऽपि न क्रियते” इति, तद् अपि न केवलं स्मृत्या, किं तु मन्त्रवर्णाच्7 च “मा गाः प्रमापयाश्वान् प्रमापय” इत्यादि । अतः स्मृत्या श्रुतिर् नैव बाध्यते ।
केचिद् उत्सन्नशाखापूर्विकां स्मृतिम् आहुः ।
तदयुक्तम् । तत्र विचार्यते — किं स्मरणात् पूर्वम् एव नष्टाः शाखाः उतोत्तरकालम्8 इति । यादि पूर्वं तत्र स्मरणं नोपपद्यते, विनष्टत्वात्, पूर्वविज्ञानसदृशत्वात् स्मृतेः । यद्य् उत्तरकालम्, तदोत्सन्नशाखापूर्वकत्वं वक्तुं न युज्यते, तदानीम् उपलभ्यमानत्वात् । आपस्तम्बोक्तस्याप्य् अयम् अभिप्रायः — उत्सन्नाः क्वचित् क्वचिद् देशे न सर्वत्रेति “तेषाम् उत्सन्नाः पाठाः प्रयोगाद् अनुमीयन्ते” [आप्ध् १.१२.१०] इत्य् अत्रापि व्याख्या कर्तव्या ॥ १.६ ॥
_एवम् इयं धर्मप्रमाणपरिभाषोक्ता । इदानीं स्मृत्या यत् प्रमीयते तद् अभिधानार्थम् आह । _
**उपनयनं ब्राह्मणस्याष्टमे ॥ १.७ ॥ **
वेदस्य अग्नेर् आचार्यस्य यमनियमानां वा समीपे नयनम् उपनयनम् । तद् अष्टमे वर्षे, वर्षगणनासामर्थ्यात् । नित्यो ऽयम् उपनयनकालः, काम्यापत्कल्पयोर् ऊर्ध्वम् अभिधानात् । क्षत्रियवैश्ययोर् ऊर्ध्वम् अभिधानात्9 शूद्रस्यैकजातित्वाद् अर्थसिद्धस्यापि ब्राह्मणग्रहणस्य जातिनिमित्तत्वप्रसिद्ध्यर्थम् आरम्भः । न च द्विजत्ववत् ब्राह्मणत्वं क्रियत इति । एवं च सुरापस्य ब्राह्मणस्य “सुरापस्य ब्राह्मणस्योष्णाम् आसिञ्चेयुः” [ग्ध् २३.१] इत्येवमादयो ब्राह्मणोद्देशेन विधीयमाना अनुपनीतस्यापि भवन्ति । यद् वा ब्राह्मणग्रहणेन विना त्रयाणाम् अप्य् एतन् नित्यं स्यात्, काम्यं तु ब्राह्मणस्य नवमे पञ्चमे वा स्यात् [ग्ध् १.८], इतरयोस् त्व् एकादशद्वादशयोः स्याताम् [ग्ध् १.१३], काम्यानन्तरम् अभिधानात् । पूर्वसंस्काराभावे ऽपि उपनयनेनाधिक्रियते, न त्व् अनेन विनोपरितनैर् इति गर्भाधानादिम् अनुक्त्वा उपनयनस्यैवेहारम्भः ॥ १.७ ॥
नवमे पञ्चमे वा काम्यम् ॥ १.८ ॥
कामाय हितं काम्यं तदुत्पादनसमर्थम् । पञ्चमे नवम इति वाच्ये क्रमभेदः अनयोर् अन्तरा क्षत्रियवैश्ययोः काम्यकालपरिग्रहार्थः । तथा च मनुः ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्यार्थार्थिनो ऽष्टमे ॥ [म्ध् २.३७]
विसमासः10 काम्यभेदज्ञापनार्थः । तथा च स्मृत्यन्तरम्- “नवमे त्व् आयुष्माकं पञ्चमे ब्रह्मवर्चसकामम्” इति11 । वाशब्दो विकल्पार्थः । स इच्छातो द्रष्टव्यः ॥ १.८ ॥
**गर्भादिः सङ्ख्या वर्षाणाम् ॥ १.९ ॥ **
गर्भसहचरिता दश मासा गर्भ इत्य् उच्यते । तत्प्रभृति वर्षगणना कर्तव्या, न तु जन्मत आरभ्य । ततश् च “उपनयनं ब्राह्मणस्य” [ग्ध् १.७] इत्य् एवमादौ “गर्भाष्टमे” इत्य् एवमादि योज्यम् ॥ १.९ ॥
**तद् द्वितीयं जन्म ॥ १.१० ॥ **
तत् उपनयनं द्वितीयं जन्म । तेन संस्कृतो द्विजो भवतीत्य् अर्थः । “द्विजातीनाम् अध्ययनम्” [ग्ध् १०.१] इत्य् एवमादौ व्यवहारार्थं द्विजसञ्ज्ञाकरणम् । तद्ग्रहणं नित्यकाम्योपनयनसङ्ग्रहणार्थम् ॥ १.१० ॥
**तद् यस्मात् स आचार्यः ॥ १.११ ॥ **
तद्ग्रहणं नित्यकाम्योपनयनसङ्ग्रहणार्थम् । “आचार्यः श्रेष्ठो गुरूणाम्” [ग्ध् २.५७] इत्यादौ व्यवहारार्थं सञ्ज्ञाकरणम् ॥ १.११ ॥
**वेदानुवचनाच् च ॥ १.१२ ॥ **
वेदानुवचनं समस्तवेदानुवचनम् । अदृष्टार्थम् एकदेशाध्यापनेन गुरुः । तथा च मनुः ।
अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तम् अपीह गुरुं विद्यात् श्रुतोपक्रियया तया ॥ इति । [म्ध् ३.२२]
दृष्टार्थं12 चेद् उपाध्यायः । तथा च वसिष्ठः- “यस् त्व् एकदेशं स उपाध्यायः” [वध् ३.२२] इति । चकारात् अङ्गव्याख्यातापि । तथाच् अ यास्कः- “आचार्य आचारान् आचिनोति, अर्थान् आचिनोति, बुद्धिं वा” [निरुक्त १.४] इति ।
केचिच् चकारं पूर्वसूत्रेण समुच्चयार्थं व्याचक्षते । तेनोभयकरणाद् एवाचार्यः । तथा च मनुः ।
उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः ।
सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते ॥ [म्ध् २.१४०]
इति ॥ १.१२ ॥
**एकादशद्वादशयोः क्षत्रियवैश्ययोः ॥ १.१३ ॥ **
नित्यो ऽयं कालः, काम्यापत्कल्पयोर् ऊर्ध्वम् अभिधानात् ॥ १.१३ ॥
यदा तु नित्यकाम्ययोः केनचिद् दुर्भिक्षादिना निमित्तेनातिक्रमः स्यात् तदानीम् आपत्कल्पम् आह ।
**आ षोडशाद् ब्राह्मणस्यापतिता सावित्री ॥ १.१४ ॥ **
आङ् अत्राभिविध्यर्थः, सह षोडसेन वर्षेणेति, “द्व्यधिकायाः” [ग्ध् १.१६] इति लिङ्गात्, “षोडशे सर्वकामम्” इति स्मृत्यन्तरदर्शनाच् च । अपतिता अनपगता । सावित्रीशब्देन तत्साधनम् उपनयनम् उच्यते । उपनयनस्याधिकृतो भवतीत्य् अर्थः । अनुपनीतस्यापि जातेर् अविनाशार्थं ब्राह्मणग्रहणम् । एवं च पित्रादिष्व् अनुपनीतेष्व् अपि प्रायश्चित्तेनोपनयने ऽधिक्रियते । तथाच आपस्तम्बः- “यस्य पिता पितामहः प्रपितामहः” [आप्ध् १.१.३२] इत्यादि ॥ १.१४ ॥
** द्वावंशते राजन्यस्य ॥ १.१५ ॥ **
अत्राप्य् आङ् अनुवर्तते वर्षसहितम् । राजन्यशब्दप्रयोगो राजत्वप्रसिद्ध्यर्थः, तस्योपनीतस्यैव राज्याधिकार इति ॥ १.१५ ॥
**द्व्यधिकाया वैश्यस्य ॥ १.१६ ॥ **
द्वाभ्याम् अधिकाभ्यां सहिता या द्वाविंशतिः सा द्व्यधिकाः, चतुर्विंशातेर् इत्य् अर्थः । चतुर्विंशतेर् इति वक्तव्ये एवमभिधानं पूर्वत्राङो ऽभिविधिज्ञापनार्थम् ॥ १.१६ ॥
_उक्त उपनयनकालः । इदानीं तत्साधनाभिधित्सयाह । _
**मौञ्जीज्यामौर्वीसौत्र्यो मेखलाः क्रमेण ॥ १.१७ ॥ **
मुञ्जविकारा मौञ्जी । मूर्वा प्रसिद्धा, तद्विकारा मौर्वी । ज्या चासौ मौर्वी चेति समानाधिकरणसमासः । ततश् च धनुषो ऽपनीय ग्राह्या । सूत्रं शणसूत्रम् । एकगुणा मौर्वी, इतरे त्रिवृतौ । यथाह मनुः ।
मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ इति । [म्ध् २.४२]
ज्यामौर्व्योर् द्वित्वव्यावृत्त्यर्थं क्रमग्रहणम् ।
केचिद् अभावे वैकल्पिकार्थम् इति वर्णयन्ति । तथा च मनुः ।
मुञ्जाभावे तु कर्तव्या कुशाश्मन्तकबल्बजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिर् एव वा ॥ इति । [म्ध् २.४३]
न्यायसिद्धेः क्रमग्रहणस्यान्यार्थत्वाद् इति ॥ १.१७ ॥
कृष्णरुरुबस्ताजिनानि ॥ १.१८ ॥
अजिनशब्दः प्रत्येकम् अभिसम्बध्यते । कृष्णः कृष्णमृगः, रुरुः पृषन्मृगः, बस्तः प्रसिद्धः । एतानि क्रमेणोत्तरीयाणि । तथा च स्मृत्यन्तरम्- “अजिनम् एवोत्तरीयं धारयेयुः”
इति ॥ १.१८ ॥
वासांसि शाणक्षौमचीरकुतपाः सर्वेषाम् ॥ १.१९ ॥
शणविकारः शाणः । क्षुमा अतसी, तद्विकारः क्षौमः । दर्भादिपरिनिष्पन्नं चीरम् । कुतपः पार्वतीयच्छागरोमनिष्पन्नः । एतान्य् अधोवसनानि । विषमसङ्ख्यत्वाद् एव सर्वेषां सिद्धेः स्मृत्यन्तरे “शाणं क्षौमं वासो ब्राह्मणस्य” इति । तद् आश्रित्य यद् यथासङ्ख्यं तन्निवृत्त्यर्थं सर्वेषाङ्ग्रहणं, अधिकारार्थं वा ॥ १.१९ ॥
**कार्पासं चाविकृतम् ॥ १.२० ॥ **
सर्वेषाम् इत्य् अनुवर्तते, वास इति च । अविकृतम् अरागसम्बन्धम् । स्वभावतः शुक्लम् एवेत्य् अर्थः । पूर्वेषाम् अप्य् अविकृतत्वज्ञापनार्थश् चशब्दः ॥ १.२० ॥
** काषायम् अप्य् एके ॥ १.२१ ॥ **
रागसम्बन्धम् अपि केचिद् इच्छन्ति । अपिशब्दो निन्दार्थः । अतः पूर्वेषाम् अभावे द्रष्टव्यम्
॥ १.२१ ॥
_इदानीं काषायपक्षे नियमार्थम् आह । _
**वार्क्षं ब्राह्मणस्य ॥ १.२२ ॥ **
वृषकषायकृतं वार्क्षम्, तद् एव ब्राह्मणस्य वासः ॥ १.२२ ॥
**माञ्जिष्ठहारिद्रे इतरयोः ॥ १.२३ ॥ **
मञ्जिष्ठया विकृतं माञ्जिष्ठं13 क्षत्रियस्य । हरिद्रया विकृतं वैश्यस्य ॥ १.२३ ॥
**बैल्वपालाशौ ब्राह्मणदण्डौ ॥ १.२४ ॥ **
बैल्वः पालाशो वा ब्राह्मणस्य दण्डः । यद्य् अपि द्वन्द्वनिर्देशैः, तथापि “यज्ञियो वा सर्वेषाम्” [ग्ध् १.२६] इत्य् एकवचननिर्देशात्, “प्रतिगृह्येप्सितं दण्डम्” [म्ध् २.४८] इति स्मृत्यन्तरदर्शनाच् च एकस्यैव धारणं युक्तम् ॥ १.२४ ॥
आश्वत्थपैलवौ14** शेषे ॥ १.२५ ॥ **
अश्वत्थः प्रसिद्धः, पीलुः कल्किः, शेषे क्षत्रियवैश्यविषये । तत्रापि क्षत्रियस्याश्वत्थः, वैश्यस्य पैलवः ॥ १.२५ ॥
** यज्ञियो वा सर्वेषाम् ॥ १.२६ ॥ **
यज्ञार्हो वा स्यात् विभीतकबिल्वकयावकादिवर्जितो वृक्षविशेष इत्य् अर्थः । वाशब्दो ऽभावविकल्पार्थः, अतः पूर्वेषाम् अभावे । अन्यथापार्थो वाशब्दः । सर्वेषाङ्ग्रहणम् अनन्तरयोर् एव मा भूद् इति ॥ १.२६ ॥
_इदानीं दण्डगुणम् आह । _
**अपीडिता यूपवक्राः सशल्काः ॥ १.२७ ॥ **
अपीडिता वल्लीवेष्टनकीटाग्न्यादिभिर् अनुपहता इत्य् अर्थः । यूपवक्राः यूपवन् नताग्रा इत्य् अर्थः । सशल्काः सत्वचः । असमासात् सर्व एवंरूपाः, न तु यथासङ्ख्यम् । तथा चाह मनुः ।
ऋजवस् ते तु सर्वे स्युर् अव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचो ऽनग्निदूषिताः ॥ [म्ध् २.४७] इति ॥ १.२७ ॥
**मूर्धललाटनासाग्रप्रमाणाः ॥ १.२८ ॥ **
प्रमाणशब्दः प्रत्येकं सम्बध्यते । मूर्धप्रमाणो ब्रह्मणस्य, ललाटप्रमाणः क्षत्रियस्य, नासाग्रप्रमाणो15 वैश्यस्य । तथा च मनुः ।
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ललाटसम्मितो राज्ञः स्यात् तु नासान्तिको विशः ॥ [म्ध् २.४६] इति ॥ १.२८ ॥
_इदानीं ब्रह्मचारिवेषम् आह । _
**मुण्डजटिलशिखाजटाश् च ॥ १.२९ ॥ **
मुण्डो मुण्डितशिरस्कः । जटिलः सकेशः । शिखा एव जटा यस्य स शिखाजटः । एवं मुण्डशब्देन समस्तमुण्डनम् उच्यते । चकारो वार्थः प्रत्येकम् अभिसम्बध्यते — मुण्डो वा जटिलो वा शिखाजटो वेति । ब्राह्मणक्षत्रियवैश्याभिप्रायं बहुवचनम् । यथाक्रमनिवृत्त्यर्थं वेति नोक्तम् । तथा च मनुः ।
मुण्डो वा जटिलो वा स्याद् अथ वा स्याच् छिखाजटः । [म्ध् २.२१९] इति ॥ १.२९ ॥
_इदानीं शौचवतो ऽध्ययनाधिकारात् शौचार्थं पूर्वं द्रव्यशुद्धिर् उच्यते । _
**द्रव्यहस्त उच्छिष्टो निधायाचामेत् ॥ १.३० ॥ **
ब्राह्मणभोजनादौ प्रवृत्तो द्रव्यहस्तः पूर्वम् अनुच्छिष्टः केनचित् कारणेनोच्छिष्टस्पर्शाद् अप्रयतो भवति, तदा तद्द्रव्यं भूमौ निधाय स्थापयित्वाचामेत् । तथा च वसिष्ठः ।
प्रचरन्न् अभ्यवहार्येषु उच्छिष्टं यदि संस्पृशेत् ।
भूमौ निधाय तद् द्रव्यम् आचम्य प्रचरेत् पुनः ॥ इति । [वध् ३.४३]
पुरुषशौचविवक्षायां द्रव्यहस्तग्रहणम् अनर्थकम् । अतो द्रव्यस्य निधानमात्राद् एव शुद्धिः, पुरुषस्याचमनात् । यत् तु द्रव्यस्य स्मृत्यन्तरे प्रोक्षणम् उक्तम्- “भूमौ निक्षिप्य प्रोक्षणाद् द्रव्यं शुद्ध्यति” इति तद् अभ्यवहार्यपक्वद्रव्यविषयम् एव द्रष्टव्यम् ।
कथं पुनस् तुल्यसंहिते सूत्रे विशेषो ऽवगम्यते — निधायाचमनं न पुनर् अनिधायेति ।
उच्यते – यद्य् अनिधायाचमनम् इष्टं स्यात्, ततो “द्रव्यहस्त उच्छिष्ट आचामेत्” इत्य् एतावद् एव वक्तव्यं स्यात्, किं निधानेन क्रियत इति, ततः सूत्रातिरेकान् निधानपक्ष एवाभीष्ट इत्य् अवगम्यते । यत् तु मनुनोक्तं ।
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथञ्चन ।
अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥ [म्ध् ५.१४३]
इति तद् अनभ्यवहार्यद्रव्यविषयं द्रष्टव्यम् । एवं चाभ्यवहार्यद्रव्यस्यापक्वस्य कदलीफलादेः निधानमात्राद् एव शुद्धिः । पक्वस्य भूमौ निक्षिप्य प्रोक्षणाच् छुद्धिः । अनभ्यवहार्यद्रव्यस्य वस्त्रादेर् अनिधायाचमनाच् छुद्धिः ।
_इदानीं द्रव्यशुद्धिम् आह । _
द्रव्यशुद्धिः परिमार्जनप्रदाहतक्षणनिर्णेजनानि तैजसमार्त्तिकदारवतान्तवानाम् ॥ १.३१ ॥
तैजसादीनां द्रव्याणां परिमार्जनादिना क्रमेण शुद्धिः । द्रव्यत्वे सिद्धे तेषां द्रव्यवचनं स्वकार्यनिष्पादनसामर्थ्यार्थम् । ततश् च भिन्नभाण्डादीनां न शौचम् । तेजसा हेतुभूतेन यानि क्रियन्ते तानि तैजसानि सौवर्णादीनि । तेषां तैजसानाम् उच्छिष्टलिप्तानाम् । कुत एतत्? मूत्राद्युपहतानां स्मृत्यन्तरे शुद्ध्यन्तरविधानात् । तथा च औशनसं- “तैजसानां मूत्रपुरीषरेतःकुणपोपहतानां आवर्तनम् उल्लेखनं भस्मना त्रिसप्तकृत्वः परिमार्जनम् । अतैजसानाम् एवम्भूतानाम् उत्सर्गः” इति । तथा अन्यशरीरमलदूषिते कण्ववचनम् आरब्धम्- “श्लेष्माद्युपहतानाम् एकविंशतिपरिमार्जनाच् छुद्धिः” इति । तथाचास्पृश्योछिष्टानाम् औशनसं वचनं सङ्गतम् आरब्धम्- “अनुलोमशूद्रश्वकाकोपहतानाम् उल्लेखनं प्रतिलोमेषु स्पृश्योपहतानाम् एकविंशतिपरिमर्जनम् अस्पृश्योपहतानाम् आवर्तनम्” इति । तथा मांसरुधिरोपहतानां शङ्खवचनम् आरब्धं- “मृदरिष्टकेङ्गुदबिल्वसर्षपकल्कगोमूत्रगोमयादीनि शौचद्रव्याणि” इति । तथा “रजस्वलादुष्टानाम् एकदिनं पञ्चगव्ये निक्षिप्य एकविंशतिपरिमार्जनाच् छुद्धिः” इति पैठीनसिवचनम् । एवम् अन्येष्व् अपि स्मृत्यन्तरेषु मलान्तरदूषितेषु तैजसेषु शुद्ध्यन्तराण्य् आम्नातानि- “अतो ऽत्रोच्छिष्टलिप्तानाम् एव कल्पयितुं न्याय्यम्” इति । तेषाम् उच्छिष्टलिप्तानां परिमार्जनं भस्मना परितः सर्वतः । मार्त्तिकानां मृन्मयानाम् अस्पृश्योपहतानाम् । कुतः? स्मृत्यन्तरे विशेषदर्शनात् । तथा उशनसो वचनं- “मृन्मयानाम् उच्छिष्टलिप्तानाम् अपमार्जनम् उच्छष्टस्पृष्टानां प्रोक्षणम्” इति । तथा वसिष्ठवचनम् ।
मद्यमूत्रपुरीषैश् च श्लेष्मपूयाश्रुशोणितैः ।
संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्मयम् । [वध् ३.५९]
इति मद्यादिदूषितानां त्याग उक्तः । अतो ऽत्र चण्डालाद्युपहतानाम् एव कल्पयितुं न्याय्यम् इति । प्रदाहः प्रकर्षेण दाहः पूर्वस्वभावोत्पादनम् इत्य् अर्थः । दारवाणां आसनशयनादीनाम् अमेध्याद्युपहतानां तक्षणं तनूकरणं यावन्मात्रम् उपहतम् । अस्पृश्यस्पृष्टानां प्रोक्षणम् । कुतः? “प्रोक्षणं संहतानाम्” इति मनुवचनात् [म्ध् ५.११५] । प्रक्षालनशक्यानां प्रक्षालनम् । तान्तवानां तन्तुमयानां कार्पासादिविकाराणाम् अस्पृश्यदूषितानाम् । मलदूषिते स्मृत्यन्तरं द्रष्टव्यम्- “धावनं तन्मात्रच्छेदनम् उत्सर्गः” इति । “चेलादीनां मलादिदूषितानाम्” इति पैठीनसिवचनम् । तथा “श्रीफलैर् अंशुपट्टानाम्” [म्ध् ५.१२०] इत्येवमादीनि मनुनोक्तानि द्रष्टव्यानि, अस्पृश्यदूषितानां बहूनां वस्त्राणां प्रोक्षणम् “बहूनां धान्यवाससाम्” [म्ध् ५.११८] इति मनुना प्रोक्षणेनैव शुद्धिविधानात् । अतो ऽल्पानाम् अस्पृश्यदूषितानां निर्णेजनम् ॥ १.३१ ॥
**तैजसवद् उपलमणिशङ्खशुक्तीनाम् ॥ १.३२ ॥ **
तैजसवच् छुद्धिर् उपलादीनाम् । अतिदेशः स्मृत्यन्तरोक्तशुद्ध्यपेक्षार्थः । उपलानां मणीनां तावच् छ्रूयते ।
निर्लेपं काञ्चनं भाण्डं अद्भिर् एव विशुद्ध्यति ।
अब्जम् अश्ममयं चैव राजतं चानुपस्कृतम् ॥ [म्ध् ५.११२]
शङ्खशुक्तिमणीनां च गोमूत्रेणोदकेन वा ॥
इति मनुवचनम् । “पयसा शङ्खशुक्तीनाम्ऽ इति पैठीनसिवचनम् ॥ १.३२ ॥
** दारुवद् अस्थिभूम्योः ॥ १.३३ ॥ **
अस्थि हस्तिदन्तादिसंव्यवहार्यद्रव्याणि । भूमिः गृहादिः दारुवद् इति प्रकृतिद्रव्येणातिदेशं ब्रुवन् एतत् ज्ञापयति – यत् विकारस्य शौचम् उच्यते प्रकृतिद्रव्यस्यापि तद् एव भवतीति । इतरथा दारववद् इति वक्तव्यम् आसीद् इति । अस्थिभूम्योः स्मृत्यन्तरोपदिष्टापेक्षार्थो ऽतिदेशः । तथा च स्मृत्यन्तरम् । “अस्पृश्यस्पृष्टानां भूम्यस्थ्नां प्रोक्षणाच् छुद्धिः” इति कण्ववचनम् ॥ १.३३ ॥
** आवपनं च भूमेः ॥ १.३४ ॥ **
भूमिग्रहणम् अस्थिनिवृत्त्यर्थम् । चकारात् स्मृत्यन्तरोक्तान्य् अपि द्रष्टव्यानि । तथा चोक्तं वसिष्ठेन ।
खननाद् दहनाद् घर्षात् गोभिर् आक्रमणाद् अपि ।
चतुर्भिः शुद्ध्यते भूमिः पञ्चमाच् चोपलेपनात् ॥ इति । [वध् ३.५७]
तथा च मनुः ।
सम्मार्जनेन सेकेन दाहेनोल्लेखनेन च ।
गवां च परिवासेन भूमिः शुद्ध्यति पञ्चभिः ॥ इति । [म्ध् ५.१२४]
यथालेपं विकल्पेन समुच्चयेन वा शौचं कर्तव्यम् ॥ १.३४ ॥
**चेलवद् रज्जुविदलचर्मणाम् ॥ १.३५ ॥ **
रज्जुः दर्भादिनिष्पन्नः । विदलः वंशमयूरपक्षादिनिष्पन्नः चर्म व्याघ्रचर्मादि तेषाम् अस्पृश्यस्पृष्टानां चेलवत् वस्त्रवच् छौचम् । चर्मशब्देन प्रकृतिग्रहणेन विकारस्यापि ग्रहणम् । रज्ज्वादीनां प्रोक्षणस्यापि प्रवेशार्थम् अतिदेशः । अतो ऽस्पृश्यस्पृष्टानां प्रोक्षणम् अपि कर्तव्यम् । तथा च पैठनसिः- “ऽरज्जुविदलचर्मणाम् अस्पृश्यस्पृष्टानां प्रोक्षणाच् छुद्धिः” इति ॥ १.३५ ॥
**उत्सर्गो वात्यन्तोपहतानाम् ॥ १.३६ ॥ **
रज्ज्वादीनां त्यागो वा । व्यवस्थितविकल्पो ऽयम् । अतो ऽत्यन्तोपहतानां त्यागः । इतरेषां शौचम् इति ॥ १.३६ ॥
_इदानीं “द्रव्यहस्त उच्छिष्टो निधायाचामेत्” इत्युक्तं, तदाचमनविधित्सयाह । _
**प्राङ्मुख उदङ्मुखो वा शौचम् आरभेत ॥ १.३७ ॥ **
प्राङ्मुख उदङ्मुखो वेतीच्छातो विकल्पः ।
ननु च शौचग्रहणम् अनर्थकम्, उत्तरत्राचामेद् इति वक्ष्यति, तेनैवार्थसिद्धत्वाद् इति ।
उच्यते – अन्यद् अपि शौचाङ्गम् एतद् दिगभिमुख एव कुर्याद् इति । एवं च पादप्रक्षालनादिकम् अपि तद्दिगभिमुख एव कुर्याद् इति । आरभेतेति समाहितार्त्फ़्हम्, अतो यावद् आचमनपरिसमाप्तिः तावन्तं कालम् अनन्यचित्तो भवेत् ॥ १.३७ ।
शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीत्य् आ मणिबन्धात् पाणी प्रक्षाल्य वाग्यतो हृदयस्पृशस् त्रिश् चतुर् वाप आचामेत् ॥ १.३८ ॥
शुचौ देशे स्थाने अनुपहते । एवं च पादप्रक्षालनम् अप्य् अर्थसिद्धं मा भूत्, अशुद्धिपादसम्बन्धाद् देशस्याप्य् अशुचिभाव इति । तथा च वसिष्ठः- “प्रक्षाल्य पादौ पाणी चा मणिबन्धनात्” [वध् ३.२६] इति । आसीन एव, नान्यावस्थः । तथा च वसिष्ठः- “व्रजन् तिष्ठन् शयानः प्रणतो वा नाचामेत्” [वध् ३.३०] इति । दाक्षिणं बाहुं जान्वोर् मध्ये कृत्वा । यज्ञोपवीतीति । यदि कदाचित् अयज्ञोपवीती भूत्वाप्य् आस्ते तथाप्य् आचमने अवश्यं यज्ञोपवीतिना भवितव्यम् इति । तथा च आपस्पम्बः- “उपासने गुरूणां वृद्धानाम् अतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीति स्यात्” [आप्ध् १.१५.१] इति । आचमनाङ्गत्वेनान्ययज्ञोपवीतोत्पादनार्थं वा । तथा च वसिष्ठः ।
स्नातकानां तु नित्यं स्याद् अन्तर्वासस् तथोत्तरम् ।
यज्ञोपवीते द्वे यष्टिः सोदकश् च कमण्डलुः ॥ इति । [वध् १२.१४]
मणिर् यस्मिन् देशे बध्यते स मणिबन्धः । तस्माद् आ मणिबन्धनात् पाणी प्रक्षाल्य वाग्यतस् तूष्णीं हृदयस्पृशो हृदयङ्गमाः । अपां परिमाणार्थम् इदम् । माषनिमज्जनमात्रास् तावत्यो भवन्ति । तथा चाह उशना- “माषनिमज्जनमात्रा हृदयङ्गमा भवन्ति” इति । त्रिश् चतुर्वेत्य् अत्र विकल्पो व्यवस्थितः – यदा “आपः पुनन्तु” इत्यादिमन्त्रम् उक्त्वाचम्यते तदा चतुः अन्यत्र त्रिर् इति । अब्ग्रहणं गोमूत्रादिनिवृत्त्यर्थम्, तेषां शुद्धिहेतुत्वसामान्याद् ग्रहणं मा भूद् इति । उष्णबुद्बुदफेनकषायादिवर्जनार्थं वा । पिबेद् इति वक्तव्ये आचामेद् इति गुरुसूत्रकरणं विध्यन्तरोपसङ्ग्रहार्थम् । तत्र तु उशनाह- “दक्षिणं हस्ततलं गोकर्णाकारं विन्यस्य ब्राह्मेण तीर्थेनाशब्दं पिबेद् ऋग्यजुःसामवेदान् ध्यायन्” इति ॥ १.३८ ॥
**द्विः परिमृज्यात् ॥ १.३९ ॥ **
प्रकृताव् ओष्ठौ, अत्रानुक्तत्वात्, सृत्यन्तरदर्शनाच् च, ब्राह्मेणैव तीर्थेन । परित्य् उपसर्गो विध्यन्तरोपसङ्ग्रहार्थः । तत्र तूक्तं कण्वेन- “अथर्ववेदेतिहासपुराणानि ध्यायन् ब्राह्मेण तीर्थेनोष्ठयोः सलोमप्रदेशं मृज्यात्” इति ॥ १.३९ ॥
**पादौ चाभ्युक्षेत् ॥ १.४० ॥ **
चकारात् मुखं च । अभ्युपसर्गो विध्यन्तरोपसङ्ग्रहार्थः । तत्राह भार्गवः- “ओष्ठौ परिमृज्यात् ततो मुखं परिमृजेद् अग्नीन् ध्यायंस् ततः पादाव् अभ्युक्षेत् विष्णुं ध्यायन्” इति
॥ १.४० ॥
खानि चोपस्पृशेच् छीर्षण्यानि ॥ १.४१ ॥
खानि शीर्षण्यानि नयननासिकाकर्णानि । चकाराद् धृदयं च । तथा च मनुः ।
त्रिर् आचामेद् अपः पूर्वं द्विर् उन्मृज्यात् ततो मुखम् ।
खानि चोपस्पृशेद् अद्भिर् आत्मानं हृदयं शिरः ॥ इति । [म्ध् २.६०]
उपोपसर्गो विध्यन्तरोपसङ्ग्रहार्थः । तत्र उशना- “अङ्गुष्ठोपकनिष्ठिकाभ्यां नयने चन्द्रादित्यौ ध्यात्वा तत उपस्पृश्य तर्जन्यङ्गुष्ठाभ्यां नासिकावकाशौ प्राणान् ध्यात्वा तत उपस्पृश्य कनिष्ठिकाङ्गुष्ठाभ्यां कर्णौ दिशो ध्यात्वा तत उपस्पृश्याङ्गुष्ठेन केवलेन हृदयम् उपस्पृशेद् आत्मानं ध्यायन्” इति ॥ १.४१ ॥
मूर्धनि च दद्यात् ॥ १.४२ ॥
मूर्धनि चेति वक्तव्ये दद्याद् इति ग्रहणं सर्वाङ्गुल्यर्थम् । तथा च स्मृत्यन्तरम्- “सर्वाङ्गुलिभिः श्रियं ध्यात्वा मूर्धनि प्रक्षिपेत्” इति । चकारात् सव्ये च पाणौ । तथा च वसिष्ठः- “मूर्धनि च दद्यात् सव्ये पाणौ” [वध् ३.२९] इति । क्षत्रियवैश्ययोर् अप्य् एतद् एवाचमनं विशेषानभिधानात् “स्त्रीशूद्रौ च सकृत् सकृत्” [म्ध् ५.१३९] इति स्मृत्यन्तराभिधानात् स्त्रीशूद्रयोश् च सकृत् पानात् सकृद् ओष्ठस्पर्शनाच् च शुद्धिर् द्रष्टव्या अत्रानुक्तापि ॥ १.४२ ॥
न केवलम् उच्छिष्टस्पर्श एवाचमनं, अन्यद् अप्य् आचमननिमित्तम् इदानीम् आह ।
** सुप्त्वा भुक्त्वा क्षुत्वा च पुनः ॥ १.४३ ॥ **
पुनर्ग्रहणं “आदाव् अन्ते चाचमनं कुर्याद्” इत्येवमर्थम् । चकारात् स्नात्वा रुदित्वा च । तथा च वसिष्ठः- “सुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा रुदित्वा चाचान्तः पुनर् आचामेत्” [वध् ३.३८] इति । तत्र क्षुतस्यानियतकालत्वात् आदाव् अशक्यम् आचमनम् इति चेत्, तत्रापि नित्यप्रायत्यार्थ आरम्भः । यथाह आपस्तम्बः- “मुहूर्तम् अपि शक्तिविषये नाप्रयतस् तिष्ठेत्” [आप्ध् १.१५.८] इति । स्वापादौ प्रयतस्याप्य् आचमनम् आरम्भसामर्थ्यात् । अतस् तत्रादाव् अन्ते चाचमनं कुर्यात् ।
तत्र भोजने केचिद् आदाव् अपि द्विराचमनम् इच्छन्ति । तथा च आपस्तम्बः- “भोक्ष्यमाणस् तु प्रयतो द्विर् आचामेत्” [आप्ध् १.१६.९] इति ।
अन्ये स्वापादाव् अन्त एव द्विर् आचमनम् इच्छन्ति यथाह उशना- “सुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा रुदित्वा चाचान्तः पुनर् आचामेद् द्विः” इति ।
एवं च भोजने आदाव् अन्ते च द्विराचमनं स्वापादाव् एकम् अन्ते च द्विः । क्षुतस्यानियतत्वाद् अन्त एव द्विर् इति सिद्धान्तः ॥ १.४३ ॥
इदानीम् उच्छिष्टसंश्लेषे अशुचित्वे प्राप्ते आह ।
** दन्तश्लिष्टेषु दन्तवद् अन्यत्र जिह्वाभिमर्शनात् ॥ १.४४ ॥**
दशनान्तरलग्नेषु भक्ष्यभोज्यावयवेषु दन्तवत्, अनुच्छिष्टो भवतीत्यर्थः । न चेज् जिह्वया संस्पृश्यन्ते ॥ १.४४ ॥
_अत्रापि । _
प्राक् च्युतेर् इत्य् एके ॥ १.४५ ॥
सत्य् अपि जिह्वाभिमर्शने यावत् स्वस्थानान् न च्यवन्ति तावच् छुचिर् इत्य् एके मन्यन्ते ॥ १.४५ ॥
च्युतेष्व् आस्राववद् विद्यान् निगिरन्न् एव तच्छुचिः ॥ १.४६ ॥
च्युतेषु आस्ये यज् जलं तद् आस्रावे तद्वद् विजानीयात् । तन्निगिरन् शुचिर् एव भवति । आचमनशङ्का नास्तीत्य् अर्थः । एवं चास्रावम् अपि निगिरन् शुचिर् एव भवति । कुतः? च्युतेषु निगिरन् शुचिर् इति वक्तव्ये “आस्राववद् विद्याद्” इत्यारम्भात् । गौतमस् तु दन्तश्लिष्टानां सति जिह्वाभिमर्शने अशुचिर् भवतीति । अन्यमतं तु प्राक्च्युतेर् इति । सो ऽयं व्यवस्थितविकल्पः, कर्मानुष्ठानाधिकृतस्याचमनम् अन्यस्य नेति ॥ १.४६ ॥
_यथोच्छिष्टावयवो बहिर्भूतः अशुचित्वम् आपादयति तद्वद् आस्रावस्यापि प्राप्त आह । _
**न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति न चेद् अङ्गे निपतन्ति ॥ १.४७ ॥ **
मुखे भवा मुख्याः, विप्रुष आस्रावावयवाः, ते मन्त्रयमाणस्य विनिर्गता नाप्रायत्यं जनयन्ति यद्य् अङ्गे स्तनोदरादौ न निपतन्ति । निशब्दो निश्चयार्थः । अतो निश्चयेन यद्य् अङ्गे पतन्ति तदानीम् एवोच्छिष्टं जनयन्ति नाशङ्कामात्रेणेति । एवं चोच्छिष्टावयवो यत्र कुत्रचिन् निपतन्न् उच्छिष्टं जनयति, आस्रावो ऽङ्ग एवेति सिद्धान्तः ॥ १.४७ ॥
_सर्वशौचार्थम् इदम् अधुनोच्यते । _
लेपगन्धापकर्षणे शौचम् अमेध्यलिप्तस्य ॥ १.४८ ॥
लेपगन्धयोर् अपनयने कृते, अमेध्यलिप्तस्य अमेध्यसम्बद्धस्य शुचित्वं भवति । अमेध्यशब्देन द्वादशमला उच्यन्ते । यथाह मनुः ।
वसा शुक्लम् असृङ् मज्जा मूत्रविड् घ्राणकर्णविट् ।
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ [म्ध् ५.१३५]
अनभिव्यक्तगन्धानां श्लेष्मादीनां लेपमात्रदर्शनात् लेपग्रहणम् । मूत्रादीनां लेपानुपलब्धेर् गन्धमात्रोपलब्धेश् च गन्धग्रहणम् । शौचाधिकारे पुनः शौचग्रहणं तैजसादीनाम् अपि लेपगन्धापनयनाद् एव शौचम् इत्य् एवमर्थम् ॥ १.४८ ॥
तत् केन कर्तव्यमि त्य् अत आह ।
**तद् अद्भिः पूर्वं मृदा च ॥ १.४९ ॥ **
तच् छौचम् अद्भिः पूर्वं ततो मृदा । चकारात् तत उभयेन । तद्ग्रहणं अन्नलेपस्यापि चूर्णादिना अपकर्षणार्थम् । तद् अद्भिर् मृदा चेति वक्तव्ये पूर्वग्रहणं यत्र नातीव लेपो लक्ष्यते तत्राद्भिर् एव शौचम् इत्य् एवमर्थं । यथाह मनुः ।
निर्लेपं काञ्चनं भाण्डम् अद्भिर् एव विशुध्यति ।
अब्जम् अश्ममयं चैव राजतं चानुपस्कृतम् ॥ इति । [म्ध् ५.११२]
अथ वा यत्र यत्र शौचम् उक्तं तत्र तत्राद्भिर् एव शौचं प्रथमं कार्यम् इत्य् एवमर्थम् । यथा मृदा अद्भिर् इति समुच्चीयते, तथा भस्मादिभिर् अपि समुच्चयार्थो विसमासः । तैसजादीनां द्रव्याणाम् उक्तत्वात्, इदं शौचं शरीरावयवस्यामेध्यलिप्तस्य द्रष्टव्यम्
॥ १.४९ ॥
**मूत्रपुरीषस्रेहुविस्रंसनाभ्यवहारसंयोगेषु **
**च ॥ १.५० ॥ **
चकारः आचमनानुकर्षणार्थः । विस्रंसनं निरसनं, तत् मूत्रपूरीषस्रेहूणां प्रत्येकं सम्बध्यते । अभ्यवहारसंयोगो ऽभ्यवहार्यद्रव्योपयोगः । तस्यानमेध्यत्वात् लेपगन्धापकर्षणार्थम् अभिधानम्, आचमनस्य ऽसुप्त्वा भुक्त्वाऽ इत्यनेन सिद्धत्वात् लेपगन्धापकर्षणं च मृत्सलिलप्रक्षालनेन कुर्यात् । एवं च ऽतद् अद्भिः पूर्वम्ऽ इत्य् अत्र यद् उक्तं चूर्णादिना अन्नलेपापकर्षणं तेनाशक्यम् इदं द्रष्टव्यम् ।
अथवा —अभ्यवहारसंयोगस्यापि आचमनार्थ एवोपन्यासः । ऽसुप्त्वा भुक्त्वाऽ इत्य् अनेनैव सिद्धम् अनूद्यते क्रमार्थम् । कथम्? – तद्ग्रहणेनान्नलेपापकर्षणम् उक्तं तदपकर्षणं पूर्वं कृत्वा तत आचामेद् इत्य् एवमर्थम्, अन्यथा सन्देहः स्याद् इति । तथा च आपस्तम्बः- “मूत्रं कृत्वा पूरीषं वा मूत्रपुरीषलेपान् अन्नलेपान् उच्छिष्टलेपान् रेतसश् च ये लेपास् तान् प्रक्षाल्य पादौ चाचम्य प्रयतो भवति” [आप्ध् १.१५.२३] इति । मूत्रपुरीषौ प्रसिद्धौ । स्रेहू रेतः । मूत्रादीनाम् आचमनार्थम् उपन्यासः, लेपगन्धापकर्षस्य ऽलेपगन्धापकर्षणे शौचम्ऽ इत्य् अनेनैव सिद्धत्वात् ॥ १.५० ॥
यत्र चाम्नायो विदध्यात् ॥ १.५१ ॥
तत्र तद् एव भवतीति शेषः । आम्नायो वेदः, स यत्र यज्ञविषये स्फ्यादीनां प्रक्षालनमात्राद् एव शुद्धिं विदध्यात् तत्र तद् एव, न दारुसामान्येन तक्षणादि । अतुल्यबलत्वाद् एवेदं सिद्धम् इति चेत्, श्रुत्युक्तस्य लौकिके अननुप्रवेशनार्थ उपन्यासः, यथा दर्व्या यागविषये श्रुत्या प्रक्षालनेन शुद्धिर् उक्ता, तस्या लौकिके व्यापृताया अपि दर्वीसामान्येन श्रुत्युक्ता मा भूत् स्मृत्युक्ताम् एव कुर्याद् इत्य् एवमर्थम् उपन्यासः ।
अथ वा — आम्नायशब्देन मनुर् उच्यते । स यत्र शौचं विदध्यात् तत्र तद् एव, यथा “यतीनां तु चतुर्गुणम्” [म्ध् ५.१३७] इत्यादि । तदुक्तत्वाद् एवासन्देह इति चेत्, उच्यते — यस्मिन् विषये न किञ्चिद् उच्यते तत्र स्मृत्यन्तरोक्तं भवति । यत्र लेपगन्धापकर्षणादि किञ्चिद् उच्यते तत्र स्मृत्यन्तरेण विकल्पशङ्का भवतीति तन्निरासार्थम् उक्तं ऽयत्र चाम्नायो विदध्यात्ऽ इति । एवं च लेपगन्धापकर्षणे कृते ऽपि “द्विगुणं ब्रह्मचारिणः” [म्ध् ५.१३७] इत्येवमाद्य् आश्रयणीयम् ॥ १.५१ ॥
_इदानीं कृतशौचस्य ब्रह्मचारिणो ऽध्ययनार्थं गुरूपसदनविधिम् आह । _
पाणिना सव्यम् उपसङ्गृह्यानङ्गुष्ठम् अधीहि भो इत्य् आमन्त्रयेत गुरुम् ॥ १.५२ ॥
पाणिना दक्षिणेन सव्यं पाणिम् अनङ्गुष्ठम् अङ्गुष्ठवर्जितं गृहीत्वा अधीहि भो इति प्रार्थयेत गुरुम् अध्यापकम् । पाणिग्रहणं पादनिवृत्त्यर्थम् । पाणिप्रकरणात् सव्यम् अपि पाणिम् एवेति गम्यते । उपसङ्ग्रहणं अङ्गुलिप्रदेशे इति गम्यते, अनङ्गुष्ठम् इत्य् उक्तत्वात्
॥ १.५२ ॥
_किं च । _
**तत्र चक्षुर्मनाः ॥ १.५३ ॥ **
तत्र गुरौ चक्षुर्मनसी व्यवस्थापयेद् इत्य् अर्थः ॥ १.५३ ॥
किं च ।
प्राणोपस्पर्शनं दर्भैः ॥ १.५४ ॥
कार्यम् इति शेषः । साक्षात् प्राणानाम् उपस्पर्शनासम्भवात् प्राण इति चक्षुरादीन्द्रियाणि शीर्षण्यान्य् उच्यन्ते । तान्य् उपस्पर्शयेद् दर्भैर् आचमनोक्तेन क्रमेण ॥ १.५४ ॥
किं च ।
** प्राणायामास् त्रयः पञ्चदशमात्राः ॥ १.५५ ॥**
कार्या इति शेषः । प्राणायामः प्राणनिरोधः, निरुच्छ्वासेनावस्थानं, ते त्रयः कार्याः । प्रत्येकं पञ्चदशमात्राः । मात्रा नाम मध्यमाङ्गुष्ठशब्देन लोके प्रसिद्धा ॥ १.५५ ॥
किं च ।
प्राक्कूलेष्व् आसनं च ॥ १.५६ ॥
प्रागग्रेषु, प्रकरणाद् दर्भेषु, आसनम् उपवेशनम्, कार्यम् इति शेषः । चकारात् दर्भपवित्रपाणिश् च ॥ १.५६ ॥
किं च ।
** ओम्पूर्वा व्याहृतयः पञ्च सत्यान्ताः ॥ १.५७ ॥**
उदाहर्तव्या इति शेषः । प्रत्येकं प्रणवपूर्वा भूराद्यास् तिस्रः पुरुषमध्याः सत्यान्ताः । एवं जाबालिश्रुतौ प्रसिद्धः ॥ १.५७ ॥
किं च ।
** गुरोः पादोपसङ्ग्रहणं प्रातः ॥ १.५८ ॥**
कार्यम् इति शेषः । उपसङ्ग्रहणम् इति वक्तव्ये पादग्रहणं स्मृत्यन्तरोपदिष्टविध्युपसङ्ग्रहणार्थम् । यथाह मनुः ।
व्यत्यस्तपाणिना कार्यम् उपसङ्ग्रहणं गुरोः ।
सव्येन सव्यः स्पृष्टव्यो दक्षिणेन तु दक्षिणः ॥ इति । [म्ध् २.७२]
प्रातर् उत्थायोत्थाय प्रतिदिनम् । गुरुग्रहणं आत्मनो मा भूद् इति । तटः पूर्वं प्राणोपस्पर्शनम् आत्मनः ॥ १.५८ ॥
किं च ।
** ब्रह्मानुवचने चाद्यन्तयोः ॥ १.५९ ॥**
वेदपाठस्याद्यन्तयोः आरम्भावसानयोः । चकारः पादोपसङ्ग्रहणानुकर्षणार्थः ॥ १.५९ ॥
किं च ।
अनुज्ञात उपविशेत् प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखो वा ॥ १.६० ॥
आचार्येणादिष्टः तस्य दक्षिणस्यां दिशि प्राङ्मुख उदङ्मुखो वोपविशेत् सम्भवतो विकल्पः आसीनस्याचार्यस्य यथा तदभिमुखो भवति तथा प्राङ्मुख उदङ्मुखो वा उपविशेद् इत्य् अर्थः । कथं? “तत्र चक्षुर्मनाः” [ग्ध् १.५३] इत्य् उक्तत्वात् । शिष्यग्रहणम् अन्यस्याप्य् उपसन्नस्यायम् एव विधिर् इति ज्ञापनार्थम् । ऽअनुज्ञातो दक्षिणतःऽ इति च नियमार्थः, नाननुज्ञात उपविशेन् नादक्षिणत इति ॥ १.६० ॥
किं च ।
** सावित्री चानुवचनम् आदितो ब्रह्मण आदाने ॥ १.६१ ॥**
सावित्री “तत् सवितुर्” इत्यादि । चकाराद् ओङ्कारपूर्वा व्याहृतयश् च । तथा च मनुः ।
ओङ्कारपूर्विकास् तिस्रो महाव्याहृतयो ऽव्ययाः ।
त्रिपदा चैव गायत्री विज्ञेया ब्रह्मणो मुखम् ॥ इति । [म्ध् २.८१]
अनुवचनम् अध्येतव्यम् । ब्रह्मणो वेदस्यादाने आरम्भे अध्ययनारम्भकाल इत्य् अर्थः । आदितः पूर्वम् ॥ १.६१ ॥
किं च ।
** ओङ्कारो ऽन्यत्रापि ॥ १.६२ ॥**
अनुवचनानन्तरम् ओङ्कारश् चोदाहर्तव्यः अन्यत्रापि । अत्र क्रमः । प्रातर् उत्थाय पादोपसङ्ग्रहणम्, तदाहूय उपविशेत् दर्भेषु, ततः प्राणोपस्पर्शनं दर्भैः, ततः प्राणायामान् कृत्वा महाव्याहृतीः पञ्च उक्त्वा, अञ्जलिना ऽअधीहि भोःऽ इति गुरुम् आमन्त्र्य, ओङ्कारपूर्विका व्याहृतीः सावित्रीं चोक्त्वा प्रणवपूर्वम् अधीयीत । प्रथमाध्ययन एवायं विधिः । कुतः? सावित्री चानुवचनं ततो ऽधीयीतेति वक्तव्ये आदितो ब्रह्मण आदान इत्यारम्भात् । प्रतिदिवसम् ओङ्कारम् एवोक्त्वा । कुतः? ओङ्कारो ऽन्यत्रेत्य् उक्तत्वात् । अन्यत्र प्रथमाध्ययनाद् अन्यत्र । अपिशब्दः प्रथमाध्ययने ऽपि प्रणवप्रवेशनार्थः । केचिद् अन्यत्रापीत्य् अनेनाङ्गादौ प्रणवम् इच्छन्ति ॥ १.६२ ॥
** अन्तरागमने पुनर् उपसदनम् ॥ १.६३ ॥**
यद्य् अधीयताम् अन्तरा मध्ये कश्चिद् गच्छेत् ततः पुनर् अपि पादोपसङ्ग्रहणादिप्रणवोच्चारणान्तो यो विधिस् तं कुर्यात् तस्य प्रायश्चित्तार्थम् । अप्रकरणे ऽपि प्रायश्चित्तम् आनन्तर्येणानुष्ठानार्थम् । मानुषाणां गमन एतत्, इतरेषाम् ऊर्ध्वम् अभिधानात् । अत्रानध्यायश्रवणाभावात् प्रायश्चत्तानन्तरम् अधीयीत । प्रथमाध्ययनापेक्षया पुनर्ग्रहणम्, अन्यत्रोपसदनाभावात् । अतो ऽन्यत्र प्रायश्चित्तार्थम् एवोपसदनं कर्तव्यं तदनन्तरम् अध्ययनं कर्तव्यम् । तथाह आपस्तम्बः- “अधीहि भो इत्य् उक्त्वाधीयीताध्यापयेद् वा” [आप्ध् १.१०.१५–१६] इति ॥ १.६३ ॥
किं च ।
श्वनकुलसर्पमण्डूकमार्जाराणां त्र्यहम् उपवासो विप्रवासश् च ॥ १.६४ ॥
एते प्रसिद्धाः । श्वादीनां प्रत्येकम् अन्तरागमने त्र्यहं भक्तत्यागः प्रायश्चित्तं, विप्रवासो गुरुणा विरहितस्यावस्थानम् एकाहम् । एवं च गुरुविप्रयोगोपदेशाद् एव एकाहम् अनध्यायसिद्धिः । कुत एकाहोपलब्धिर् इति चेत्, विसमासात् । अन्यथा त्र्यहम् उपवासविप्रवासौ चेत्य् अवक्ष्यत् । अत एकाहम् एवानध्यायः । तथा च मनुः ।
पशुमण्डूकमार्जारश्वसर्पनकुलेषु च ।
अन्तरा गमने विद्याद् अनध्यायम् अहर्निशम् ॥ इति । [म्ध् ४.१२६]
एवं चात्रापि श्वग्रहणं चतुष्पदां पशूनाम् उपलक्षणम् । चतुष्पाद्ग्रहणेन गृह्यमाणत्वात् मार्जारस्य पुनर् उपन्यासः प्रायश्चित्तगौरवार्थः । यथह उशना- “मार्जारान्तरागमने घृतं प्राश्य त्र्यहम् उपवसेत्” इति । उपसदनानुकर्षणार्थश् चकारः । अतो ऽध्ययनकाले तत् कृत्वाधीयीत । केचिद् उपवासम् अध्ययनत्यागम् आहुः । तद् युक्तम् अयुक्तं वेति विचार्यम् ।
किं च ।
** प्राणायामा घृतप्राशनं चेतरेषाम् ॥ १.६५ ॥**
इतरेषां काकादीनां प्राणायामास् त्रयः, बहुवचनश्रवणात् । घृतप्राशनं कायाप्लवनमात्रम् । उपसदनानुकर्षणार्थः चकारः । ततस् त्रीन् प्राणायामान् धारयित्वा घृतं प्राश्योपसदनं च कृत्वाधीयीत, अनध्यायाश्रवणात् ॥ १.६५ ॥
**श्मशानाभ्यध्ययने चैवं **
श्मशानाभ्यध्ययने चैवम् ॥ १.६६ ॥
आपस्तम्बेन “सर्वतः शम्याप्रासान् नाधीयीत” [आप्ध् १.९.६] इत्य् उक्तम् । तस्मात् तत्समीपे ऽध्ययनं श्मशानाध्ययनम् । अभ्युपसर्गो बुद्धिपूर्वसूचनार्थः । ततो ऽबुद्धिपूर्वे अन्यत् प्रायश्चित्तं लघुतरं द्रष्टव्यम् । तथा चाह उशना- “अनभिसन्ध्या श्मशानाभ्यध्ययने ऽधीहि भो इत्य् उक्त्वाधीयीत” इति । चकाराद् अनन्तरोक्तस्य प्राणायामादेः सर्वस्य प्राप्तौ एवंशब्देन अनन्तरोक्तस्योपसदनस्यैव प्राप्तिः क्रियते । तर्ह्य् एवंशब्द एव वक्तव्य इति चेत्, न, उभयसकाश एवायम् अर्थो लभ्यते । कथं? एवंशब्दे चशब्दे वा वक्तव्ये उभयपाठस्य प्रयोजनान्तरं कल्पयितुं न्याय्यं, न ह्य् एकस्यैवेति । अत उपसदनम् एव कर्तव्यम् । तथा च स्मृत्यन्तरं- “श्मशानसमीपे ऽधीत्य प्राणान् धारयेत् प्राणोपस्पर्शनम् अभिवादनं सावित्र्यनुवाचनम्” इत्यादि । द्विरुक्तिर् अध्यायपरिसमाप्त्यर्था । उक्तम् इदं सर्वं प्रायश्चित्तं शिष्यस्यैव, तदर्थत्वाद् अध्यनप्रभृतेः । किं च सर्वत्र सोपसदनम् एव प्रायश्चित्तं, उपसदनं त्व् अभिवादनादि, तद् अभिवादनम् आचार्यस्य न सम्भवतीति ॥ १.६६ ॥
इति मस्करीये गौतमभाष्ये प्रथमो ऽध्यायः ॥
द्वितीयो ऽध्यायः
_द्विजानाम् उक्तम् उपनयनम् । तेषाम् उपनयनात् प्राग् अपि कैश्चिद् वर्णधर्मैर् अधिकार इष्यत इति तदर्थम् आह । _
** प्राग् उपनयनात् कामचारवादभक्षः ॥ २.१ ॥**
ननु च प्राग् एवोपनयनाद् एतद् वक्तव्यं, तत्र प्राग् उपनयनाद् इत्य् एतन् न वक्तव्यं भवति ।
उच्यते । सत्यम् एतत् । किं तु उपनयनस्यादाव् अभिधाने प्रयोजनम् उक्तम् । नानेन विधीयते, अर्थप्राप्तत्वात् । न च नियम्यते, अवश्यकर्तव्याभावात्, “उपनयनादिर् नियमः” [ग्ध् २.१०] इति वक्ष्यमाणत्वात् पाक्षिकत्वाभावाच् च । नापि परिसङ्ख्या, निवर्त्याभावात् । न ह्य् अस्याकामचारित्वादिकं प्राप्तम् । अतः इदं सूत्रम् अनुवादकं प्रायश्चित्तराजदण्डाभावज्ञापनार्थं, तयोः सामान्येनोपदिश्टत्वात् ।
ननु च राजदण्डप्रायश्चित्तानि च विहिताकरणे निषिद्धसेवने वा विधीयन्ते । न चास्य विधिप्रतिषेधाभ्याम् अधिकारः । न चास्य विधिः प्रतिषेधो वा श्रूयत इति । न त्व् अस्याहुतात्त्वादि [ग्ध् २.२] विधायिष्यते प्रतिषिध्यते वा, यद् व्यतिक्रमे उभयं भविष्यतीति, पित्रादीनाम् उपदेशात् । अत इदं सूत्रम् अनर्थकम् इति ।
अत्रोच्यते । यद् विहिताकरणे प्रतिषिद्धसेवने वा प्रायश्चित्तम् उक्तं राजदण्डो वा तद् उभयम् अस्यापि प्राप्नोत्य् एव । यद्य् अप्य् अस्यैवोद्देशेन विधिः प्रतिषेधो वा न श्रूयते, तथापि यत् तु सामान्येनोक्तं “अहिंसा सत्यम् अस्तेयम्” [म्ध् १०.६३] इत्यादि, तद् वर्णधर्मत्वाद् अस्यापि प्राप्नोति । तद्व्यतिक्रमे राजदण्डप्रायश्चित्ते अपि भवतः । अतः तन्निवृत्त्यर्थम् अनुवादस्वरूपं सूत्रम् आरब्धम् ।
“उपनयनादिर् नियमः” [ग्ध् २.१०] इत्य् अनेन सूत्रेण उपनयनाद् आरभ्य यो विधिर् उच्यते तद्व्यतिक्रमे एव प्रायश्चित्तं नान्यव्यतिक्रमे इति वक्ष्यमाणत्वात् । तेनैवास्यापि वर्णधर्मातिक्रमे प्रायश्चित्ताभावो ज्ञातुं शक्यते, राजदण्डाभावो ऽपि । तथापि नित्योपनयनकालातीतस्य भिन्नबुद्धेः शक्तस्य एकादशवर्षाद् ऊर्ध्वं षोडशवर्षात् प्राक् प्रायश्चित्तार्धप्रवेशनार्थं, ततो ऽर्वाक् पञ्चवर्षाद् ऊर्ध्वं पित्रादीनां प्रायश्चित्तप्रवेशार्थं, ततो ऽर्वाग् अपराधाभावज्ञापनार्थं च सूत्रम् आरब्धम् । तथा च भार्गवीयम् ।
अशीतिर् यस्य वर्षाणि बालो वाप्य् ऊनषोडशः ।
प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो व्याधित एव च ॥
ऊनैकादशवर्षस्य पञ्चवर्षात् परस्य च ।
चरेत् सुहृद् गुरश् चैव प्रायश्चित्तं विशुद्धये ॥
अतो बालतरस्याथ नापराधो ऽस्ति कुत्रचित् ।
राजदण्डश् च तस्यातः प्रायश्चित्तं च नेष्यते ॥ इति ।
एवं चोपनयनात् प्राग् यद्य् अपि सामान्येन कामचारित्वाद्य् उक्तं, तथापि पञ्चवर्षात् प्राग् एवात्यन्तकामचारिता, तत ऊर्ध्वं वर्णधर्मेषु नियोक्तव्यः पित्रादिभिः, तद्व्यतिक्रमे बालस्य सतः पित्रादीनां प्रायश्चित्तस्य श्रवणात् । अलम् अतिप्रसङ्गेन ।
इदानीं सूत्रं विव्रियते — उपनयनात् प्राक् कामचार इच्छागतिः । तस्माच् चण्डालस्पर्शनादौ प्रोक्षणमात्रं वक्ष्यति “अवोक्षणेभ्यः” [ग्ध् २.६] इति । तद् अपि पञ्चवर्षात् प्राग् एवेत्य् उक्तम् । अत ऊर्ध्वं चण्डालादिस्पर्शने स्नापयितव्यः । एकादशवर्षाद् ऊर्ध्वं स्वयम् एव स्नायात् । एवं सर्वत्र । कामवादः अश्लीलाद्य् अपि वदति । कामभक्षः पर्युषिताद्य् अपि भक्षयति । पञ्चवर्षाद् ऊर्ध्वं वर्णधर्माविरोधीनि कारयितव्यानि । उपनयनात् प्राग् इत्य् आपत्कल्पोपनयनस्यापि ग्रहणम् । कुतः? ब्रह्मचारीति लिङ्गात् । नित्यकालात् प्राक् ब्रह्मचर्यस्य स्खलनासम्भवाद् एव सिद्धत्वात्, ब्रह्मचर्यरक्षणोपदेशो ऽनर्थकः स्याद् इति । कामचारस्योदाहरणं स्वयम् एव वक्ष्यति “यथोपपादमूत्रपुरीषो भवति” [ग्ध् २.४] इति । अतो ऽत्यन्तबालावस्थायाम् अपि ब्रह्महत्यादेर् यत्नतो निवारयितव्यः । कामवादे अभिशंसादौ कामभक्षणे सुरापानादौ चात्यन्तबाल्यावस्थायाम् अपि यत्नतो निवारयितव्यः, कामचार इत्य् अनेनैव सिद्धे वादभक्षणयोः पुनर् उपन्यासात् । उपनयनाद् इति वक्तव्ये प्राग्ग्रहणं नियमार्थं, उपनयनात् प्राग् एव कामचारित्वाद् इति । असति नियमे “उत्तरेषां चैतद् अविरोधि” [ग्ध् ३.१०] इत्य् अनेन हुतशिष्टभक्षणवर्जनादि यतीनाम् अपि प्राप्नोतीति ॥ २.१ ॥
इदानीं कामवादभक्षणस्यापवादम् आह ।
** अहुताद् ब्रह्मचारी ॥ २.२ ॥**
हुतं हुतशिष्टं चरुपुरोडाशादि, न वैश्वदेवशिष्टं, तस्य सर्वार्थत्वात् । तथाह आपस्तम्बः- “सर्वान् वैश्वदेवे भागिनः कुर्वीत” [आप्ध् २.९.५] इति । अहुतात् कार्य इति शेषः । अर्थप्राप्तस्य प्रतिषेधो ऽयं पित्रादीनाम् उपदेशः, बालस्य विज्ञानाभावात् । एकादशवर्षाद् ऊर्ध्वं तस्यैवेत्य् उक्तम् ॥ २.२ ॥
** ब्रह्मचारी ॥ २.३ ॥**
ब्रह्मचर्यरक्षणं कर्तव्यम् ॥ २.३ ॥
इदानीं कामचारस्योदाहरणम् आह ।
** यथोपपादमूत्रपुरीषो भवति ॥ २.४ ॥**
यथापरिवेष्टितशिरसः कृष्टादाव् अपि मूत्रपुरीषाव् उत्पद्येते तिष्ठतो वा तथा तत्रैव कुर्याद् इत्य् अर्थः ॥ २.४ ॥
किं च ।
** नास्याचमनकल्पो विद्यते ॥ २.५ ॥**
पञ्चवर्षाद् ऊर्ध्वम् अस्यैकादशवर्षात् प्राक् आचमनकल्पः आचमनविधिर् न विद्यते । कल्पप्रतिषेधात् आचमनमात्रम् अस्तीत्य् अवगम्यते । तत्र “शूद्रेण हि समस् तावद् यावद् वेदेन जायते” [म्ध् २.१७२च्द्] इति स्मृत्यन्तरे शूद्रेण तुल्यधर्मश्रवणात्, आचमनं शूद्रवद् द्रष्टव्यम् । ऊनैकादशवर्षस्येति कुतः? अस्येत्य् आरम्भात्, पञ्चवर्षत् प्राग् दोषाभावश्रवणात् एकादशवर्षाद् ऊर्ध्वं वर्णधर्मे ऽधिकृतत्वाच् च । एकादशवर्षाद् ऊर्ध्वम् आचमनकल्पो ऽपि तस्य विद्यत एवेति गम्यते ॥ २.५ ॥
इदानीम् अतिबालस्याह ।
** अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यः ॥ २.६ ॥**
अस्य न विद्यत इति वर्तते । अस्य ऊनपञ्चवर्षस्य अपमार्जनादिभ्यः अन्यत्र किञ्चिद् अपि शौचप्रकारः न विद्यत इत्य् अर्थः । अपमार्जनं भुक्तोच्छिष्टस्य सोदकेन पाणिना तदुच्छिष्टापनयनम् । प्रधावनं प्रक्षालनं मूत्रोच्चारादौ । अवोक्षणं चण्डालादिस्पर्शने प्रोक्षणम् । प्राप्त्यभावात् “नास्याचमनकल्पो विद्यते अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यः” इति प्रतिषेधद्वयस्यानारम्भः प्राप्नोतीति चेत्, नैष दोषः, “नास्याचमनकल्पो विद्यतते” इत्यनेनोनषोडशवर्षस्याचमनकल्पो विधीयते ऊनैकादशवर्षस्य प्रतिषेधद्वारेण । “अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यः” इत्य् अनेन पुनः ऊनपञ्चवर्षस्यापमार्जनादि विधीयते अन्यशौचप्रतिषेधद्वारेणेति ॥ २.६ ॥
किं च ।
** न तदुपस्पर्शनाद् अशौचम् ॥ २.७ ॥**
तद्ग्रहणेनाकृतशौचो गृह्यते । अकृतशौचस्पर्शनात् तेन वा स्पृष्टस्याशुचित्वं न भवति । अतिबालविषयम् एवैतत् ।
तर्ह्य् अस्य शौचविधानम् अनर्थकम् । कुतः? द्वयम् एव प्रयोजनं शौचविधानस्य दृश्यते इतरस्पर्शयोग्यार्थम् अनुष्ठानार्थं च । अस्य तु इतरस्पर्शयोग्यार्थं न भवति, अकृतशौचस्यापि स्पर्शयोग्यत्वात्, “न तदुपस्पर्शनाद् अशौचम्” इत्य् अनेन । अनुष्ठानार्थं च न भवति, अस्यानुष्ठानाभावाद् इति ।
नानर्थकम्, रक्षार्थत्वाच् छौचविधानस्येति । तथा च स्मृत्यन्तरम्- “बालस्यापञ्चमाद् वर्षाद् रक्षार्थं शौचं कुर्यात्” इति ।
अकृतशौचस्यास्यैव स्पर्शने दोषाभावज्ञापनार्थः उपशब्दप्रयोगः । एवं चान्येषाम् उच्छिष्टकृतमूत्रपुरीषाणां स्पर्शने आचमनं कर्तव्यम् । तत्स्पर्शने न दोषः शवस्पृष्टिसूत्रे परिगणितत्वात् । तथा स्मृत्यन्तरम् ।
अशुचिं स्पृशते यस् तु एक एव हि दुष्यते ।
तं स्पृष्ट्वान्यो न दुष्येत सर्वद्रव्येष्व् अयं विधिः ॥ इति ।
चण्डालस्पर्शने तु शवस्पृष्टिसूत्रे वक्ष्यति [ग्स्ह् १४.२२] । “तम् उपस्पृशेत्” इति वक्तव्ये “न तदुपस्पर्शनाद् अशौचम्” इति गुरुसूत्रकरणं “प्राग् उपनयनाद्” [ग्ध् २.१] इत्य् अत्र नियमस्यापि बाधनार्थम् । ततश् चोपनयनाद् ऊर्ध्वम् अप्य् उच्छिष्टकृतमूत्रपुरीषाणां स्पर्शने आचमनं कर्तव्यम् ॥ २.७ ॥
किं च ।
**न त्व् एवैनम् अग्निहवनबलिग्रहणयोर् **
नियुञ्ज्यात् ॥ २.८ ॥
एनम् इति सर्वस्यानुपनीतस्योपसङ्ग्रहार्थम् । अग्नौ यत् क्रियते अग्निहोत्रहोमादि तत् अग्निहवनम् । वैश्वदेवोत्तरकालं दिग्देवताभ्यो यो बलिर् दीयते तद् बलिहरणम् । तुशब्दो विशेषवाची, अष्टकादौ ब्राह्मणपादप्रक्षालनादाव् अपि न नियुञ्ज्यात्, विशेषतो ऽग्निहवनबलिहरणयोर् इति । कामचारित्वाद्य् अत्र कुत्रचिन् मन्त्रम् अधीत्याग्निहोत्रादौ यदि स्वयम् एव प्रवर्तते तदा तं दृष्ट्वानुमन्तापि न स्याद् इत्य् एवमर्थ एवशब्दः । उपनीतस्य नियोगार्थम् इदं वचनं, अन्यत्र प्राप्त्यभावात् प्रतिनिषेधस्य । एवं च “विद्वान् आग्निहोत्रं जुहुयात्” इति यद्य् अपि श्रुत्या बहुश्रुतस्यैवाधिकारः, तथापि तदसम्भवे अल्पविद्यम् अप्य् उपनीतं नियुञ्ज्यात् । तथा च मनुः ।
नैव कन्या न युवतिर् नाल्पविद्यो न बालिशः ।
होता स्याद् अग्निहोत्रस्य नार्तो नासंस्कृतस् तथा ॥ इति । [म्ध् ११.३६]
तत्राल्पविद्यप्रतिषेधाद् एव प्रतिषेधे सिद्धे नासंस्कृत इति प्रतिषेधो ऽन्यस्य विदुषो ऽभावे ऽल्पविद्यस्यापि संस्कृतस्याभ्यनुज्ञानार्थम् इति प्रतिपादितम् । “प्राग् उपनयनाद्” [ग्ध् २.१] इत्यादि यद् उक्तं तत् स्त्रीणाम् अपि आ विवाहाद् द्रष्टव्यम् । कुतः?
वैवाहिको विधिः स्त्रीणाम् औपनायनिकः स्मृतः । [म्ध् २.६७]
इति स्मृत्यन्तरदर्शनात् । एवं चाग्निहवनबलिहरणयोः कन्याया अपि नियोगप्रतिषेधः सिद्धः । अतो विवाहोत्तरकालं नियोगः कर्तव्यः । तत्र “न स्त्री जुहुयात्” इति श्रुत्याग्निहोत्रे प्रतिषिद्धत्वात् औपासनादौ द्रष्टव्यम् । तथा च स्मृत्यन्तरम्- “पत्न्य् औपासनं जुहुयाद् वैश्वदेवं च” इत्यादि । न युवतिर् इति प्रतिषेधश् च परदारविषयत्वाद् अदोषः ॥ २.८ ॥
किं च ।
**न ब्रह्माभिव्याहारयेद् अन्यत्र स्वधानिनयनात् **
॥ २.९ ॥
एवम् इत्य् अनुवर्तते । ब्रह्मशब्देन वेदा उच्यन्ते । तस्माद् एनं नाध्यापयेत् । उपनीतस्योपाकरणाद् ऊर्ध्वं “अधीयीत छन्दांसि” इत्य् अनेन वेदाध्ययनविधानाद् एवानुपनीतस्य प्रतिषेधे सिद्धे, वेदस्य पुनः प्रतिषेधः वेद एव नाध्यापयितव्यः इति नियमार्थः । ततश् चाङ्गाध्यापने न दोषः । कामचारित्वाद् येन केनचित् प्रकारेण गृहीतं मन्त्रम् अपि नोच्चारयेत् । कुतः? अध्यापययेद् इत्य् अनारभ्याभिव्याहारयेद् इत्य् आरम्भात् । ऽअन्यत्र स्वधानिनयनात्,ऽ स्वधानिनयनं वर्जयित्वा । अमुष्मै स्वधेत्य् उक्त्वा यत् पिण्डोदकादि प्रेतेभ्यो दीयते तत् स्वधानिनयनम् । तद् अपि प्रेतकर्मणः समस्तस्याप्य् उपलक्षणम् । तथा च वसिष्ठः- “अन्यत्रोदककर्मस्वधापितृसंयुक्तेभ्यः” [वध् २.७] इति । एवं च पुत्रे ऽनुपनीते ऽपि सति सपिण्डादिभिः प्रेतक्रिया न कर्तव्या, शास्त्रचोदनानर्थक्यप्रसङ्गो मा भूद् इति ॥ २.९ ॥
अनुपनीतस्योक्त्वेदानीम् उपनीतस्याह ।
** उपनयनादिर् नियमः ॥ २.१० ॥**
उपनयनाद् आरभ्य यो विधिर् उक्तः स नियमसञ्ज्ञो भवति । एवं चास्याकरणे प्रायश्चित्तं न पूर्वस्य । अतो वा आरभ्य नियमः व्रतधारणं यो वक्ष्यते ऽग्नीन्धनादिः स नियमः उपनयनादिः कर्तव्यः ॥ २.१० ॥
किं च ।
** उक्तं ब्रह्मचर्यम् ॥ २.११ ॥**
उक्तग्रहणं प्राग् उपनयनान् नियम एवैतद् इति । ततश् च तत्स्खलने ऽनुपनीतस्यापि अवकीर्णिप्रायश्चित्तेनैवाधिकारो द्रष्टव्यः । तथा च स्मृत्यन्तरं- “विप्लुतम् अवकीर्णिव्रतेन शुद्धम् उपनयेद् ऊनसप्तदशवर्षं, अत ऊर्ध्वं व्रात्यावकीर्णिव्रताभ्याम्” इति । ब्रह्मचारिणस् तु स्त्रीप्रेक्षणादिप्रतिषेधाद् अर्थसिद्धम् इति चेत्, न, पश्वादष्व् अपि सम्भवात्
॥ २.११ ॥
किं च ।
** अग्नीन्धनभैक्षचरणे ॥ २.१२ ॥**
अग्नीन्धनं समिद्धोमः । इतरत् प्रसिद्धम् । ते प्रतिदिनं कर्तव्ये । सहनिर्देशो ऽनन्तरानुष्ठानार्थः । तथा च मनुः ।
प्रतिगृह्येप्सितं दण्डम् उपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ॥ इति । [म्ध् २.४८]
तत्रापि ऽप्रदक्षिणं परीत्याग्निम्ऽ इत्य् अनेन समिद्धोम उक्त इत्य् उक्तम् । “सायं प्रातस् त्व् अन्नम् अभिपूजितम् अनिन्दन् भुञ्जीत” [ग्ध् ९.५९] इति द्विर्भोजनश्रवणात् सायं प्रातः द्विर् अग्नीन्धनम् अपि द्रष्टव्यम् । तथा च स्मृत्यन्तरम् ।
दूराद् आहृत्य समिधः सन्निदध्याद् विहायसि ।
सायं प्रातश् च जुहुयात् ताभिर् अग्निम् अतन्द्रितः ॥ इति । [म्ध् २.१८६]
केचित् समिद्धोमं सायम् एवेच्छन्ति ॥ २.१२ ॥
किं च ।
** सत्यवचनम् ॥ २.१३ ॥**
सर्वत्र कर्तव्यक्रियाध्याहर्तव्या । वचनग्रहणम् असन्देहार्थम्, सत्यम् अपाम् उपस्पर्शनम् इत्य् एवं सन्देहः स्याद् इति । पृथग्ग्रहणं आतुरस्याप्य् अनुष्ठानार्थम् । ततश् च पूर्वयोस् तन् न । तथा च मनुः ।
अकृत्वा भैक्षचरणम् असमिध्य च पावकम् ।
अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥ [म्ध् २.१८७]
इति ॥ २.१३ ॥
किं च ।
** अपाम् उपस्पर्शनम् ॥ २.१४ ॥**
अब्ग्रहणं भस्मादीनाम् उपलक्षणम् । तथा च भृगुः ।
स्नानानि पञ्च पुण्यानि कीर्तितानि महर्षिभिः ।
आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यम् एव च ॥
आग्नेयं भस्मना स्नानम् अवगाहं तु वारुणम् ।
आपो हिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ॥
यत् तु स्यात् सातपं वर्षं दिव्यं स्नानं तद् उच्यते ।
अशक्तो वारुणे स्नाने आग्नेयादि समाचरेत् ॥ इति ।
स्नानम् इति वक्तव्ये एवम् अभिधानं स्मृत्यन्तरोक्तस्नानविधेर् उपसङ्ग्रहणार्थम् । एवं च स्मृत्यन्तरोक्तं द्रष्टव्यम् । उपशब्दो ऽविज्ञातजलवर्जनार्थः । अग्नीन्धनभैक्षचरणयोः पृथग्ग्रहणं भुक्तस्य नित्यस्नानप्रतिषेधार्थं, न नैमित्तिकस्य । अतो नैमित्तिकं कर्तव्यम् । सत्यवचनस्य पृथग्ग्रहणम् आतुरस्य नैमित्तिकस्यापि प्रतिषेधार्थम् । उपशब्दो ऽर्धरात्रस्नानप्रतिषेधार्थं इति केचिद् वदन्ति । यद् उक्तम् अत्र तत् सर्वं मनुनाप्य् उक्तं ।
न स्नानम् आचरेद् भुक्त्वा नातुरो न महानिशि ।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥ [म्ध् ४.१२९]
इति ॥ २.१४ ॥
** एके गोदानादि ॥ २.१५ ॥**
गोदानं नाम छन्दोगानां द्वितीयं व्रतम्, अन्येषाम् अपि षोडशे वर्षे धारयितव्यम् । तेषाम् अपि षोडशे गोदानधारणं केचिद् इच्छचन्ति । तत आरभ्य्ऐके स्नानम् इच्छन्ति । गोदानात् प्राक् नित्यस्नानं न कुर्यात्, नैमित्तिकम् एव कर्तव्यम् । तत ऊर्ध्वं नित्यस्नानम् अपीत्य् एके आचार्या इच्छन्ति । एक इति वचनात् न तु गौतमः ॥ २.१५ ॥
** बहिःसन्ध्यत्वं च ॥ २.१६ ॥**
एके ग्रहणानुवर्तनार्थश् चकारः । बहिर्ग्रामात् सन्ध्योपासनम् एके इच्छन्ति । न तु गौतमः । एतद् उक्तं भवति । ग्रामाद् बहिर् एव सन्ध्योपासनं कर्तव्यम् इत्य् एकेषां मतं, बहिर् अभ्यन्तरे वा यत्र कुत्रचिच् छुद्धदेशे कर्तव्यम् इति गौतममतम् ॥ २.१६ ॥
इदानीं प्रसङ्गात् तत् सन्ध्योपासनं कदा कथं च कर्तव्यम् इत्य् अत आह ।
तिष्ठेत् पूर्वाम् आसीतोत्तरां सज्योतिष्या ज्योतिषो दर्शनाद् वाग्यतः ॥ २.१७ ॥
वाग्यत इति स्थानासनयोः प्रत्येकं सम्बध्यते । यस्याम् आदित्य उदेति सा पूर्वा सन्ध्या । पूर्वसूत्रखण्डात् सन्ध्याशब्दो ऽनुवर्तते । यस्याम् आदित्यो ऽस्तम् एति सोत्तरा सन्ध्या । स्थानासने अत्र गुणभूते । उपासनम् अत्र प्रधानं कर्म । अतो यद्य् अपि तिष्ठेद् इत्य् उक्तं, तथापि तिष्ठन्न् उपासीत, आसीन उपासीतेति द्रष्टव्यम् । तथा च मनुः ।
पूर्वां सन्ध्यां जपन् तिष्ठेन् नैशम् एनो व्यपोहति ।
पश्चिमां तु समासीनो मलं हन्ति दिवा कृतम् ॥ इति । [म्ध् २.१०१]
सज्योतिः कालः, पूर्वस्यां नक्षत्रज्योतिः । यः कालो नक्षत्रज्योतिषा सह वर्तत स सज्योतिः । तस्मिन् सज्योतिषि काले आरम्भः कर्तव्यः । इतरस्यां तथा आदित्यज्योतिः । तत आ ज्योतिषो दर्शनात् –पूर्वस्याम् आदित्यदर्शनात् उत्तरस्यां नक्षत्रदर्शनात् । आ ज्योतिष इति वक्तव्ये दर्शनग्रहणं सम्यगर्थम् । तथा च मनुः ।
पूर्वां सन्ध्यां जपंस् तिष्ठेत् सावित्रीम् आर्कदर्शनात् ।
पश्चिमां तु समासीत सम्यगृक्षविभावनात् ॥ इति । [म्ध् २.१०२]
तस्मिन्न् उपरमः कर्तव्य इत्य् अर्थः । अत्राङ् अभिविध्यर्थः, दीर्घसन्ध्यत्वस्याभीष्टत्वात् । तथा च मनुः ।
ऋषयो दीर्घसन्ध्यत्वाद् दीर्घम् आयुर् अवाप्नुयुः ।
प्रज्ञां यशश् च कीर्तिं च ब्रह्मवर्चसम् एव च ॥ इति । [म्ध् ४.९४]
ननु च “उत्तरेषां चैतद् अविरोधि” [ग्ध् ३.१०] इत्य् अनेन स्नातकस्याग्निमत एतन् न प्राप्यते, तस्याग्निहवनेनास्य कालस्यावरुद्धत्वाद् इति ।
उच्यते – यस् तावत् स्मार्तः सायं प्रातर् होमः तत्र कालभेदाद् अविरोध एव । कथं? सायंशब्देन रात्रिर् उच्यते, प्रातःशब्देन च दिवसः, उदितहोमादिवाक्यवद् अत्र तथाविधस्याभावात् सन्ध्योपासनानन्तरम् एव होमस्यानुप्रवेशः स्याद् इति । अथापि केषाञ्चित् सन्ध्याकाल एव होम उक्तः, तत्रापि दीर्घसन्ध्यत्वस्याभीष्टत्वाद् धोमानन्तरम् अपि सन्ध्योपासनस्यावकाशो ऽस्तीति । एवं श्रौते उदितहोमादिविषये ऽप्य् अविरोध एवेति ।
“तिष्ठन् पूर्वां सन्ध्याम् आसीन उत्तराम् उपासीत” इति वक्तव्ये एवमभिधानं स्मृत्यन्तरोक्तस्यापि विधेर् ग्रहणार्थम् । तथाह उशना-
सायं प्रातर् उदकं गत्वा पूतो भूत्वा पवित्रेण मार्जयित्वा आपोहिष्ठीयाभिस् तिसृभिर् अब्लिङ्गाभिः वामदेव्येन च, ततः शुचौ देशे दर्भेष्व् आसीनो दर्भान् धारयमाणः प्रत्यङ्मुखो वाग्यत आत्मानं ध्यात्वा ततः सरेचकपूरककुम्भकादीन् त्रीन् प्राणायामान् धारयित्वा ऋषिछन्दोदेवताध्यानपूर्वकं भूर्भुवःस्वरित्यादिकां सावित्रीं सहस्रकृत्व आवर्तयेच् छतकृत्वो वा दशावराम् अथोत्तिष्ठन्न् अग्नियमब्रह्मभ्यः प्रत्यग्दक्षिणोदीच्यासु नमस्कृत्वा त्रिः प्रदक्षिणं कृत्वा पुनर् अपि प्रतीचीं दिशं नमस्कुर्यात् । एवम् एव प्रातः प्राङ्मुखस् तिष्ठन् मित्रादिभ्यो नमस्कुर्यात् ।
इति ॥ २.१७ ॥
** नादित्यम् ईक्षेत ॥ २.१८ ॥ **
यदि सन्ध्याकालयोर् एवायं प्रतिषेधः स्यात् तदानीम् एकम् एव सूत्रं क्रियेत “तिष्ठेत् पूर्वाम् आसीतोत्तरां सज्योतिष्या ज्योतिषो दर्शनाद् वाग्यतो नादित्यम् ईक्षेत” इति । यदि सर्वदा स्यात् तदानीं “वर्जयेन् मधुमांस” [ग्ध् २.१९] इत्यादाव् आदित्येक्षणम् अपि पठेत् । उभयथाकरणाद् अन्याभिप्रायेणेदम् उक्तम् इति ज्ञातुं शक्यते । अभिप्रायश् च स्मृत्यन्तरोक्तो द्रष्टव्यः । यथा चाह उशना- “नेक्षेतादित्यं सन्ध्यागतं मध्यन्दिनगतं राहुग्रस्तं वारिस्थम्” इति
॥ २.१८ ॥
वर्जयेन् मधुमांसगन्धमाल्यदिवा-स्वप्नाञ्जनाभ्यञ्जनयानोपानच्छत्रकामक्रोध-लोभमोहवादवादनस्नानदन्तधावनहर्षनृत्त-गीतपरिवादभयानि ॥ २.१९ ॥
वर्जयेद् इति प्रत्येकं सम्बध्यते । मधु माक्षिकम् । तस्याबुद्धिपूर्वभक्षणे न दोषः, “अकामोपनतं मधु वाजसनेयके न दुष्यति” [वध् २३.१३] इति स्मृत्यन्तरदर्शनात् । मांसं गृहस्थस्य अप्रतिषिद्धम् अपि । तत्राप्य् आतुरस्यौषधार्थं गुरोर् उच्छिष्टस्य मांसस्य भक्षणे न दोषः, “स चेद् व्याधीयीत कामं गुरोर् उच्छिष्टं भैषज्यार्थे सर्वं प्राश्नीयात्” [वध् २३.९] इति स्मृत्यन्तरदर्शनात् । एवं चानातुरस्य श्राद्धे ऽपि वर्जनीयम् । तथा च मनुः ।
व्रतवद् देवदैवत्ये प्रित्र्यै कर्मण्य् अथर्षिवत् ।
कामम् अभ्यर्थितो ऽश्नीयाद् व्रतम् अस्य न लुप्यते ॥ [म्ध् २.१८९]
इत्यादि । गन्धं चन्दनादि । तस्यापि सुखार्थस्य प्रतिषेधः, न देवताशिष्टस्य, “देवताशिष्टम् एव गृह्णीयाद् ब्रह्मचारी” इति स्मृत्यन्तरदर्शनात् । मालाया अपि तथैव । दिवास्वप्नो दिवा निद्रासेवनं । तद् अप्य् आतुरस्य न दोषः । अञ्जनम् अक्ष्णोः । अत्राप्य् उपभोगार्थस्य प्रतिषेधः, नौषधार्थस्य । अभ्यञ्जनं तैलेन गात्राभ्यङ्गः । केचिद् गन्धतैलस्यायं प्रतिषेध इति वदन्ति । तस्मिन् पक्षे इतरस्य न दोषः । गन्धप्रतिशेधेनैवायं प्रतिषेधः सिद्ध इति चेन्, न, विशेषत एव लोकप्रसिद्धेर् न गन्धसामान्यस्य ग्रहणं भवतीति । यानं शिबिकादि । तद् अप्य् अनातुरस्यैव । उपानच्छत्रे प्रसिद्धे । मयूरपत्रकृतस्यादोषः । कामः स्त्रीगतो भोगाभिलाषः । क्रोधः परस्यानिष्टचिन्तनम् । लोभः अन्यायेन परद्रव्याद्यपहरणम् । मोहो ऽज्ञानम् । वादो बहुप्रलापः । वादनं भेरीताडनादि । स्नानं शिरस्नानादि येनोपभोगः, विहितत्वाद् इतरस्य । दन्तधावनं प्रसिद्धम् । ताम्बूलपत्रेणापि तन् न कर्तव्यं “पङ्कदन्तो भवेद् व्रती” इति स्मृत्यन्तरदर्शनात् । हर्षः प्रीतिः । एवं च तद्धेतूनां नाटकादीनां प्रेक्षणस्यापि प्रतिषेधः सिद्धः, तद्दर्शने प्रीत्युत्पत्तेः निवारायितुम् अशक्यत्वात् । नृत्तं गात्रविक्षेपः । गीतं गान्धर्वसम्बन्धवाक्यस्याभिधानम् । परिवादः परदोषसङ्कीर्तनम् । भयं परस्य भीषणं, इतरस्य परिहर्तुम् अशक्यत्वात्
॥ २.१९ ॥
किं च ।
गुरुदर्शने कण्ठप्रावृतावसक्थिकापाश्रयण-पादप्रसारणानि ॥ २.२० ॥
गुरुर् आचार्यादि । कुतः? यद्य् आचार्यस्यैव ग्रहणं तदानीम् आचार्यदर्शन इति वक्तव्यम् । गुरुग्रहणं सर्वेषां गुरुस्थानीयानाम् अप्य् उपलक्षणम् । तथा च स्मृत्यन्तरम्- “मान्यानां सर्वेषां सकाशे सङ्कुचितस् तिष्ठेत्” इति । कण्ठप्रावरणं कण्ठे वस्त्रप्रक्षेपः । अवसक्थिकां जान्वोर् उपरि परिकरबन्धः । शेषं प्रसिद्धम् । परवशाद् ध्य् एतानि क्रियन्त इति प्रतिषेधः ॥ २.२० ॥
किं च ।
निष्ठीवितहसितविजृम्भितावस्फोटनानि ॥ २.२१ ॥
गुरुसमीपे ऽन्यसमीपे ऽपि वर्जनार्थं पृथगभिधानम् । निष्ठीवनं प्रसिद्धम् । हसनं परवशे ऽपि यत्नतो निवारयितव्यम् । तथा च आपस्तम्बः- “न स्मयेत यदि स्मयेतापिपृह्य स्मयेतेति ब्राह्मणं” [आप्ध् २.७.६–७] इति । विजृम्भणं प्रसिद्धम् । अवस्फोठनं सशब्दसन्धिप्रमोकः ॥ २.२१ ॥
किं च ।
स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् ॥ २.२२ ॥
वर्जयेद् इति वर्तते । प्रेक्षणं प्रकर्षेणेक्षणं अवयवनिरूपणम्, न रूपमात्रदर्शनम्, तस्य निमिषतो वारयितुम् अशक्यत्वात् । आलम्बनं स्पर्शनम् । स्पर्शन इति वक्तव्ये एवम् अभिधानम् अभिसन्धिस्पर्शनवर्जनार्थम् । एवं च प्रमादान् न दोषः । अभिसन्ध्या त्व् अन्धकारादाव् अपि स्पर्शनं न कर्तव्यम् । तद् उभयं स्त्रियां न कुर्यात् । यस्यां मैथुनशङ्कान्येषां भवति तस्याम् एव, नान्यस्याम् ॥ २.२२ ॥
** द्यूतं हीनसेवाम् अदत्तादानं हिंसाम् ॥ २.२३ ॥**
वर्जयेद् इत्य् एव । द्यूतम् अक्षादिना । हीनसेवा मूत्रपुरीषापमार्जनादिना सेवा । एवं च गुरोर् अप्य् अननुरूपा सेवा न कर्तव्या । अदत्तादानं अननुज्ञातस्योत्सृष्टस्यापि ग्रहणम् । हिंसा प्राणिवधः प्राणिपीडा वा । विसमासान् न कारयेन् नानुमन्येतापि ॥ २.२३ ॥
किं च ।
** आचार्यतत्पुत्रस्त्रीदीक्षितनामानि ॥ २.२४ ॥**
वर्जयेद् इति प्रस्तुतम् । आचार्यस्य तत्पुत्रस्य च तद्भार्यायाश् च दीक्षितस्य च सञ्ज्ञां पित्रादिकृतां नोच्चारयेत् ॥ २.२४ ॥
किं च ।
** शुक्ता वाचः ॥ २.२५ ॥**
शुक्ताः निष्ठुराः परस्योद्वेगकारिण्यः । सर्वेषां वर्जयेत् ॥ २.२५ ॥
** मद्यं नित्यं ब्राह्मणः ॥ २.२६ ॥**
वर्जयेद् इति प्रकृतम् । मद्यं गुडमधुपिष्टकृतं अन्यद् अपि यन् मदकरं यत् सर्वं ब्राह्मणो नित्यं प्राग् अप्य् उपनयनाद् वर्जयेत् । एवं क्षत्रियवैश्ययोः प्राग् उपनयनाद् ऊर्ध्वं च ब्रह्मचर्यात् पैष्टीवर्जितायाः सुराया अप्रतिषेधः, स्मृत्यन्तरदर्शनात् । यथाह मनुः ।
गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ [म्ध् ११.९४]
इति ॥ २.२६ ॥
इदानीं कर्तव्यप्रतिपादनार्थम् आह ।
** अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी ॥ २.२७ ॥**
गुर्वपेक्षया नीचैःशय्यासने कुर्यात् । तस्यैव च पूर्वोत्थायी पश्चात्संवेशी । यथाह मनुः ।
नीचैःशय्यासनं चास्य नित्यं स्याद् गुरुसन्निधौ ।
उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ॥ [म्ध् २.१९८]
इति ॥ २.२७ ॥
किं च ।
** वाग्बाहूदरसंयतः ॥ २.२८ ॥**
स्याद् इति शेषः । वाक्संयतः अनिबद्धप्रलापोपरतः । बाहुसंयतो लोष्टमर्दनादिवर्जकः । उदरसंयतः हितमितभुक् । “वाग्बाहूदरकर्मसंयतः” इति केचित् पठन्ति । तत् बाहुसंयतत्वेनार्थसिद्धत्वात् युक्तम् अयुक्तं वेति विचारणीयम् ॥ २.२८ ॥
किं च ।
** नामगोत्रे गुरोः समानतो निर्दिशेत् ॥ २.२९ ॥ **
गुरुग्रहणम् आचार्यादीनाम् अप्य् उपलक्षणम् । समानतः सम्यग् आनतः प्रह्वः । तं ध्यात्वा नमस्कारं कृत्वेत्य् अर्थः । एवं च तत्रापि “आचार्यतत्पुत्रः” [ग्ध् २.२४] इत्य् अस्मिन्न् आचार्यग्रहणं गुर्वादीनाम् अप्य् उपलक्षणम्, तेषाम् अपि नामधेयोच्चारणस्य प्रतिषिद्धत्वात् । तथा च स्मृत्यन्तरम् ।
आचार्यं चैव तत्पुत्रं तद्भार्यां दीक्षितं गुरुम् ।
पितरं च पितृव्यं च मातरं मातुलं तथा ॥
हितैषिणं च विद्वांसं श्वशुरं पतिम् एव च ।
न ब्रूयान् नामतो विद्वान् मातुश् च भगिनीं तथा ॥
यदि ब्रूयात् तु तं ध्यात्वा नमस्कृत्वा वदेद् अथ ॥ इति ॥ २.२९ ॥
** अर्चिते श्रेयसि चैवम् ॥ २.३० ॥**
अर्चितो मान्यो विद्वान् इत्य् अर्थः । श्रेयान् हितैषी वयसा च वृद्ध इति द्रष्टव्यम् । चकाराद् एवैतस्मिन् सिद्धे एवंशब्दः समस्तातिदेशार्थः । ततश् च गुरुदर्शने यद् अभिवादनादि तद् अत्रापि द्रष्टव्यम् ॥ २.३० ॥
** शय्यासनस्थानानि विहाय प्रतिश्रवणम् ॥ २.३१ ॥**
यदा गुरुर् आज्ञां दद्यात् तदा — शयनं खट्वादि, आसनं फलकादि, स्थानं यत्र स्थितः — एतानि विहाय त्यक्त्वा प्रतिश्रवणं प्रतिवचनं दद्याद् इत्य् अर्थः ॥ २.३१ ॥
** अभिक्रमणं वचनाद् अदृष्टेन ॥ २.३२ ॥**
अदृष्टेन गुरुणा आज्ञायां दीयमानायाम् अभिक्रमणं तदभिमुखेन गमनं कुर्याद् इत्य् अर्थः ॥ २.३२ ॥
अधःस्थानासनतिर्यग्वातसेवायां गुरुदर्शने चोत्तिष्ठेत् ॥ २.३३ ॥
यदा गुरुः अधो नीचैः तिष्ठेत् आसीत वा, तिर्यग्वातसेवा मूत्रपुरीषोत्सर्गः, तत्र गुरुं दृष्ट्वा उत्तिष्ठेत् । चकाराद् अन्यमुखो भूत्वा । तथा च स्मृत्यन्तरम् ।
कूपस्थितं गुरुं दृष्ट्वा तटाकस्थं तथैव च ।
तिष्ठेद् अन्यमुखो भूत्वा शिष्यो दासस् तथैव च ॥ इति ।
अथ वा — चकाराद् अपगमनम् उच्यते । एवं सूत्रार्थश् च तदानीं द्रष्टव्यः । अधःस्थानासनतिर्यग्वातसेवायाम् उत्तिष्ठेत् अपयायाच् च क्रमेणेति । तत्राधःस्थानासने दृष्ट्वोत्तिष्ठेत् । तिर्यग्वातसेवायाम् अपयायाद् इति क्रमः ॥ २.३३ ॥
** गच्छन्तम् अनुव्रजेत् ॥ २.३४ ॥**
गच्छन्तं दृष्ट्वानुव्रजेत् । चकारो ऽनुवर्तते । तेन अनुक्तम् अपि समुच्चीयते आसीनं दृष्ट्वा उत्तिष्ठेत् शयानं दृष्ट्वासीतेति । तथा च स्मृत्यन्तरम्- “गच्छन्तम् अनुगच्छेद् आसीनं चोत्तिष्ठेच् छयानं चासीन उपासीत” [वध् ७.१२] इति ॥ २.३४ ॥
** कर्म विज्ञाप्याख्याय ॥ २.३५ ॥**
यद् अस्य कर्म कर्तव्यं तत् करोमीत्य् आचार्यस्य विज्ञाप्य तत् कृत्वा कृतम् इत्य् आख्याय तिष्ठेत् । वाक्यस्यापरिपूर्णत्वात् विज्ञाप्येत्य् अत्र कृत्वा इत्य् अध्याहर्तव्यम् । आख्यायेत्य् अत्रापि तिष्ठेद् इति क्रिया च, “प्रविश पिण्डीम्” [पतञ्जलि इ- १११, २३] इतिवत् ॥ २.३५ ॥
** आहूताध्यायी ॥ २.३६ ॥**
यदैव गुरुणाहूतो भवति तदैवाधीयीत । न त्व् एनं चोदयेद् इत्य् अर्थः ॥ २.३६ ॥
** युक्तः प्रियहितयोः ॥ २.३७ ॥**
स्याद् इति शेषः । युक्तस् तत्परः । प्रियहितयोः समुच्चितयोः । हितस्य चाप्रियस्याकर्तव्यत्वात् । प्रियं प्रीतिकरं, हितं आयतिक्षमम् । यत् प्रियम् आयतिक्षमं च तद् एव कुर्याद् इत्य् अर्थः
॥ २.३७ ॥
** तद्भार्यापुत्रेषु चैवम् ॥ २.३८ ॥**
तस्य यौ सवर्णौ सदृशौ भार्यापुत्रौ तयोर् अपि प्रियहितयोर् युक्तः स्यात् । चकारात् कण्ठप्रावृताद्य् अपि । कुतः सवर्णयोर् एव ग्रहणम् इति चेत्, बहुवचनस्य पूजार्थत्वात् ॥ २.३८ ॥
_इदानीं तस्यापवादम् आह । _
नोच्छिष्टाशनस्नापनप्रसाधनपाद-प्रक्षालनोन्मर्दनोपसङ्ग्रहणानि ॥ २.३९ ॥
तद्भार्यापुत्रयोर् एतानि न कुर्यात् । प्रियहितत्वात् प्राप्तं प्रतिषिद्ध्यते । अनयोर् एव प्रतिषेधात् गुरोर् एतानि कर्तव्यान्य् एव । तथा च आपस्तम्बः- “प्रोषितो भैक्षाद् अग्नौ कृत्वा भुञ्जीत भैक्षं हविषा संस्तुतं तत्राचार्यो देवतार्थे आहवनीयार्थे च तं भोजयित्वा यद् उच्छिष्टं प्राश्नाति हविरुच्छष्टम् एव तत्” [आप्ध् १.३.४२–१.४.२] इत्यादि । तथा च वसिष्ठो ऽपि- “उच्छिष्टम् अगुरोर् अभोज्यम्” [वध् १४.२०] इत्यादि । प्रसाधनं अलङ्कारः । शेषं प्रसिद्धम् ॥ २.३९ ॥
उपसङ्ग्रहणस्येदानीं प्रतिप्रसवम् आह ।
विप्रोष्योपसङ्ग्रहणं गुरुभार्याणाम् ॥ २.४० ॥
विप्रोष्य प्रत्यागतेन गुरुभार्याणाम् उपसङ्ग्रहणं कार्यम् – नान्यदा, नान्यस्याः ॥ २.४० ॥
तत्रापि तु ।
** नैके युवतीनां व्यवहारप्राप्तेन ॥ २.४१ ॥**
व्यवहारसमर्थेन पूर्णषोडशवर्षेणेत्य् अर्थः । युवतीनां तरुणीनां विप्रोष्यापि न कार्यम् इत्य् एके मन्यन्ते, न तु गौतमः । आशङ्कनीयानाशङ्कनीयापेक्षया द्रष्टव्यः ॥ २.४१ ॥
उक्तम् “अग्नीन्धनभैक्षचरणे” [ग्ध् २.१२]_ इति । तत्राग्नीन्धनं गृह्येभ्य एव पृथक् पृथग् उपलभ्यत इति, भैक्षचरणविधिम् आह ।_
**सार्ववर्णिकं भैक्षचरणम् अभिशस्तपतितवर्जम् **
॥ २.४२ ॥
किम् अर्थम् इदं सूत्रम् आरभ्यते? भैक्षचरणं तावद् अनेन न विधीयते “अग्नीन्धनभैक्षचरणे” [ग्ध् २.१२] इत्य् अनेन विहितत्वात्, “अभिशस्तपतिवर्जनम्” च “प्रशस्तानां स्वकर्मसु” [ग्ध् १७.१] इत्य् अनेनोक्तत्वाद् इति ।
अत्रैक आहुः — शूद्रप्रापणार्थो ऽयम् आरम्भः, “प्रशस्तानां स्वकर्मसु” [ग्ध् १७.१] इत्यनेनाप्राप्तत्वाद् इति ।
न चैतद् युक्तं, “वृत्तिश् चेन् नान्तरेण शूद्रात्” [ग्ध् १७.५] इत्य् अनेनापदि शूद्राभ्यनुज्ञानसिद्धेः । न चानापद्य् अपि ब्रह्मचारिणः शूद्राभ्यनुज्ञानम् अनेन कल्पयितुं युक्तम्, स्मृत्यन्तरे अत्यन्तप्रतिषिद्धत्वात्,
शूद्रान्नरसपुष्टाङ्गो यो ऽधीयानो ऽपि नित्यशः ।
जुह्वन्न् अपि जपन् वापि गतिम् ऊर्ध्वां न विन्दति ॥ इति । [वध् ६.२८]
तस्माद् अनापद्य् एव ब्रह्मचारिणः अप्रशस्तद्विजातिप्रापणार्थो ऽयम् आरम्भः । अप्रशस्तानाम् अविशेषेण प्राप्तौ सत्याम् “अभिशस्तपतितवर्जम्” इति युज्यते च प्रतिषेधः । इतरथा शूद्रप्रापणे सति अभिशस्तादीनां प्राप्त्यभावाद् एव प्रतिषेधो न युज्यत इति न च शक्यते वक्तुं शूद्रविषय एवायम् अपवाद इति । यत्र हि द्विजातयः प्रशस्ता अधिक्रियन्ते तत्र शूद्रो ऽपि प्रशस्त एवेति इतरस्य प्रसङ्ग एव नास्तीति ।
तेन प्रथमकल्पस् तावत् ब्रह्मचारिणः प्रशस्तेभ्य एव भैक्षचरणं, तदलाभे अप्रशस्तेभ्यः, तदलाभे आचार्यादिभ्यः, सर्वाभावे आपदि शूद्राद् इति स्थितम् ।
सर्ववर्णान् अर्हतीति सार्ववर्णिकं, सर्वेषां भवतीत्यर्थः । सर्वग्रहणं क्षत्रियवैश्यप्रापणार्थम्, अन्यथा ब्राह्मणस्यैव प्रतिग्रहाधिकारात् तस्यैव स्याद् इति । वर्णग्रहणं शूद्रस्यापि प्रापणार्थम् असति वर्णग्रहणे सर्वग्रहणं तयोर् एव स्याद् इति तदर्थं वर्णग्रहणं कृतम् । तेन शूद्रस्याप्राप्तौ तत्प्रापणार्थं वर्णग्रहणम् । ततश् च शूद्रस्यापि वृत्तिहीनस्य भिक्षाचरणे न दोषः । भिक्षासमूहो भैक्षम् । ततश् च बहुभ्यो गृहेभ्य आहर्तव्यम् । अभिशस्त उपपातकदोषेणाभिशस्तो गृह्यते, पातकदोषेणाभिशस्तस्य पतितग्रहणेनैव सिद्धत्वात् । तथा च वसिष्ठः- “ब्राह्मणम् अनृतेनाभिशस्य पतनीयेनोपपतनीयेन वा” [वध् २३.३९] इति ।
केचित् सर्वेषु वर्णेषु भवं सार्ववर्णिकम् इति विग्रहं कुर्वन्ति । तेषां सर्वशब्दस्य प्रयोजनं न विद्मः । अप्रशस्तद्विजातिप्रापणार्थं चेन् न, सूत्रारम्भस्यापि तस्यैव प्रयोजनत्वात् । शूद्रप्रापणार्थत्वे ऽप्य् उक्त एव परिहारः । तस्मात् तद् भूसुरैर् विचारणीयम्
॥ २.४२ ॥
आदिमध्यान्तेषु भवच्छब्दः प्रयोज्यो वर्णानुपूर्व्येण ॥ २.४३ ॥
द्विपदस्य “भिक्षां देहि” इति शब्दस्य प्रार्थनायां देहीत्यस्यापि च सार्मथ्यात् प्राप्तस्यादौ ब्राह्मणेन भवच्छब्दः प्रयोक्तव्यः, मध्ये क्षत्रियेण, अन्ते वैश्येन । भवच्छब्दस्य प्रातिपदिकत्वात् केवलस्य च प्रयोगाभावात् स्त्रीणां सकाशे तदामन्त्रितविभक्त्यन्तः प्रयोक्तव्यः, “भवति भिक्षां देहि” इति । पुरुषसकाशे “भवन् भिक्षां देहि” इति । प्रेत्युपसर्गात् स्मृत्यन्तरोक्तम् अपि द्रष्टव्यम् । तद् अपि “क्षकारहिकारौ नोच्चैर् वक्तव्यौ” इति । यथाह गृह्यस्मृतिः-
ब्राह्मणो भिक्षेत ऽभवति भिक्षां देहिऽ इति, भवन्मध्यया राजन्यो ऽभिक्षां भवति देहिऽ इति, भवदन्त्यया वैश्यो ऽभिक्षां देहि भवतिऽ । क्षां च हिं च न वर्धयेत् ॥ इति ।
वर्णग्रहणं शूद्रस्य मन्त्रप्रापणार्थम्, ततश् च त्रयाणाम् एव वर्णानाम् अन्यतमो मन्त्रो द्रष्टव्यः । अन्यो वा रचनाविशेषः कर्तव्यः । “वैश्यवच् छूद्रवृत्तिः” इति स्मृत्यन्तरदर्शनात्, वैश्योक्तो वा द्रष्टव्यः । अनियतवृत्तिविज्ञापनार्थं साक्षान् मन्त्रो नोक्तः । तथा च वसिष्ठः- “अनियता च वृत्तिर् अनियतकेशवेषाः” इत्यादि । एकस्यैव विकल्पो मा भूद् इति अनुपूर्वग्रहणम्
॥ २.४३ ॥
** आचार्यज्ञातिगुरुस्वेष्व् अलाभे ऽन्यत्र ॥ २.४४ ॥**
आचार्य उक्तः । ज्ञातिः सपिण्डः, गुरुर् मातुलादिः, स्वम् आत्मीयम् । अन्यत्रालाभे एषु भैक्षं प्रार्थनीयम् । क्रमस् तु प्रतिपादितः ॥ २.४४ ॥
अत्रापि ।
** तेषां पूर्वं पूर्वं परिहरेत् ॥ २.४५ ॥ **
तेषां यो यः प्रथमनिर्दिष्टः तत्र तत्र परिहरेत् । अन्यत्रालाभे पूर्वं पूर्वं परिहृत्यापि तेषाम् एव सकाशे भैक्षं परिचरितव्यम् । नोपाध्यायगृहाद् इत्य् एवं नियमार्थं तेषां ग्रहणम् । ततश् च सर्वत्रालाभे उपाध्यायगृहाद् इत्य् एव द्रष्टव्यम् । तथा च स्मृत्यन्तरम्- “अलाभे ऽन्यत्रोपाध्यायगृहाद् अपि” इति ॥ २.४५ ॥
** निवेद्य गुरवे ऽनुज्ञातो भुञ्जीत ॥ २.४६ ॥**
“इदं भैक्षम्” इति गुरवे कथयित्वा ततो “भुङ्क्ष्व” इति तेनानुज्ञातो भुञ्जीत । एवं च निवेदनं भैक्षसंस्कारार्थम्, अनुज्ञात इति वचनात् । यदि गुरुर् गृह्णीयात् तदान्यद् आहर्तव्यम् ॥ २.४६ ॥
**असन्निधौ तद्भार्यापुत्रसब्रह्मचारिसद्भ्यः **
॥ २.४७ ॥
आचार्यासन्निधानेन तद्भार्यादीनां निवेदनं यथासम्भवं कर्तव्यम् । तद्ग्रहणं भार्यापुत्रयोः समानजातीयत्वज्ञापनार्थम् । सब्रह्मचारी समानचरणः, सन् साधुः प्रकृष्टगुणः ॥ २.४७ ॥
तत् कथं भुञ्जीतेत्य् अत आह ।
**वाग्यतस् तृप्यन्न् अलोलुप्यमानः सन्निधायोदकम् **
॥ २.४८ ॥
वाग्यतस् तूष्णीम्, तृप्यन् सन्तोषं कुर्वन्, पूर्वम् असन्तुष्टो ऽप्य् अन्नदर्शनमात्राद् एव हृष्येद् इत्य् अर्थः । तथा च स्मृत्यन्तरम् ।
दृष्ट्वा हृष्येत् प्रसीदेच् च प्रतिनन्देच्च् अ सर्वशः । इति । [म्ध् २.५४]
अलोलुप्यमानो विशेषस्पृहां परिहरन्न् अतिभोजनं वर्जयेद् इत्य् अर्थः । तथा च स्मृत्यन्तरम् ।
अनायुष्यम् अनारोग्यर्म् अस्वग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ॥ इति । [म्ध् २.५७]
अथ वा – भोजनविधिम् अपरिवर्जयन्न् इत्य् अर्थः । तथा च स्मृत्यन्तरे भोजनविधिर् द्रष्टव्यः । सम्यङ् निधायोदकं प्राश्येत्य् अर्थः । समुपसर्गः स्मृत्यन्तरोक्तमार्गोपसङ्ग्रहार्थः । तथाह उशना- “सत्यं त्वर्तेनेत्यादिनोदकं परिषिच्यामृतोपस्तरणम् इत्यादिना प्राशयेत्” इति ।
अथ वा – उदकम् इति कमण्डलुर् उच्यते । तत् सन्निधाय । ततश् च ब्रह्मचारिणो ऽपि कमण्डलुधारणं कर्तव्यम् । तथैव मनुर् अपि मेखलादिभिः सह प्रतिपत्तिविधानात् ब्रह्मचारिणः कमण्डलुधारणं ज्ञापयति-
मेखलाम् अजिनं दण्डम् उपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ इति । [म्ध् २.६४]
एवं च तत एवाचमनं कर्तव्यम्, वचनसामर्थ्यात् । उच्छिष्टस्पर्शने न दोषः । स्मृत्यन्तरोक्तं वा द्रष्टव्यम् । यथाह वसिष्ठः ।
अप्सु पाणौ च काष्ठे च कल्पितः पावकः शुचिः ।
तस्माद् उदकपाणिभ्यां परिमृज्यात् कमण्डलुम् ॥ इति । [वध् १२.१५]
केचित् समुपसर्गाद् एवैतम् अर्थं समर्थयन्ति ॥ २.४८ ॥
इदानीं यदि ब्रह्मचारी गुरोः सम्यग् विनये16_ नावतिष्ठेत तदानीं किं कर्तव्यम् इत्य् अत आह।_
** शिष्यशिष्टिर् अवधेन ॥ २.४९ ॥**
शिष्याशिष्टिः शिष्यशासनम्, अवधेन वधं मुक्त्वा, निर्भर्त्सनादिना कर्तव्यम् इत्य् अर्थः । अधिकाराद् एव सिद्धे शिष्यग्रहणम् अन्यस्यापि शासनीयस्य भार्यापुत्रादेर् अयम् एव धर्म इति ज्ञापनार्थम् ॥ २.४९ ॥
** अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् ॥ २.५० ॥**
निर्भर्त्सनादिना शासनाशक्तौ रज्ज्वा वेणुविदलेन वा । सहनिर्दिष्टयोर् अपि तुल्यार्थत्वात् विकल्पः । तेनापि तनुना शास्यः ॥ २.५० ॥
** अन्येन घ्नन् राज्ञा शास्यः ॥ २.५१ ॥**
अन्येन हस्तपादादिना क्रोधेन घ्नन् राज्ञा दण्ड्यः । गौरवार्थं राजग्रहणम् ॥ २.५१ ॥
अथ कियन्तं कालम् एवं वर्तेतेत्य् आह ।
** द्वादश वर्षाण्य् एकवेदे ब्रह्मचर्यं चरेत् ॥ २.५२ ॥**
एकवेदम् अध्येष्यमाणो द्वादश वर्षाण्य् अभिहितरूपं ब्रह्मचर्यं चरेत् कुर्यात् । ब्रह्मचर्यशब्देन यमनियमकलाप उच्यते, ब्रह्मार्थत्वात् ॥ २.५२ ॥
** प्रति द्वादश वा ॥ २.५३ ॥**
प्रतिवेदं वा द्वादश वर्षाणि ब्रह्मचर्यं चरेत् ॥ २.५३ ॥
** सर्वेषु ग्रहणान्तं वा ॥ २.५४ ॥**
सर्वेषु वेदेषु यावतैव कालेनाध्ययनम् अभिनिर्वर्तयेत् तावन्तम् एव कालं ब्रह्मचर्यं चरेत् तस्य तदर्थत्वात् । सर्वग्रहणं यद्य् एकम् अधीयीत यदि वा द्वौ यदि वा सर्वान् इत्य् एवमर्थम् । तथा च मनुः ।
वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् । इति । [म्ध् ३.२]
सो ऽयम् उक्तावधेर् ऊर्द्वम् अर्वाग् वापवादः । “नियमेनाधीतं वीर्यवद् भवति” इति नियमोक्तिः ॥ २.५४ ॥
** विद्यान्ते गुरुर् अर्थेन निमन्त्र्यः ॥ २.५५ ॥**
विद्यासमाप्तौ, न तु व्रतानाम्, गुरुर् आचार्यः अर्थेन प्रयोजनेन निमन्त्र्यः, प्रष्टव्यः “किं गुर्वर्थे करवाणि” इति ॥ २.५५ ॥
ततः ।
** कृत्वानुज्ञातस्य वा स्नानम् ॥ २.५६ ॥**
कृत्वा दत्वेत्य् अर्थः, गुरूपदिष्टम् अर्थम् । तेन वा “अलं गुरुदक्षिणया” इत्य् अनुज्ञातस्य स्नानं समावृत्तिः ॥ २.५६ ॥
_इदानीं पित्राद्यनेकगुरुसन्निधाने कः प्रथमः पूज्य इत्य् अत आह । _
** आचार्यः श्रेष्ठो गुरूणाम् ॥ २.५७ ॥**
आचार्य उक्तलक्षणः, स श्रेष्ठः प्रधानो गुरूणाम् अन्येषां पित्रादीनाम् । ततश् च “सन्निपाते17 परस्य” [ग्ध् ६.४] इत्य् अत्र परशब्देनायम् एवोच्यते ॥ २.५७ ॥
** मातेत्य् एके मातेत्य् एके ॥ २.५८ ॥**
एके माता श्रेष्ठेति मन्यन्ते । इतिकरणात् पितेत्य् अपरे, अन्यथा मातैक इत्य् एव सिद्धत्वात् । केवलात् पितुर् आचार्यः प्रधानः । तथा च मनुः ।
कामान् माता पिता चैनं यद् उत्पादयतो मिथः ।
सम्भूतिं तस्य तां विद्यात् यद् योनाव् अभिजायते ॥
आचार्यस् त्व् अस्य यां जातिं विधिवद् वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ इति । [म्ध् २.१४७–४८]
यदि पितैवाचार्यो भवति तदा पिता विशिष्यते । माता सर्वेषां श्रेष्ठा । तथा च वसिष्ठः ।
उपाध्यायद् दशाचार्य आचार्यात् तु शतं पिता ।
सहस्रं तु पितुर् माता गौरवेणातिरिच्यते । इति ॥ [वध् १३.४८]
अत्र पितृशब्देन पितैवाचार्यो यो भवति स एव गृह्यत इति ॥ २.५८ ॥
इति मस्करीये गौतमभाष्ये द्वितीयो ऽध्यायः ॥
तृतीयो ऽध्यायः
एवं कृतनियमस्य कृतविद्यस्य च ।
** तस्याश्रमविकल्पम् एके ब्रुवते ॥ ३.१ ॥**
तस्याखण्डितब्रह्मचर्यस्य । तथा च मनुः ।
वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रमम् आवसेत् ॥ इति । [म्ध् ३.२]
एवं च विप्लुतस्योपपातकप्रायश्चित्तं द्रष्टव्यम् । शूद्रपर्युदासार्थं वा तद्ग्रहणम्, आश्रमधर्माभिधानं मा भूत् तस्यापीति । वीप्सार्थं वा तस्य तस्येति, ब्राह्मणस्य क्षत्रियस्य वैश्यस्य चेति । तद्ग्रहणम् अन्तरेणाप्य् अधिकाराद् एवैतत् सिद्धम् इति चेन् न, स्मृत्यन्तराभासाशङ्कानिवृत्त्यर्थत्वात् । एवं हि स्मृत्यन्तरं प्रतिभाति-
एष वो ऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः । [म्ध् ६.९७]
इति, तत्र ब्राह्मणस्यैवायं चतुर्विधो धर्म इतरयोर् एकविध इत्य् आशङ्का स्याद् इति । तर्हि तत् कथम् इति चेत्, तत्र ब्राह्मणग्रहणं प्रदर्शनार्थम् । तत् कथं गम्यत इति चेत्, “त्रयाणाम् एव वर्णानां चत्वार आश्रमाः” इति स्मृत्यन्तरदर्शनात् । तथा च आपस्तम्बः- “सर्वेषाम् उपनयनप्रभृति समानम् आचार्यकुले वासः । सर्वेषाम् अनूत्सर्गो विद्यायाः । बुद्ध्वा कर्माणि यत् कामयेत् तद् आरभेत” [आप्ध् २.२१.३–५] इति ।
एके ब्रुवते- “तुल्यफलत्वाद् आश्रमविकल्पः । द्विविधं हि फलम् अभ्युदयरूपं निःश्रेयसरूपं चेति । तद् अन्यतमेनैव लभ्यते” इति । तथा च श्रुतिः- “त्रयो धर्मस्कन्धा यज्ञो ऽध्ययनं दानम् इति प्रथमस् तप एव द्वितीयस् तृतीयम् आचार्यकुले वसनम् एतान् आरुह्य ब्रह्मलोकं गच्छति ब्रह्मसंस्थो ऽमृतत्वमेति” [छुप् २.२३.१] इति । अर्थस् तु त्रयो धर्मस्याश्रयाः, यज्ञाध्ययनं दानम् इति गृहस्थनिर्देशः, तप एवेति वानप्रस्थपरिव्राजकयोर् धर्मः, आचार्यकुलवसनं ब्रह्मचारिणः । एतान् आरुह्येति ब्रह्मचार्याश्रमं गृहस्थाश्रमं वानप्रस्थाश्रमं परिव्राजकाश्रमं वा सम्यग् आस्थायेत्य् अर्थः । यस् तेषां ब्रह्मसंस्थो ब्रह्मनिष्ठो ज्ञानी अमृतत्वं मोक्षम् एति गच्छतीति । ततश् च सर्वेषाम् अपि ब्रह्मलोकप्राप्तिप्रतिपादनात्, तुल्यफलतैवोक्ता । तथा जाबालश्रुताव् अपि तुल्यफलतैव श्रूयते- “ब्रह्मचर्यं समाप्य गृही भवेत् । गृही भूत्वा वनी भवेत् । वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेत् गृहाद् वा वनाद् वा ब्रह्मलोकं गच्छति” [जाबुप् ४ ] इति । मनुर् अप्य् आह ।
सर्वे ऽपि क्रमशस् त्व् एते यथाशास्त्रं निषेविताः ।
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ इति । [म्ध् ६.८८]
अत्रापिशब्दाद् एको ऽपि द्रष्टव्यः । आपस्तम्बो प्य् आह- “चत्वार आश्रमा गार्हस्थ्यम् आचार्यकुले वसनं मौनं वानप्रश्थ्याम् इति । तेषु सर्वेषु यथोपदेशम् अव्यग्रं वर्तमानः क्षेमं गच्छति” [आप्ध् २.२१.१–२] इति । तेन तुल्यफलत्वाद् विकल्प इति ।
ननु तुल्यत्वे सति ब्रह्मचर्येणैवोभयविधफलप्राप्तेर् इतराश्रमविधानानर्थक्यप्रसङ्गः इति ।
उच्यते – यो यस्यानुष्ठाने समर्थः तस्य तदाश्रमप्रतिपत्त्यर्थम् इतराश्रमविधानम् इति । जन्मान्तरवासनया वा इष्टाश्रमप्रतिपत्त्यर्थम् । श्रुतिर् अपि- “तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च” [बृआरुप् ४.४.२] इति । यावज्जीवश्रुतिर् अपि गृहस्थस्यार्थिनः शक्तिविषये द्रष्टव्या । एवं गृहीते व्युत्थानश्रुतिर् अप्य् उपपद्यते- “एतं वै तम् आत्मानं विदित्वा पुत्रेषणायाश् च वित्तेषणायाश् च लोकेषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति” [बृआरुप् ३.५.१] इति । इतरथा हि भिक्षाचर्यम् इति सन्न्यासोपदेशो नोपपद्यत इति । जायमानश्रुत्यापि यज्ञादीनाम् अवश्यकर्तव्यता प्रतिपाद्यते गृहस्थस्य, न तु जायमानस्यैव, ऋणत्रयसम्बन्धस्यात्यन्तासम्भवात् “ब्रह्मचर्याद् एव प्रव्रजेत्” [जाबुप् ४] इति श्रुतिविरुद्धत्वात्, “सो ऽत एव ब्रह्मचर्यात् प्रव्रजति” [आप्ध् २.२१.८] “यम् इच्छेत् तम् आवसेत्” [वध् ७.३] इत्यादिस्मृतेर् अविरुद्धत्वाच् च, अर्थवादानां च कार्यशेषत्वात् । ततश् च पदार्थो ऽप्य् एवं ग्रहीतव्यः । गृहस्थो जायमानः पूर्ववासनया गार्हस्थ्यं प्रविष्टः । ब्राह्मणग्रहणं क्षत्रियवैश्ययोर् उपलक्षणम् । त्रिभिः ऋणैः सम्बध्यते- यज्ञेन देवेभ्य ऋणी भवति, अतो यज्ञः कर्तव्यः । प्रजया पितृभ्यः, अतः प्रजोत्पादनं कर्तव्यम् । ब्रह्मचर्येण ऋषिभ्यः, अतः पर्वादौ ब्रह्मचर्यरक्षणं कर्तव्यम् इति । एवं गृहीते सर्वत्र श्रुतिस्मृत्योर् अविरोधो भवति । एकेग्रहणान् न तु गौतमः, तस्य तु समुच्चयो मतः । कथम् अवगम्यते “ऐकाश्रम्यं त्व् आचार्याः” [ग्ध् ३.३६] इति बाधपक्षस्यापि परमतत्वेन निर्देशात्, “प्रागुत्तमात् त्रय आश्रमिणः” [ग्ध् २८.४९] इति च लिङ्गात्, प्रागुत्तमाश्रमात् त्रयस्याभावात् । विकल्पपक्षे गौतमस् तावद् एवं मन्यते ।
यज्ञेन देवान् आप्नोति वैराजं तपसा पुनः ।
सन्न्यासाद् ब्रह्मणः स्थानं वैराग्यात् प्रकृतौ लयम् ॥
इति भिन्नफलत्वेनोपदेशात्, जाबालश्रुताव् अप्य् “अन्यतमम् आरुह्य” इत्य् अनुक्त्वा “एतान् आरुह्य” इति समुच्चयाभिप्रायेणोक्तत्वात्, ब्रह्मलोकप्राप्तेर् अपि समुच्चयफलत्वेनोपदिष्टत्वात्, जाबालश्रुताव् अपि प्राधान्येन पूर्वं समुच्चयपक्षस्यैवाभिहितत्वात्, “सर्वे ऽपि क्रमशः” [म्ध् ६.८८] इत्य् अस्मिन् मनुवाक्ये ऽपि शब्दस्य समुच्चयार्थत्वात्, आपस्तम्बवाक्ये ऽपि “तेषु सर्वेषु” [आप्ध् २.२१.२] इति बहुवचनात्, नैकस्मिन्न् एव वर्तमानः किं तु सर्वेष्व् एव वर्तमान इत्य् अभिप्रायेणोक्तत्वात्, ऋणत्रयश्रुतेर् अपि यथार्थ एवोपपद्यमानत्वात्, “पूर्वप्रज्ञा च” इति श्रुतेर् अपि विद्याभिप्रायेणोपपद्यमानत्वात्, यावज्जीवश्रुतेर् अपि “गृही वनं प्रविशेद् यदि गृहम् एव कामयेत तदा यावज्जीवम् अग्निहोत्रं जुहुयात्” इति जाबालश्रुतिवाक्ये अनित्यत्वदर्शनात्, अस्मिन् पक्षे व्युत्थानश्रुतेर् अपि सुतराम् उपपद्यमानत्वात्, “चतुर्थम् आयुषो भागं” [म्ध् ४.१] इत्यनेनापि मनुना समुच्चयपक्षम् एवाश्रित्योक्तत्वात्, समुच्चयपक्ष एव श्रेयान् इति । अत एव विकल्पबाधपक्षौ परमतत्वेनोपन्यस्तौ । एवं च “यम् इच्छेत् तम् आवसेत्” [वध् ७.३] इत्यादिवाक्यानि विकल्पाचार्यदर्शनेनोक्तानीति द्रष्टव्यानि । असमर्थो यः समुच्चयानुष्ठाने अन्धपङ्गुत्वादिदोषेण निःस्वत्वादिना वा तेन विकल्पपक्षो ऽप्य् आश्रयणीयः इत्य् अभिप्रायेण ब्रुवत इत्य् अर्थसिद्धस्याप्य् उपन्यासः ।
अथ वा यो ऽध्यात्मज्ञानी तेन विकल्पपक्ष आश्रयणीयः, इतरेण समुच्चयपक्ष इति । कुतः? अनुष्ठानस्य विज्ञानोत्पत्तिः प्रयोजनम् । तस्मिन्न् उत्पन्ने यत्र क्वाप्य् आश्रमे स्थितस्य पुरुषार्थः सिध्यतीति । आश्रमग्रहणं संव्यवहारार्थं “वर्णान् आश्रमांश् च” [ग्ध् ११.९] इत्यादौ ॥ ३.१ ॥
के पुनस् त आश्रमा इत्य् अत आह ।
** ब्रह्मचारी गृहस्थो भिक्षुर् वैखानसः ॥ ३.२ ॥**
ब्रह्मचर्यं चरतीति, ब्रह्मण एव वा विषये निःस्पृहश् चरतीति, ब्रह्मचारी । गृहं पत्नी, तत्संयोगाद् गृहस्थः । भिक्षाशीलत्वाद् भिक्षुः । विखनसा प्रोक्तं शास्त्रं वैखानसम्, तद्विधिना वर्तत इति वैखानसः । विसमास एषाम् एव पृथक्त्वज्ञापनार्थः । यथाह उशना- “द्वौ ब्रह्मचारिणाव् उपकुर्वाणो नैष्ठिकश् चेति, द्वौ वैखानसौ सपत्नीको विपत्नीकश् चेति, द्वौ सन्न्यासिनौ भिक्षुसन्न्यासी वेदसन्न्यासी चेति, बहुधा गृहस्थः शालीनयायावरादिभेदेन” इत्यादि ।
ननु च स्मृत्यन्तरे वैखानसम् अभिधाय भिक्षुर् इत्य् उक्तः । इह किम् अर्थं क्रमभेद इति ।
उच्यते – “प्रागुत्तमास् त्रय आश्रमिणः” [ग्ध् २८.४९] इत्य् अत्र वैखानसवर्जनार्थः क्रमभेदः । तस्य ग्रामप्रवेशनप्रतिषेधाद् एव सिद्धम् इति चेत्, न, अर्थिनाम् अरण्यगमनस्यापि सम्भवात् । तथा च स्मृत्यन्तरम् ।
चातुर्वैद्यो विकल्पी च नैरुक्तो धर्मपाठकः ।
ब्रह्मचारी गृही भिक्षुः पर्षद् एषा दशावरा ॥ इति ।
केचित् तु ।
प्रजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम् ।
आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेत् गृहात् ॥
इति स्मृत्यन्तरम् अवलम्ब्य गार्हस्थ्याद् एव सन्न्यासः कर्तव्य इत्य् एवमर्थः क्रमभेद इति वर्णयन्ति । तत् पूर्वसूत्रेणैव प्रतिपादितं उत नेति भूसुरैर् विचारणीयम् ॥ ३.२ ॥
** तेषां गृहस्थो योनिर् अप्रजनत्वाद् इतरेषाम् ॥ ३.३ ॥**
चतुर्णाम् अप्य् आश्रमाणां गृहस्थः कारणम्, अप्रजनत्वाद् इतरेषां ब्रह्मचार्यादीनाम् । वैखानसार्था हेतूक्तिः, ब्रह्मचारिणो ब्रह्मचर्यरक्षणाद् एव सिद्धत्वात्, भिक्षोर् अप्य् ऊर्ध्वरेतस्त्वविधानात् । एवं च वैखानसस्य सपत्नीकत्वपक्षे ऽपि ब्रह्मचर्यरक्षणं कर्तव्यम् । अधिकाराद् एव सिद्धे तेषाङ्ग्रहणं गृहस्थोत्पन्नानाम् एव तेषां धर्मे आधिकार इत्य् एवमर्थम् । तथा च शातातपः ।
चण्डालाः प्रत्यवसिताः परिव्राजकतापसाः ।
तेषां जातान्य् अपत्यानि चण्डालैः सह वासयेत् ॥ इति ।
“तेषां गृहस्थ एव योनिर्” इत्य् उक्ते एवकाराद् एवेतरेषां ब्रह्मचर्यरक्षणे सिद्धे एवम् अभिधानम् एषां पुनर् निवृत्तिर् मा भूद् इति । यदि ते गार्हस्थ्यं प्रति निवृत्तिं भवेयुः तदा ते चण्डाला भवन्ति । कुतः? उदाहृतशातातपवचनात् । तत्र – चण्डाला भवन्ति । प्रत्यवसिताः प्रतिनिवृत्ताः ये परिव्राजकतापसाः नैष्ठिकवैखानसाः तस्मात् तेषां जातान्य् अपत्यानि चण्डालैः सह वासयेद् राजा ग्रामो वेत्य् अर्थः ॥ ३.३ ॥
इदानीम् आश्रमधर्मेषु क्रमेण वक्तव्येषु प्राप्तेषु सर्वाश्रमसाम्याद् उपकुर्वाणस्य पूर्वम् उक्त्वा नैष्ठिकस्य क्रमेण प्राप्तं वक्तुम् आह ।
** तत्रोक्तं ब्रह्मचारिणः ॥ ३.४ ॥**
तत्रोपनयनप्रकरेण यद् अग्नीन्धनाद्य् उक्तं तद् अस्यापि भवतीत्य् अतिदेशः ।
ननु च नैष्टिकस्यैवेदं नोपकुर्वाणस्येति कथं ज्ञायत इति ।
उच्यते – उपकुर्वाणस्योक्तत्वात्, गृहस्थभिक्षुवैखानसानां वक्ष्यमाणत्वात्, नैष्टिकस्यैव भवतीति ।
तर्हि ब्रह्मचारिग्रहणं किम् अर्थम् इति चेत्, येनोपकुर्वाणव्रतम् अनुष्ठितं तस्यैव नैष्ठिकत्वस्याधिकार इत्य् एवमर्थम् ॥ ३.४ ॥
अतिदेशात् उपकुर्वाणव्रतम् एव नैष्ठिकस्याप्य् अनुष्ठातव्यम् इत्य् उक्त्वा इदानीम् अस्य विशेषविधिम् आह ।
** आचार्याधीनत्वम् आन्तम् ॥ ३.५ ॥ **
आचार्यपारतन्त्र्यं तच्चित्तानुविधायित्वं आ मरणात् कर्तव्यम् ॥ ३.५ ॥
किं च ।
** गुरोः कर्मशेषेण जपेत् ॥ ३.६ ॥**
गुरुशुश्रूषातिरिक्तकाले जपं कुर्यात् । एवं च जप एवास्य विशिष्टं धर्मसाधनम् इति । आचार्य इति प्रकृते गुरुग्रहणं मातापित्रोर् अपि शुश्रूषाप्रापणार्थम् । तथा च मनुः ।
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
न तैर् अनभ्यनुज्ञातो धर्मम् अन्यं समाचरेत् ॥ [म्ध् २.२२९]
इति ॥ ३.६ ॥
** गुर्वभावे तदपत्ये वृत्तिः ॥ ३.७ ॥**
गुरोर् अभावे तदपत्ये शुश्रूषा, अध्यापयितुर् अभावे तदपत्ये शुश्रूषेति नियमार्थम् । गुरुग्रहणं समानजातीयापत्यग्रहणार्थम् । अपत्यग्रहणं भार्यानिवृत्त्यर्थम्
॥ ३.७ ॥
** तदभावे वृद्धे सब्रह्मचारिण्य् अग्नौ वा ॥ ३.८ ॥**
तदभावे गुरुपुत्राभावे विद्यादिभिर् वृद्धे, तदभावे सब्रह्मचारिणि समानचरणे, तदभावे अग्नौ । अग्नेः शुश्रूषा ज्योतीरूपस्याग्नेर् ध्यानम् ॥ ३.८ ॥
किं पुनर् अस्याश्रमस्य फलम् इत्य् अत आह ।
** एवंवृत्तो ब्रह्मलोकम् अवाप्नोति जितेन्द्रियः ॥ ३.९ ॥**
एवं यथोपदेशं वर्तमानो ब्रह्मलोकं ब्रह्मणः स्थानम् अवाप्नोति, स चेज् जितेन्द्रियो भवति । ब्रह्मचर्यरक्षणोपदेशात् उपस्थेन्द्रियस्योक्तत्वात् इदं चक्षुरादिविषयं द्रष्टव्यम् । यथाह मनुः ।
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ इति । [म्ध् २.९८]
उत्तरेषाम् अप्य् एतद् एव प्रधानम् इत्य् एवमर्थं फलावसाने विधानम् ॥ ३.९ ॥
इदानीम् अन्येषाम् अपि सामान्यधर्मम् आह ।
** उत्तरेषां चैतद् अविरोधि ॥ ३.१० ॥**
यद् ब्रह्मचारिण उक्तं तद् उत्तरेषाम् अपि भवति, यद् अविरुद्धं द्यूतादिवर्जनम् । यद् विरुध्यते तद् व्यावर्तते, यथाग्निकार्यं प्रव्रजितस्य, गुरुकुलवासो वैखानसस्य, गृहस्थस्य ब्रह्मचर्यरक्षणम् । चशब्दः उत्तरस्य यद् वक्ष्यमाणं तद् अप्य् अविरुद्धं पूर्वेषाम् अपि भवतीति ज्ञापयति, यथा “न म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेत” [ग्ध् ९.१७] इत्यादि ॥ ३.१० ॥
** अनिचयो भिक्षुः ॥ ३.११ ॥**
इदानीं क्रमप्राप्तस्य गृहस्थस्य धर्मा वक्तव्याः, तान् विलङ्घ्य किमर्थं भिक्षोर् अभिधीयत इति चेत्, अत्रोच्यते-– बहुवक्तव्यो गृहस्थः । तस्याभिधीयमानाः धर्माः अविरुद्धाः केचित् कथं नाम पूर्वेषां स्युर् इति तदर्थं व्युत्क्रमेणाभिधानम् । तर्हि वैखानसस्य वक्तव्य इति चेत्, उपन्यासक्रमेणोक्तत्वाद् अदोषः ।
अतो भिक्षोस् तावद् उच्यते । अनिचयशब्देनौपचयिकद्रव्यस्य त्याग उच्यते, न नित्यद्रव्यस्य शिखायज्ञोपवीतादेः ।
ननु च नित्यस्यैव त्यागो युक्तः । उपवीतशब्देन न्यासविशेषो ऽभिधीयते –
उद्धृते दक्षिणे पाणाव् उपवीत्य् उच्यते बुधैः । इति । [म्ध् २.६३]
यज्ञार्थम् उपवीतं यज्ञोपवीतम् । अस्य यज्ञाधिकाराभावात् ।
न कुण्ड्यां नोदके सङ्गो न चेले न त्रिपुष्करे ।
नागारे नासने नान्ने यस्य स्यान् मोक्षवित् तु सः ॥ [वध् १०.२३]
इति कुण्ड्यादीनां त्यागोपदेशात् । जाबालश्रुताव् अपि- “नखानि निकृत्य यज्ञोपवीतं विसृज्य” इति यज्ञोपवीतस्य त्यागोपदेशाच् चेति ।
उच्यते – प्रथमं तावद् यद् उक्तं यज्ञाधिकाराभावात् इति तत्र यागशब्दो देवपूजनादाव् अपि वर्तते । देवपूजनं त्व् अस्य ध्यानेन परमात्मपूजनाम् अस्त्य् एव । कुतः?
अरण्यनित्यस्य जितेन्द्रियस्य
सर्वात्मकप्रीतिनिवर्तकस्य ।
अध्यात्मचिन्तागतमानसस्य
ध्रुवा ह्य् अनावृत्तिर् उपेक्षकस्य ॥ [वध् १०.१७]
इति स्मृत्यन्तरदर्शनात्, आत्मयाग एवाधिकारात् । तथा च श्रूयते श्रुतौ- “धर्माधर्मौ हविर् मनः स्रुवः प्राणो ऽध्वर्युर् इन्द्रियाण्य् उद्गातारः शब्दादयो होता एतै ऋत्विग्भिस् तेन स्रुवेण तद् धविर् अहर् अहर् यतिना परमात्मन्य् अग्नौ होतव्यम्” इति । अतो यागाधिकारसद्भावाद् अदोषः । यच् चोक्तम्- “न कुण्ड्यां नोदके सङ्गः” [वध् १०.२३] इति तत्रापि कुण्डिकादीनां वैचित्र्यवर्जनार्थः सङ्गस्यैव परित्यागः, न कुण्डिकादेः । कुतः? तत्रैव “यज्ञोपवीत्य् उदककमण्डलुहस्तः” [वध् १०.३१] इति वक्ष्यमाणत्वात् । तत्र “सर्वाश्रमाणां धर्मिष्ठं” [वध् १०.३०] इति सर्वाश्रमाधिकारात् सामान्यत्वेन वर्तमानो ऽपि विशेषधर्मेण बाध्यत इति चेत्, न, यदि सर्वाश्रमाधिकारस् तत्रेष्यते । तत्र प्रकरणे वाक्यार्थवाक्योच्चारण-घटनार्थं18 “यज्ञोपवीत्युदककमण्डलुहस्तत्वम्” इति भावप्रत्ययेनैवावक्ष्यत् “पैशुनमत्सराभिमानाहङ्कारानार्जवात्मस्तवपरगर्हदम्भ-लोभक्रोधमोहविवर्जनं सर्वाश्रमाणां धर्मिष्ठम्” [वध् १०.३०] इति पूर्वम् उक्त्वा ततश् चाभावप्रत्ययेन विशेषोद्देशेन “यज्ञोपवीत्य् उदककमण्डलुहस्तः” [वध् १०.३१] इति निर्देशः सर्वाश्रमाधिकारनिवृत्त्यर्थ इति ज्ञातुं शक्यते । ततस् तत्र सर्वाश्रमाधिकाराभावात् पूर्वापरविरोधप्रसङ्गो मा भूद् इति “न कुण्ड्यां नोदके सङ्गः” [वध् १०.२३] इति तत्रापि19 सङ्गमात्रस्यैव त्यागः क्रियत इति ग्रहीतुं शक्यत एवेति । तदर्थ एव सङ्गशब्दस्यापि निर्देशः । तस्मात् तेनापि न कुण्ड्यादीनां त्यागः । यच् चोक्तम् – “नखानि निकृत्य यज्ञोपवीतं विसृज्य” इति तत्रापि प्रथमं सन्न्यासाश्रमप्रवेशकाले पुराणस्य यज्ञोपवीतस्य त्यागमात्रं क्रियते, न तदानीं गृह्यमाणस्य प्रतिषेधः । कुतः? “नखानि निकृत्य पुराणं वस्त्रं यज्ञोपवीतं कमण्डलुं त्यक्त्वा नवानि गृहीत्वाश्रमं प्रविशेत्” इति स्मृत्यन्तरश्रवणात् । तस्माद् औपचयिकतद्द्रव्यस्य त्यागः20 ।
किं च – नित्यद्रव्यत्यागे भिक्षोर् आचमनाभावश् च प्राप्नोति, “आचमने यज्ञोपवीति” [आप्ध् १.१५.१] इत्यारम्भात्, तदभावे आचमनस्याप्य् अभावः प्राप्नोतीति ।
“मुण्डः शिखी वा” [ग्ध् ३.२२] इति मुण्डपक्षे आचमनाङ्गशिखावर्जितस्यापि आचमनं युष्माभिर् अभ्युपगम्यते, तद्वद् अस्माभिर् अपीति चेत् –
न, तत्र वचनाद् अदोषः “मुण्डः शिखी वा” [ग्ध् ३.२२] इति । युष्माकं तु यज्ञोपवीतं त्यक्तव्यम् इति वचनाभावाद् दोष एवेति ।
“भिक्षुर् अनिचयः” इति वक्तव्ये धर्मास्यादाव् अभिधानं नित्यस्याग्निहोत्रदारादेर् अपि त्यागार्थम् । एवं च गार्हस्थ्याद् एव यः प्रव्रजेत्, तेन श्रौतस्य च स्मार्तस्य चाग्नेः दारपुत्रप्रपञ्चयज्ञादिसहितस्य त्यागः कर्तव्यः21 । वैखानसाद् एव यः प्रव्रजेत्, तत्रापि सपत्नीकपक्षे प्राप्तस्य दारस्य श्रामणकाग्निसहितस्य विहितस्य22 पञ्चयज्ञादेर् अपि त्यागः कर्तव्यः ।
केचिन् नैष्ठिकस्याप्य् अनिचयत्वविधानार्थम् आदाव् अभिधानम् इति वर्णयन्ति ।
तद् अयुक्तं, “गुरोः कर्मशेषेण जपेत्” [ग्ध् ३.६] इति जपस्यैव प्रधानत्वेनोपदिष्टत्वात्, तेनैवाग्निपरिग्रहादेर् अप्य् अभावो ज्ञातुं शक्यत एवेति ॥ ३.११ ॥
** ऊर्ध्वरेताः ॥ ३.१२ ॥**
“उत्तरेषां चैतद् अविरोधि” [ग्ध् ३.१०] इत्य् अनेन ब्रह्मचारिणः उक्तेन ब्रह्मचर्यरक्षणेनास्यापि सिद्धेर् ऊर्ध्वरेतोग्रहणं यथा यथा रेतसः क्षयो भवति तथा तथोपायः कर्तव्य इत्य् एवमर्थम् । उपायश् चाल्पान्नाभ्यवहारादि । यथा चाह भगवान् वासुदेवः ।
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥ इति । [भ्ग् २.५९]
तथाल्पान्नाभ्यवहाराभिप्रायेण स्मृत्यन्तरे ऽप्य् उक्तम् “अष्टौ ग्रासा मुनेर् भक्षः” [ब्ध् २.१८.१३] इत्यादि । एवं च ब्रह्मचारिणः सम्पूर्णभोजने न दोषः । तथा च स्मृत्यन्तरम् ।
अनड्वान् ब्रह्मचारी च आहिताग्निश् च ते त्रयः ।
भुञ्जाना एव सिध्यन्ति नैषां सिद्धिर् अनश्नताम् ॥ [वध् ६.२१]
इति ॥ ३.१२ ॥
** ध्रुवशीलो वर्षासु ॥ ३.१३ ॥ **
वर्षास्व् इति बहुवचनात् ग्रामाद् ग्रामान्तरं चतुर्षु मासेषु न गच्छेद् इत्य् अर्थः । एकत्रापि वसन् न चङ्क्रमणप्रयासः स्याद् इति शीलग्रहणम् । अनेनैवास्यानिकेतनत्वं सिध्यति । तथा च स्मृत्यन्तरम्- “ग्रामान्ते देवगृहे शून्यागारे वृक्षमूले वा” [वध् १०.१३] इति । शीलग्रहणं च कुर्वन्न् एतत् ज्ञापयति, नावश्यम् एवं भवेत् । ततश् च दुर्भिक्षराष्ट्रभ्रंशादौ गच्छेद् अपीति ॥ ३.१३ ॥
** भिक्षार्थी ग्रामम् इयात् ॥ ३.१४ ॥**
भिक्षा भिक्ष्यमाणत्वाद् अन्नं वासः कमण्डल्वादिः, तदर्थं ग्रामं गच्छेत् । अर्थाच् छेषं कालम् अरण्ये देवायतनादौ तिष्ठेद् इति सिद्धम् ॥ ३.१४ ॥
ब्रह्मचारिभिक्षाकाले प्राप्त आह ।
** जघन्यम् अनिवृत्तं चरेत् ॥ ३.१५ ॥**
जघन्यं भोजनक्रियातः पश्चाद् इत्य् अर्थः । तथा च मनुः ।
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश् चरेत् ॥ इति । [म्ध् ६.५६]
अनिवृत्तं यस्मिन् गृहे प्रत्याख्यातं तस्मिन् दिने तद् ग्रहं पुनर् न प्रविशेद् इत्य् अर्थः । चरेद् इति स्मृत्यन्तरोपसङ्ग्रहणार्थम् । यथाह वसिष्ठः- “विधूमे सन्नमुसले एकशाठीपरिहितो ऽजिनेन वा” [वध् १०.८] इति ॥ ३.१५ ॥
** निवृत्ताशीः ॥ ३.१६ ॥**
भिक्षादानाभिवादनादाव् आशिषाम् अप्रयोक्तेत्य् अर्थः । “हिंसानुग्रहयोर् अनारम्भी” [ग्ध् ३.२५] इत्य् अनेनैवैतल् लभ्यम् इति चेत्, न, क्रियारूपत्वाद् अनुग्रहस्य, वागात्मकत्वाद् आशिषः ॥ ३.१६ ॥
** वाक्चक्षुःकर्मसंयतः ॥ ३.१७ ॥**
ब्रह्मचारिप्रकरणे23 “वाग्बाहूदरसंयतः” [ग्ध् २.२८] इत्य् अनेनैव सिद्धे अतिशयार्थं पुनर्वचनम् । अतो वाक्संयमो मौनम्, अन्यत्र स्वाध्यायजपपथिप्रश्नधर्मयोग-प्रश्नेभ्यः,
धर्मयोगं पथिप्रश्नं स्वाध्यायं च तथैव च ।
भिक्षार्थं देहिवचनं न निन्दति यतेर् अपि ॥
इति स्मृत्यन्तरवचनात् । चक्षुःसंयमः, आत्मनो व्याधेर् अपीक्षणं न कर्तव्यम् । तथा च वसिष्ठः- “उपेक्षकः सर्वभूतानाम्” [वध् १०.२९] इति । कर्मसंयमः यावद्विहितानुष्ठानमात्रं, काम्ये प्रवृत्तिर् मा भूद् इति ॥ ३.१७ ॥
इदानीम् “अनिचयो भिक्षुः” [ग्ध् ३.११] इत्यनेन सर्वस्यौपचयिकद्रव्यस्य परित्यागे सति प्रतिप्रसवः क्रियते ।
** कौपीनाच्छादनार्थं वासो बिभृयात् ॥ ३.१८ ॥**
कौपीनाम् इति नग्नतोच्यते । तदावरणमात्रं वासः परिदध्यात् । एवं च प्रशस्तद्विजातिभ्यस् तावन्मात्रप्रतिग्रहे न दोष । ततश् च,
अभयं सर्वभूतेभ्यो दत्वा यस् तु निवर्तते ।
हन्ति जातान् अजातांश् च प्रतिगृह्णाति यः सदा ॥
इति स्मृत्यन्तरे यद् दोषसङ्कीर्तनं तद् अस्माद् अन्यत्रेति द्रष्टव्यम् ॥ ३.१८ ॥
** प्रहीणम् एके निर्णिज्य ॥ ३.१९ ॥**
एके मन्यन्ते प्रतिग्रहदोषपरिहारार्थं प्रहीणं यद् रथ्यादौ त्यक्तं तत् प्रक्षाल्य परिदध्यात् निर्णिज्येति प्रत्यात्मिकशौचप्रापणार्थम् ॥ ३.१९ ॥
**नाविप्रयुक्तम् ओषधिवनस्पतीनाम् अङ्गम् उपाददीत **
॥ ३.२० ॥
ओषधयः फलपाकान्ताः । अपुष्पेण ये फलवन्तस् ते वनस्पतयः । उभयग्रहणेन सर्वे स्थावरा अपि गृह्यन्ते । तेषाम् अविप्रयुक्तं ततो ऽनपगतं शाखापत्रादि न गृह्णीयात् । “हिंसानुग्रहयोर् अनारम्भी” [ग्ध् ३.२५] इत्य् अनेन सिद्धम् इति चेत्, तत्र जङ्गमवध एव हिंसेति केचिद् वदन्ति । तदभिप्रायेणोक्तत्वाद् अदोषः । उपशब्दात् प्रयोजयितापि न स्यात् ॥ ३.२० ॥
ध्रुवशीलत्वोपदेशाद् वर्षाभ्यो ऽन्यत्र कामचारे प्राप्ते आह।
** न द्वितीयाम् अपर्तु रात्रिं ग्रामे वसेत् ॥ ३.२१ ॥**
ऋतुशब्देन वर्षा एवोच्यन्ते । अपगते ऋतौ द्वितीयां रात्रिं ग्रामे न वसेत् । एकस्मिन् ग्रामे दिनद्वयं न वसेद् इत्य् अर्थः । ग्रामग्रहणाद् अरण्ये न दोषः24 । अपर्तुग्रहणाद् वर्षासु कदाचित् द्वितीयाम् अपि वसतो न दोषः । वर्षाशब्देन हेमन्तग्रीष्माव् उच्येते । ततश् च तस्मिन् वर्षाकाले एकत्रैव वसेद् अन्यत्र न वसेद् इत्य् अर्थसिद्धम् ॥ ३.२१ ॥
** मुण्डः शिखी वा ॥ ३.२२ ॥**
जटिलप्रतिषेधार्थ आरम्भः । इच्छातो विकल्पः ॥ ३.२२ ॥
** वर्जयेद् बीजवधम् ॥ ३.२३ ॥**
बीजानां व्रीह्यादीनां वधं अवहननादि न कुर्यात् ॥ ३.२३ ॥
** समो भूतेषु ॥ ३.२४ ॥**
सर्वप्राणिषु मध्यस्थः स्यात् आत्मपरपक्षविभागवर्जक इत्य् अर्थः ॥ ३.२४ ॥
** हिंसानुग्रहयोर् अनारम्भी ॥ ३.२५ ॥**
ब्रह्मचारिप्रकरणे “हिंसाम्” [ग्ध् २.२३] इत्य् अनेनैव सिद्धे अतिशयार्थम् इदं पुनर्वचनम् । ततश् चाज्ञाते ऽपि प्राणिवधे अहर् अहस् तत्परिहारार्थं प्रायश्चित्तं कर्तव्यम् । तथा चाह उशना- “अज्ञातवधशुद्ध्यर्थं रात्राव् अहस् त्रीन् प्राणायामान् धारयेत्” इति । अनुग्रहशब्देन स्नेह उच्यते । तम् अपि न कुर्याद् इत्य् अर्थः ॥ ३.२५ ॥
भिक्षोर् उक्त्वा इदानीं वैखानसधर्मम् आह ।
** वैखानसो वने मूलफलाशी तपःशीलः ॥ ३.२६ ॥**
वैखानसशब्दः कृतनिर्वचनः । सो ऽरण्ये वसन् मूलाद्यशनशीलः स्यात् । न संस्कृतम् अन्नम् अश्नीयाद् इत्य् अर्थः । तपःशीलः शरीरपरिशोषणशीलः । एवं च मूलफलाद्य् अपि स्वल्पम् एवाश्नीयात् । स्मृत्यन्तरदर्शनात् षोडशकृत्व एव “वानप्रस्थस्य षोडश” [वध् ६.२०] इति ॥ ३.२६ ॥
** श्रामणकेनाग्निम् आधाय ॥ ३.२७ ॥**
श्रामणको नाम वैखानसानां शास्त्रम् । तेनाग्निम् आधाय गृहीत्वा सायं प्रातर् होमं कुर्याद् इति शेषः ॥ ३.२७ ॥
** अग्राम्यभोजी ॥ ३.२८ ॥**
मूलफलम् अपि ग्राम्यं न भक्षयेत् ॥ ३.२८ ॥
** देवपितृमनुष्यभूतर्षिपूजकः ॥ ३.२९ ॥**
ग्राम्यान्नसाधनाः गृहस्थस्य पञ्च महायज्ञाः । अस्य चाग्राम्याहारप्रतिषेधात् तन्निवृत्तिर् मा भूद् इत्य् आरम्भः । तथा च मनुः ।
आरण्यैर् विविधैर् मेध्यैः शाकमूलफलेन वा ।
एतान् एव महायज्ञान् निर्वपेद् विधिपूर्वकम् ॥ [म्ध् ६.५] ॥ ३.२९ ॥
** सर्वातिथिः प्रतिषिद्धवर्जम् ॥ ३.३० ॥**
यावद् अस्य आश्रमं गच्छति तत् सर्वम् अस्यातिथिर् एव । “ब्राह्मणस्यानतिथिर् अब्राह्मणः” [ग्ध् ५.४३] इत्यादिवर्णनियमः सङ्ख्यानियमो वा नास्तीत्य् अर्थः । प्रतिषिद्धाः स्तेनादयः प्रतिलोमजाश् च, तद्वर्जम् ॥ ३.३० ॥
** वैष्कम् अप्य् उपयुञ्जीत ॥ ३.३१ ॥**
विष्कैर् व्याघ्रादिभिर् हतस्य पशोर् मांसं वैष्कम् । तद् उपयुञ्जीत । अपिशब्दो गर्हायाम् । ततश् चापद्य् एवोपयुञ्जीत ॥ ३.३१ ॥
** न फालकृष्टम् अधितिष्ठेत् ॥ ३.३२ ॥**
अरण्ये ऽपि फालकृष्टप्रदेशं नाक्रामेत, आवासं तत्र न कुर्याद् इत्य् अर्थः । आक्रामेद् इति सिद्धे अधितिष्ठेद् इति वचनं प्रमादाद् आक्रमतो दोषाभावज्ञापनार्थम् । कृष्टम् इति सिद्धे फालग्रहणं क्षेत्रसमीपे वासप्रतिषेधार्थम् ॥ ३.३२ ॥
** ग्रामं च न प्रविशेत् ॥ ३.३३ ॥**
अफालकृष्टेनापि मार्गेण जनवासं न प्रविशेत् । चशब्दाद् ग्रामान्तरम् अपि ॥ ३.३३ ॥
** जटिलश् चीराजिनवासाः ॥ ३.३४ ॥**
जटिलः केशी । जटिल एव स्याद् इति नियमार्थ आरम्भः । चीरं दर्भादिनिष्पन्नम् । इदम् अधोवासो द्रष्टव्यम् । अजिनं चर्म । उत्तरीयम् इदम् । तथा च स्मृत्यन्तरम्- “चीरवासा अजिनोत्तरीयश् च” इति ॥ ३.३४ ॥
** नातिसंवत्सरं भुञ्जीत ॥ ३.३५ ॥**
मूलफलम् अपि गतसंवत्सरं न भुञ्जीत । तथा च मनुः- “त्यजेद् आश्वयुजे मासि” [म्ध् ६.१५] इत्यादि । एवं च संवत्सरमात्रनिचयः सिद्धः ॥ ३.३५ ॥
वैखानसस्योक्त्वा इदानीम् एकीयमतेनाश्रमबाधपक्षं वक्तुकाम आह ।
ऐकाश्रम्यं त्व् आचार्याः25** प्रत्यक्षविधानात् गार्हस्थस्य गार्हस्थस्य ॥ ३.३६ ॥**
एकाश्रमे भवम् ऐकाश्रम्यम् । तुशब्दो ऽवधारणे । गार्हस्थस्येति कर्मणि षष्ठी । गार्हस्थ्यम् एवाचार्या इच्छन्ति । कुतः? प्रत्यक्षविधानात् उपलब्धश्रुतिविधानाद् इत्य् अर्थः । यद्य् अपि गृहस्थो भवेद् इत्य् एवं न विहितम्, तथाप्य् अग्निहोत्रादिगृहस्थसाध्यक्रियाविधानात् तस्यैव विधानं द्रष्टव्यम् ॥ ३.३६ ॥
इति मस्करीये गौतमभाष्ये तृतीयो ऽध्यायः
चतुर्थो ऽध्यायः
ब्रह्मचार्यादीनां धर्मा उक्ताः, साम्प्रथं गृहस्थस्य धर्मा वक्तव्या इत्य् अत आह ।
गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्वां यवीससीम् ॥ ४.१ ॥
गृहस्थ इति भाविसञ्ज्ञया व्यपदेशः, स्नातकस्य यावत् पाणिग्रहणं तावद् अविरुद्धस्य गृहस्थधर्मस्य प्रवेशार्थम् । सदृशी जात्या न कुलतः ।
विद्या प्रणष्टा पुनर् अभ्युपैति
जातिप्रणाशे त्व् इह सर्वनाशः ॥
कुलापदेशेन यथाभिपूज्या
तस्मात् कुलीनां स्त्रियम् उद्वहेत ॥
इति26 स्मृत्यन्तरे उत्कृष्टकुलाया एवाधिगमश्रवणात् । भार्यां भरणीयां लक्षणयुक्ताम् इत्य् अर्थः । विन्देत याचेतेत्य् अर्थः । अनन्यपूर्वाम् अन्यस्य वाचाप्य् अदत्ताम् इत्य् अर्थः । यवीयसीम् आत्मनो हीनवयसीम् इत्य् अर्थः ॥ ४.१ ॥
अस्यापवादः ।
असमानप्रवरैर् विवाहः ॥ ४.२ ॥
समानप्रवरत्वं समानार्षेयता, तदभावः असमानप्रवरत्वम्, तैर् अस्मानप्रवरैर् विवाहः कर्तव्यः । असमानपर्वराम् इति वक्तव्ये एवम् अभिधानं यदि मातृपक्षतः सगोत्रा भवति तदानीम् अपि दोषाभावज्ञापनार्थम् । एवं च पितृपक्षत एव सगोत्राप्रतिषेधः । तथा च मनुः ।
असपिण्डा च या मातुर् असगोत्रा च या पितुः । [म्ध् ३.५]
इत्यादि ॥ ४.२ ॥
ऊर्ध्वं सप्तमात् पितृबन्धुभ्यः ॥ ४.३ ॥
पितृबान्धवाः पितुर् मातुलभगिन्यादयः, तेभ्यः सप्तमाद् ऊर्ध्वं विवाहः । अष्टमात् प्रभृति वा विवाहः कर्तव्य इत्य् अर्थः ॥ ४.३ ॥
बीजिनश् च ॥ ४.४ ॥
ऊर्ध्वं सप्तमाद् इत्य् अनुकर्षणार्थश् चकारः । बीजं यत् परक्षेत्रे उप्तं तस्य जातमात्राद् एव । अनेनासमानप्रवरत्वेन प्राप्तौ सत्यां प्रतिषेधः ॥ ४.४ ॥
मातृबन्धुभ्यः पञ्चमात् ॥ ४.५ ॥
ऊर्ध्वं विन्देतेति वर्तते । मातृबान्धवाः मातुलमातृष्वस्रादयः । तत्र पञ्चमाद् ऊर्ध्वं विवाहः कर्तव्यः ॥ ४.५ ॥
इदानीं विवाहविधिम् आह ।
ब्राह्मो विद्याचारित्रबन्धुशीलसम्पन्नाय दद्याद् आच्छाद्यालङ्कृताम् ॥ ४.६ ॥
ब्राह्म इति विवाहसञ्ज्ञा । विद्या त्रयी । चारित्रं चोदितकर्मानुष्ठानम् । बन्धुः प्रशस्ताभिजनः । शीलं धर्म एवाभिमुखत्वम् । सम्पन्नशब्दः प्रत्येकम् अभिसम्बध्यते । आच्छाद्य वस्त्रयुगलेन वरम्, अलङ्कृतां भूषणादिभिः, दद्याद् उदकपूर्वेण । आच्छाद्य अलङ्कृताम् इत्य् उत्तरस्मिन्न् अपि विवाहत्रये द्रष्टव्यम् ॥ ४.६ ॥
**संयोगमन्त्रः प्राजापत्ये सह धर्मश् चर्यताम् **
इति ॥ ४.७ ॥
प्राजापत्य इति विवाहसञ्ज्ञा । तस्मिन् प्राजापत्ये विवाहे संयोगार्थो मन्त्रः संयोगमन्त्रः, तस्मिन् तं प्रदानकाले उक्त्वा दद्यात् । को ऽसौ मन्त्रः । “सह धर्मश् चर्यताम्” इति ॥ ४.७ ॥
> **आर्षे गोमिथुनं कन्यावते दद्याट् ॥ ४.८ ॥**
आर्ष इति विवाहसञ्ज्ञा । तस्मिन् पुर्वं वरेण गोमिथुने दत्ते पश्चाद् आच्छाद्यालङ्कृतां दद्याट्
॥ ४.८ ॥
अन्तर्वेद्य् ऋत्विजे दानं दैवः ॥ ४.९ ॥
अन्तर्वेदीति प्रक्रान्तयज्ञग्रहणार्थम् । “ऋत्विक्श्वशुर” [ग्ध् ५.२८] इत्यादौ क्रियोत्तरकालम् अपि ऋत्विज इति व्यवहारदर्शनात् । नित्यदक्षिणातो ऽधिकम् इति ज्ञापनार्थं दानग्रहणम् । दैव इति विवाहसञ्ज्ञा ॥ ४.९ ॥
**अलङ्कृत्येच्छन्त्याः स्वयं संयोगो गान्धर्वः **
॥ ४.१० ॥
अलङ्कृत्य स्वयम् एवात्मानम्, वक्ष्यति – “उत्सृज्य पित्र्यान् अलङ्कारान्” [ग्ध् १८.२१] इति तद्विषयम् एतद् इति । कामयमाना स्वयम् एव वरेण संयुज्येत, स गान्धर्वो विवाहः ॥ ४.१० ॥
वित्तेनानतिः स्त्रीमताम् आसुरः ॥ ४.११ ॥
यत्र धनदानेनानमनं कन्यावतां क्रियते, स आसुरो नाम विवाहः । कन्यावताम् इति वक्तव्ये स्त्रीग्रहणं कन्यादानफलनिवृत्त्यर्थम् ॥ ४.११ ॥
प्रसह्यादानाद् राक्षसः ॥ ४.१२ ॥
यत्र विक्रमेणादानं स राक्षसः ॥ ४.१२ ॥
असंविज्ञातोपसङ्गमनात् स पैशाचः ॥ ४.१३ ॥
यत्राज्ञाताम् कन्यां सुप्तां मत्तां प्रमत्तां वा अन्यव्यापारे वा सक्ताम् उपगच्छति, स पैशाचो नाम विवाहः । उपगमनशब्द उपगमनार्थेष्व् आलिङ्गनादिषु द्रष्टव्यः, क्षतयोन्याः संस्काराभावात् । तथा च मनुः ।
पाणिग्रहणिका मन्त्राः कन्यास्व् एव प्रतिष्ठिताः ॥ [म्ध् ८.२२६] इति ॥ ४.१३ ॥
** चत्वारो धर्म्याः प्रथमाः ॥ ४.१४ ॥**
आद्याश् चत्वार एव धर्माद् अनपेताः । आद्या इति वक्तव्ये प्रथमग्रहणं यो यः प्रथमः स स प्रशस्त इत्य् एवमर्थम् । ततश् च पूर्वस्य पूर्वस्याभाव एव उत्तरोत्तरो द्रष्टव्यः
॥ ४.१४ ॥
षड् इत्य् एके ॥ ४.१५ ॥
एके तु27 गान्धर्वासुराव् अपि धर्म्यौ मन्यन्ते । तथा च वसिष्ठः- “षड् विवाहाः ब्राह्मो दैव आर्षो गान्धर्वः क्षत्रो मानुषः” [वध् १.२८] इति । एवं च राक्षसपैशाचाव् अप्य् अत्यन्तनिकृष्टौ चोदनासामर्थ्यात् पूर्वासम्भवे द्रष्टव्यौ ॥ ४.१५ ॥
इदानीं तासु जातानां पुत्राणां विशेषार्थम् आह ।
अनुलोमाः अनन्तरैकान्तरद्व्यन्तरासु जाताः सवर्णाम्बष्ठोग्रनिषाददौष्यन्तपारशवाः ॥ ४.१६ ॥
अनुलोमाः वर्णानुपूर्व्येणोत्पन्नाः । ब्राह्मणस्यानन्तरा क्षत्रिया, एकान्तरा वैश्या, द्व्यन्तरा शूद्रा, क्षत्रियस्यानन्तरा वैश्या, एकान्तरा शूद्रा, तस्य द्व्यन्तरा नास्ति । वैश्यस्यानन्तरा शूद्रा, एकान्तरा तस्य नास्ति । ततश् च ब्राह्मणेनानन्तरायां जातः सवर्णः । क्षत्रियेणानन्तरायां जात अम्बष्ठः । वैश्येनानन्तरायां जात उग्रः । ब्राह्मणेनैकान्तरायां जातः निषादः । क्षत्रियेणैकान्तरायां जातो दौष्यन्तः । ब्राह्मणेन द्व्यन्तरायां जातः पारशवः ॥ ४.१६ ॥
प्रतिलोमाः सूतमागधायोगवक्षत्तृवैदेहकचण्डालाः ॥ ४.१७ ॥
प्रातिलोम्येनोत्पन्नाः प्रतिलोमाः । तास्व् अनन्तरैकान्तरद्व्यन्तरास्व् एव । क्षत्रियस्यानन्तरा ब्राह्मणी, वैश्यस्यानन्तरा क्षत्रिया, शूद्रस्यानन्तरा वैश्या । वैश्यस्यैकान्तरा ब्राह्मणी, शूद्रस्य क्षत्रिया । शूद्रस्य द्व्यन्तरा ब्राह्मणी । क्षत्रियस्यानन्तरायां जातः सूतः । वैश्यस्यानन्तरायां जातो मागधः । शूद्रस्यानन्तरायां जात आयोगवः । वैश्यस्यैकान्तरायां जातः क्षत्ता । शूद्रस्यैकान्तरायां जातो वैदेहकः । शूद्रस्य द्व्यन्तरायां जातश् चण्डालः । एवं तावद् गौतममतम् ॥ ४.१७ ॥
इदानीम् अन्येषां मतेन सञ्ज्ञाभेदम् आह ।
ब्राह्मण्य् अजीजनत् पुर्त्रान् वर्णेभ्य आनुपूर्व्यात् ब्राहणसूतमागधचण्डालान् ॥ ४.१८ ॥
ब्राह्मणी जनितवती ब्राह्मणादिभ्यो वर्णेभ्य आनुपूर्व्यात् ब्राह्मणाद् ब्राह्मणम्, क्षत्रियात् सूतम्, वैश्यान् मागधम्, शूद्राच् चण्डालम् । संसारस्यानादित्वप्रदर्शनाऋथम् अजीजनद् इति भूतनिर्देशः ॥ ४.१८ ॥
तेभ्य एव क्षत्रिया मूर्धावसिक्तक्षत्रियधीवर-पुल्कसान् ॥ ४.१९ ॥
अजीजनद् आनुपूर्व्येणेति च वर्तते । तेभ्य एव ब्राह्मणादिभ्यः आनुपूर्व्यात् क्षत्रिया अजीजनत् जनितवती । क्षत्रियायां ब्राह्मणाज् जातो मूर्धावसिक्तः । क्षत्रियायां क्षत्रियाज् जातः क्षत्रियः । वैश्यात् क्षत्रियायां जातो धीवरः । शूद्रात् क्षत्रियायां जातः पुल्कसः ॥ ४.१९ ॥
तेभ्य एव वैश्या भृज्यकण्ठमाहिष्यवैश्य-वैदेहकान् ॥ ४.२० ॥
अजीजनद् आनुपूर्व्येणेति वर्तते । एवं वैश्यायां ब्राह्मणाज् जातो भृज्यकण्ठः । वैश्यायां क्षत्रियाज् जातो माहिष्यः । विश्यायां वैश्याज् जातो वैश्यः । वैश्यायां शूद्राज् जातो वैदेहकः
॥ ४.२० ॥
पारशवयवनकरणशूद्रान् शूद्रयेत्य् एके ॥ ४.२१ ॥
एतेभ्य एवानुपूर्व्याज् जनितवती । शूद्रायां ब्राह्मणाज् जातः पारशवः । क्षत्रियाज् शूद्रायां जातो यवनः । वैश्याच् छूद्रायां जातः करणः । शूद्राच् छूद्रायां जातः शूद्र इत्य् एव सञ्ज्ञाभेदेन एके आचार्या वर्णयन्ति । एकीयमतेन सञ्ज्ञाभेदकथनं च देशान्तरेष्व् एतत् सञ्ज्ञोपलब्धाव् अपि न जातिभेदो मन्तव्य इत्य् एवमर्थः ॥ ४.२१ ॥
एषाम् अपि च ।
वर्णान्त्रगमनम् उत्कर्षापकर्षाभ्यां सप्तमेन
॥ ४.२२ ॥
वर्णशब्देनोत्पादकबीजम् उच्यते । यो वर्ण उत्पादकः तद्वर्णः सम्भवेद् इत्य् अर्थः । सप्तमेन युगपरिवर्तनेन । अन्तरशब्देन क्षेत्रम् इत्य् उच्यते । ततश् च क्रमो द्रष्टव्यः, उत्कर्षेणोत्पादकवर्णत्वम् अपकर्षेण क्षेत्रवर्णत्वम् इति । ततः स्त्रीतः उत्कर्षो मन्तव्यः । पुरुषाद् अपकर्षश् च । तद् यथा — ब्राह्मणेन क्षत्रियायां मूर्धावसिक्ता जायते । सापि मूर्धावसिक्ता तत्रोत्कृष्टबीजगुणा ब्राह्मणेनैव दुहितरम् उतकृष्टबीजगुणां जनयति, सापि ब्राह्मणेनैवेत्य् एवं सप्तमे युगे ब्राह्मण्य् एव भवतीत्य् एवम् उत्कर्षः । तथा ब्राह्मणेन क्षत्रियायां मूर्धावसिक्तो जायते । स क्षत्रियया सम्बध्यमानः पूर्ववत् क्षत्रिय एव भवतीत्य् अपकर्षः । एवं शूद्रापत्यादाव् अपि सर्वत्र द्रष्टव्यम् । तथा च मनुः ।
शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते ।
अश्रेयांश् छ्रेयसीं जातिं प्राप्नोत्य् आ सप्तमाद् युगात् ॥
शूद्रो ब्राह्मणताम् एति ब्राह्मणश् चैति शूद्रताम् ।
क्षत्रियाज् जातम् एवं च विद्याद् वैश्यात् तथैव च ॥ [म्ध् १०.६४–६५]
इति ॥ ४.२२ ॥
पञ्चमेनाचार्याः ॥ ४.२३ ॥
पञ्चमेनैव युगपरिवर्तनेन वर्णान्तरगमनं भवतीति केचिद् आचार्या वर्णयन्ति । इदम् अपि वृत्तापेक्षया द्रष्टव्यम् ॥ ४.२३ ॥
सृष्ट्यन्तरजानां च ॥ ४.२४ ॥
सृष्टिश् चत्वारा वर्णाः । तदन्तरं मूर्धावसिक्तादिः । तेभ्यो जाताः सृष्ट्यन्तरजाः । वर्णान्तरगमनम् उत्कर्षापकर्षाभ्यां सप्तमेन पञ्चमेनाचार्या इत्य् अनुकर्षणार्थश् चकारः । ततश् च तत्राप्य् अनुलोमप्रतिलोमान् कल्पयित्वा उत्पादकक्षेत्रजात्यन्तरगमणं द्रष्टव्यम् ॥ ४.२४ ॥
प्रतिलोमात् तु धर्महीनः ॥ ४.२५ ॥
तुशब्दो विशेषार्थः, सृष्टेर् अपि प्रतिलोमाज् जातः सूतादिः धर्महीनः तदन्तरे प्रतिलोमाज् जातो विशेषत एवेति । धर्मशब्देनोपनयनं द्रष्टव्यम् । एवं च अनुलोमानाम् उपनयनं सिद्धम् । वेदाध्ययने तु प्रतिषेधो द्रष्टव्यः । कुतः – “अनुलोमानाम् उपनयनम् एव न वेदाध्ययनं न पञ्चयज्ञं नौपासनं नाग्निहोत्रं न समित्कार्यं न सन्ध्योपासनम् उपनयनम् अपि तूष्णीम् एव” इत्यादिस्मृत्यन्तरदर्शनात् ।
केचिच् चकारं न पठन्ति । तेषाम् उत्तरसूत्रात् “शूद्रायां च” [ग्ध् ४.२६] इत्य् अतश् चकारम् अध्याहृत्य योजनीयम् “सृष्ट्यन्तरजानाम्” [ग्ध् ४.२४] इत्य् अस्मिन् सूत्रे ।
अपरे “सृष्ट्यन्तरजानां प्रतिलोमात् तु धर्महीनः” इत्य् एकम् एवेदं सूत्रम् इति व्याचक्षते ।
सर्वत्र व्याख्यानं तुल्यम् एव ॥ ४.२५ ॥
शूद्रायां च ॥ ४.२६ ॥
अनुलोमानाम् अपि शूद्रायां जात उपनयनादिरहितः । एष च सवर्णाम्बष्ठनिषादानाम् एवोपनयनम् । तथा च स्मृत्यन्तरम्- “सवर्णम् उपनीय धर्नुर्वेदं शिक्षयेत्, अम्बष्ठम् उपनीय वैद्यशास्त्रम्, निषादम् उपनीय हस्तिसिक्षां शिक्षयेत्, अन्येषाम् उपनयनाभावः” इति । केचिद् अम्बष्ठायां सवर्णाज् जातम् उपनीय नृत्तं शिक्षयेद् इति वर्णयन्ति । उग्रादयो वृत्तिविशेषेण ज्ञातव्याः । उग्रो हन्ता व्यालमृगादीनाम्, दौष्यन्तो मत्स्यघातकः, पारशवो भद्रकालीपूजकः, सूतो हयशिक्षकः, मागधो वणिक्पथसेवी, पट्टकृद् आयोगवः, क्षत्ता चाक्रिकः, स एव लवणविक्रेता, वैदेहको ऽजपालः इत्यादि ॥ ४.२६ ॥
असमानायां च शूद्रात् पतितवृत्तिः ॥ ४.२७ ॥
उत्कृष्टजातायां शूद्राज् जातः पतितवत् स्पर्शनप्रतिग्रहादौ वर्जनीय इत्य् अर्थः ॥ ४.२७ ॥
अन्त्यः पापिष्ठः ॥ ४.२८ ॥
शूद्रेण ब्राह्मण्यां जातः पापतमः । अतः सो ऽत्यन्तं परिहर्तव्यः । तथा च स्मृत्यन्तरम्- “चण्डालमागोवालव्यजनाद् गच्छेत्” इत्यादि ।
तत्रानुलोमानाम् उपनयनविधानात्, अन्यायेनोत्पन्नानां तदयोग्यत्वात् यद्य् अपि “सदृशीं भार्यां विन्देत” [ग्ध् ४.१] इत्य् अत्र समानजातिष्व् एव चोदितः, तथापि प्रथमनिविष्टस्य निकृष्टजातिष्व् अपि क्रमेण विवाहो ऽस्तीति ज्ञापयति । तथा च वसिष्ठः- “तिस्रो ब्राह्मणस्य भार्या वर्णानुपूर्व्येण द्वे राजन्यस्य एकैका वैश्यशूद्रयोः” [वध् १.२४] इति । “प्रतिलोमशूद्राभ्यां जातो धर्महीनः” इति वक्तव्ये “शूद्रायां च” [ग्ध् ४.२६] इति पृथक् सूत्रकरणात् शूद्राविवाहस्यापि कथञ्चिद् योग्यतां दर्शयति । ततश् च प्रथमम् उत्तमजातिषूत्पन्नपुत्रस्य कामिनः शूद्राविवाहो ऽपि मन्त्रवर्जो द्रष्टव्यः । तथा च वसिष्ठः- “शूद्राम् अप्य् एके मन्त्रवर्जम्” [वध् १.२५] इति । तत्रापिशब्दस्य निन्दार्थत्वाद् उत्पन्नपुत्रस्येति तत्रार्थः । “प्रतिलोमात् तु धर्महीनः” [ग्ध् ४.२५] इत्य् अनेन निकृष्टस्योत्तमाविवाहाभावं दर्शयति । तथा च वसिष्ठः ।
छन्नोत्पन्नास् तु ये केचित् प्रातिलोम्यगुणाश्रिताः ।
गुणाचारपरिभ्रंशात् कर्मभिस् तान् विजानीयुः ॥ [वध् १८.७]
इत्यादि । छन्नोत्पन्नत्वेन प्रातिलोम्येन विवाहाभाव उक्त इति तत्रार्थः ॥ ४.२८ ॥
विवाहविधिं च पुत्रोत्पादनं चोक्त्वा इदानीं विवाहस्तुत्यर्थम् आह ।
पुनन्ति साधवः पुत्राः ॥ ४.२९ ॥
पुनन्ति दुःखाद् रक्षन्तीत्य् अर्थः । तथा च व्यासः ।
पुद् इति नरकस्याख्या दुःखं च नरकं विदुः ।
पुदि त्राणात् ततः पुत्रम् इहेच्छन्ति परत्र च ॥ इति ।
साधवः विवाहेनैवोत्पन्नाः तस्माज् जारत्वेन वा प्रातिलोम्येन वा पुत्रोत्पादनं न कर्तव्यम् । पुत्राः शिक्षिताः । कुतः? “तस्मात् पुत्रम् अनुशिष्टं लोक्यम् आहुः” [बृआरुप् १.५.१७] इति श्रुतेः
॥ ४.२९ ॥
त्रिपुरुषम् आर्षात् ॥ ४.३० ॥
आर्षविवाहोढाया जातः पित्रादिपुरुषत्रयं नरकाद् उद्धरतीत्य् अर्थः ॥ ४.३० ॥
दश दैवात् ॥ ४.३१ ॥
दैवविवाहोत्पन्नो दश पुरुषम् ॥ ४.३१ ॥
** दशैव प्राजापत्यात् ॥ ४.३२ ॥**
उभयत्र दशेति मा भूद् इत्य् एवमर्हं “प्राजापत्याच् च” इति नोक्तम् । एवशब्दो विस्पष्टार्थः
॥ ४.३२ ॥
दश पूर्वान् दशापरान् आत्मानं च ब्राह्मीपुत्रो ब्राह्मीपुत्रः ॥ ४.३३ ॥
ब्राह्मविवाहेनोत्पन्नो ब्राह्मः पुत्रः । अतिक्रान्तान् दश भविष्यांश् च दश पुनाति । उपन्यासक्रमं विहाय व्युत्क्रमेण फलाभिधानं कन्यादातुर् अपि प्रतिफलभूयस्त्वदर्शनार्थम्, यथा जाबालश्रुतिः- “यः सम्पन्नाय पुत्रीं दद्यात् सो ऽग्निष्टोमफलम् अवाप्नोति” इति । तथा कौषीतकब्राह्मणम् अपि- “तस्य पुत्रा दायम् उपयन्ति सुहृदः साधुकृत्या द्विषन्तः पापकृत्याम्” इति ॥ ४.३३ ॥
इति मस्करीये गौतमभाष्ये पौराणिके चतुर्थो ऽध्यायः
पञ्चमो ऽध्यायः
अपत्योत्पादनार्थं कर्मार्थं च भार्यापरिणयनम् उक्तम् । तत्र पूर्वम् अपत्योत्पादनविधिम् आह ।
ऋताव् उपेयात् ॥ ५.१ ॥
ऋतुर् गर्भग्रहणसामर्थ्येन स्त्रीगतेनोपलक्षितः कालः षोषशाहोरात्रः । तथा च मनुः ।
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिर् इतरैः सार्धम् अहोभिः सद्विगर्हितैः ॥ इति । [म्ध् ३.४६]
तस्मिन् उपेयाद् उपगच्छेत्, प्रकृतां भार्याम्, प्रहर्षयन् न तु पशुवत्, उपोपसर्गयोगात् ।
नायं विधिः, कामत एवार्थप्राप्तत्वात् । नापि नियमः । को ऽसौ नियमः?28 पक्षे प्राप्तस्य पुनर्वचनं नियमः, इच्छातः प्रवृत्तिः, ऋतौ गमने चागमने च प्राप्ते ऋताव् उपेयाद् एवेति । अस्मिन् पक्षे गृहीते अनृतौ न विधिर् न प्रतिषेध इति प्रवृत्तिर् एव भवति मरीचादिवत् । मरीचं भक्षयेन् न भक्षयेद् इति न क्वचिद् धर्मशास्त्रे श्रूयते । तथापि शिष्टा भक्षयन्ति, तद्वद् अत्रापि प्रवृत्तिर् एव भवतीति “सर्वत्र वा” [ग्ध् ५.२] इत्य् अस्यानारम्भः प्राप्नोति, अगमने प्रायश्चित्तं च ।
ननु चोभयम् अपीष्यते, “यत्र तु प्रीत्युपलब्धितः प्रवृत्तिः न तत्र शास्त्रम् अस्ति, तदनुवर्तमानो नरकाय राध्यति” इतीच्छातः प्रवृत्तौ नरकपातश्रवणात्, तन्निवारणार्थः “सर्वत्र वा” [ग्ध् ५.२] इत्य् अस्यारम्भः । स्मृत्यन्तरे अगमने प्रायश्चित्तं श्रूयते ।
ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । [=ब्ध् ४.१.१८]
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ इति ।
नैतद् एवम् । “यत्र तु प्रीत्युपलब्धितः प्रवृत्तिः” इत्यादेस् तावद् अयम् अर्थः । यत्र यस्मिन्न् अनुष्ठाने प्रीत्युपलब्धितः प्रवृत्तिः फलं ज्ञात्वा तत्प्रीत्या प्रवृत्तिः, फलाभिसन्धिना प्रवृत्तिर् इत्य् अर्थः । तस्यां प्रवृत्तौ न शास्त्रम् अस्ति अत्यन्तं न फलतीत्य् अर्थः । तदनुवर्तमानः फलाभिसन्धिनानुष्ठानं कुर्वन् नरकाय राध्यति नरकं गच्छतीति । सन्ध्योपासनादेः फलाभिसन्धित्यागेनानुष्ठानार्थम् इदं वचनम् । तथा च भगवान् वासुवेवः “मा कर्मफलहेतुर् भूः” [भ्ग् २.४७] इत्यादि । यदि सर्वत्र प्रीतिप्रवृत्तिनिवारणं स्यात् तदानीं मरीचादीनाम् अपि शास्त्रं वक्तव्यम्, शास्त्रेण विना नरकपतनं भवतीति । तस्मात् “सर्वत्र वा” [ग्ध् ५.२] इत्य् एतद् अपि शास्त्रेणानुग्रहार्थं न वक्तव्यम् । यच् चोक्तम् “ऋतुस्नातां तु यो भार्याम्” [ब्ध् ४.१.१८] इत्यादि, तद् अपि ऋतुस्नाताया भार्याया आत्मदर्शनार्थं वचनम् । कुतः? जाबालिश्रुतिदर्शनात् । एवं च श्रूयते- “ऋतुस्नाता भार्या यं पूर्वं पश्येत् तादृशं पुत्रं जनयति । तस्मात् सन्निधौ भर्तैव प्रथमम् आत्मानं दर्शयेत्” इति । ततश् चागमने प्रायश्चित्ताभावात् नियमेन दोषाभावः प्राप्नोति । प्राप्तस्य पुनर्वचनं नियम इति येषां पक्षः, तेषां नियमाशङ्कापि नोपपद्यते, ऋतुगमनस्यैव प्राप्त्यभावात्, इच्छातः प्रवृत्तिः सर्वत्र भवतीति ।
तस्मात् परिसङ्ख्यार्थम् इदं सूत्रम् । का च परिसङ्ख्या? तत्र चान्यत्र च प्राप्तौ वचनम् । इच्छातः प्रवृत्तेः ऋताव् अनृतौ च प्राप्तौ सत्याम् ऋताव् एव गमनं कर्तव्यम् इति । इदम् अप्य् अनर्थकम् “सर्वत्र वा” इत्य् आरम्भाद् इति चेत्, न, व्यवस्थितविकल्पार्थत्वात् । व्यवस्था चैव द्रषृटव्या – यदि पुत्रार्थैव प्रवृत्तिः तदानीम् ऋताव् एवोपेयात् । रत्यर्था चेत् “सर्वत्र वा” इत् । ऋणत्रयश्रुत्या पुत्रोत्पादनार्थम् अनुष्ठानार्थं च भार्याग्रहणं न रत्यर्थ्म् इति चेन्, न “रतिपुत्रफला नारी” इति स्मृत्यन्तरदर्शनात्, “या स्याद् अनतिचारेण रतिः सा धर्मसंश्रिता” इति [वध् १२.२३] वासिष्ठदर्शनात्, “स्वदारतुष्ट एव भवेत्” इत्य् औशनसदर्शनात्, “अपि नार्यो विजनिष्यमाणाः पतिभिः सह शयीरन्” इति वाजसनेयश्रुतिदर्शनात्, “विरक्तो भिक्षुर् भवेद् इतरो गार्हस्थ्यं प्रविशेत्” इति च स्मृत्यन्तरदर्शनात्,
कामतस् तु प्रवृत्तानाम् इमा स्युः क्रमशो ऽवराः । [म्ध् ३.१२]
इति मनुदर्शनात्, ऋणत्रयश्रुत्यापि वैकल्पिकाचार्यपक्ष एवानृतौ ब्रह्मचर्योपदेशात् । समुच्चयपक्षे तु यज्ञप्रजाभ्याम् इत्य् उदाहरणत्वेनोपपद्यमानत्वात्, गार्हस्थ्यचोदनायाः स्मृतिविरोधो मा भूद् इति । तस्माद् अनष्टरागस्य रत्यर्थम् अपि दारग्रहणम् अस्त्य् एव । ततश् च यदि जायापती विरक्तौ भवतः गमनं च पुत्रार्थम् एव तदानीम् ऋताव् एवोपेयात् । सरक्तयोः “सर्वत्र वा” इत्य् उपपद्यत इति । तर्हि ऋताव् उपगमनम् अकुर्वतो दोषाभावः प्राप्नोति, स दोष इति चेन्, न अस्माभिर् अपि दोषाभावस्यैवेष्यमाणत्वात् । एवम् अपि पुत्रार्थिन अनृतौ गमनं कुर्वतः प्रायश्चित्तं प्राप्नोति, स दोष इति चेन्, न तस्यैव परिसङ्ख्याफलत्वात् । येषां शास्त्रप्राप्तस्य पुनर्वचनं परिसङ्ख्येति तेषाम् अप्य् उपपद्यते । तद् यथा – “जातपुत्रो ऽग्नीन् आदधीत,” “त्रिभिर् ऋणवान् जायते” इति श्रुतेः, “पुनन्ति साधवः पुत्राः” इति च स्मृतेः । पुत्रोत्पादनार्थं गर्भग्रहणसामर्थ्याद् ऋताव् एव गमने प्राप्ते अनुत्पन्नपुत्रस्य पुनर् इदं वचनम् अनृतुकालीनगमनप्रतिषेधपरं विज्ञायत इति । तस्मात् परिसङ्ख्यैवेयं यद्य् उपेयाद् ऋताव् एवेति ।
ननु यदि पुत्रार्थं गमनं तदा उत्पन्नपुत्रस्य न प्राप्नोति इति ।
उच्यते – बहुपुत्रस्याभीष्टत्वात् । यथाह शङ्खः ।
पुत्रपौत्रप्रतिष्ठस्य बह्वपत्यस्य जीवतः ।
इत्यादि । तथा च श्रुतिः- “दशास्यां पुत्रान् आधेहि पतिम् एकादशं कृधि” इति । तस्मात् परिसङ्ख्यार्थं सूत्रम् इति स्थितम् ॥ ५.१ ॥
सर्वत्र वा प्रतिषिद्धवर्जम् ॥ ५.२ ॥
पर्वादीनि प्रतिषिद्धानि । यथाह मनुः ।
अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥ इति । [म्ध् ४.१२८]
वाशब्दो व्यवस्थितविकल्पार्थः ।
अन्ये तु व्याचक्षते – “ऋताव् उपेयाद्” [ग्ध् ५.१] इत्य् अनेन ऋताव् एव सकृद् गमनं चोद्यते । “सर्वत्र वा” इत्य् अनेन सर्वस्मिन् काले सकृद् गमनम् इति ।
तद् अयुक्तम् “ऋताव् उपेयाद् द्विर् एकतो वा अनृतौ कामतः” इति श्रुतिदर्शनात् ॥ ५.२ ॥
देवपितृमनुष्यर्षिभूतपूजकः ॥ ५.३ ॥
एते पञ्च महायज्ञाः । तत्र देवपूजकशब्देन वैश्वदेवम् उच्यते । पितृपूजक इति पित्रर्थं ब्राह्मणं भोजयेन् नित्यम् इति । तथा च मनुः ।
एकम् अप्य् आशयेद् विप्रं पित्रर्थं पाञ्चयज्ञिके ।
न चैवात्राशयेत् किञ्चिद् वैश्वदेवं प्रति द्विजम् ॥ इति । [म्ध् ३.८३]
अन्नासम्भवे पयो दद्यात्, तदसम्भवे मूलम्, तदसम्भवे फलम्, सर्वासम्भवे उदकम् । तथाह मनुः ।
दद्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।
पयोमूलफलैर् वापि पितृभ्य प्रीतिम् आवहन् ॥ इति । [म्ध् ३.८२]
तत्रापि सर्वासम्भवे उदकम् इति द्रष्टव्यम् । मनुष्यपूजक इति अतिथिपूजनम् उच्यते । तत्राप्य् अन्नासम्भवे आसनार्थं तृणं दद्यात्, तदसम्भवे संवेशनार्थं भूमिम्, शीतापनोदार्थम् अग्निम्, पङ्कापकर्षणार्थम् उदकम्, मधुरां च वाणीम् । यथाह वसिष्ठः- “तृणभूम्यग्न्युदकवाक्सूनृतानसूयाः सतां गेहेषु नोच्छिद्यन्ते कदाचन” [वध् १३.६१] इति । स्वयम् अपि च वक्ष्यति अतिथिपूजनम् । तच्छेषः वसिष्ठोक्तः द्रष्टव्यः । भूतपूजक इति वैश्वदेवोत्तरकालदिग्देवताभ्यो बलिहरणम् । ऋषिपूजक इति नित्यस्वाध्यायः । अग्निपरिग्रहणात् प्राग् एषाम् अभिधानम् अनग्निकस्यापि लौकिके ऽग्नौ प्राप्त्यर्थम् । ततश् च शूद्रस्य पाकयज्ञपक्षे ऽपि लौकिके ऽग्नौ द्रष्टव्यम् । तथा अवकीर्णिहोमश् च ॥ ५.३ ॥
नित्यस्वाध्यायः ॥ ५.४ ॥
नित्यस्वाध्याय इति ब्रह्मयज्ञो ऽभिधीयते । पूर्वम् ऋषिपूजक इत्य् अनेनाभिहित एव इतरानुष्ठानाशक्ताव् अपि स नित्यं विगुणो ऽपि कर्तव्यः । पूर्वोक्तेनैव प्रकारेण ऋषियज्ञ इति वक्तव्ये स्मृत्यन्तरोक्तस्य विधेः प्रापणार्थम् एवम् अभिधानम् । तथा चाह उशना- “अथ ब्रह्मयज्ञे दर्भेष्व् आसीनो दर्भान् धारयमाणः प्राङ्मुख उदङ्मुखो वा प्रणवव्याहृतिसावित्रीपूर्वं वेदानाम् एकदेशं पठेत् वेदानाम् आदिं वा ऋग्यजुःसाम्नाम् एक वा त्रिर् वा प्रणवम् ऐतिहासिकं श्लोकं वा समाहितः” इत्यादि ॥ ५.४ ॥
** पितृभ्यश् चोदकदानम् ॥ ५.५ ॥**
चकाराद् देवतानाम् ऋषीणां च । उदकम् इति सिद्धे दानग्रहणं तर्पणपूर्वत्वज्ञापनार्थम् । तथा च स्मृत्यन्तरम् ।
देवतानाम् ऋषीणां च तर्पयित्वा समाहितः ।
पश्चाद् दद्यात् पितॄणां च स्वधापूर्वं तिलैः सह ॥ इति ।
नित्यं पितृभ्य उअद्कदानचोदनयैव अहर् अहः स्नानम् अप्य् अर्थात् सिद्धम्, तत्पूर्वकत्वाद् उदकदानस्य । तथा च मनुः ।
नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् । इति । [म्ध् २.१७६]
उदकदानं द्विविधम्, यद् अप्सु दीयते यद् आकाशे चेति ।
ननु च भूम्याम् एव चोद्यते, नाप्सु, यथाह भृगुः ।
नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना ।
नोपतिष्ठति तत् तोयं यद् भूम्यां न प्रदीयते ॥ इति ।
तथा बृहस्पतिर् अपि ।
उदके नोदकं दद्यात् पितृभ्यस् तु कदाचन ।
उत्तीर्य तु शुचौ देशे कुर्याद् उदकतर्पणम् ॥ इति ।
नैतद् एवम् – स्मृत्यन्तरे विरुद्धाभिधानात्, विषयविभागकथनाच् च । यथा चाह उशना ।
आपो देवगणाः सर्वे आपः पितृगणाः स्मृताः ।
तस्माद् अप्सु जलं देयं पितॄणां दत्तम् अक्षयम् ॥ इति ।
तत्र कात्यायनो विषयविभागम् आह ।
देवानां च पितॄणां च जले दद्याज् जलाञ्जलिम् ।
असंस्कृतप्रमीतानां स्थले दद्याज् जलाञ्जलिम् ॥ इति ।
तर्पणाद्युदकदानान्तम् उभाभ्यां हस्ताभ्यां द्रष्टव्यम् । उदकदाने तावद् अदोषः, जलाञ्जलिम् इति वचनात् । तर्पणे तु नोपपद्यते, नैकपाणिनेत्य् अस्य विरुद्धवाक्यश्रवणात् । तथा च भृगुः ।
उभाभ्याम् अपि हस्ताभ्याम् उदकं तर्पयन् द्विजः ।
स मूढो नरकं याति कालसूत्रम् अवाक्छिराः ॥ इति ।
नैष दोषः, विभागवाक्यश्रवणात् । तथा चाह बृहस्पतिः ।
श्राद्धे सेचनकालश् चेत् एकपाणिं प्रदापयेत् ।
तर्पणे तूभयं कुर्याद् एष धर्मः सनातनः ॥ इति ।
तस्माद् एकम् अप्स्व् एव चोद्यते । आकाशे यच् चोद्यते तद् अपरम् । यथाह भृगुः ।
नाभिमात्रे जले स्थित्वा चिन्तयन्न् ऊर्ध्वमानसः ।
आगच्छन्तु मे पितर इमं गृह्णन्त्व् अपोऽञ्जलिम् ॥
त्रिस् त्रिर् अञ्जलिम् आकाशे उच्चैर् उच्चतरं बुधः ।
उक्त्वा चोक्त्वा क्षिपेद् वारि वाग्यतो दक्षिणामुखः ॥
पितॄणां स्थानम् आकाशं दक्षिणा दिक् तथैव च ।
तस्मात् तथा सदा दत्तं पितॄणां स्यात् तद् अक्षयम् ॥ इति ।
पितॄणां यद् दीयते तत् सर्वं तिलैर् दर्भैश् च सह द्रष्टव्यम्, यथाह भृगुः ।
तिलदर्भयुतं वारि स्वधया यत् प्रदीयते ।
तत् सर्वम् अमृतं भूत्वा पितॄणाम् अक्षयं भवेत् ॥ इति ।
तस्माद् एव पितृभ्य उदकदानं कर्तव्यम् ॥ ५.५ ॥
यथोत्साहम् अन्यत् ॥ ५.६ ॥
ब्रह्मयज्ञोदकदानाभ्यां यद् अन्यद् अवशिष्टं गृहस्थधर्मरूपं तद् यथाशक्ति कुर्यात्, उत्साहवचनात् । ततश् च मुख्यासम्भवे अमुख्येनापि कर्तव्यम्, उदाहृतं च “पयोमूलफलैर् वापि” [म्ध् ३.८२] इत्यादि ॥ ५.६ ॥
भार्यादिर् अग्निर् दायादिर् वा ॥ ५.७ ॥
भार्याशब्देन विवाहो लब्यते, अग्निशब्देनौपासनम्, वैवाहिकम् अग्निम् औपासनरूपेण धारयेद् इत्य् अर्थः ।
केचिद् एवं व्याचक्षते – जातकाग्नेर् एव पारम्पर्यागतस्य विवाहोत्तरकालम् औपासनरूपेण धारणार्थम् अभिधानम् इति ।
तद् अयुक्तम् – “विवाहं कुर्वन् लौकिकम् अग्निम् आधाय” इत् गृह्यस्मृतेः । यदि जातकाग्निर् एवागच्छति तदानीं तत्र लौकिकग्रहणं न करोति । ततश् चाशुचित्वात् जातकाग्निस् त्यक्तव्य एव ।
यदा वा अस्य भ्रातृभिः पित्रा वा सह विभागः तत्र वाग्निपरिग्रहणं कुर्यात् । विवाहोत्तरकालम् अपि द्रव्यापेक्षया विकल्पः, कर्मणां द्रव्यसाध्यत्वात् । यो हि द्रव्यवान् स विवाहकाले परिगृह्णीयात् निःस्वो दायकाल इति ।
केचिद् विवाहात् प्राग् अपि दायादिकम् अग्निं परिगृह्णीयाद् इति व्याचक्षते ।
तद् अयुक्तम्, “विधुरः पुनर् निविष्टः पुनर् अग्निं च गृह्णीयात् अभार्यस्याग्न्यभावात्” इति स्मृत्यन्तरदर्शनात् ।
कथम् अवगम्यते स्मार्तस्यैव धारणं न श्रौतस्येति । “जातपुत्रो ऽग्नीन् आदधीत” इति श्रुतेः, तत्राप्य् अग्नीन् इति बहुवचनप्रयोगात् ॥ ५.७ ॥
तस्मिन् गृह्याणि ॥ ५.८ ॥
तस्मिन्न् एवौपासने गृह्याणि कर्माणि पुंसवनादीनि कुर्यात् । ग्रहणपक्षे इदम् । अगृहीतश् चेल् लौकिके ऽग्नाव् एव द्रष्टव्यानि ॥ ५.८ ॥
देवपितृमनुष्ययज्ञाः स्वाध्यायश् च ॥ ५.९ ॥
देवयज्ञो वैश्वदेवः । पित्रर्थं ब्राह्मणभोजनं पितृयज्ञः । मनुष्ययज्ञो ऽतिथिपूजनम् । एतेषाम् अग्निसम्बन्धो ऽपि वैश्वदेवस्य प्रसिद्धः, पितृयज्ञस्य तद्भोजनार्थः पाकः, मनुष्ययज्ञस्याप्य् अतिथिभोजनार्थः पाकः, स्वाध्यायशब्देन ब्रह्मयज्ञ उच्यते । तस्यैकीयमत एवाग्निसम्बन्ध इति विसमासः । तथा चाह उशना- “उदकसमीपे अथ ब्रह्मयज्ञः” इत्य् आरभ्य ब्रह्मयज्ञम् उक्त्वा “अग्निसमीपे इत्य् एकेषाम्” इति । एषां गृह्योक्तकर्मत्वाद् एव सिद्धम् इति चेत्, न, आशङ्कानिवृत्त्यर्थत्वात् पुनर् अभिधानस्य । काशङ्केति चेत्, देवयज्ञादीनां पूर्वं लौकिके ऽग्नौ विधानात् तत्रैव तेषाम् अधिकारः, नौपासने । “तस्मिन् गृह्याणि” [ग्ध् ५.८] इत्य् अनेनापि तद्वर्जितानां गृह्यकर्मणाम् एव ग्रहणम्, तेषां पूर्वं पृथगभिधानाद् इति कस्यचिद् आशङ्का स्याद् इति । एवं च तेषाम् उभयत्राधिकारः । ततश् चाग्निम् अतो ऽपि लौकिके ऽग्नौ कृते न दोषः । ततश् च बादरायणसूत्रम्- “अग्निम् अतो ऽपि वचनेन निषिद्धाः पञ्चयज्ञाः आहिताग्नेः” इति ॥ ५.९ ॥
बलिकर्म ॥ ५.१० ॥
अनेन भूतयज्ञ उक्तः । आशङ्कानिवृत्त्यर्थम् एवास्याभिधानम् । चकारः पूर्वसूत्राद् अधिक्रियते तस्मिन्न् एवेत्य् अनुकर्षणार्थः । वैश्वदेवानन्तरम् एव कर्तव्यं न पृथग् इत्य् एवमर्थं पृथक् पुनः करणम् । तथा च गृह्यकारः- “पूर्वं देवानां हुत्वा पश्चाद् बलिं हरेत्” इति । पूर्ववद् भूतयज्ञ इति वक्तव्ये एवम् अभिधानं वैश्वदेवात् पृथग्घविःसूचनार्थम् । ततश् च सिद्धस्यान्नस्य वैश्वदेवार्थं भूतयज्ञार्थं चैकदेशं गृह्णीयात् । तथा च जैमिनिः- “अशनस्य बली वर्धयित्वा” इति द्विवचनं सायं प्रातः कर्तव्यार्थम् । कर्मग्रहणं वैश्वदेवस्यापि सायं प्रातः कर्तव्यार्थम् । तथा च गृह्यस्मृतिः- “सायं प्रातर् वैश्वदेवं बलिहरणं च” इति, “अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयात्” इत्यादि ॥ ५.१० ॥
अनुक्तगृह्यकाराणाम् अपि सामान्यप्रवेशनार्थम् इदानीं वैश्वदेवम् आह ।
अग्नाव् अग्निर् धन्वन्तरिर् विश्वे देवा प्रजापतिः स्विष्टकृद् इति होमाः ॥ ५.११ ॥
होमग्रहणाद् एव लभ्यमानस्याग्नेः सुसमिद्धे ऽग्नौ होमार्थं पुनर्वचनम् । होमा इति बहुवचनम् एकाहुतिप्रतिषेधार्थम् । होमग्रहणं च स्वाहाकारप्रदर्शनार्थम् । इतिकरणं चतुर्थ्युपसङ्ग्रहणार्थम् । विसमासो मन्त्रान्तरप्रसिद्ध्यर्थः । ततश् चाग्नये स्वाहा, धन्वतन्त्रये स्वाहा, विश्वेभ्यो देवेभ्यः स्वाहा, प्रजापतये स्वाहा । स्विष्टकृच्छब्दो ऽग्न्युपपदश् चतुर्थ्यन्तो द्रष्टव्यः, अग्नये स्विष्टकृते स्वाहेति । एतावान् वैश्वदेवः ॥ ५.११ ॥
इदानीं भूतयज्ञविधिम् आह ।
दिग्देवताभ्यश् च यथास्वम् ॥ ५.१२ ॥
पूर्वं दिग्देवताभ्यो बलिं हरेत् । इन्द्राग्नियमनिऋतिवरुणवायुसोमेशानानां प्राच्यादिप्रदक्षिणम्, ऊर्ध्वं विष्णुः, अथो ऽनन्तः इन्द्राय नम इति मन्त्रो ऽत्र द्रष्टव्यः । चशब्दात् तत्पुरुषेभ्यश् च । ततश् चेन्द्रपुरुषेभ्यो नम इत्यादि द्रष्टव्यम् । यथास्वं यथास्थानम् इत्य् अर्थः ॥ ५.१२ ॥
द्वार्षु मरुद्भ्यः ॥ ५.१३ ॥
बहुवचनात् सर्वेषु । मरुद्भ्यो नम इति द्रष्टव्यः । अत्र तत्पुरुषचोदना नास्ति, चकाराभावात् ॥ ५.१३ ॥
गृहदेवताभ्यः प्रविश्य ॥ ५.१४ ॥
प्रविश्येति वचनात् पूर्वं गृहाद् बहिर् द्रष्टव्यम् । ततश् च गृहाद् बहिर् एकस्मिन् देशे गोमयेन मण्डलं कृत्वा दिग्देवताभ्यो बलिहरणं कृत्वा ततो बाह्यान्तरेषु च द्वारेषु बलिहरणं कृत्वाभ्यन्तरम् एव प्रविश्य गृहदेवताभ्यो बलिं हरेत् । ताः श्र्यादयः, यथाह उशना-
शयनस्य शिरःस्थाने श्रियै नम इति दद्यात् पादस्थाने भद्रकाल्यै नम इति, कोष्ठागारे धनपतये नम इति, स्तम्भनिलये रुद्राय नम इति, गोष्ठे मित्राय नम इति, उलूखलमुसलयोर् वरुणाय नम इति, कूपे अहये बुध्न्याय नम इति, पेषण्याम् अग्निसमीपे चैताभ्यो देवताभ्यो नम इति दद्यात् ।
इति ॥ ५.१४ ॥
ब्रह्मणे मध्ये ॥ ५.१५ ॥
गृहमध्ये ब्रह्मणे नम इति दद्यात् ॥ ५.१५ ॥
अद्भ्य उदकुम्भे ॥ ५.१६ ॥
अद्भ्यो नम इत्य् उदकुम्भे दद्यात् ॥ ५.१६ ॥
आकाशायेत्य् अन्तरिक्षे ॥ ५.१७ ॥
आकाशाय नम इत्य् अन्तरिक्षे ऽङ्कणप्रदेशे दद्यात् । इतिशब्दः प्रकारवाची । ततश् च मृत्यवे नम इत्य् अन्नशालायाम्, अजायैकपदे नम इति फलकेषु चेति द्रष्टव्यः ॥ ५.१७ ॥
नक्तञ्चरेभ्यश् च सायम् ॥ ५.१८ ॥
सायं चेत् फलकाबलिहरणाद् ऊर्ध्वम् आकाशे नक्तञ्चरेभ्यो नम इति दद्यात् । चकारः पूर्वसमुच्चयार्थः, इतरथा नक्ञ्चरेभ्य एव स्याद् इति ॥ ५.१८ ॥
स्वस्ति वाच्य भिक्षादानम् अप्पूर्वम् ॥ ५.१९ ॥
स्वस्तीति भिक्षुकं वाचयित्वा तत उदकदानपूर्वम् अस्मै भिक्षादानं कर्तव्यम् । भिक्षादाने स्त्रिया अधिकारात् तस्या एव च याचितत्वाद् अतस् ताम् एव कारयेद् गृहस्थः । केचिद् व्याचक्षते वैश्वदेवानन्तरम् एव विधानाद् अग्रभैक्षस्यायं विधिर् न सामान्यस्येति । तेषां पक्षे स्वस्तिवाचनं पुरुषेणैव कारयितव्यम् इति द्रष्टव्यम् ॥ ५.१९ ॥
ददातिषु चैवं धर्म्येषु ॥ ५.२० ॥
ददातिशब्देन हिरण्यादिदानम् उच्यते । धर्म्यग्रहणान् न दृष्टार्थं मित्रादिभ्यो दानम् । एवम् एव उदकपूर्वं दद्यात् । चकाराद् एव सिद्धे एवंशब्दः समस्तप्रापणार्थः । ततश् च यथा भिक्षादानं स्त्रीकृतम् अपि भर्तुर् अनुज्ञया प्रमाणं भवति, तद्वद् धिरण्यादिदानम् अपि प्रमाणं भवति । तथा च नारदः ।
स्त्रीकृतान्य् अप्रमाणानि कार्याण्य् आहुर् अनापदि ।
विशेषतो गृहक्षेत्रदानधर्मान् न विक्रयाः ॥
एतान्य् एव प्रमाणानि भर्ता यद्य् अनुमन्यते ॥ [न्स्म् १.२२–२३]
इत्यादि । भिक्षादानम् अपि भर्तुर् अनुज्ञया विना न कार्यम् । तथा च मनुः ।
बालया वा युवत्या वा वृद्धया वापि योषिता ।
न स्वातन्त्र्येण कर्तव्यं कार्यं किञ्चिद् गृहेष्व् अपि ॥ [म्ध् ५.१४७]
इति ॥ ५.२० ॥
समद्विगुणसाहस्रानन्तानि फलान्य् अब्राह्मणब्राह्मणश्रोत्रियवेदपारगेभ्यः ॥ ५.२१ ॥
पात्रविशेषात् फलविशेषप्रतिपादनार्थो ऽयम् आरम्भः । समं ईषत्फलम् इत्य् अर्थः । अब्राह्मणाय दत्तं हिरण्यादि भैक्षं वा । अब्राह्मणशब्देन उपनीतमात्र उच्यते । तथा चाह उशना- “येन वेदा अनधीतास् तद्व्रतानि च नानुष्ठितान्य् अब्राह्मण एव सः” इति । अब्राह्मणशब्दं ब्राह्मण एव प्रयुक्तवान् । द्विगुणं भवति ब्राह्मणाय दत्तम् । ब्राह्मणशब्देनानुष्ठितवेदव्रतो अनधीतवेद उच्यते । यथाह वसिष्ठः ।
यश् च काष्ठमयो हस्ती यश् च चर्ममयो मृगः ।
यश् च विप्रो ऽनधीयानस् त्रयस् ते नामधारकाः ॥ [वध् ३.११]
श्रोत्रियाय दत्तं सहस्रगुणं भवति । श्रोत्रियशब्देन एकशाखाध्यायी उच्यते । यथाह बौधायनः- “एकां शाखाम् अधीत्य श्रोत्रियो भवति” [=आप्ध् २.६.४] इति । अनन्तं वेदपारगाय दत्तम् । वेदपारगशब्देन साङ्गवेदाध्याय्य् उच्यते । यथाह कण्वः- “येन साङ्गो वेदो ऽधीतः स वेदपारगो भवति” इति । एषां पूर्वं फलाभिधानात् । एवं जातिविशेषाद् अपि द्रष्टव्यम् । यथाह प्रजापतिः ।
शूद्रे समफलं दानं वैश्ये च द्विगुणं भवेत् ।
क्षत्रिये त्रिगुणं प्राहुर् अमितं ब्राह्मणे भवेत् ॥
इति ॥ ५.२१ ॥
_एवं फलविशेषापेक्षया दानफलम् उक्त्वा इदानीं तत्प्रसङ्गेनान्यम् अपि _
दानप्रकारम् आह ।
**गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्य्माणाध्यय-नाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो **
बहिर्वेदि ॥ ५.२२ ॥
गुरुग्रहणं मातृपितृभृत्यानां चोपलक्षणम् । यथाह मनुः ।
सान्तानिकं यक्ष्यमाणम् अध्वगं सर्ववेदसम् ।
गुर्वर्थं पितृभृत्यार्थं स्वाध्यायार्थ्युपतापिनौ ॥ [म्ध् ११.१]
इत्यादि । निवेशनार्थं च । एवं याचित्वापि निवेशः कर्तव्यः । इदम् अपि समुच्चयपक्षे द्रष्टव्यम् । ओषधार्थम् अर्थग्रहणे प्रस्तुते पुनर् अर्थग्रहणम् एभ्यो विद्याविशेषतो ऽर्थस्यापि गुरुलाघवज्ञापनार्थम्, निःस्वेभ्य एव दातव्यम् इत्य् एवमर्थं वा । यथाह मनुः ।
निःस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः । [म्ध् ११.२]
इत्यादि । वृत्तिक्षीणः आपन्नः । यक्ष्यमाणः नित्ययज्ञार्थम् इदं वचनम् । ततश् च “अलं सोमाय, नासोमयाजी, स सोमं पातुम् अर्हति” इत्य् एवमादीनि स्मृत्यन्तरवाक्यानि काम्ययज्ञे द्रष्टव्यानि । याचित्वापि यक्ष्यमाणत्वान् नित्ययज्ञस्य । अध्ययनार्थं वेदाध्ययनार्थम्, अध्वसयोगः अध्वनि वर्तमानः, क्षीणः पथ्यदानार्थं च संयोगग्रहणात् । वैश्वजितो विश्वजिता येनेष्टम् । एभ्यः संविभागः कर्तव्यः हिरण्यादेर् अपि, द्रव्यग्रहणात् । नियमेन कर्तव्यम्, समुपसर्गप्रयोगात् । वैश्वजितस्य आ संवत्सरात् याच्ञाप्रतिषेधात् अप्रार्थयमानायैव देयम् । इतरेभ्यो ऽप्रार्थयमानेभ्यो वा प्रार्थयमानेभ्यो वा दद्यात् । द्रव्यविभागश् च यथात्मनः कुटुम्बव्यसनं न भवति तथा कर्तव्यः, व्युपसर्गप्रयोगात् । ततश् चैकदेशो दातव्य इत्य् अर्थः । बहिर्वेदिग्रहणाद् अन्तर्वेद्य् अन्येभ्यो ऽपि । एवं च नियमेन कर्तव्यत्वात् तद् अकुर्वतो न केवलं फलाभाव एव । किं तर्हि । प्रत्यवायश् च भवति । तर्हि तत् कुर्वतो ऽपि तत्प्रत्यवायाभाव एव प्रयोजनं न फलार्थम् इति चेत्, न, विद्याविशेषत इति लिङ्गात् पात्रविशेषात् फलविशेषो ऽस्तीति ज्ञापयति । तथा च व्यासः ।
गुरुनिवेशौषधार्थं स्वाध्यायार्थं च भारत ।
अध्वन्य् अपि प्रवृत्तस्य यागार्थं च तथैव च ॥
कृतवैश्वजितस्यापि वृत्तिक्षीणस्य पार्थिव ।
दत्वा विद्याविशेषेण स्वर्गलोके महीयते ॥
इत्यादि । ततश् च सन्ध्योपासनादिवद् द्रष्टव्यम् । यथा सन्ध्योपासनम् अकुर्वतः प्रत्यवायः, कुर्वतः प्रत्यवायाभावश् च फलप्राप्तिश् चेति ॥ ५.२२ ॥
भिक्षमाणेषु कृतान्नम् इतरेषु ॥ ५.२३ ॥
उक्तव्यतिरिक्तेषु भिक्षमानेषु कृतान्नं दद्यात् । “इतरेभ्यः” इति केचित् पठन्ति, तेषाम् अप्य् अयम् एवार्थः ।
ननु च “स्वस्ति वाच्य भिक्षादानम्” [ग्ध् ५.१९] इत्य् अनेनैव सिद्धत्वाद् एतन् न वक्तव्यम् इति ।
उच्यते – इतिकर्तव्यतामात्रं तत् । इदं पुनर् नियमेन भिक्षा दातव्येत्य् एवमर्थम् इति । एवं चेत् इदम् अपि सन्ध्योपासनादिवद् द्रष्टव्यम्, अविशेषेणोक्तत्वात् । दानं च बहिर्वेद्य् अन्तर्वेदि च । कृतान्नग्रहणात् तण्डुलादेर् अनियमः । “भैक्षम् इतरेषु” इत्य् वक्तव्ये, “भिक्षमाणेषु” इति वचनात् “भवति भिक्षां देहि” इत्यादिभिर् मन्त्रैर् प्रार्थयमानेष्व् एव नियमः । अथ वा भिक्षार्हाणाम् एवायं नियम इति । यथाह वसिष्ठः ।
अव्रता ह्य् अनधीयाना यत्र भैक्षचरा द्विजाः ।
तं ग्रामं दण्डयेद् राजा चोरभक्तप्रदो हि सः ॥ इति । [वध् ३.४]
तत्र भिक्षादाने यतेर् हस्ते ऽप्य् उदकदानं कर्तव्यम् । यथाह भृगुः ।
यतिहस्ते जलं दद्याद् भैक्षं दद्यात् पुनर् जलम् ।
भैक्षं पर्वतमात्रं स्यात् तज् जलं सागरोपमम् ॥
॥ इति ॥ २.२३ ॥
दानापवादम् अधुनोच्यते ।
प्रतिश्रुत्याप्य् अधर्मसंयुक्ते न दद्यात् ॥ ५.२४ ॥
अधर्मसंयुक्तः गुर्वाद्यर्थम् उद्दिश्य य प्रार्थयते न च करोति तस्मै प्रतिश्रुतम् अपि न दद्यात् । अपिशब्दात् संअकल्पितम् अपि ॥ ५.२४ ॥
अधर्मसंयुक्तत्वं न यस्य कस्यचिद् वचनात् प्रतिपत्तव्यम् इत्य् आह ।
क्रुद्धहृष्टभीतार्तलुब्धबालस्थविरमूढ-मत्तोन्मत्तवाक्यान्य् अनृतान्य् अपातकानि ॥ ५.२५ ॥
क्रोधहर्षभयरोगलोभाविष्टानां बालादीनां च वचनेनार्धम् असंयुक्तत्वं नाध्यवसेयम्, अप्रमाणत्वात् तेषां वचनस्य । वाक्यग्रहणम् अन्यत्राप्य् एषां वचनस्याप्रामाण्यप्रसिद्ध्यर्थम् ॥ ५.२५ ॥
प्रासङ्गिकम् उक्त्वा इदानीं प्रकृतम् आह ।
भोजयेत् पूर्वम् अतिथिकुमारव्याधितगर्भिणी-सुवासिनीस्थविरान् जघन्यांश् च ॥ ५.२६ ॥
आत्मन प्रथमम् एतान् भोजयेत् । अतिथिर् वक्ष्यमाणः । कुमारो बालः । व्याधितो रोगार्तः । सुवासिन्यो गर्भयुक्ता दुहितरः । स्थविरा वृद्धाः । जघन्याः परिचारकाः । चशब्दाद् दीनानाथादयः उपसङ्गृह्यन्ते । विसमासः क्रमनियमार्थः । ततश् च यथानुग्राह्यम् एतान् भोजयेत् ॥ ५.२६ ॥
आचार्यपितृसखीनां तु निवेद्य वचनक्रिया ॥ ५.२७ ॥
यो ह्य् एतस्मिन् काले आचार्यादीनां कश्चिद् गृहम् आगच्छेत् ततः सिद्धम् अन्नं निवेद्य तस्मै तदुक्तस्य वचनस्य करणं यत् ते ब्रुवते तत् कुर्याद् इत्य् अर्थः । तुशब्दो नियमार्थः, तद् एव कुर्यान् न क्वचिद् अपि स्वतन्त्रेण भवितव्यम् इति । वचनक्रियेत्य् उक्तत्वाद् यदि ते न किञ्चिद् वदन्ति तदानीं स्वतन्त्रेण भवितव्यम् ॥ ५.२७ ॥
ऋत्विगाचार्यश्वशुरपितृव्यमातुलानाम् उपस्थाने मधुपर्कः ॥ ५.२८ ॥
ऋत्विगादीनां तु गृहागमने सति मधुपर्केण पूजा कर्तव्या प्रथमम्, उपस्थानग्रहणान् न द्वितीयादौ । मधुपर्कविधिश् च गृह्ये द्रष्टव्यः ॥ ५.२८ ॥
संवत्सरे पुनः ॥ ५.२९ ॥
पूजितास् ते यदि संवत्सरात् पुनर् आगच्छेयुस् तदा पुनर् अपि मधुपर्को देयः, नार्वाक् ॥ ५.२९ ॥
यज्ञविवाहयोर् अर्वाक् ॥ ५.३० ॥
अर्वाग् अपि संवत्सराद् यज्ञे विवाहे चागतानां मधुपर्को देयः । यज्ञे ऋत्विजां श्रुतित एव मधुपर्कदानस्य सिद्धत्वात् श्वशुराद्यर्थ आरम्भः ॥ ५.३० ॥
राज्ञश् च श्रोत्रियस्य ॥ ५.३१ ॥
राज्ञश् चोपस्थाने मधुपर्को देयः श्रोत्रियश् चेत् । पृथग्ग्रहणाद् अर्वाग् अपि संवत्सरात् । चकाराद् वस्त्रं च ॥ ५.३१ ॥
अश्रोत्रियस्यासनोदके ॥ ५.३२ ॥
यदि राजा अश्रोत्रियो भवति तस्यासनोदकमात्रेणैव पूजा कर्तव्या ॥ ५.३२ ॥
श्रोत्रियस्य तु पाद्यम् अर्घ्यम् अन्नविशेषांश् च प्रकारयेत् ॥ ५.३३ ॥
ब्राह्मणस्य श्रोत्रियस्य । कुत एतत्? पुनः श्रोत्रियग्रहणात् । वैश्यार्थं चेत्, न, “वैश्यो मधुपर्केण न मान्यः तस्मात् तं भोजयेद् एव” इति स्मृत्यन्तरदर्शनात् । तुशब्दो विशेषार्थः । स यदि वृत्तसम्पन्नो भवति तस्योपस्थाने पादप्रक्षालनार्थं पूजार्थं चोदकं देयम् । पाद्यम् अर्घ्यम् इति विसमासान् मधुपर्कश् च अन्नविशेषाः मुद्गोदनादिभेदभिन्नाः । चकाराद् उपदंशादिविशेषाश् च । प्रोपसर्गाद् घृतबहुलम् । तथा च श्रुतिः; “ब्राह्मणायाभ्यागताय सर्पिष्मद् अन्नं पचति” इति ॥ ५.३३ ॥
असामर्थ्ये तु सति –
नित्यं वा संस्कारविशिष्टम् ॥ ५.३४ ॥
यद् एवास्य गृहे नित्यम् अन्नं तद् एवोपदंशेन बहुलेन विशिष्टं साधारणात् ॥ ५.३४ ॥
मध्यतो ऽन्नदानम् अवैद्ये साधुवृत्ते ॥ ५.३५ ॥
यस् त्व् अश्रोत्रियो ब्राह्मणः साधुवृत्तो भवति वृत्तवान् भवति तस्मिन्न् उपस्थिते मध्यमेन संस्कारेणान्वितं देयम् अन्नम् । अन्नग्रहणं नियमार्थम्, अन्नम् एव देयं न पाद्यादीनि । अश्रोत्रियत्वाद् एव संस्कारवियोगो मा भूद् इत्य् एवमर्थं दानग्रहणम् ॥ ५.३५ ॥
विपरीते तु तृणोदकभूमि ॥ ५.३६ ॥
तुशब्दाद् उभयविपरीते । ततश् च यदि विद्वान् असाधुवृत्तो भवति तस्यापि “नित्यं वा संस्कारविशिष्टः” [ग्ध् ५.३४] इत्य् एवं द्रष्टव्यम् । न तृणोदकभूमिमात्रम् एव देयम् ॥ ५.३६ ॥
स्वागतम् अन्ततः ॥ ५.३७ ॥
स्वागतं सूनृतां वाचम् इत्य् अर्थः । अन्ततः आपदि तृणोदकीदानम् असम्भवे सति सूनृतां वाचम् उच्चारयेद् इत्य् अर्थः ॥ ५.३७ ॥
पूजानत्याशश् च ॥ ५.३८ ॥
सूनृतवचनाद् उत्तरकालं पूजा कर्तव्या । अनवज्ञाकरणम् एव पूजा । ततश् चावज्ञा न कर्तव्येत्य् अर्थः । अनत्याशश् च ग्रासमात्रम् अप्य् अभोजयित्वा स्वयम् अन्ततः आपदि न भोक्तव्यम् इत्य् अर्थः ॥ ५.३८ ॥
शय्यासनावसथानुव्रज्योपासनानि सदृक्छ्रेयसोः समानि ॥ ५.३९ ॥
आत्मना तुल्यस्य चाधिकस्य चातिथेः शय्यादीन्य् आत्मनुल्यानि कर्तव्यानि । शय्या खट्वादि, आसनं फलकादि, आवसथम् अपवरकादि, अनुव्रज्या अनुगमनम्, उपासनं नमस्कारादि । अनुव्रज्योपासनयोर् आत्मतुल्यत्वासम्भवाद् आत्मनस् तुल्यस्य चाधिकस्य चानुव्रज्योपासनं च कर्तव्यम् इत्य् एवमर्थ उपदेशः । शय्यासनादि त्व् आत्मनः साम्येन कर्तव्यम् । आत्मन एव साम्यं न परस्परयोः, उत्तमस्य सम्भावनीयत्वात् । तथा च वक्ष्यति- “समासमाभ्यां विषमसमे पूजातः । अनर्चितं च” [ग्ध् १७.१८–१९] इति । ततश् च सदृक्श्रेयसोर् आत्मापेक्षया तुल्यानि परस्परापेक्षया अतुल्यानीति द्रष्टव्यम्29 ॥ ५.३९ ॥
अल्पशो ऽपि हीने ॥ ५.४० ॥
ईषद्धीने ऽपि समानि कर्तव्यानि ॥ ५.४० ॥
अतिथिलक्षणम् आह30_ ।_
असमानग्रामो ऽतिथिर् ऐकरात्रिको ऽधिवृक्षसूर्योपस्थायी ॥ ५.४१ ॥
अन्यग्रामजः एकरात्रवसनशीलः मध्याह्नाद् ऊर्ध्वम् उपस्थितो ऽतिथिर् अवगन्तव्यः । एवंरूपाय नियमेन दातव्यम् । अदाने च प्रत्यवायः । विसमासाद् एकलक्षणहीनो ऽपि न भवति । अधिवृक्षसूर्यशब्देन सायङ्काल उच्यते । तथा च वसिष्ठः- “सायम् आगतम् अतिथिं नापराध्यात्” [वध् ८.४] इति ॥ ५.४१ ॥
किं पुनर् अतिथिर् वक्तव्य इत्य् अत आह ।
**कुशलानामयारोग्याणाम् अनुप्रश्नो ऽन्त्यं **
शूद्रस्य ॥ ५.४२ ॥
आनुपूर्वेणातिथिः प्रष्टव्यः । कुशलं ब्राह्मणस्य, अनामयं क्षत्रियस्य, आरोग्यं शूद्रस्य । ततः वैश्यस्य स्मृत्यन्तरोक्तं द्रष्टव्यम् । तथाह मनुः ।
ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुम् अनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रम् आरोग्यम् एव च ॥ [म्ध् २.१२७]
इति ॥ ५.४२ ॥
**ब्राह्मणस्यानतिथिर् अब्राह्मणो ऽयज्ञे संवृतश् **
चेत् ॥ ५.४३ ॥
ब्राह्मणस्य क्षत्रियादिर् उक्तलक्षणयोगे सत्य् अपि नातिथिः । अतश् च नियमतो न देयम् । अयज्ञे यज्ञाद् अन्यत्र । यज्ञे तु भवत्य् एव । स चेद् ब्राह्मणः संवृतः दरिद्रो भवति । यज्ञाद् अन्यत्रापि प्रभूतान्नस्य तु भवत्य् एव । ब्राह्मणस्येति वचनात् क्षत्रियादेर् भवत्य् एव । ब्राह्मणस्याब्राह्मणनिषेधाद् ब्राह्मणस्य ब्राह्मणो भवत्य् एव ॥ ५.४३ ॥
भोजनं तु क्षत्रियस्योर्ध्वं ब्राह्मणेभ्यः ॥ ५.४४ ॥
तुशब्दः पक्षसूचनार्थः । अतिथिपक्षे भुक्तवत्सु ब्राह्मणेषु क्षत्रियं भोजयेद् इति ॥ ५.४४ ॥
**अन्यान् भृत्यैः सहानृशंसार्थम् **
आनृशंसार्थम् ॥ ५.४५ ॥
अन्यान् वैश्यादीन् भृत्यैर् दासभृत्यकर्मकरादिभिः सह भोजयेत् सति विभवे । यद्य् अप्य् अतिथिर् न भवति, तथाप्य् आनृशंसार्थम् अनुकम्पार्थं प्रत्याख्याने नृशंसता लोके स्याद् इति ॥ ५.४५ ॥
इति मस्करीये गौतमभाष्ये पञ्चमो ऽध्यायः समाप्तः
षष्ठो ऽध्यायः
इदानीम् अतिथिपूजनप्रसङ्गेनान्येषाम् अप्य् अन्यं पूजाप्रकारम् आह ।
पादोपसङ्ग्रहणं समवाये ऽन्वहम् ॥ ६.१ ॥
पादयोर् उपश्लेषणम् उपसर्गद्वयप्रयोगात् स्मृत्यन्तरोपदिष्टेन विधिना कर्तव्यम् । यथाह मनुः- “व्यत्यस्तपाणिना कार्यम् उपसङ्ग्रहणम्” [म्ध् २.७२] इत्यादि । समवाये सङ्गमे । अन्वहं प्रतिदिनम् । कर्तव्यम् इति शेषः । वक्ष्यमाणानां सङ्गमे इति द्रष्टव्यम् ॥ ६.१ ॥
अभिगम्य तु विप्रोष्य ॥ ६.२ ॥
विप्रकृष्टदेशान्तरप्रत्यागतेनाभिमुख्येन तद्गृहं गत्वा कर्तव्यम् । तुशब्द आदरोपसङ्ग्रहार्थः । ततश् च न यादृच्छिकदर्शनम् उदीक्षेत ॥ ६.२ ॥
केषां पुनर् इदं कर्तव्यम् इत्य् अत आह ।
मातृपितृतद्बन्धूनां पूर्वजानां विद्यागुरूणां तद्गुरूणां च ॥ ६.३ ॥
मातापितरौ प्रसिद्धौ । तद्बन्धवः मातुलमातामहपितृव्यपितामहादयः । पूर्वजाः आत्मनो भ्रातरो ज्येष्ठा । विद्यागुरवः ये अङ्गाध्यापयितारः, पूर्वं वेदाध्यापयितुर् उक्तत्वात् । तद्गुरवः तेषां पित्रादीनां ये विद्यागुरवः । चकाराद् गुरुसख्यादीनाम् अपि । एषां समवाये अन्वहम् अभिगम्य च विप्रोष्य । पूर्वजादीनां विसमासः तच्छ्वशुरादिगुरूपसङ्ग्रहणार्थः ॥ ६.३ ॥
सन्निधाने परस्य ॥ ६.४ ॥
यदैकस्मिन् देशे बहूनां समवायः, तदा यः परः प्रधानः तस्य प्रथमं कर्तव्यम् । स चोक्तः- “आचार्यः श्रेष्ठो गुरूणाम्” [ग्ध् २.५७] इत्यादिना ॥ ६.४ ॥
**स्वनाम प्रोच्याहम् अयम् इत्य् अभिवादो **
ज्ञसमवाये ॥ ६.५ ॥
स्वनाम पित्रादिकृतम् । तत् प्रकर्षेणोच्चार्य तदनन्तरम् अहंशब्दं चोक्त्वा अयम् इति प्रत्यक्षोपदेशः, तदर्थो ऽस्मिशब्दः प्रयोक्तव्यः । इतिशब्दः प्रकारवाची । अन्ते, गुरोर् नाम्नः स्थाने31 प्रकृतत्वात् भोशब्दश् च । “देवदत्तनामाहम् अस्मि भो” इति प्रयोज्यः । अस्मिन्न् उपसङ्ग्रहणकाले एवम् अभिवादः । आभिमुख्येनोच्चारणं कर्तव्यम् इत्य् अर्थः । ज्ञसमवाये प्रत्यभिवादनविधिज्ञसमवाय इत्य् अर्थः । प्रत्यभिवादनविधिश् च स्मृत्यन्तरे द्रष्टव्यः । यथाह मनुः ।
आयुष्मान् भव सौम्येति वाच्यो विप्रो ऽभिवादने ।
अकारश् चास्य नाम्नो ऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ इति । [म्ध् २.१२५]
तथा च वसिष्ठो ऽपि- “आमन्त्रिते स्वरो ऽन्त्यः प्लवते सन्ध्यक्षरम् अप्रगृह्यम् आयाव्भावं चापद्यते, तथा भोभाव् इति” [वध् १३.४६] । आयुष्मान् भव सौम्य विष्णुमित्रा अ आयुष्मान् भव सौम्य दाशरथाय, इत्येवमादयः प्रयोगाः प्रत्यभिवादनविधौ द्रष्टव्याः । अज्ञसमवाये तु उपसङ्ग्रहणं न कर्तव्यम् । एवम् अभिवादनं च । किं तत्र कर्तव्यम् इति चेत् – अभिवादये इत्य् एतावद् एव वक्तव्यम् । अभिवादनम् एव कुर्यात्, यथाह आपस्तम्बः- “दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणो ऽभिवादयीत, उरःसमं राजन्यो, मध्यसमं वैश्यो नीचैः शूद्रः प्राञ्जलिं प्लावनं च” [आप्ध् १.५.१६–१७] इत्यादि । एवं च “व्यत्यस्तपाणिना” [म्ध् २.७२] इत्यादिर् उपसङ्ग्रहणविधिः आपस्तम्बोक्तो ऽभिवादनविधिर् इत्य् अवगन्तव्यः ॥ ६.५ ॥
स्त्रीपुंयोगे ऽभिवादने ऽनियमम् एके ॥ ६.६ ॥
जायापतिविषये जायया भर्तुर् अभिवादने कर्तव्ये प्राप्त इत्य् अर्थः । यद्य् अपि भर्ता प्रत्यभिवादनज्ञः, तथाप्य् अनियमम् एके इच्छन्ति । अहम् अयम् इत्य् एवमादियमो नास्ति, येन केनचित् प्रकारेण कर्तव्यम् इति । न तु गौतमः, स तु अहम् अयम् इत्य् एवमादिना नियमेनैव कर्तव्यम् इति । वैदग्ध्यापेक्षया विकल्पः ॥ ६.६ ॥
**नाविप्रोष्य स्त्रीणाम् अमातृपितृव्यभार्याभगिनीनाम् **
॥ ६.७ ॥
अविप्रोष्य न स्त्रीणाम् उपसङ्ग्रहणं कर्तव्यम् । माता प्रसिद्धा । पितृव्यभार्या पितुर् अनुजस्य भार्या । भगिनी सोदरा ज्येष्ठा । एता वर्जयित्वा । आसाम् अन्वहम् उपसङ्ग्रहणं कर्तव्यम् । तथा च स्मृत्यन्तरम् ।
उपसङ्ग्रहणं कुर्यान् मातरं भगिनीं तथा ।
पितृव्यभार्यां च तथा सो ऽन्वहं त्व् अभिगम्य तु ॥ इति ।
अन्यासां गुरुस्थानीयानां विप्रोष्य प्रत्यागतेनाभिवादनम् उपसङ्ग्रहणं वा कर्तव्यम् । तत्रात्यन्तगुरुस्थानीयानां मातुलभार्यादीनाम् उपसङ्ग्रहणम् अन्यासाम् अभिवादनम् इति द्रष्टव्यम् ॥ ६.७ ॥
नोपसङ्ग्रहणं भ्रातृभार्याणां श्वश्र्वाश् च ॥ ६.८ ॥
विप्रोष्य प्रत्यागतेनाप्य् अत्यन्तगुरुस्थानीयद्वारेण प्राप्तं प्रतिषिध्यते । ततश् चाभिवादनं सिद्धम् । विसमासः सख्युपसङ्ग्रहणार्थः । श्वशुरसखिभार्योपसङ्ग्रहणार्थश् चशब्दः ॥ ६.८ ॥
ऋत्विक्श्वशुरपितृव्यमातुलानां तु यवीयसां प्रत्युत्थानम् अनभिवाद्याः ॥ ६.९ ॥
ऋत्विगादीनाम् आत्मनो यवीयसाम् उपस्थितानां प्रत्युत्थानमात्रेणैव पूजा कर्तव्या । यस्माद् अनभिवाद्याः, अतो नोपसङ्ग्राह्या अपि । तुशब्दो विशेषवाची । समानवयसश् च नाभिवाद्याः, विशेषतो यवीयांस इति ॥ ६.९ ॥
तथान्यः पूर्वः पौरो ऽशीतिकावरः शूद्रो ऽप्य् अपत्यसमेन ॥ ६.१० ॥
यथैते नाभिवाद्याः प्रत्युत्थेयास् तथायम् अप्य् अन्यः ऋत्विगादिभ्यः पूर्वो वयसा, पौरः समानस्थानवासी, अशीतिकावरः दृढम् अशीतिवर्षस्थ इत्य् अर्थः । ततश् च तत्प्रभृत्य् एव द्रष्टव्यः शूद्रो ऽपि । अपिशब्दात् क्षत्रियवैश्याव् अपि । अपत्यसमेन ब्राह्मणेन क्षत्रियेण वैश्येन वा अन्य असमानजातीयो ऽपि । अन्यशब्दे सत्य् अपि अपत्यसमशब्दः समानजातीयविषय एवेति कस्यचिद् आशङ्का स्याद् इति ॥ ६.१० ॥
अवरो ऽप्य् आर्यः शूद्रेण ॥ ६.११ ॥
अवरो ऽप्य् अत्यन्तनिकृष्टवयस्को ऽपि आर्यो द्विजातिः शूद्रेण प्रत्युत्थेयः । शूद्रग्रहणं वैश्यादीनाम् अप्य् उपलक्षणम्, ततश् च शूद्रेण ब्राह्मणक्षत्रियवैश्याः प्रत्युत्थेयाः, वैश्येन ब्राह्मणक्षत्रियौ, क्षत्रियेण ब्राह्मण इति द्रष्टव्यः । नमस्कारसमुच्चयार्थः अपिशब्दः ॥ ६.११ ॥
नाम चास्य वर्जयेत् ॥ ६.१२ ॥
अस्यग्रहणं वीप्सार्थम् अस्यास्येति, उत्तमस्योत्तमस्य निकृष्टो निकृष्टो न नामोच्चारयेत् । निरुपपदम् इति शेषः । चशब्दात् परिहसनं च । ततश् चोत्तम उत्तमो निकृष्टस्य निकृष्टस्य नामकारं गृह्णीयात् ॥ ६.१२ ॥
राज्ञश् चाजपः प्रेष्यः ॥ ६.१३ ॥
राज्ञश् च नाम वर्जयेत् प्रेष्यः प्रेषणकरणः ब्राह्मणः । निकृष्टत्वात् प्राप्तस्य प्रतिषेधः । स चेद् अजपः अश्रोत्रिय इति यावत् । चकाराद् वैश्यस्यापि । शूद्रस्य तु न दोषः ॥ ६.१३ ॥
भो भवन्न् इति वयस्यः समाने ऽहनि जातः ॥ ६.१४ ॥
भो भवन्न् इत्य् एवम् अभिधातव्यः । भोभवन्शब्दौ च कार्यापेक्षया प्रयोक्तव्यौ । एतावत्य् एव पूजा । यो वयस्यः सखा तस्य लक्षणं समाने ऽहनि जात इति । अहःशब्दो ऽत्र संवत्सरपर्यायः, “अब्दः संवत्सरम् अहर् जलम्” इति नैघण्टुके संवत्सरपर्यायश्रवणात् । ततश् च समाने संवत्सरे जातः । लोके ऽपि च तुल्यसंवत्सरजातेषु समानवयस्त्वं प्रसिद्धम् । ततश् चोर्ध्वं संवत्सराद् वृद्धो भवति ॥ ६.१४ ॥
दशवर्षवृद्धः पौरः ॥ ६.१५ ॥
भो भवन्न् इति वर्तते । भो भवन्न् इति वयस्यवद् अभिभाष्य इत्य् अर्थः । दशवर्षवृद्धो ऽपि पौरः समानस्थानवासी ॥ ६.१५ ॥
पञ्चभिः कलाभरः ॥ ६.१६ ॥
समानस्थानवास्य् अपि यः कलाभिर् गान्धर्वचित्रपत्रच्छेदादिभिः कलाविद्यादिभिर् जीवति स पञ्चवर्षैर् वृद्धो ऽपि वयस्यवद् अभिभाष्यः ॥ ६.१६ ॥
श्रोत्रियश् चारणस् त्रिभिः ॥ ६.१७ ॥
श्रोत्रियः मन्त्रब्राह्मणाध्यायी । चारण समानचरणः ।
केचिन् नृत्तगीतादिशीलं वर्णयन्ति ।
तद् अयुक्तम्, कलाभरशब्देनैव गतत्वात् ॥ ६.१७ ॥
राजन्यवैश्यकर्मा विद्याहीनः ॥ ६.१८ ॥
राजन्यकर्मणा वा वैश्यकर्मणा वा य उपजीवति स उत्कृष्टकर्मापि तत्स्थः तत्कर्मोपरमणात् प्राग् अत्यन्तवृद्धो ऽपि । यश् च विद्याहीनः सो ऽपि विद्योत्कृष्टस्य ॥ ६.१८ ॥
दीक्षितश् च प्राक् क्रयात् ॥ ६.१९ ॥
यो वयस्यत्वयुक्तो ऽपि दीक्षितः सः सोमविक्रयात् प्राग् एव वयस्यः । ततः परं मान्य इत्य् एवमर्थ उपदेशः । चकाराद् उत्तमाश्रमस्थो ऽपि त्रिवृत्प्राशनात् प्राग् एवेति सामर्थ्याद् द्रष्टव्यम् । तथाह उशना- “येन त्रिवृत्प्राशितः स सर्वेषां गुरुर् भवति” इति ॥ ६.१९ ॥
वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानि ॥ ६.२० ॥
वित्तादीनां साक्षान्मान्यत्वासम्भवात् तद्वन्तो मान्या इति द्रष्टव्यम् । वित्तवान् धनाढ्यः, बन्धुमान् विशिष्टसोदर्यादिबहुलः, कर्मवान् यथोक्तकारी, जातिमान् अभिजनयुक्तः, विद्यावान् अधीतवेदशास्त्रः, वयोवान् प्रकृष्टवयाः ॥ ६.२० ॥
परबलीयांसि ॥ ६.२१ ॥
यद् यत् परं तत् तत् पूर्वस्मात् पूर्वस्माद् गुरुतरं विज्ञेयम् । ततश् च वित्तवतो बन्धुमान् मान्यः । उभाभ्याम् अपि कर्मवान् इत्यादि योज्यम् । मानम् अभिवादनादि ॥ ६.२१ ॥
श्रुतं तु सर्वेभ्यो गरीयः ॥ ६.२२ ॥
श्रुतं वेदार्थपरिज्ञानम् ।
ननु च पूर्वसूत्र एवैतदन्त उपदेष्टव्यम् । ततश् च परबलीयस्त्वाद् एवैतत् सिध्यतीत्य् अतः पृथग् उपदेशो ऽनर्थः ।
उच्यते – विशेषार्थो ऽयं पृथगारम्भः । विशिष्टं श्रुतम् अत्राभिप्रेतम् । तच् च वेदार्थपरिज्ञानम् । पूर्वं वेदमात्रपाठ एव । तद्विशेषाभिधाय्य् एव तुशब्दो ऽपि । ततश् चायं सर्वैर् अपि मान्यः ॥ ६.२२ ॥
कुतः ।
तन्मूलत्वाद् धर्मस्य ॥ ६.२३ ॥
यच् छ्रुतवान् आचरति तद् अपि धर्मस्य मूलत्वेन पूर्वम् एव प्रतिपादितम्- “तद्विदां च स्मृतिशीले” [ग्ध् १.२] इति । तथा च मनुः ।
वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च ॥ इति । [म्ध् २.६]
अथ वा वेदार्थपरिज्ञानपूर्वकत्वात् स्मृतेः । यथाह मनुः ।
श्रुतिं पश्यन्ति मुनयः स्मरन्ति तु तथा स्मृतिम् ।
इति ॥ ६.२३ ॥
श्रुतेश् च ॥ ६.२४ ॥
श्रुतेर् अपि स एव गरीयान् । श्रुतिर् अपि मनुनोक्तं शैशवब्राह्मणं द्रष्टव्यम् ।
अध्यापयामास पितॄन् शिशुर् आङ्गिरसः कविः ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ [म्ध् २.१५१]
इत्यादि । श्रुत्युदाहरणोपादानं श्रुतस्याध्ययनप्रकर्षे सति बलीयस्त्वज्ञापनार्थम् ॥ ६.२४ ॥
चक्रिदशमीस्थानुग्राह्यवधूस्नातकराजभ्यः पथो दानम् ॥ ६.२५ ॥
चक्र्यादीनाम् अतद्गुणैर् अन्यैः पथो दानेनोपकर्तव्यम् । चक्रं शकटं ततः चक्री । दशमीस्थो दशम्यां दशायां वर्तमानः अत्यन्तवृद्ध इत्य् अर्थः । अनुग्राह्यो रोगार्तः । वधूर् गर्भिणीत्येवमादिः । स्नातको विद्याव्रतस्नातकः । राजा अभिषिक्तः ॥ ६.२५ ॥
राजब्राह्मणयोः समागमे –
राज्ञा तु श्रोत्रियाय श्रोत्रियाय ॥ ६.२६ ॥
तुशब्दो विशेषणार्थः । यदि राजाल्पतरः स्यात् श्रोत्रियस् त्व् अधिकसम्पन्नः प्रकृत एव स्नातकः, ततस् तस्मै राज्ञा पन्था देयः । एवं चान्यै राज्ञ एव देयः । पूर्वेषाम् अपि यथानुग्राह्यं परस्परसन्निधाने द्रष्टव्यम् ॥ ६.२६ ॥
इति गौतमभाष्ये मस्करीये षष्ठो ऽध्यायः समाप्तः
सप्तमो ऽध्यायः
“श्रुतं तु सर्वेभ्यो गरीयः” [ग्ध् ६.२२]_ इति विद्याप्राधान्यम् उक्तम् । तदधिगमश् च ब्राह्मणात् कर्तव्यः, तस्यैव प्रवचनाधिकारात् । यदा तु प्रवचनसमर्थब्राह्मणाभावः तदा कथम् इत्य् आह ।_
आपत्कल्पो ब्राह्मणस्याब्राह्मणाद् विद्योपयोगः ॥ ७.१ ॥
आपत्कल्प इत्याध्यायपरिसमाप्तेर् अधिकारः क्रियते । आपत् प्रवचनसमर्थब्राह्मणाभावः, तत्र यः कल्पः विधिः सः आपत्कल्पः । आपद्य् अपि क्षत्रियवैश्ययोर् ब्राह्मणाद् एव विद्याधिगमप्रापणार्थं ब्राह्मणग्रहणम् । अब्राह्मणाः क्षत्रियवैश्याः, इतरेषाम् अध्ययनाधिकाराभावात् । तत्रापि प्रथमं क्षत्रियात् ततो वैश्याद् इति द्रष्टव्यम्, “तदलाभे वैश्यवृत्तिः” [ग्ध् ७.७] इति दर्शनात् । विद्याश् चतुर्दश । तथा स्मृत्यन्तरम् ।
अङ्गानि वेदाश् चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्यास् त्व् एताश् चतुर्दश ॥ इति ।
उपयोगः स्वीकरणम्, युजेः सम्बन्धवचनत्वात् । अनयैवान्यथानुपपत्त्या क्षत्रियवैश्ययोर् अध्यापनम् अनुमीयते । तद् अप्य् अदृष्टार्थम् एव,
षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः ॥ इति । [म्ध् १०.७६]
ब्राह्मणस्यैव दृष्टार्थं नेतरयोर् इति मनुना प्रतिषिद्धत्वात् । अब्राह्मणाद् अध्ययनम् इति वक्तव्ये विद्योपयोग इत्य् आरम्भः आपदि अब्राह्मणाद् अध्ययनम् एव कर्तव्यम् इति नियमार्थः । ततश् च ब्रह्महत्यादौ सर्वस्वदानचोदनायां प्रतिग्रहसमर्थब्राह्मणाभावे ऽपि क्षत्रियादेर् न दातव्यम् ॥ ७.१ ॥
इदानीम् अध्ययनद्वारेण समस्तशुश्रूषाप्राप्ताव् आह ।
अनुगमनं शुश्रूषा ॥ ७.२ ॥
गच्छतः पृष्ठतो ऽनुगमनमात्रम् एव शुश्रूषा । नान्यद् अभिवादनादि कर्तव्यम् । अध्ययनकालाद् अन्यद् एतद् उच्यते, तत्रार्थप्राप्तत्वात् ॥ ७.२ ॥
समाप्ते ब्राह्मणो गुरुः ॥ ७.३ ॥
समाप्ते अध्ययने ऽनुगमनमात्रम् अपि न कर्तव्यम् । ब्राह्मणस्यैव तेनाध्यापकेन कर्तव्यम्, “अनुगमनं शुश्रूषासमाप्तेः” इति वक्तव्ये “ब्राह्मणो गुरुर्” इति वचनात् ॥ ७.३ ॥
इदानीम् अन्यो ऽप्य् आपत्कल्प उच्यते ।
याजनाध्यापनप्रतिग्रहाः सर्वेषाम् ॥ ७.४ ॥
सर्वग्रहणेनाप्रशस्तास् त्रय एव वर्णा गृह्यन्ते प्रशस्तानाम् अनापदि विधानात्, शूद्रस्य ऽवृत्तिश् चेन् नान्तरेण शूद्रात्” [ग्ध् १७.५] इत्यारम्भात् । पञ्चम्यन्तः सर्वशब्दः प्राप्नोतीति चेत् – सकाशाद् इत्य् अध्याहारान् न दोषः । सर्वेषाम् इति बहुवचनम् अनुलोमोपसङ्ग्रहार्थम् । ब्राह्मणस्यैतद् उच्यते, अधिकारात्, “तदलाभे क्षत्रवृत्तिः” इति च लिङ्गात् । ततश् चास्याम् अवस्थायां गर्हितयाजनादिभिर् न दोषः, शास्त्रचोदनासामर्थ्यात् । तथाह मनुः ।
नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥ [म्ध् १०.१०३]
सर्वतः प्रतिगृह्णीयात् ब्राह्मणस् त्व् अनयं गतः ॥ [म्ध् १०.१०२]
इत्यादि । तथा च श्रुतिः- “तस्माद् यया कया च विधया बह्वन्नं प्राप्नुयात्” [तैतुप् ३.१०.१] इति ॥ ७.४ ॥
पूर्वः पूर्वो गुरुः ॥ ७.५ ॥
एषां याजनादीनां यो यः पूर्वं निर्दिष्टः स स उत्तरस्माद् गुरुर् ज्ञेयः । ततश् च उत्तरेणोत्तरेण जीवनासम्भवे पूर्वेण पूर्वेण जीवेद् इति क्रमप्रतिपादनार्थं पूर्ववचनम् । क्रमलङ्घने प्रायश्चित्तं द्रष्टव्यम्, पूर्वः पूर्वः सन्न् इति वक्तव्ये गुरुग्रहणात् ॥ ७.५ ॥
तदलाभे क्षत्रवृत्तिः ॥ ७.६ ॥
स्याद् इति शेषः । पूर्वप्रकारायाः ब्राह्मणवृत्तेर् अलाभे क्षत्रवृत्तिः32 सवादिना उपजीवनं रक्षणादिना वा । तद्ग्रहणम् अत्यन्तनिर्गुणापि ब्राह्मणवृत्तिर् एव वरम् इति ज्ञापनार्थम् । तथा च मनुः ।
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
परधर्मेण जीवन् हि सद्यः पतति जातितः ॥ इति । [म्ध् १०.९७]
“तथा वा क्षत्रवृत्तिः” इत्य् उक्ते अभावे वैकल्पिकेन वाशब्देनैव ब्राह्मणवृत्त्यभावे क्षत्रवृत्तिर् इति लभ्यमाने अलाभग्रहणं क्षत्रवृत्त्या जीवतो ऽपि यदा ब्राह्मणवृत्तिर् एव जिवनायालं भवति तदा क्षत्रवृत्तिम् उत्सृज्य ब्राह्मणवृत्तिर् एवाश्रयितव्येति । तथा च नारदः ।
आपदं ब्राह्मणस् तीर्त्वा क्षत्रवृत्त्या भृते जने ।
उत्सृजेत् क्षत्रवृत्तिं तां कृत्वा पावनम् आत्मनः ॥ न्स्म् १.५५]
॥ ७.६ ॥
तदलाभे वैश्यवृत्तिः ॥ ७.७ ॥
अलाभग्रहणं वृत्तिसङ्करो मा भूद् इति । एवं च सङ्करे ऽपि प्रायश्चित्तं द्रष्टव्यम् । तद्ग्रहणम् उक्तव्याख्यानम् । अत्र तु विधानाभावाद् एव उत्तमवृत्त्याश्रयणप्रसङ्ग एव नास्ति । यथाह वसिष्ठः- “न तु कदाचिज् ज्यायसीम्” [वध् २.२३] इति ॥ ७.७ ॥
तस्यापण्यम् ॥ ७.८ ॥
तद्ग्रहणं ब्राह्मणस्यैव न क्षत्रियस्य वैश्यवृत्तिस्थितस्येति । एवं च वैश्यस्यार्थसिद्धं विक्रेयत्वं प्रतिषिद्धं त्यक्त्वा दत्वा प्रतिषिद्धस्याप्रतिषिद्धस्य चादानम् । तदभावे अपण्यम् अपि विक्रेयम् ॥ ७.८ ॥
किं तद् अपण्यम् इत्य् अत आह ।
गन्धरसकृतान्नतिलशाणक्षौमाजिनानि ॥ ७.९ ॥
गन्धम् अनुलेपनम्, रसस् तैलादि, कृतान्नं मोदकादि, तिलाः प्रसिद्धाः, शाणं शणविकारः, क्षौमं क्षुमा अतसी तद्विकारः । विकारप्रतिषेधात् प्रकृतेर् अप्रतिषेधः । अजिनं चर्म ॥ ७.९ ॥
रक्तनिर्णिक्ते वाससी ॥ ७.१० ॥
रक्तं लाक्षादिविकृतम्, निर्णिक्तं प्रक्षालितम् ॥ ७.१० ॥
क्षीरं सविकारम् ॥ ७.११ ॥
क्षीरं पयः विकारैः सह दध्यादिभिः । इह विकारग्रहणात् तिलविकाराणाम् अप्रतिषेधो विज्ञायते । अथ वा यत्र केवलस्य क्षीरस्यैव निर्देशः तत्र सविकारस्यापि ग्रहणम् इत्य् एवमर्थं विकारग्रहणम् । यः पूर्वः पक्षः तस्मिन् शाणक्षौमयोर् विकारनिर्देशः प्रकृतिप्रतिषेधार्थ इति वक्तव्यम् ॥ ७.११ ॥
मूलफलपुष्पौषधमधुमांस-
तृणोदकापथ्यानि ॥ ७.१२ ॥
मूलं हरिद्रादि, फलं क्रमुकफलादि, पुष्पं दमनकादि, औषधं मसूरादि, मधु माक्षिकादि । रसग्रहणेनैव मधुनः प्रतिषेधे सिद्धे “सर्वथा तु वृत्तिर् अशक्तौ” [ग्ध् ७.२२] इत्य् अत्रापि पक्षे प्रतिषेधार्थं पुनर् वचनम् । मांसोदके प्रसिद्धे । तृणं प्रसिद्धम् । अपथ्यं विषम् ॥ ७.१२ ॥
पशवश् च हिंसासंयोगे ॥ ७.१३ ॥
पशवो गवादयः हिंसासंयोगे न विक्रेयाः । योग इति सिद्धे उपसर्गारम्भाद् यजमानहस्ते ऽपि न विक्रेयाः । तत्र हिंसायां दोषाभावाद् हिंसासंयोगो नास्तीति चेत्, सत्यम्, स तु यजमानस्यैव नेतरस्येति । चशब्दान् मयूरादीनि च ॥ ७.१३ ॥
पुरुषवशाकुमारीवेहतश् च नित्यम् ॥ ७.१४ ॥
पुरुषो मनुष्यः, तद्ग्रहणं स्त्रिया अपि, जातिवचनत्वात् । तथा च श्रुतिः- “पुरुषशीर्षम् उपदधाति न स्त्रियाः” इति । वशा वन्ध्या गौः । कुमारी गौर् एव । मनुष्यकुमार्याः स्त्रीत्वात् पुरुषग्रहणेनैव सिद्धत्वात् । वेहत् गर्भघातिनी, सापि गौर् एव, पूर्वोक्तेनैव न्यायेन । चशब्दः काकवन्ध्याद्युपसङ्ग्रहणार्थः । नित्यम्, हिंसासंयोगाद् अन्यत्रापीति केचित् । तद् अयुक्तम्, हिंसासंयोगे पशुत्वाद् एव सिद्धे पुनर् आरम्भसामर्थ्याद् एवान्यत्र लब्धुं शक्यत इति । नित्यशब्देन द्रव्यं विशेषयन्ति नित्यम् एवंरूपा इति । तद् अप्य् अयुक्तम्, पुरुषादयः कदाचिद् अप्य् अनेवंरूपा न भवेयुर् इति । ततश् च नित्यशब्दो ऽन्येषां तिलादीनाम् अनित्यत्वसूचनार्थः । ततः स्वयं कृष्योत्पादितानां तिलादीनां विक्रेयत्वम्, अन्यथोत्पादितानाम् अविक्रेयत्वम् इति द्रष्टव्यम् । तथाह वसिष्ठः- “कामं वा स्वयं कृष्योत्पाद्य् तिलान् विक्रीणीरन्” [वध् २.३१] इति । तिलान् अपि विक्रीणीरन् किं पुनर् अन्यान् इति तत्रार्थः ॥ ७.१४ ॥
**भूमिव्रीहियवाजाव्यश्वर्षभधेन्वनडुहश् **
चैके ॥ ७.१५ ॥
भूमिः गृहं “क्षयो वेश्म गृहं भूमिर् निकेतनम्” इत्यादि नैघण्टुके गृहपर्यायश्रवणात् । व्रीहिः प्रसिद्धः, यवश् च, तद्ग्रहणं धान्योपलक्षणम् । अजः छागः । अविः प्रसिद्धः । अश्वो हयः । ऋषभः पुङ्गवः । धेनुर् दोग्ध्री । अनड्वान् शकटवहनसमर्थो बलीवर्दः । एते न विकेयाः हिंसासंयोगाद् अन्यत्रापीत्य् एके आचार्याः, न तु गौतमः । उष्ट्रोपसङ्ग्रहणार्थश् चकारः । यथाह उशना- “उष्ट्रर्षभहया न विक्रेयाः” इति । नित्यत्वानुकर्षणार्थश् च इत्य् एके
॥ ७.१५ ॥
** निमयस् तु ॥ ७.१६ ॥**
कर्तव्य इति शेषः । निमयः द्रव्याभ्यां प्रतिषिद्धाभ्यां परिवृत्तिः । तुशब्दो विशेषवाची, समतो हीनतो वापि निमयः कर्तव्यः । तथा च वसिष्ठः- “समतो हीनतो वापि निमातव्यः” इति
॥ ७.१६ ॥
रसानां रसैः ॥ ७.१७ ॥
निमये कर्तव्ये रसानां तैलादीनां रसैर् गुडादिभिर् एव निमयः कर्तव्य इति नियमार्थः सुत्रारम्भः ॥ ७.१७ ॥
पशूनां च ॥ ७.१८ ॥
तृतीयान्तपशुशब्दप्रापणार्थश् चकारः, पशूनां पशुभिर् इति । प्रतिषिद्धविक्रयपशुविषयं द्रष्टव्यम् । अप्रतिषिद्धानां विक्रेयत्वाद् एव सिद्धत्वात् ॥ ७.१८ ॥
न लवणकृतान्नयोः ॥ ७.१९ ॥
लवणं रसान्तरेण न निमातव्यम् । रसानां रसैर् इति नियमात् प्राप्तं प्रतिषिध्यते । कृतान्नं येन केनचिद् अपि द्रव्यान्तरेण, प्राप्त्यभावात् ॥ ७.१९ ॥
तिलानां च ॥ ७.२० ॥
निमयप्रतिषेधानुकर्षार्थश् चशब्दः – तिलानां33 येन केनचिद् अपि निमयो नास्तीत्य् अर्थः । आपदि धान्येन समेन निमयाभ्यनुज्ञानार्थं पृथग्ग्रहणम् । तथाह मनुः-34 “तिला धान्येन तत्समाः” [म्ध् १०.९४] इति ॥ ७.२० ॥
इदानीं कृतान्नस्य प्रतिप्रसवार्थम् आह ।
समेनामेन तु पक्वस्य सम्प्रत्यर्थे ॥ ७.२१ ॥
समेन तुल्येनामेन सह पक्वस्य निमयो भवति । सम्प्रत्यर्थे यदि तस्मिन्न् एव काले कृतान्नम् उपभुज्यते । तुशब्दः समविशेषवाची, ततश् च तण्डुलेनेति द्रष्टव्यम् ।
केचित् – तेनैव प्रकारेण निमयः कर्तव्यः नान्येनेति नियमार्थं तुशब्दम् आहुः ।
तद् अयुक्तम्, सूत्रारम्भसामर्थ्याद् एव नियमसिद्धेः । यदि येन केनचिन् निमयो भवेत् तदानीम् “निमयस् तु” इति सामान्यविहितेनैव सिद्धत्वाद् अनारम्भः प्राप्नोति । ततश् च रसादीनि यानि द्रव्याणि तानि द्रव्यविशेषैर् एव निमातव्यानि । शेषाणां त्रयाणां येन केनचिद् इति द्रष्टव्यम् । तण्डुलैः प्रस्थादिपरिमितैः सह तन्मात्रैर् एव पक्वान्नस्य नियमः कर्तव्य इत्य् अर्थः । एवं च “गन्धरसकृतान्न” इत्य् अत्र कृतान्नशब्दस् तण्डुलेष्व् अपि वर्तत इति ज्ञापयति । अन्यथा विक्रयप्रतिषेधाभावान् निमयारम्बो न प्राप्नोति, यस्मात् प्रतिषिद्धानाम् एव निमयारम्भ इति ॥ ७.२१ ॥
सर्वथा तु वृत्तिर् अशक्ताव् अशौद्रेण ॥ ७.२२ ॥
प्रतिषिद्धविक्रयनिमयजात्यन्तरवृत्तिसमुच्चयैर् अपि जीवेत् । अशक्तौ अत्यन्तापदि, अशौद्रेण तत्रापि शूद्रवृत्तिम् उच्छिष्टाशनशिल्पवृत्त्यादि वर्जयेत् । आपद्विहितस्य किञ्चित् पापसूचनार्थस् तुशब्दः । उदाहृतं च स्मृत्यन्तरम्- “कृत्वा पावनम् आत्मनः” इति ॥ ७.२२ ॥
तद् अप्य् एके प्राणसंशये ॥ ७.२३ ॥
तद् अपि शूद्रकर्म मरणसन्देहे प्राप्ते एके इच्छन्ति, प्राणानाम् अवश्यरक्षणीयत्वात् । तथा च व्यासः ।
धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः ।
तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ इति ।
प्राणग्रहणेन च तदधीनवृत्तीनां पुत्रदारादीनाम् अपि ग्रहणम् “प्राणा ह्य् एते बहिश्चराः” इति दर्शनात् । एकेग्रहणान् न तु गौतमः, अस्याम् अप्य् अवस्थायां गर्हितत्वाद् इति । इह प्राणसंशयग्रहणात् विज्ञायते अन्याप्य् आपद् अस्तीति । ततश् च यस्याम् अवस्थायां पूर्वकल्पोपदेशः सा नित्यानां कर्मणाम् अनुष्ठानसामर्थ्यलक्षणा विज्ञेया । यथाह
मनुः ।
देवतातिथिभृत्यानां पितॄणाम् आत्मनश् च यः ।
न निर्वपति पञ्चानाम् उच्छवसन् न स जीवति ॥ [म्ध् ३.७२]
इति ॥ ७.२३ ॥
तद्वर्णसङ्कराभक्ष्यनियमस् तु ॥ ७.२४ ॥
तद्ग्रहणेन शूद्र उच्यते । सङ्करः सहासनादिना । अभक्ष्यं तदुच्छिष्टादि, तद्योग्यं वा लशुनादि, तयोर् नियमो वर्जनम् । तुशब्दो विशेषवाची – अस्याम् अवस्थायां विशेषेण ब्राह्मणस्येति ॥ ७.२४ ॥
प्राणसंशये ब्राह्मणो ऽपि शस्त्रम् आददीत ॥ ७.२५ ॥
प्राणग्रहणेन पुत्रदारहिरण्यादेर् अपि ग्रहणम्, “प्राणा ह्य् एते बहिश्चराः” इति दर्शनात् । अपिशब्दाद् वैश्यशूद्राव् अपि । क्षत्रियस्यार्थसिद्धत्वात् रक्षणादौ प्रवृत्तेः । यद् वा क्षत्रियस्यापि ॥ ७.२५ ॥
राजन्यो वैश्यकर्म वैश्यकर्म ॥ ७.२६ ॥
क्षत्रियो ऽपि स्वकर्मणा जीवितुम् अशक्तः सन् वैश्यवृत्तिम् आतिष्ठेत् तस्याप्य् अपण्यप्रतिषेधो नास्तीत्य् उक्तम् । यथा ब्राह्मणस्य क्षत्रियवृत्तिर् एव क्षत्रियस्यापि वैश्यवृत्तिः तथा वैश्यस्यापि शूद्रवृत्तिः, यथा ब्राह्मणस्य वैश्यवृत्तिर् एवं क्षत्रियस्यापि शूद्रवृत्तिर् इत्य् एवं कल्पना न भवेद् इति ज्ञापनार्थः सूत्रारम्भः । कुतः? यदि ब्राह्मणवद् इतरेषाम् अभीष्टं स्यात्35 तदा सर्वे अनन्तरैकान्तरां वृत्तिम् आतिष्ठेयुर् इत्य् अवक्ष्यत् । तद् अनुक्त्वा “राजन्यो वैश्यकर्म” इत्यारम्भात् क्षत्रियस्यैवापदि विहिता वृत्तिः न वैश्यशूद्रयोः, क्षत्रियस्यापि न शूद्रवृत्तिर् इति ज्ञापयति । ततश् च क्षत्रियो ऽपि वैश्यवृत्तिम् आतिष्ठेद् आपदि । तथा च मनुः ।
जीवेद् एतेन राजन्यः सर्वेणाप्य् अनयं गतः ॥ [म्ध् १०.९५]
इति ॥ ७.२६ ॥
इति मस्करीये गौतमभाष्ये सप्तमो ऽध्यायः
अष्टमो ऽध्यायः
अथ यद्य् आपद्विहिते कर्मणि कश्चिद् दोषापरिज्ञानात् लोभाद् वा प्रसज्येत ततो ऽसौ केन निवार्यः । राजब्राह्मणाभ्याम् उपदेशदण्डाभ्याम् । यतस् ताव् एव –
**द्वौ लोके धृतव्रतौ राजा ब्राह्मणश् च **
बहुश्रुतः ॥ ८.१ ॥
द्वाव् इति प्रकर्षवाची न सङ्ख्यानिर्देशः द्विवचननिर्देशाद् एव द्वित्वसिद्धेः । अस्ति चातिशयार्थः सङ्ख्यानिर्देशः, यथा- “अस्मिन् ग्रामे द्वाव् एव ब्राह्मणौ” इति । तत्र गम्यते – अन्ये ऽपि ब्राह्मणाः सन्ति, द्वाव् एवानुष्ठानपराव् इति । अत्रापि राजब्राह्मणयोर् अतिशयेन धृतव्रतत्वार्थम्, नान्येषां प्रतिषेधार्थम् । लोकग्रहणं विप्सार्थम्, लोकसङ्घाते लोके राष्ट्र इत्य् अर्थः । अन्यथा सर्वकर्मणां लोकाधिकारत्वाद् अनर्थकम् एवैतत् स्याद् इति । एवं च यथा प्रतिराष्ट्रं राज्ञा भवितव्यं तथा बहुश्रुतेनापि भवितव्यम् इति गम्यते । धृतव्रतौ व्रतानां कर्मणां धारयितारौ । राजा क्षत्रियः, स चाभिषेकादिगुणयुक्तः “स मूर्धाभिषिक्तो राजा भवति” इति शङ्खवचनात् । ब्राह्मणश् च बहुश्रुतः । सत्य् अपि ब्राह्मणस्य प्राधान्ये राज्ञः पूर्वनिर्देशो बहुश्रुतत्वस्य ब्राह्मणविशेषणार्थम् । राज्ञे ऽपि बहुश्रुतत्वानुकर्षणार्थश् चकार । ततश् च राज्ञो ऽपि बहुश्रुतत्वेन भवितव्यम्, ब्राह्मणस्य विशेषेणेति द्रष्टव्यम् । बहुश्रुतः बह्व् अनेन श्रुतम् इति । राजब्राह्मणौ बहुश्रुताव् इति वक्तव्ये विसमासनिर्देशो राज्ञो ऽप्य् अतिशयेन शौर्यादिगुणयोगार्थः । ततश् च तौ धृतव्रतौ स्याताम् इति शेषः ॥ ८.१ ॥
यतः ।
तयोश् चतुर्विधस्य मनुष्यजातस्यान्तःसञ्ज्ञानां च चलनपतनसर्पणानाम् आयत्तं जीवनम् ॥ ८.२ ॥
तयोः समुदितयोः समाननिर्देशात् । चतुर्विधस्य मनुष्यजातस्य चातुर्वर्ण्यस्येत्य् अर्थः । अन्तःसञ्ज्ञाः अनुलोमप्रतिलोमाः चकारात् देवानां च, “इतः प्रतिदानाद् धि देवा उपजीवन्ति” इति श्रुतेः । चलनाः स्थावराः वृक्षादयः, पतनाः पक्षिणः, सर्पणा कीटादयः । एतेषाम् आयत्तम् आधीनं जीवनं प्राणधारणम् । कथं? ब्राह्मणेनानुगृह्यमाणा वर्णाश्रमिणः दृष्टादृष्टार्थक्रियानुष्ठानात् वृष्ट्यादिनिमित्तद्वारेण लोकोपकारे वर्तन्त इति तावद् ब्राह्मणायत्तम् । तथा च मनुः ।
अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । [म्ध् ३.७६]
इत्यादि । राजा च परिपन्थिनिग्रहद्वारेण हिंसानिग्रहद्वारेण च साक्षाज् जीवनहेतुर् इति ॥ ८.२ ॥
न च जीवनमात्रम् एव तयोर् आयत्तम्, किं तु –
प्रसूती रक्षणम् असङ्करो धर्मः ॥ ८.३ ॥
प्रसूतिर् अभिवृद्धिः, सा च तदायत्ता, राजब्राह्मणदण्डधारणोपदेशाभ्यां यथोक्तकारित्वात् वृष्ट्यादिद्वारेण रोगाद्युपद्रवाभावाच् च वृद्धिर् भवतीति । चोरादिनिग्रहाद् रक्षणं च दण्डधारणप्रायश्चित्तोपदेशात्, सङ्कराभावश् च यमनियमोपदेशात् । विहिताकरणे प्रतिषिद्धसेवने च दण्डधारणाद् धर्मो ऽपि तदायत्त एव ॥ ८.३ ॥
इदानीं कियता पुनः श्रुतेन बहुश्रुतो भवतीत्य् अत आह ।
स एष बहुश्रुतो भवति ॥ ८.४ ॥
स एष इति परोक्षप्रत्यक्षोपदेशः । “श्रुतं तु सर्वेभ्यो गरीयः” [ग्ध् ६.२२] इत्य् अत्राप्य् एवंरूपस्यैव ग्रहणम् इति । बहुश्रुतो भवति सम्पद्यत इत्य् अर्थः । भवतिग्रहणं च यद्य् अप्य् एषां लोकादीनाम् ईषद्विज्ञानं भवति किञ्चिद् अन्यद् अपि श्रुतम्, तथापि भवत्य् एवेत्य् एवमर्थम्, अन्यथा स एव बहुश्रुत इत्य् एव सिद्धत्वात् ॥ ८.४ ॥
लोकवेदवेदाङ्गवित् ॥ ८.५ ॥
लोकशब्देन लोकव्यवहारा ग्राममर्यादादय उच्यन्ते । वेदशब्देन उपवेदा आयुर्वेदधनुर्वेदादयः उच्यन्ते । द्वितीयेन वेदशब्देन चत्वारो वेदा उच्यन्ते । अङ्गशब्देन व्याकरणशिक्षाछन्दोविचितिकल्पसूत्रज्यौतिषनिरुक्तान्य् उच्यन्ते । विच्छब्दः प्रत्यकम् अभिसम्बध्यते । वेदव्विद् इत्य् अनेनैव वेदपाठो ऽपि द्रष्टव्यः, स्मृत्यन्तरे अनधीतवेदस्यान्यविद्याप्रतिषेधात् । यथाह मनुः ।
यो ऽनधीत्य द्विजो वेदान् अन्यत्र कुरुते श्रमम् ।
स जीवन्न् एव शूद्रत्वम् आशु गच्छति सान्वयः ॥ [म्ध् २.१६८]
इति ॥ ८.५ ॥
वाकोवाक्येतिहासपुराणकुशलः ॥ ८.६ ॥
वाकोवाक्यम् उक्तिप्रत्युक्तिरूपं तर्कशास्त्रम् इत्य् अर्थः । तथा च मनुः ।
यस् तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥ इति । [म्ध् १२.१०६]
इतिहासो भारतरामायणम् । पुराणम् – यत्र सृष्टिस्थितिसंहारा उच्यन्ते तत् पुराणं ब्रह्माण्डादि । एतेष्व् अपि कुशलः निपुणः अर्थेष्व् एव न पूर्वेष्व् इव ग्रन्थार्थयोः, क्रियापदान्तरारम्भात् । एवं च न केवलं वेद एव पठितव्यः, अङ्गं च । तथा च स्मृत्यन्तरम्- “साङ्गो वेदो ऽध्येतव्यः” इति ॥ ८.६ ॥
तदपेक्षस् तद्वृत्तिः ॥ ८.७ ॥
तदपेक्षः वेदप्रसिद्धार्थानुवचनशीलः । तद्वृत्तिः तदभिहितकर्मानुष्ठानपरः ॥ ८.७ ॥
चत्वारिंशता संस्कारैः संस्कृतः ॥ ८.८ ॥
ते च वक्ष्यमाणाः गर्भाधानादयः, तैश् चोपेतः । वक्ष्यमाणत्वाद् एव सिद्धे सङ्ख्यानिर्देशः समुच्चयार्थो मा भूद् इति, बहुवचनस्य प्रयोगात् त्रिप्रभृतिषु कृतार्थतेति । “यस्य तु खलु संस्काराणाम् एकदेशो ऽपि” [ग्ध् ८.२५] इत्य् अत्रापिशब्दात् समुच्चयो ऽपि गम्यत इति चेत्, न, एकदेशशब्दस्य संस्कारावयववाचित्वेनापि कृतार्थत्वप्रसङ्गात् । अत इह समुच्चयाभिधानात् यत्र एकदेशग्रहणेन कतिपयसंस्कारग्रहणसिद्धिः ॥ ८.८ ॥
त्रिषु कर्मस्व् अभिरतः ॥ ८.९ ॥
तानि साङ्गाध्ययनदानेज्यालक्षणानि “द्विजातीनाम् अध्ययनम्” [ग्ध् १०.१] इत्य् अत्रोक्तानि । तेष्व् अभिरतः सततानुष्ठानशीलः । “तद्वृत्तिः” [ग्ध् ८.७] इत्य् अनेनैवानुष्ठाने सिद्धे विशेषार्थः पुनर् आरम्भः । विशेषश् चातिशयेन तत्सेवनम्, अदृष्टार्थत्वज्ञापनं वा ॥ ८.९ ॥
** षट्सु वा ॥ ८.१० ॥**
याजनाध्यापनप्रतिग्रहैः सह षड् भवन्ति । एषाम् अप्य् अदृटार्थत्वज्ञापनार्थः पुनरारम्भः ॥ ८.१० ॥
सामयाचारिकेष्व् अभिविनीतः ॥ ८.११ ॥
सामयिकाः स्मार्ताः उपनिबद्धाः । आचारिकाः शिष्टाचरिताः पदार्थाः अनुपनिबद्धाः । तेषूभयविधेषु कर्मस्व् अभिविनीतः ज्ञात्वानुष्ठानरतः ॥ ८.११ ॥
एवंरूपो ब्राह्मणः ।
षड्भिः परिहार्यो राज्ञा अवध्यश् चाबन्ध्यश् चादण्ड्यश् चाबहिष्कार्यश् चापरिवाद्यश् चापरिहार्यश् चेति ॥ ८.१२ ॥
अबुद्धिपूर्वे सत्य् अप्य् अपराधे वधादियोग्ये, बुद्धिपूर्वकस्य प्रसङ्गाभावात् तद्वृत्तित्वात्, षड्भिः परिवर्जनीयः । षड्ग्रहणाद् अपराधसमुच्चये ऽपि । [वधः] पुनः पुनस् ताडनम् इति, तस्याप्रसङ्गात् । बन्धो निगलादियोगः । दण्डो धनापहरणम् । बहिष्करणं ग्रामादिभ्यो निर्वासनम् । परिवादो दोषसङ्कीर्तनम् । परिहारस् त्यागः । अनुमन्ता प्रयोजयिता च न स्याद् इत्य् एवमर्थः चकारः । इतिकरणं प्रकारवाचि । ततश् च सम्भाषणादि न कर्तव्यम् ॥ ८.१२ ॥
“चत्वारिंशता संस्कारैः” [ग्ध् ८.८] इत्य् उक्तम् । के पुनस् ते इति तान् आह ।
गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्म-नामकरणान्नप्राशनचौलोपनयनम् ॥ ८.१३ ॥
गर्भाधानादयः प्रतिगृह्यम् आम्नाताः । इहाभिधानं तु संस्कारत्वज्ञापनार्थम् । मनुनापि चैषां संस्कारत्वम् उक्तम्- “निषेकादिः श्मशानान्तः” [म्ध् २.१६] इत्यादि । गर्भाधानम् ऋवाव् एव “संवेशने हुत्वा” इत्यादि प्रतिगृह्यं द्रष्टव्यम् । पुंसवनं तृतीये मासि चोद्यते प्रथमे गर्भे नान्यत्र, तत्र तु व्यक्ते गर्भे । प्रतिगर्भं केचिद् इच्छन्ति । केचिद् एकम् एव । तथा सीमन्तोन्नयनम् अपि । तत् चतुर्थे षष्ठे अष्टमे वा चोद्यते । जातकर्मापि स्तनप्राशनान्नाभिवर्धनाद् वा प्राग् द्रष्टव्यम् । नामकरणं दशमे द्वादशे वाह्नि पुण्ये नक्षत्रे वा । अन्नप्राशनं षष्ठे मासे संवत्सरे वा । यथाह शङ्खः- “संवत्सरे ऽन्नप्राशनं षष्ठे वा” इति । चौलं संवत्सरे तृतीये वा । उपनयनम् उक्तम् । उपनिष्क्रमणं च अन्नप्राशन एवान्तर्भूतत्वान् नोक्तम् । तद् उक्तं मनुना ।
मासे चतुर्थे कर्तव्यं शिशोर् निष्क्रमणं गृहात् । [म्ध् २.३४]
इति ॥ ८.१३ ॥
किं च ।
चत्वारि वेदव्रतानि ॥ ८.१४ ॥
ब्रह्मग्रहणार्थत्वात् पृथग् उपदेशः । प्रतिवेदं चत्वारि चत्वारि गृहीतव्यानीत्य् एवमर्थं वेदग्रहणम् ॥ ८.१४ ॥
किं च ।
स्नानं सहधर्मचारिणीसंयोगः पञ्चानां यज्ञानाम् अनुष्ठानं देवपितृमनुष्यभूत-ब्रह्मणाम् एतेषां च ॥ ८.१५ ॥
स्नानं समावृत्तिः । सहधर्मचारिणीसंयोगो विवाहः । विसमासो नावश्यम् अनन्तरम् एव विवाह इति ज्ञापनार्थः । विवाह इति वक्तव्ये सहधर्मचारिणीग्रहणं दारपरिग्रहस्य कर्मार्थत्वज्ञापनार्थम् । एवं चाकृतदारस्य विधुरस्य च पञ्चयज्ञाद्यभावे न दोषः । पञ्चानां यज्ञानां देवयज्ञादीनाम् अनुष्ठानं करणम् । अनुष्ठानाभिसम्बन्धार्थः षष्ठ्या निर्देशः । अनुष्ठानग्रहणं च नाग्निष्टोमादिवत् कदाचिद् एव । किं तु अहर् अहर् इत्य् एवमर्थम् । यद्य् अपि देवयज्ञादय एव पञ्च महायज्ञाः, तथापि देवादीनाम् उपादानं पण्च संस्कारा इत् ज्ञापनार्थम्, अन्यथा पञ्चयज्ञानुष्ठानम् एक एव संस्कार इत्य् आशङ्का स्याद् इति । देवादयो व्याख्याताः । “एतेषां च” इत्य् आत्मगुणसमुच्चयार्थश् चकारः । ततश् च पञ्च यज्ञा अप्य् आत्मगुणसहिता एव पुरुषार्थप्रापकाः, न पृथग्भूता इति सिद्धं भवति । एतेषाम् इति वक्ष्यमाणानाम् उपलक्षणम्, नोक्ताः पञ्च यज्ञा एव । कुतः? यदि पञ्चयज्ञानाम् एवात्मगुणसहितत्वम् इष्यते, तदानीं सगुणानां पञ्चानां यज्ञानाम् अनुष्ठानम् इत्य् अवक्ष्यत् । ततश् च वक्ष्यमाणा अप्य् आत्मगुणसहिता एव ब्रह्मसायुज्यप्रापका इति द्रष्टव्यम् ॥ ८.१५ ॥
अष्टका पार्वणः श्राद्धं श्रावण्य् आग्रहायणी चैत्र्य् आश्वयुजीति सप्त पाकयज्ञसंस्थाः ॥ ८.१६ ॥
“ऊर्ध्वम् आग्रहायण्यास् त्रयो ऽपरपक्षाः तेषाम् एकैकस्मिन्न् एकैका भवति” इति या उच्यन्ते ता अष्टकाः । पार्वणः (स्थालीपाकः) पर्वणि भवत्वात् पार्वणः । श्राद्धं मासिश्राद्धम् उच्यते श्रावणीशब्देन श्रावणपौर्णमासीयुक्तत्वाद् उपाकरणम् उच्यते । आग्रहायणीशब्देन आग्रहायणम् उच्यते । चैत्रीशब्देन शूलगवः । आश्वयुजीति इन्द्रध्वजहोमः । सप्तग्रहणम् एकैकस्य गणनार्थम् । पाकग्रहणं स्थालीपाकसम्बन्धार्थम् । यज्ञग्रहणम् अग्निसम्बन्धार्थम् । संस्थाः सम्यक्स्थिताः गृह्य एवोक्ता इत्य् अर्थः ॥ ८.१६ ॥
अग्न्याधेयम् अग्निहोत्रं दर्शपौर्णमासाव् आग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः ॥ ८.१७ ॥
श्रुतिप्रसिद्धकर्मानुवादः संस्कारत्वार्थः । अत्राग्रयणशब्देनाग्रहायणेष्टिर् उच्यते, इतरस्य पूर्वम् उक्तत्वात् । अग्न्याधेयम् इत्य् आधानम् उच्यते । अग्निहोत्रं नाम हविर्यज्ञः श्रुतौ प्रसिद्धः । दर्शपूर्णमासौ तु संस्कारमध्ये एक एव । इतरे प्रसिद्धाः । सप्तग्रहणस्योक्तं प्रयोजनम् । शेषस्याप्य् उक्तम् एव ॥ ८.१७ ॥
अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयो ऽतिरात्रो ऽप्तोर्याम इति सप्त सोमसंस्थाः ॥ ८.१८ ॥
उक्तेनैव न्यायेन सूत्रं व्याख्येयम् । पाकयज्ञादीनां विसमासो भिन्नफलत्वज्ञापनार्थः
॥ ८.१८ ॥
इत्य् एते चत्वारिंशत् संस्काराः ॥ ८.१९ ॥
इत्य् एते इत्युक्तोपसंहारः । चत्वारिंशद् इति नियमार्थः, एतावन्त एव संस्कारा इति । ततश् च समस्तस्मार्तश्रौतकर्मसम्पदुपेतो भवति ॥ ८.२० ॥
अथाष्टाव् आत्मगुणाः ॥ ८.२० ॥
वक्ष्यन्त इति शेषः । अथशब्दो ऽनन्तरवाची, संस्कारानन्तरम् आत्मगुणा वक्ष्यन्त इत्य् अर्थः । सर्व एवैतैर् गर्भाधानादिभिः समुच्चीयन्ते, न तु यथालाभम् इत्य् एवमर्थम् अष्टौग्रहणम् इति केचित् । तद् अयुक्तम्, “यस्य तु खलु संस्काराणाम् एकदेशो ऽप्य् अष्टाव् आत्मगुणाः” इत्य् अत्राष्टौग्रहणस्यानर्थक्यप्रसङ्गात् । ततश् च सञ्ज्ञार्थं वचनम्, यत्र यत्राष्टाव् आत्मगुणा उच्यन्ते तत्र तत्र दयादीनाम् एव ग्रहणं यथा स्याद् इति । समुच्चितानाम् एव प्रवेशो यथा स्याद् इत्य् एवमर्थं गुरुसञ्ज्ञाकरणम् ॥ ८.२० ॥
दया सर्वभूतेषु क्षान्तिर् अनसूया शौचम् अनायासो मङ्गलम् अकार्पण्यम् अस्पृहेति ॥ ८.२१ ॥
दया हितचिन्तनम् । तथा पुराण उक्तम् ।
आत्मवत् सर्वभूतेषु यः शिवाय हिताय च ।
वर्तते सततं हृष्टः कृत्स्ना ह्य् एषा दया स्मृता ॥ इति ।
सर्वग्रहणात् स्थावरेष्व् अपि । क्षान्तिः बाह्याभ्यन्तरद्वन्द्वसहिष्णुता । यथाह व्यासः ।
आक्रुष्टो ऽभिहतो वापि नाक्रोशेन् नापि ताडयेत् ।
अदुष्टो वाङ्मनःकायैः सा तितिक्षा क्षमा स्मृता ॥ इति ।
अनसूया गुणवताम् उपरि प्रद्वेषाभावः । तथाह ।
यो धर्मम् अर्थं कामं वा लभते मोक्षम् एव वा ।
न द्विष्यात् तं सदा प्राज्ञः अनसूयेति सा स्मृता ॥ इति ।
शौचं द्रव्यादिशौचम् । यथाह व्यासः ।
द्रव्यशौचं मनःशौचं वाक्शौचं कायिकं तथा ।
शौचं चतुर्विधं प्रोक्तम् ऋषिभिस् तत्त्वदर्शिभिः ॥ इति ।
अनायासः आत्मपीडानारम्भः । यथाह व्यासः ।
यदारम्भे भवेत् पीडा नित्यम् अत्यन्तम् आत्मनः ।
तद् वर्जयेद् धर्म्यम् अपि अनायासः स उच्यते ॥ इति ।
मङ्गलं प्रशस्तम् एव । यथाह व्यासः ।
प्रशस्ताचरणं नित्यम् अप्रशस्तविवर्जनम् ।
एतद् धि मङ्गलं प्रोक्तं मुनिभिस् तत्त्वदर्शिभिः ॥ इति ।
अकार्पण्यम् आपद्य् अप्य् अदीनता संविभागरुचित्वं च । यथाह व्यासः ।
आपद्य् अपि च कष्टायां भवेद् दीनो न कस्यचित् ।
संविभागरुचिश् च स्याद् अकार्पण्यं तद् उच्यते ॥
अस्पृहाविषयसन्तोषः परद्रव्यानभिलाषश् च । यथाह व्यासः ।
विवर्जयेद् सन्तोषं विषयेषु सदा नरः ।
परद्रव्याभिलाषं च सास्पृहा कथ्यते बुधैः ॥ इति ।
इतिकरणं समाप्त्यर्थम्, एतावान् पुरुषस्य संस्कारः कर्तव्य इति । विसमासः फलपृथक्त्वज्ञापनार्थः । यथाह व्यासः ।
क्षमावान् जयते भूमिं दयावान् सुखम् अश्नुते ।
अनसूयुर् लभेत् स्वर्गं शौचेनाध्यात्मम् एव च ॥
मङ्गलाद् अपि सम्पूज्यः इह लोके परत्र च ।
सुरसाम्यम् अनायासात् अकार्पण्यात् प्रकृतौ लयम् ॥
अस्पृहो लभते नित्यम् अनन्तं सुखम् एव च ।
सर्वैस् तु ब्रह्मणः स्थानं संस्कारैस् तु तथैव च ॥ इति ।
एवं सर्वालाभे यथालाभपरिग्रहो ऽपि कर्तव्यः, पृथग्भूतस्यापि फलश्रवणात् ॥ ८.२१ ॥
यस्यैते चत्वारिंशत् संस्कारा न चाष्टाव् आत्मगुणा न स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति ॥ ८.२२ ॥
यस्य तु पुरुषस्य । एते इति संस्कारपरामर्शो गुणानां गौरवार्थः । चत्वारिंशद् इति संहितानाम् अप्य् असामर्थयज्ञापनार्थम् । न चाष्टाव् आत्मगुणाः, चकारात् समस्ता व्यस्ताश् च । एतद् अपि गुणस्तुतिः । न स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति । ब्रह्मा नाम देवताविशेषः । सायुज्यम् ऐकात्म्यम्, सालोक्यं समानस्थानवासित्वम् । निन्दा च गुणस्तुत्यर्थैव । प्राधान्यात् सायुज्यस्यैव पूर्वम् उपदेशः ॥ ८.२२ ॥
यस्य तु खलु संस्काराणाम् एकदेशो ऽप्य् अष्टाव् आत्मगुणाः अथ स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति गच्छति ॥ ८.२३ ॥
तुशब्दो विशेषवाची, एकदेशग्रहणेनोपनयनस्यैव ग्रहणम् इति । खल्व् इत्य् अवधारणे, स एव गच्छतीति । अपिशब्दात् समस्ता अपि । अथशब्दाद् आनन्तर्येणैव गच्छतीति । एकदेशयोगात् सालोक्यम्, समस्तयोगात् सायुज्यम् इति द्रष्टव्यम् । इयम् अपि गुणस्तुतिः ॥ ८.२३ ॥
इति मस्करीये गौतमभाष्ये अष्टमो ऽध्यायः
नवमो ऽध्यायः
राजब्राह्मणयोर् अतिशयेन व्रतधारणम् उक्तम् । साम्प्रतं व्रतस्वरूपकथनार्थं तदवधिकालावधारणार्थं चाह ।
स विधिपूर्वं स्नात्वा भार्याम् अधिगम्य यथोक्तान् गृहस्थदर्मान् प्रयुञ्जान इमानि व्रतान्य् अनुकर्षेत् स्नातकः ॥ ९.१ ॥
स इति राजब्राह्मणयोः प्रत्येकं परामर्शार्थम् । विधिपूर्वं शास्त्रीयेन विधिना, विद्यया व्रतेनोभयेन वा पूर्वग्रहणात्, अन्यथा विधिवद् इत्य् एव वक्तव्यम् । स्नात्वेति भार्याधिगमवचनाद् एवाक्षिप्तम् अप्य् उच्यते गृहस्थाश्रमाभ्युपगम एव स्नानं नान्याश्रमप्रतिपत्ताव् इति ज्ञापनार्थम् । भार्याम् अधिगम्य दारपरिग्रहं कृत्वा ।
तत्र स्नानानन्तरं भार्याधिगमः कर्तव्यः, क्त्वाप्रत्ययनिर्देशात्, अनाश्रमिणश् चावस्थानस्यायुक्तत्वात्, इत् केचिद् व्याचक्षते ।
तद् अयुक्तम्, आनन्तर्यासम्भवात् पराधीनत्वात् कन्यालभस्य, स्मृत्यन्तरे च विवाहकालनियमात् । यथाह उशना- “त्रिंशद्वर्षो वहेत् कन्याम्” इति । तत्राप्य् आनन्तर्ये सति स्नानकालविधानाद् एव सिद्धत्वान् न वक्तव्यम्, समाचाराच् च । न हि कश्चित् स्नानानन्तरं विवाहम् अकृत्वा प्रायश्चित्तं कुर्वन्न् उपलभ्यते, शिष्टैर् वा निन्द्यत इति, उदगयनापूर्यमाणपक्षपुण्याहप्रतीक्षणोपदेशाच् च, मानवे “सान्तानिकं यक्ष्यमाणम्” [म्ध् ११.१] इत्य् अकृतविवाहस्यावस्थानोपदेशात्, तत्रापि “गुर्वर्थनिवेश” [ग्ध् ५.२२] इत्य् अत्रोक्तत्वात् । क्त्वाप्रत्ययस् तु पूर्वकालतामात्र एव वैयाकरणैः स्मर्यते । आनन्तर्येण सङ्कीर्तनम् अप्य् अकृतस्नानस्य गार्हस्थ्यप्रतिषेधार्थं स्नात्वैव विवाहः कर्तव्य इति ॥
यत् तूक्तम् अनाश्रमिणो ऽवस्थानम् अयुक्तम् इति, तत्रोच्यते – नैवायम् अनाश्रमी । कथम्? समाप्तब्रह्मचर्यो गुर्वनुज्ञया स्नातो यावता कालेन यत्नं कृत्वा भार्याम् अधिगच्छति तावन्तं कालं स्नातकव्रताधिगतो ऽविप्लुतब्रह्मचर्यो गृहस्थान्तर्भूत एवेति । तदर्थ एव “गृहस्थः सदृशीम्” [ग्ध् ४.१] इत्य् अत्राकृतविवाहे ऽपि गृहस्थशब्दः प्रयुक्तः ।
न चानियतकालम् एवावस्थानम्, स्मृत्यन्तरे आयुर्विभागे नाश्रमप्रतिपत्तिविधानात् । यथाह मनुः- “चतुर्थम् आयुषो भागम्” [म्ध् ४.१] इत्यादि । यथोदाहृतौशनसवचनाच् च, “पूर्णचत्वारिंशद्वर्षो गृही भवेत्” इति व्याघ्रवचनाच् च, “स्नातको ऽब्दत्रयं न तिष्ठेत्” इति कण्ववचनाच् च । तत्र दुर्ज्ञेयत्वाद् आयुर्विभागस्य शतवर्षचतुर्भागो गृह्यते । सो ऽप्य् एकवेदाध्यायिनः । यद् उक्तम् “चत्वारिंशद्वर्षः” इति तद् वेदत्रयाध्यायिनः । यद्य् असौ प्राग् एव परिसमाप्तविद्यः । अपरिसमाप्तविद्यश् चेद् यावता कालेन परिसमाप्य स्नातो भवेत्, तस्माद् ऊर्ध्वं वर्षत्रयम् अकृतदारो न तिष्ठेद् इत्य् एवं नियतकालम् एवावस्थानम् । तस्माद् अयं गृहस्थान्तर्भूत एव । ततश् च,
अनाश्रमी न तिष्ठेत् तु दिनम् एकम् अपि द्विजः ।
इति दक्षवचनस्य विधुरविषयत्वं द्रष्टव्यम् । तत्र दिनम् एकम् अपीति सति सम्भव इति शेषः, पराधीनत्वात् कन्यालाभस्य । अथ वा,
अनाश्रमी न तिष्ठेत् तु दिनम् एकम् अपि,
यत्नम् अकृत्वेति शेषः । तत्र पूर्वस्मिन् पक्षे सम्भवे सत्य् अकर्तुर् दोषः, असम्भवे न दोषः । उत्तरस्मिन् पक्षे यत्नम् अकर्तुर् दोषः ।
यथोक्तान् गृहस्थधर्मान् प्रयुञ्जानः इमानि व्रतान्य् अनुकर्षेत् । तत्रैवोक्तत्वाद् एव सिद्धे इहोपदेशो “गृहस्थः सदृशीम्” [ग्ध् ४.१] इत्य् उक्तानाम् अपि स्नातकव्रतान्तर्भावार्थम् । ततस् तदतिक्रमे ऽपि स्मृत्यन्तरोक्तस्नातकव्रतलोपप्रायश्चित्तं द्रष्टव्यम् । यथाह मनुः ।
स्नातकव्रतलोके तु प्रायश्चित्तम् अभोजनम् । इति । [म्ध् ११.२०३]
अनुक्ता अपि गृहस्थधर्माः सन्तीति कस्यचिद् आशङ्खा स्याद् इति तन्निवृत्त्यर्थं यथोक्तग्रहणम् । तत्रोकग्रहणेनैव सिद्धे ये ब्रह्मचारिधर्माः “उत्तरेषां चैतद् अविरोधि” [ग्ध् ३.१०] इत्य् अनेनाधिक्रियन्ते तेषाम् अपि ग्रहणार्थं यथाग्रहणं तदतिक्रमे ऽपि स्नातकव्रतलोपप्रायश्चित्तं यथा स्याद् इति ।
ननु च भार्याम् अधिगम्य यथोक्तान् धर्मान् प्रयुञ्जान इति वक्तव्यम्, भार्याधिगमनोत्तरकालं गृहस्थधर्मैर् एवाधिकृतत्वाद् इति ।
उच्यते – गृहस्थस्नातकधर्मयोः पृथक्त्वज्ञापनार्थं गृहस्थग्रहणम् । उक्ता एव गृहस्थधर्माः, वक्ष्यमाणास् तैः सहिताः स्नातकधर्मा इति पृथक्त्वज्ञापनार्थं राजब्राह्मणयोर् एव नियमेन स्नातकव्रतानुष्ठानं तदतिक्रमे प्रायश्चित्तं च, इतरेषां तदनुष्ठाने ऽभ्युदयः, अकरणे प्रत्यवायप्रायश्चित्ताभावश् चेत्य् एवमर्थं च । तथा च स्मृत्यन्तरम् ।
स्नातकव्रतलोपे तु प्रायश्चित्तं विधीयते ।
राजब्राह्मणयोर् एव नेतरेषां कदाचन ॥ इति ।
अत्रापि “द्वौ लोके धृतव्रतौ” [ग्ध् ८.१] इति विशेषेण व्रतधारणोक्तेर् एतद् एव तात्पर्यम् ।
इमानि वक्ष्यमाणानि व्रतान्य् अनुकर्षेद् यावज्जीवं कुर्यात् । अवश्यकर्तव्यानि न फलार्थानीत्य् एवमर्थं व्रतग्रहणम् । एवं च स्नातकः शश्वद् ब्रह्मलोकान् न च्यवत इति फलोपदेशो “ज्योतिष्टोमेन स्वर्गकामो जयेत” इत्य् अत्र फलोपदेशवद् द्रष्टव्यः । वक्ष्यमाणान्य् एव व्रतानि न व्रतान्तराणीत्य् एवम् आशङ्कानिवृत्त्यर्थम् इमानीत्य् अस्योपादानम् । व्रतत्वेनानुष्ठाने सिद्धे ऽनुकर्शेद् इति यावज्जीवार्थम् । स्नातक इत्य् अस्योपादानं36 सञ्ज्ञार्थम् – यो वक्ष्यमाणव्रतान्य् अनुतिष्ठेद् असौ गृहस्थः स्नातक इत्य् उच्यत इति । अन्यथा “स विधिपूर्वं स्नात्वा” इत्य् अनेनैव सिद्धत्वान् न वक्तव्यम् ॥ ९.१ ॥
कानि पुनस् तानीत्य् अत आह ।
नित्यं शुचिः सुगन्धस्नानशीलः ॥ ९.२ ॥
स्याद् इति शेषः । नित्यं शुचिर् आचमनादिना । नित्यग्रहणाद् आतुरावस्थायाम् अपि । सुगन्धैर् आमलकादिभिः स्नातुशीलं यस्यासौ सुगन्धस्नानशीलः । “स्नानदन्तधावन” [ग्ध् २.१९] इति ब्रह्मचारिप्रकरणे प्रतिषिद्धस्य प्रतिप्रसवः । शीलग्रहणाद् असम्भवे केवलस्नानेनापि न दोषः । विसमासः स्नातकस्य यानि नित्यं धार्याणि तेषाम् अप्य् उपसङ्ग्रहार्थः । यथाह वसिष्ठः ।
स्नातकानां तु नित्यानि अन्तर्वासस् तथोत्तरम् ।
यज्ञोपवीते द्वे यष्टिः सोदकश् च कमण्डलुः ॥ इति । [वध् १२.१४]
सुगन्धस्नानशील इति सुशब्दोपादानात् स्नानोत्तरकालम् अप्य् आलेपनं कर्तव्यम् ॥ ९.२ ॥
सति विभवे न जीर्णमलवद्वासाः स्यात् ॥ ९.३ ॥
सत्य् अन्यसम्भवे जीर्णं मलवच् च वासो न धारयेत् ॥ ९.३ ॥
न रक्तम् उल्बणम् अन्यधृतं वासो बिभृयात् ॥ ९.४ ॥
रक्तं कुसुम्भादिना, उल्बणम् उद्धतार्घम् अरक्तम्, अन्यधृतं गुरुवर्जं तदुच्छिष्टाभ्यनुज्ञानात् । पृथगारम्भसामर्थ्याद् आपद्य् अपि न धारयेत् । प्रत्येकं वर्जनार्थो विसमासः ॥ ९.४ ॥
न स्रगुपानहौ ॥ ९.५ ॥
पूर्वोक्तविशेषणविशिष्टा स्रग् माला, उपानहौ लाक्षादिरक्ते, न तु कषायेण । सूत्रद्वयारम्भो यथासङ्ख्यनिवृत्त्यर्थः ॥ ९.५ ॥
निर्णिक्तम् अशक्तौ ॥ ९.६ ॥
अन्यासम्भवे तु वासःप्रभृति कृतशौचं धारयेत् । अशक्तिर् अन्यासम्भव इति ॥ ९.६ ॥
न रूढश्मश्रुर् अकस्मात् ॥ ९.७ ॥
श्मश्रुग्रहणं नखादीनाम् अप्य् उपलक्षणम् । रूढग्रहणान् न वपनम्, किं तु समत्वेन कल्पनामात्रम्। तथा च मनुः- “कॢप्तकेशनखश्मश्रुः” [म्ध् ६.५२] इति । तत्र केशकल्पना तु मलापकर्षणं कृत्वा श्लक्ष्णतापादनम् । यथाह उशना- “केशादीनि निर्मलानि श्लक्ष्णान्य् अत्यन्तसुगन्धीनि स्नातको धारयेत्” इति ॥ ९.७ ॥
नाग्निम् अपश् च युगपद् धारयेत् ॥ ९.८ ॥
युगपद् एककालम् । विसमासो ऽपाम् उत्तरसूत्राभिसम्बन्धार्थः । अन्नसमुच्चयार्थश् चकारः । यथाह व्याघ्रः ।
न धारयेद् अपश् चाग्निम् अपश् चान्नं तथैव च ।
युगपत् स्नातको नित्यं तद्भार्या च तथैव च ॥ इति ॥ ९.८ ॥
नाञ्जलिना पिबेत् ॥ ९.९ ॥
अपः प्रकृतत्वात् । द्विहस्तसंयोगो ऽञ्जलिः । ततश् चैकहस्तेन न दोषः । क्षिरादेस् त्व् अप्रतिषेधः । अविशेषान् न किञ्चित् पिबेद् इति केचित् । तेषां पूर्वसूत्रविसमासप्रयोजनं मृग्यम् ॥ ९.९ ॥
न तिष्ठन् ॥ ९.१० ॥
तिष्ठंश् च न पिबेत् । तिष्ठंश् चेति प्रतिषेधे सिद्धे पुनः प्रतिषेधः क्षीरादीनाम् अप्य् उपसङ्ग्रहार्थः ॥ ९.१० ॥
उद्धृतोदकेनाचामेत् ॥ ९.११ ॥
उद्धृतम् उदकं येनेति उद्धृतोदकशब्देन कमण्डलुर् उच्यते, तेनाचामेत् ॥ ९.११ ॥
न शूद्राशुच्येकपाण्यावर्जितेन ॥ ९.१२ ॥
न शूद्रजात्या, अशुचिनाप्य् अशूद्रजात्यापि, एकहस्तेन शुचिना अशूद्रजात्यापि नाचामेत् । अनेनाप्राप्तप्रतिषेधेन पूर्वसुत्रस्य नियमाभावं ज्ञापयति । ततश् च विकल्पो द्रष्टव्यः – कमण्डलुना, अशूद्रेण शुचिनोभयहस्तावर्जितेन वाचामेद् इति । एवं च कमण्डलुनैवाचमनस्य नियमाभावात् तद्धारणस्याप्य् अनित्यत्वं ज्ञापयति, आचमनार्थत्वात् तद्धारणस्येति ॥ ९.१२ ॥
न वाय्वग्निविप्रादित्यापो देवता गाश् च प्रति पश्यन् वा मूत्रपुरीषामेध्यानि व्युदस्येत् ॥ ९.१३ ॥
न वाय्वाद्यभिमुखः अनभिमुखो ऽपि चैतान् अवलोकयन् मूत्रादि विसर्जयेत् । देवताशब्देन तत्प्रतिकृतयो लेख्यादिरूपा उच्यन्ते । देवताग्रहणेनैव वाय्वादीनाम् अपि सिद्धे तेषाम् उपादानं नाधिकोपसङ्ग्रहार्थम् । ततश् चन्द्रग्रहनक्षत्रादिदर्शने न दोषः । चशब्दात् स्मरन्न् अपि चैतान् न कुर्यात् । मूत्रपुरीषयोर् अमेध्यत्वात् अमेध्यस्य पुनर् ग्रहणम् अमेध्यविशेषार्थम् । ततः शुक्लनिरसनाद्य् अपि न कर्तव्यम् इति द्रष्टव्यम् ॥ ९.१३ ॥
नैता देवताः प्रति पादौ प्रसारयेत् ॥ ९.१४ ॥
पुनर् देवताग्रहणं गोब्राह्मणयोर् देवतात्वार्थम् । पादाव् इति द्विवचनं न विवक्षितम्, एकम् अपि न प्रसारयेत् किं पुनः द्वौ ॥ ९.१४ ॥
**न पर्णलोष्टाश्मभिर् मूत्रपुरीषापकर्षणं **
कुर्यात् ॥ ९.१५ ॥
लोष्टशब्देन मृद् गृह्यते । ततश् चान्यैर् अपकर्षणं कुर्यात् ॥ ९.१५ ॥
न भस्मकेशतुषकपालामेध्यान्य् अधितिष्ठेत् ॥ ९.१६ ॥
भस्मादीनि नाक्रामेत् । केशा मनुष्याणाम् । कपालानि भिन्नभाण्डावयवाः । अमेध्यं मूत्रादि
॥ ९.१६ ॥
न म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेत ॥ ९.१७ ॥
म्लेच्छाः पारसिकादयः । अशुचयः आर्या अपि । अधार्मिकाः पतितादयः । तैः सह न सम्मन्त्रयेत् । तृतीयानिर्देशाद् एव सहभावे सिद्धे ऽतिशयार्थं सहशब्दस्योपादानम् । ततश् चानेन सहैककार्यतां गत्वा न सम्भाषेत । मार्गप्रश्नादौ तु न दोषः ॥ ९.१७ ॥
सम्भाष्य पुण्यकृतो मनसा ध्यायेत् ॥ ९.१८ ॥
यदि त्व् अज्ञानात् कार्यवशाद् वा सम्भाषेत ततः पुण्यकृतः सुकृतकारिणः, बहुवचनप्रयोगात् बहून्, मनसा चिन्तयेत् । मनोग्रहणम् अवयवनिरूपणेन स्मरणार्थन् ॥ ९.१८ ॥
ब्राह्मणेन वा सह सम्भाषेत ॥ ९.१९ ॥
पुण्यकृद् एव ब्राह्मणः । सहग्रहणाद् ब्राह्मणो यदि भाषेत । अनन्तरानुष्ठानार्थम् अप्रकरणे प्रायश्चित्तविधानम्, लाघवार्थं वा ॥ ९.१९ ॥
अधेनुं धेनुभव्येति ब्रूयात् ॥ ९.२० ॥
अधेनुर् वन्ध्या गौः, तां धेनुभव्येत्य् एवम् अभिदध्यात् । इतिकरणः प्रकारावरोधार्थः, मा भूद् अन्येषाम् अप्य् एवंरूपाणां संशब्दनम् इति । एतद् एव प्रयोजनम् इतिकरणानां वक्ष्यमाणानाम् अपि ॥ ९.२० ॥
अभद्रं भद्रम् इति ॥ ९.२१ ॥
अभद्रम् अभजनीयम् अश्रीकत्वाद् अमङ्गलत्वाद् वा । तद् भद्रम् इत्य् एवम् अभिदध्यात् । यथा दुर्भगं सुभगम् इति ॥ ९.२१ ॥
कपालं भगालम् इति ॥ ९.२२ ॥
कपालं भिन्नभाण्डावयवं भगालम् इति ब्रूयात् ॥ ९.२२ ॥
मणिधनुर् इतीन्द्रधनुः ॥ ९.२३ ॥
इन्द्रधनुर् मनिधनुर् इति ब्रूयात् । वचनप्रामाण्याद् एषाम् एवाभिधानम् ॥ ९.२३ ॥
**गां धयन्तीं परस्मै नाचक्षीत ॥ ९.२४ ॥ **
गां पाययन्तीं परस्मै नाचक्षीत । परग्रहणाद् आत्मीयाम् आचक्षीत ॥ ९.२४ ॥
न चैनां वारयेत् ॥ ९.२५ ॥
एनाम् इति परकीयाम् एव । चकारात् परीतादाव् अपि ॥ ९.२५ ॥
न मिथुनीभूत्वा शौचं प्रति विलम्बेत ॥ ९.२६ ॥
मिथुनीभूत्वा स्त्रियम् आसेव्य शौचं प्रति न विलम्बेत, सद्य एव शौचं कुर्याद् इत्य् अर्थः । वीत्युपसर्गाद् यावता कालेन रतिर् न निवर्तते तावन्तं कालं विलम्बेतापि । न मैथुनविषय एव शौचविलम्बनम् । किं तु मूत्रपुरीषादिविषये ऽपि न विलम्बनं कार्यम् इत्य् एवमर्थं प्रतिग्रहणम् ।
ननु “नित्यं शुचिः” [ग्ध् ९.२] इत्य् अनेनैवैतत् सिद्धम् ।
अत्रोच्यते – अत्र शौचशब्देन मलापकर्षणमात्रम् उच्यते, आचमनार्होदकासम्भवे तल्लेपापकर्षणं येन केनचित् कर्तव्यम् इत्य् एवमर्थः सूत्रारम्भ इति । एवं च “नित्यं शुचिः” [ग्ध् ९.२] इत्य् अस्य सति सम्भवे नित्यं शुचिः स्याद् इत्य् एषो ऽर्थो लभ्यते । ततश् चासम्भवाद् अशुचेः सतो न दोषः ॥ ९.२० ॥
न च तस्मिन् शयने स्वाध्यायम् अधीयीत ॥ ९.२७ ॥
यस्मिन् शयने मैथुनम् आचरितं तस्मिन् शयने नाधीयीत स्वाध्यायग्रहणाद् वेदम् । चशब्दात् पूज्यांश् च तत्र नोपवेशयेत् ॥ ९.२७ ॥
न चापररात्रम् अधीत्य पुनः प्रतिसंविशेत् ॥ ९.२८ ॥
पश्चिमे रात्रिभागे ऽधीत्य पुनर् न स्वप्यात् । पुनर्ग्रहणात् पूर्वम् असुप्तस्याप्रतिषेधः । अपररात्रग्रहणात् पूर्वरात्रे न दोषः । यथा च पूर्वं संविष्टः तथा पुनर् न संविशेत् न तु विश्रमार्थम् अपीति प्रतिग्रहणम् ॥ ९.२८ ॥
नाकल्यां नारीम् अभिरमेत् ॥ ९.२९ ॥
अस्वस्थशरीराम् अनलङ्कृतशरीरां वा अकल्यां नारीं स्त्रियम् नाभिरमयेत् । अभीत्य् उपगमार्थम् । ततः विनोदार्थायाः क्रीडायाः अप्रतिषेधः ॥ ९.२९ ॥
न रजस्वलाम् ॥ ९.३० ॥
उदक्यां च नोपेयात् ।
ननु च “उदक्यागमने त्रिरात्रम्” [ग्ध् २३.३५] इति प्रायश्चित्तविधानाद् एव प्रतिषेधः सिद्ध्यति ।
उच्यते – “त्रिरात्रं रजस्वलाशुचिर् भवति” इति स्मृत्यन्तरदर्शनात् त्रिरात्रान्तर्गमने प्रायश्चित्तम् उक्तम् । इह तूर्ध्वम् अनिवृत्ते रजसि प्रतिषेधः ।
अन्ये त्व् अकालप्रवृत्ते रजसि रजस्वलाम् आहुः ।
तद् अयुक्तम्, कालप्रवृत्ते एव रक्ते रजःशब्दप्रवृत्तेः, तस्यैवाशुचिकरत्वाच् च । तथा च स्मृत्यन्तरम् ।
अकाले यद् भवेत् स्त्रीणां रक्तम् आहुर् मनीषिणः ।
काले तु तद् रजः प्रोक्तं तस्मात् तत्रैव साशुचिः ॥ इति ।
तथा च भार्गवीयम् अपि ।
अकाले यद् भवेत् स्त्रीणां शुचि तत् तु विनिर्दिशेत् ।
आशुद्धं तद् विजानीयान् मासि मासि भवेत् तु यत् ॥ इति ।
तथा च वसिष्ठः ।
स्त्रियः पवित्रम् अतुलं नैता दुष्यन्ति कर्हिचित् ।
मासि मासि रजो ह्य् आसां दुरितान्य् अपकर्षति ॥ इति । [वध् २८.४]
तथा च श्रुतिः- “सैषा भ्रूणहत्या मासि मास्य् आविर् भवति” इति । तस्मात् त्रिरात्राद् ऊर्ध्वं प्रतिषेधार्थः । एवं च त्रिरात्राद् ऊर्ध्वम् अप्य् अनुपरते रजस्य् एषाशुचिर् एव । तथा च मनुः ।
रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ॥ इति । [म्ध् ५.६५]
तत्र त्रिरात्राद् ऊर्ध्वम् अनुपरते ऽपि स्पर्शयोग्यैव, रजस्वला चतुर्थे ऽहनि स्नायाद् इति स्पर्शनार्थत्वात् स्नानचोदनायाः । रजस्वलां चेति सिद्धे उत्तरार्थः पृथग् आरम्भः ॥ ९.३० ॥
न चैनां श्लिष्येत् ॥ ९.३१ ॥
एनाम् इति त्रिरात्राभ्यन्तररजस्वलोपसङ्ग्रहार्थम् । “न रजस्वलाम्” [ग्ध् ९.३०] इति पृथगारम्भस्याप्य् एतद् एव प्रयोजनम् । एवं त्रिरात्राद् ऊर्ध्वम् अनुपरते ऽप्य् आलिङ्गने न दोषः ।
ननु च “पतितचण्डालसूतिकोदक्याशव” [ग्ध् १४.२९] इत्यादिना स्पर्शप्रतिषेधाद् आलिङ्गनस्याप्य् अर्थतः प्रतिषेधः सिध्यतीति ।
तत्रोच्यते – आलिङ्गने कृते स्नातकव्रतलोपप्रायश्चित्तप्रवेशार्थ आरम्भ इति । चकार एनां चाकल्यां चेति समुच्चयार्थः ॥ ९.३१ ॥
न कन्याम् ॥ ९.३२ ॥
अकृतविवाहां नालिङ्गयेत्, उदकपूर्वं लब्धाम् अपि । कन्यां चेति सिद्धे पृथग्योगकरणम् अदुष्टबावेनालिङ्गने न दोष इति ज्ञापनार्थम् । एवं च – दुष्टभावेनालिङ्गनमात्रेण कन्याया दूषणं भवति । तथा च पैशाचे विवाहे सङ्गमनशब्देनालिङ्गनम् एवोच्यत इति युक्तम् ।
अत्र किम् अयं कन्यादूषणप्रायश्चित्तेनाधिक्रियते, उत स्नातकव्रतलोपप्रायश्चित्तेनेति ।
अत्रोच्यते – स्नातकव्रतलोपप्रायश्चित्तेनैवाधिकारः, न कन्यागमनप्रायश्चित्तेन, स्मृत्यन्तरे “रेतःसेकः” इत्य् आरम्भात् । यथाह मनुः ।
रेतःसेकः स्वयोनीषु कुमारिष्व् अन्त्यजासु च । [म्ध् ११.५८]
इति ॥ ९.३२ ॥
अग्निमुखोपधमनविगृह्यवादबहिर्गन्धमाल्य-
धारणपापीयसावलेखनभार्यासहभोजनाञ्जन्त्य्-
अवेक्षणकुद्वारप्रवेशपादपाददधवनासन्दीस्थ-
भोजननदीबाहुतरणवृक्षविषमारोहणावरोहण-
प्राणव्यायच्छनानि वर्जयेत् ॥ ९.३३ ॥
अग्निमुखोपधमनं अग्नेर् मुखेनोपध्मानम् । विगृह्य वादो लौकिको वाक्कलहः, जल्परूपस्य ब्रह्मचारिप्रकरण एव सिद्धत्वात् । बहिर्गन्धमाल्यधारणम्, निर्गन्धमाल्यधारणम्, तथा च स्मृत्यन्तरम्- “नागन्धां स्रजं धारयेद् अन्यत्र हिरण्यस्रजः” इति । पापीयसावलेखनम् अशुचिद्रव्यावयवेन काष्ठादिना शिरःप्रभृतिकण्डूयनम् । भार्यासहभोजनं तया सहैकाधारस्थान्नभ्यवहारः । “अर्धो वा एष आत्मनो यत् पत्नी” इत्य् अर्धवाददर्शनात् प्राप्तौ सत्यां प्रतिषेधः, न पुनर् अन्यया सहाभ्यनुज्ञानम्, स्मृत्यन्तरे स्त्रीशूद्रोच्छिष्टसामान्यप्रतिषेधात् । अञ्जन्त्यवेक्षणं तैलाद्यभ्यङ्गसाधनद्रव्यसेवायां भार्यावलोकनम् । कुद्वारप्रवेशणं गृहादेर् अप्रसिद्धद्वारप्रवेशः । पादपादधावनं पादस्य पादेन प्रक्षालनम् । आसन्दीस्थभोजनं पीठिकाद्यवस्थिताधारान्नोपयोगः । नदीबाहुतरणं बाहुभ्यां तत्पारगमनम् । नदीग्रहणं तटाकादीनाम् अप्य् उपलक्षणम् । वृक्षस्यारोहणम्, विषमस्य कूपादेर् अवरोहणम् अवतरणम् । प्राणव्यायच्छनं प्राणोपरोधः उल्लङ्घनादिभिः । एतानि वर्जयेत् ॥ ९.३३ ॥
न सन्दिग्धां नावम् अधिरोहेत् ॥ ९.३४ ॥
सन्दिग्धाम् अतिभारदोषापहतत्वात् पारगमने, तां नाधिरोहेत् । अधिशब्दात् नाक्रामेद् अपि, निष्प्रयोजनत्वात् ॥ ९.३४ ॥
कतिपयधर्मान् शरीररक्षणहेतून् उक्त्वा अथेदानीम् –
सर्वत एवात्मानं गोपायेत् ॥ ९.३५ ॥
सर्वापायेभ्यः शरीरं रक्षेत् । यथा – “नैकः प्रपद्येताध्वानम्” [म्ध् ४.६०], “नारीसहायः” इत्यादि । सर्वग्रहणात् प्रतिषिद्धसेवनेनापि । एवशब्दाद् ग्रहशान्त्यादिभिर् अपि । आत्मशब्देन शरीरम् उच्यते, तद्रक्षणम् अपि यथा न विनश्यति तथा कर्तव्यम् इत्य् अर्थः । यद्य् अपि काल एव विनाशकः, तथापि दुर्ज्ञेयत्वाद् आयुषः पौरुषहीनो न भवेद् इत्य् अभिप्रायः । तथा ज्योतिःशास्त्रं ।
आयुर्ज्ञानं वयोज्ञानं गर्भिणीनां च लक्षणम् ।
ऋषयश् चापि मुह्यन्ति किं पुनर् मांसचक्षुषः ॥ इति ।
केचिद् अन्यथा व्याचक्षते – सर्वोपायैः परमात्मानं गोपायेद् विजाजीयात्, धातूनाम् अनेकार्थत्वात् । तथा च श्रुतिः- “आत्मा मन्तव्यो निदिध्यासितव्यः” [बृआरुप् २.४.५] इति ।
अन्ये तु – आत्मशब्देन परमात्मक्षेत्रज्ञजीवात्मभूतात्मानश् चत्वार उच्यन्त इत्य् आहुः । यथाह मनुः ।
यो ऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥
जीवसञ्ज्ञो ऽनतरात्मा यः सहजः सर्वदेहिनाम् ।
येन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ [म्ध् १२.१२–१३]
प्रशासितारं सर्वेष्म् अणीयांसम् अणोर् अपि ।
रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥ [म्ध् १२.१२२]
इति ॥ ९.३५ ॥
न प्रावृत्य शिरो ऽहनि पर्यटेत् ॥ ९.३६ ॥
प्रावृत्य वस्त्रादिना शिरः पिधाय दिवा समन्ताच् चङ्क्रमणं न कुर्यात् । अल्पावकाशं गच्छेद् अपि, परिशब्दप्रयोगात् । तत्र शिरोवेदनापरिहारार्थं न दोषः, “सर्वत एवात्मानं गोपायेत्” [ग्ध् ९.३५] इत्य् उक्तत्वात् ॥ ९.३६ ॥
प्रावृत्य तु रात्रौ ॥ ९.३७ ॥
अर्थलब्धस्यापि नियमार्थ आरम्भः । अल्पावकाशम् अपि प्रावृत्यैव गच्छेद् इति ॥ ९.३७ ॥
मूत्रोच्छारे च ॥ ९.३८ ॥
कुर्याद् इति शेषः । चकारात् प्रावृत्यैव ॥ ९.३८ ॥
किं च ।
दिवा कुर्याद् उदङ्मुखः ॥ ९.३९ ॥
दिवा चेद् उदङ्मुखः कुर्यात् । “न वाय्वग्निविप्रादित्यापो देवता गाश् च प्रतिपश्यन् वा” [ग्ध् ९.१३] इत्य् अभिमुखनिवारणात्, अस्य क्वचिद् अनित्यतां दर्शयति । यद्य् अयं नियमः तदानीम् आदित्याभिमुखताप्राप्त्यभावाद् इति । तथा च स्मृत्यन्तरम् ।
छायायाम् अन्धकारे च प्राणबाधभयेषु37 च ।
यथासुखमुखः कुर्याद् इति धर्मो व्यवस्थितः ॥ इति ।
[च्फ़्। म्ध् ४.५; वध् ६.१३]
छायादिष्व् अप्य् आदित्याद्यभिमुखता वर्जनीयेत्य् अभिप्रायेण “न वाय्वग्नि” [ग्ध् ९.१३] इत्यादिसूत्रम् आरब्धम् इति द्रष्टव्यम् ॥ ९.३९ ॥
सन्ध्ययोश् च ॥ ९.४० ॥
उदङ्मुखत्वानुकर्षणार्थश् चकारः ॥ ९.४० ॥
रात्रौ तु दक्षिणाभिमुखः ॥ ९.४१ ॥
तुशब्दश् चशब्दस्यार्थे । सो ऽपि कुर्याद् इति क्रियानुकर्षणार्थः ॥ ९.४१ ॥
न भूमाव् अनन्तर्धाय ॥ ९.४२ ॥
अयज्ञियैः तृणैः । तथा च स्मृत्यन्तरम्- “भूमिम् अयज्ञाङ्गैस् तृणैर् आच्छाद्य मूत्रपुरीषे कुर्यात्” इति । भूमिग्रहणाद् इष्टकादौ न दोषः ॥ ९.४२ ॥
न तिष्ठन् ॥ ९.४३ ॥
तिष्ठंश् च मूत्रपुरीषोत्सर्गं न कुर्यात् ॥ ९.४३ ॥
नाराच् चावसथात् ॥ ९.४४ ॥
गृहसमीपे न कुर्यात् । चशब्दाद् देवायतनसभादिसमीपे च ॥ ९.४४ ॥
न भस्मकरीषकृष्टच्छायापथिकाम्येषु ॥ ९.४५ ॥
गृहादिविप्रकृष्टेष्व् अपि भस्मादिषु न कुर्यात् । छाया उपजीव्यच्छाया । करीषं गोमयम् । काम्यं कमनीयप्रदेशः आपणादिः । काम्येष्व् इति बहुवचनं स्मृत्यन्तरोपदिष्टोपसङ्ग्रहार्थम् । यथाह वसिष्ठः-
न नद्यां मेहनं कुर्यान् न पथि न च भस्मनि ।
न गोमये न कृष्टे नोप्ते न शाड्वलोपजीव्यच्छायासु ॥ [वध् ६.१२]
इति ॥ ९.४५ ॥
**पालाशम् आसनं पादुके दन्तधावनम् इति च वर्जयेत् **
॥ ९.४६ ॥
पालाशम् आसनादि न कुर्यात् । इतिकरणाद् अन्यद् अप्य् एवंरूपं रथादि, विसमासात् शयनं च । चशब्दाद् दर्व्यादि गृहोपकरणं च । तथा च स्मृत्यन्तरम् ।
आसनं शयनं यानं गृहोपकरणानि च ।
वर्जयेत् पादुके चैव पालाशं दन्तधावनम् ॥
इति ॥ ९.४६ ॥
**सोपानत्कश् चाशनासनाभिवादननमस्कारान् **
वर्जयेत् ॥ ९.४७ ॥
उपानत्पादो भोजनासनाभिवादनदेवताप्रणामान् वर्जयेत् । चशब्दात् पादुकास्थश् च ॥ ९.४७ ॥
न पूर्वाह्णमध्यन्दिनापराह्णान् अफलान् कुर्याद् यथाशक्ति धर्मार्थकामेभ्यः ॥ ९.४८ ॥
पूर्वाह्णाद्यहर्विभागान् यथासामर्थ्यं धर्मादिभिः यथासङ्ख्यं नावरुन्ध्यात् । कुर्याच् छक्त्येति वक्तव्ये यथाग्रहणं समुच्चयेनाप्य् आसेवनप्रापणार्थम् । चतुर्थीनिर्देशाच् च धर्मादिभिर् इति द्रष्टव्यम् । तत्र पूर्वाह्णे यथासम्भवं जपादि कुर्यात्, मध्याह्ने अर्थाहरणोपायम्, अपराह्णे गन्धमाल्यादिसेवनम् इति ॥ ९.४८ ॥
तेषु तु धर्मोत्तरः स्यात् ॥ ९.४९ ॥
तेषु धर्मार्थकामेषु धर्मप्रधानः स्यात् । इतरयोर् आसेवनासम्भवे ऽपि नियमेन धर्मः कर्तव्य इत्य् अभिप्रायः । त्रीन् अपि धर्मानुबन्धिनः कुर्याद् इति तुशब्दः ॥ ९.४९ ॥
न शिश्नोदरपाणिपादवाक्चक्षुश्चापलानि कुर्यात् ॥ ९.५० ॥
चापलशब्दः प्रत्येकम् अभिसम्बध्यते । शिश्नचापलम् अकाले मैथुनेच्छा । उदरचापलम् अनेकरसाभिलाषः । पाणिचापलं शिल्पकर्मशिक्षाभिलाषः । पादचापलं वृथाटनम् । वाक्चापलम् अपृष्टेनान्यायेन पृष्टेन वा धर्मादिकथनम् । तथाह मनुः ।
नापृष्टः कस्यचिद् ब्रूयान् न चान्यायेन पृच्छतः । इति । [म्ध् २.११०]
चक्षुश्चापलम् अनवधिर् दर्शनेच्छा38 ।
ननु च “वाग्बाहूदरसंयतः” [ग्ध् २.२८] इत्य् अनेन किञ्चित् पुनरुक्तम् इति ।
नैतद् एवम्, तत्र वाक्संयतत्वेनानिबन्धप्रलापित्वम्, बाहुसंयतत्वेन लोष्टमर्दनादि, उदरसंयतत्वेन अमितापथ्यभुक्त्वम् इति ॥ ९.५० ॥
छेदनभेदनविलिखनविमर्दनावस्फोटनानि नाकस्मात् कुर्यात् ॥ ९.५१ ॥
छेदनं तृणादीनाम्, भेदनं घटादेः, विलिखनं नखादिभिः कुड्यभूम्यादीनाम्, विमर्दनं लोष्टादीनां सङ्घर्षणम्, अवस्फोटनम् अङ्गुल्यादीनां सन्धिसंशब्दनम् – एतानि विशिष्टेन निमित्तेन विना न कुर्यात् । ब्रह्मचारिप्रकरणे बाहुसंयतत्वेन सिद्धे छेदनादीनां कारणे सत्य् अभ्यनुज्ञानार्थम् ॥ ९.५१ ॥
नोपरि वत्सतन्तीं गच्छेत् ॥ ९.५२ ॥
यया रज्ज्वा वत्सो बध्यते सा वत्सतन्ती । ताम् उपर्य् उल्लङ्घ्य न गच्छेत् । वत्सशब्दो गोजात्युपलक्षणम् ॥ ९.५२ ॥
न कुलङ्कुलः स्यात् ॥ ९.५३ ॥
गृहाद् गृहं न गच्छेद् इत्य् अर्थः । अथ वा विना कारणेन गृहात् गृहं न गच्छेत् । कुलम् एव वा कुलं यस्य सः कुलङ्कुलः । सत्य् अपि धर्माधिकारे पितृकुल एव न तिष्ठेद् इत्य् अर्थः ॥ ९.५३ ॥
न यज्ञम् अवृतो गच्छेत् ॥ ९.५४ ॥
अनुपामन्त्रितो यज्ञं नेयात् ॥ ९.५४ ॥
दर्शनाय तु कामम् ॥ ९.५५ ॥
कामम् इति नावश्यम्, एवम् अपि गच्छतो लाघवम् अवश्यम्भावीति । तुशब्दो नियमार्थः, दर्शनार्थम् एव न तु भोजनार्थम् अपीति ॥ ९.५५ ॥
न भक्षान् उत्सङ्गे भक्षयेत् ॥ ९.५६ ॥
भक्षाः पृथुकादयः । येषाम् उत्सङ्गे भक्षणं प्रसक्तं तान् उत्सङ्गोपरि कृत्वा न भक्षयेत्
॥ ९.५६ ॥
न रात्रौ प्रेष्याहृतम् ॥ ९.५७ ॥
रात्रौ प्रेष्येण शूद्रादिना आहृतं यत् किञ्चिन् न भक्षयेत् । कुत एतत्? भक्षान् इति प्रकृते एकवचननिर्देशात् । दिवानीतस्याप्रतिषेधः ॥ ९.५७ ॥
उद्धृतस्नेहविलयनपिण्याकमथितप्रभृतीनि चात्तवीर्याणि नाश्नीयात् ॥ ९.५८ ॥
उद्धृतस्नेहम् आत्ताग्रमण्डं यद्39 दध्यादि । विलयनं घृतादिनिष्पन्नम् । पिण्याकम् आत्तरसम्, इतरस्य दोषाभावात् । तथा चार्थवादश्रुतिः- “वैशाख्यां पौर्णमास्याम् अनात्तसारं पिण्याकं दद्युः” इति । मथितं तक्रम्, तद् अप्य् उद्धृतनवनीतम्, इतरस्य दोषाभावात् । तथा च गृह्यस्मृतिः- “दधि निर्मथ्यानात्तनवनीतम् अश्नीयात्” इति । प्रभृतिग्रहणात् कीलाटकुचकादीनि । रात्र्यनुकर्षणार्थश् चकारः । एतानि रात्रौ नाश्नीयाद् इति ।
अथ वा – उद्धृतस्नेह इति प्रत्येकम् अभिसम्बध्यते । उद्धृतस्नेहं यद् विलयन, यच् च पिण्याकम्, यानि च मथितप्रभृतीनि । प्रभृतिग्रहणेन दधिक्षीरे उच्येते । तयोर् उद्धृतस्नेहत्वम् आत्ताग्रमण्डत्वम् । उद्धृतस्नेहानि नाश्नीयाद् इति सिद्धे विलयनादीनाम् उपादानम् अन्येषाम् आम्रफलगुडादीनाम् उद्धृतस्नेहानाम् अभ्यनुज्ञानार्थम् । एतानि रात्रौ नाश्नीयात्, दिवा न दोषः ।
आत्तवीर्याणीति वीर्यशब्देन सारभूतम् उच्यते । तद् आत्तं यस्मिन् तद् आत्तवीर्यम् उच्यते कदलीफलत्वगादि । पृथग् आरम्भाद् दिवापि ।
ननु चाभक्ष्यभक्षणप्रकरण एवेदं वक्तव्यम् इति ।
अत्रोच्यते – एवं व्यतिक्रमे स्नातकव्रतलोपप्रायश्चित्तं स्यात्, नाभक्ष्यभक्षणप्रायश्चित्तम् इत्य् अत्रोपादानम् इति । अप्रेष्याहृतान्य् अपि नाश्नीयाद् रात्राव् इति विलयनादीनां पृथग् आरम्भः ॥ ९.५८ ॥
सायं प्रातस् त्व् अन्नम् अभिपूजितम् अनिन्दन् भुञ्जीत
॥ ९.५९ ॥
अन्तरा भोजनप्रतिषेधार्थो ऽयम् आरम्भः, अर्थप्राप्तत्वात् । तथा च मनुः ।
सायं प्रातर् द्विजातीनाम् अशनं श्रुतिचोदितम् ।
नान्तरा भोजनं कुर्याद् अग्निहोत्रसमो विधिः ॥ इति ।
तुशब्दो विशेषवाची, अन्नविशेषस्य विप्रतिषेधो न मोदकादीनाम् अपीति । अभिपूजितं नमस्कारः । अभिशब्दप्रयोगात् समन्त्रकं दर्शयति । तथाह वसिष्ठः- “रोचत इति सायं प्रातर् अशनान्य् अभिपूजयेत्” [वध् ३.६९] इति । अनिन्दन् कदन्नत्वादिदोषेणाकुत्सयन् भुञ्जीत ॥ ९.५९ ॥
न कदाचिद् रात्रौ नग्नः स्वपेत् ॥ ९.६० ॥
कदाचित् निमित्तेष्व् अपि । रात्राव् एवेति नियमार्थं रात्रिग्रहणम्, यदि दिवापीष्यते तदानीं न कदाचिन् नग्नः स्वपेद् इत्य् उक्ते सर्वं सिद्ध्यतीति । ततश् च दिवा न दोषः । किं च – अनेनैतद् अपि ज्ञापयति – दिवास्वप्नप्रतिषेधो ऽस्य नास्तीति । अन्यथा तदानीम् अपि न कदाचिन् नग्न स्वपेद् इत्य् उक्ते दिवास्वप्नप्रतिषेधाद् एवार्थतो दिवालभ्यमानत्वात् पारिशेष्याद् रात्राव् एव भवतीति रात्रिग्रहणम् अनर्थकं स्याद् इति ॥ ९.६० ॥
स्नायाद् वा ॥ ९.६१ ॥
पृथगारम्भाद् दिवापि । वाशब्दाज् जलावतरणम् अपि । तथा च स्मृत्यन्तरम्- “नग्नो जलं नावतरेत्” इति ॥ ९.६१ ॥
इदानीम् आनन्त्याद् आचारस्याशेषतो वक्तुम् अशक्यत्वात् सङ्क्षिप्याह ।
यच् चात्मवन्तो वृद्धाः सम्यग्विनीता दम्भलोभमोहवियुक्ता वेदविद आचक्षते तत् समाचरेत् ॥ ९.६२ ॥
चशब्दस् तुशब्दस्यार्थे, सो ऽपि विशेषवाची, अदृष्टम् उद्दिश्येति । आत्मवन्तो ज्ञानकर्मसमुच्चयनिष्ठा इत्य् अर्थः । वृद्धाः वेदावस्थिततत्त्वज्ञानाः । सम्यग्विनीताः गुरुभिः सुशिक्षिताचाराः । दम्भो लोकरञ्जनार्थं धर्मसेवनम् । लोभो ऽन्यायेन परद्रव्यादित्सा । मोहो लोकविरुद्धज्ञानम्, एतैर् वियुक्ता अव्याप्ताः । वेदविदः अधीतसकलवेदाः । यद् अदृष्टार्थम् उद्दिश्याचक्षते- “त्वं मम गोभ्यो यवसं देहि” इत्यादि । दृष्टार्थत्वम् “मम गोभ्यो यवसं दत्वा आढकं गृहाण” इत्यादि । तत् सकलम्, अमायया, यत्तदोर् नित्यसम्बन्ध इति यच्छब्दोपादानाद् एव सिद्धे पुनस् तच्छब्देन परामर्शात् । तद् आचरेत् कुर्यात् प्रसन्नो भूत्वा, समुपसर्गप्रयोगात् । सर्वगुणयोगाभावे द्विगुणत्रिगुणादियोगे कर्तव्यम् इत्य् एवमर्थो विसमासः । एकस्य नियोगकरणाद् एव कृतार्थो न स्यात्, किं तु बहूनां नियोगकरणाद् एवेति बहुवचनप्रयोगः । एवंविधो यदि स्वयम् एव नियुङ्क्ते तद् एव कर्तव्यं न पुरुषान्तरनियोगः, वदन्तीति वक्तव्ये आचक्षत इति गुरुसूत्रकरणात् । आ मरणात् पुनः पुनः कर्तव्यम्, कर्तव्यम् इति वक्तव्ये आचरेद् इत्य् आरम्भात् सम्भूय वा पृथग् वा एकविषये नानाविषये वा यो नियोगः कर्तव्यः कृत्स्नो ऽसौ कर्तव्य एव, आत्मवतां वृद्धानां सम्यग्विनीतानां दम्भलोभमोहवियुक्तानां वेदविदां वचनं कर्तव्यम् इति वक्तव्ये एवम् अभिधानात् ॥ ९.६२ ॥
योगक्षेमार्थम् ईश्वरम् अधिगच्छेत् ॥ ९.६३ ॥
अलब्धलाभो योगः, लब्धस्य रक्षणं क्षेमः, अर्थशब्दः प्रयोजनवाची, योगक्षेमप्रयोजनम् इति । ईश्वरशब्देन राजोच्यते । तं गच्छेन् न कार्पण्येन, अधिशब्दप्रयोगात् ॥ ९.६३ ॥
नान्यम् अन्यत्र देवगुरुधार्मिकेभ्यः ॥ ९.६४ ॥
अन्यः उभयकरणासमर्थः । अप्राप्तिपूर्वकप्रतिषेधारम्भाद् राज्ञः अन्यो ऽपि य उभयकरणसमर्थः सो ऽधिगन्तव्य इति ज्ञापयति । अन्यत्र वर्जयित्वा, देवता प्रतिमा, गुरुः पित्रादिः, धार्मिकः ज्ञानकर्मसमुच्चयानुष्ठानशीलः, तेषाम् अभिगमनस्यादृष्टार्थत्वात्
॥ ९.६४ ॥
प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणम् आर्यजनभूयिष्ठम् अनलससमृद्धं धार्मिकाधिष्ठितं निकेतनम् आवसितुं यतेत
॥ ९.६५ ॥
बहुकाष्ठोदकतृणदर्भपुष्परम्यनिर्गमनभूमिम्, ब्राह्मणादिवर्णत्रयबहुलम्, अनुष्ठानशीलजनसङ्कीर्णम्, न्यायवृत्तराजपरिगृहीतं च स्थानम् आश्रयितुं प्रकर्षेण यत्नं कुर्यात् । समुच्चयाभावे यथालाभगुणयोगे ऽपि निवसेद् इत्य् असमासः । एवंविधम् एव धर्माय रतये च पर्याप्तं भविष्यतीति ॥ ९.६५ ॥
प्रशस्तमङ्गल्यदेवायतनचतुष्पथादीन् प्रदक्षिणम् आवर्तेत ॥ ९.६६ ॥
प्रशस्तं गोब्राह्मणप्रज्ञातवनस्पत्यादि । मङ्गल्यं दधिघृतपूर्णकुम्भादि । देवायतनं देवतास्थानम् । चतुष्पथः प्रसिद्धः । एतेषां प्रदक्षिणं यायात्, नापसव्यम्, यथैतानि गच्छतः प्रदक्षिणेनातिक्रामन्ति, न पुनर् एकैकस्य भ्रमणम्, कुर्याद् इति वक्तव्ये आवर्तेतेत्य् आरम्भात् ॥ ९.६६ ॥
मनसा वा तत्समग्रम् आचारम् अनुपालयेद् आपत्कल्पः
॥ ९.६७ ॥
यदि त्वरितत्वात् प्रदक्षिणं न करोति, ततो मनोध्यानमात्रेणैव सम्पादयेद् इत्य् एके वर्णयन्ति ।
तद् अयुक्तम्, मनसा वानुपालयेद् इत्य् एतावतैव लभ्यमानत्वात् । तस्मान् मनसा वा – तच्छब्दोपादानाद् यच्छब्दो ऽध्याहर्तव्यः – यत् “नित्यं शुचिः” इत्याद्याचारजातुम् उक्तं, तत्समग्रम्, – समग्रशब्दस्योपादानम् अनन्तरस्यैव मा भूद् इति, आचारग्रहणं गृहस्थधर्मस्यापि ग्रहणं मा भूद् इति – अनुपालयेच् चिन्तयेद् इत्य् अर्थः । आपत्कल्पः आपद्विधिः । आपत् त्वरितत्वात् तत्कार्यासम्भवः ।
अभाववैकल्पिकार्थेनैव वाशब्देनायम् अर्थो लभ्यत इत्य् आपत्कल्पग्रहणम् अनर्थकम् इति चेत्, न, आपद्विहितकर्मानुष्ठानाद् अकरणदोषाभावमात्रं भवति नाभ्युदयो ऽपीत्य् एवमर्थम् आपत्कल्पग्रहणम् इति । अध्यायान्ते वक्तव्ये अत्रोपादानम् “सत्यधर्मार्यवृत्तः” [ग्ध् ९.६८] इत्यादिवक्ष्यमाणवर्जनार्थम् ॥ ९.६७ ॥
सत्यधर्मार्यवृत्तः ॥ ९.६८ ॥
सत्यधर्मश् चासाव् आर्यवृत्तश् चेति सत्यधर्मार्यवृत्तः । सत्यधर्मा सत्यसन्धः । यद् वदति सङ्कल्पयति वा तद् एव करोतीत्य् अर्थः । येन वृत्तेनार्याणां साधूनां प्रियो भवति प्रियभाषणादिना तद् अस्य वृत्तम् इत्य् आर्यवृत्तः ॥ ९.६८ ॥
शिष्टाध्यापकः शौचशिष्टः श्रुतिनिरतः स्यात् ॥ ९.६९ ॥
शिष्टाध्यापकः सताम् अध्यापयिता न त्व् अयोग्यानाम् । जलादिभिः शौचशिष्टः तत्परः । “नित्यशुचिः, न मिथुनीभूत्वा शौचं प्रति विलम्बेत” [ग्ध् ९.२, २६] इति च सिद्धे “मनसा वा” [ग्ध् ९.६७] इत्य् आपत्कल्पानुप्रवेशो मा भूद् इति शौचस्य पुनरुपदेशः । श्रुतिनिरतो वेदाभ्यासपरः । श्रुतिग्रहणं मन्वादिनिवृत्त्यर्थम् ॥ ९.६९ ॥
नित्यम् अहिंस्रो मृदुर् दृढकारी दमदानशीलः
॥ ९.७० ॥
नित्यग्रहणात् निमित्ते ऽपि सति अहिंस्रः प्राणिपीडावर्जनशीलः । मृदुः अपराधेष्व् अपि प्रत्यापत्तिशीलः । दृढकारी आरब्धस्य समापयिता, आलोचितकार्यारम्भको वा40 । दमशीलः इन्द्रियाणां स्वविषयातिप्रसक्तेर् निवारयिता । दानशीलः अल्पधनापि संविभागरुचिः । सर्वासम्भवे यथासम्भवानुष्ठाने ऽपि कृतार्थताज्ञापनार्थो विसमासः ॥ ९.७० ॥
एवमाचारो मातापितरौ पूर्वापरान् सम्बन्धान् दुरितेभ्यो मोक्षयिष्यन् स्नातकः शश्वद् ब्रह्मलोकान् न च्यवते न च्यवते ॥ ९.७१ ॥
एवमाचार एवङ्कर्मा स्नातक इति व्यवहितेन सम्बन्धः । प्रकृतस्यापि पुनर्वचनं स्नातकव्रतानाम् एतत् फलम् इति ज्ञापनार्थम् । मातापितरौ “पिता मात्रा” इत्य् एकशेषः प्राप्नोतीति चेन्, न, द्वाव् अस्य पितरौ, तयोर् गृह्यमाणत्वात् – आचार्य उत्पादकश् चेति । पूर्वसम्बन्धाः पितामहादयः । अपरसम्बन्धा मातामहादयः । एतान् पापेभ्यो मोचयितुम् इच्छन् मोक्षयति चैतान्, स्वयं च ब्रह्मलोकान् नापैति । आचारग्रहणम् अशेषस्नातकधर्मफलार्थम्, मा भून् नित्यं शुचिर् इत्यादेर् एवेति । शश्वद्ग्रहणं आपेक्षिकनित्यत्वनिवृत्त्यर्थम् । द्विरुक्तिर् अध्यायपरिसमाप्तिज्ञापनार्था ॥ ९.७१ ॥
इति मस्करीये गौतमभाष्ये नवमो ऽध्ययः
दशमो ऽध्यायः
द्विजातीनाम् अध्ययनम् इज्या दानम् ॥ १०.१ ॥
अध्ययनं वेदस्य ग्रहणधारणाभ्यासजपादिरूपम् । इज्या यागः देवपितृपूजा । दानं यथाशक्त्य् अर्थिजनस्य द्रव्यसंविभागः । असमासः समुच्चयार्थः, द्विजातीनां यथासङ्ख्यं मा भूद् इति । अधिकग्रहणाद् एवैतल् लभ्यत इति चेत्, एकैकस्य एकैकधर्मप्राधान्यज्ञापनार्थम् इत्य् अदोषः । तद् यथा – ब्राह्मणस्याध्ययनं प्रधानम्, यथाह मनुः ।
जप्येनैव तु संसिध्येत् ब्राह्मणो नात्र संशयः । [म्ध् २.८७]
इत्यादि । क्षत्रियस्येज्या । तथाह “यजेत राजा क्रतुभिः” [म्ध् ७.७९] इति । वैश्यस्य दानम्, तथा चाह ।
दद्याच् च सर्वभूतेभ्यो ऽप्य् अन्नम् एव प्रयत्नतः । इति । [म्ध् ९.३३३]
पूर्वस्य पूर्वस्य वा बलीयस्त्वज्ञापनार्थो ऽपि विसमासः । यथाह उशना ।
दानाच् छतगुणो यागो यागाच् छतगुणो जपः ॥ इति ।
तथा मनुनापि यागाज् जपस्य प्राधान्यं दर्शितम् ।
ये पाकयज्ञाश् चत्वारो विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ इति । [म्ध् २.८६]
अत्र द्विजातीनाम् अध्ययनम् इज्या दानम् इत्य् उपनयनोत्तरकालम् एव दानस्य विधानात्, अनुपनीतेन यत् कृतं दानं तस्यासिद्धत्वं द्रष्टव्यम् ॥ १०.१ ॥
**ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः **
॥ १०.२ ॥
ब्राह्मणग्रहणं द्विजातेर् अधिकाराद् आधिक्यं पूर्वेषु सत्सु भवतीति ।
ननु “वैश्यस्याधिकम्” [ग्ध् १०.४८], “राज्ञो ऽधिकम्” [ग्ध् १०.७] इति च वक्ष्यति । ततश् च ब्राह्मणस्यैवैतद् भवतीति ब्राह्मणग्रहणं न कर्तव्यम् इति ।
उच्यते – पूर्ववन् नैते आश्रमधर्माः, किं तु वर्णधर्मा इति ज्ञापनार्थम् । ततश् चानुपनीतस्यापि प्रतिग्रहाधिकारो ऽस्ति । याजनाध्यापने त्व् असम्भवान् न स्तः । ब्राह्मणस्य प्रवचनयाजनप्रतिग्रहाश् चेति वक्तव्ये अधिकग्रहणम् एते वृत्त्यर्था अपि भवन्तीति ज्ञापनार्थम् । पूर्वसूत्रवद् असमासो न कृतः समुच्चयेनाप्य् अनुष्ठानार्थम् एकार्थत्वाद् विकल्पो मा भूद् इति । प्रवचनम् अनुवचनम् । शेषं निगदव्याख्यानम् ॥ १०.२ ॥
पूर्वेषु नियमस् तु ॥ १०.३ ॥
प्रथमेष्व् अध्ययनादिष्व् अवश्यकर्तव्यता ततश् चाक्रियायां दोषः क्रियायां चाभ्युदयः । प्रवचनादिष्व् अनियमः, ततश् च क्रियायाम् अभ्युदय अक्रियायां प्रत्यवायाभावश् च । तुशब्दो विशेषवाची क्षत्रियवैश्ययोर् अप्य् एतेषु नियमः, ब्राह्मणस्य विशेषत इति । अत एवैवं सूत्रं न कृतम्- “द्विजातीनाम् अध्ययनम् इज्या दानं नियमतः” इति, उत्तरेष्व् अपि नियमाधिकारः प्रसज्येतेति ॥ १०.३ ॥
आचार्यज्ञातिप्रियगुरुधनविद्यानियमेषु ब्रह्मणः सम्प्रदानम् अन्यत्र यथोक्तात् ॥ १०.४ ॥
आचार्य उक्तलक्षणः । ज्ञातिर् मातृपितृसम्बन्धः । प्रियः सखा । गुरुः पिता ज्येष्ठः ऋत्विक् इत्यादिः । धननियमो धनपरिवर्तनम् । विद्यानियमो विद्यान्तरेण परिवर्तनम् । ब्रह्मग्रहणं वेदार्थम् । ततश् चाङ्गादाव् अनियमः । सम्प्रदानम् अध्यापनम्, कर्तव्यम् इति शेषः । अन्यत्र यथोक्तात् “अनुज्ञात उपविशेत्” इत्यादिकायाः शुश्रूषायाः । अन्यत्रोक्ताद् इति वक्तव्ये यथाग्रहणं येन विधिना अध्ययनम् उक्तं तस्यैवायम् अपवादो न पुनः “शिष्टाध्यापकः” [ग्ध् ६.६९] इत्य् अस्यापि । ततश् च धनविद्यानियमेनाप्य् अयोग्याय न देयम् ॥ १०.४ ॥
कृषिवाणिज्ये चास्वयङ्कृते ॥ १०.५ ॥
कृषिवाणिज्ये प्रसिद्धे, ते अन्येन कारिते ब्राह्मणस्याधिके । चशब्दात् पशुपालनं चास्वयङ्कृतम् एव ॥ १०.५ ॥
कुसीदं च ॥ १०.६ ॥
कुसीदम् उपचयार्थो धनप्रयोगः, तद् अस्वकृतम् एव, चशब्दप्रयोगात् । पृथग्ग्रहणं चास्य स्वयङ्कृतस्याप्य् अनुज्ञानार्थम् । तथा च “कुसीदवृद्धिर् धर्म्या” [ग्ध् १२.२६] इति वक्ष्यति ॥ १०.६ ॥
राज्ञो ऽधिकं रक्षणं सर्वभूतानाम् ॥ १०.७ ॥
राज्ञः क्षत्रियस्याभिषेकवतो रक्षणं पालनं सर्वभूतानां सर्वप्राणिनाम् । सर्वशब्दप्रयोगात् स्थावराणां च तद्द्वारेण वृत्तिर् भवतीत्य् अधिकग्रहणम् ॥ १०.७ ॥
तत् पुनः कथं कर्तव्यम् इत्य् अत आह ।
न्याय्यदण्डत्वम् ॥ १०.८ ॥
लोकाविरुद्धदण्डधारित्वम्, न पुनर् ऐश्वर्याभिमानात् स्वेच्छया दण्डपातनम् । वक्ष्यति च- “दण्डो दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत्” [ग्ध् ११.३०] इति । अदान्तनिग्रहेण इतरेषां रक्षणं सिद्ध्यतीति ॥ १०.८ ॥
किं चान्यत् ।
बिभृयाद् ब्राह्मणान् श्रोत्रियान् ॥ १०.९ ॥
ब्राह्मणान् ब्रह्मगुणसम्पन्नान् श्रोत्रियान् श्रुतिमतः, सामर्थ्यात् स्वविषयवासिनः । भरणम् अन्नादिदानेन ॥ १०.९ ॥
निरुत्साहांश् चाब्राह्मणान् ॥ १०.१० ॥
निरुत्साहत्वम् उपजीवनार्थकर्मानुष्ठानासमर्थत्वम् । अब्राह्मणाः क्षत्रियादयः । इह चाब्राह्मणग्रहणात् पूर्वसूत्रे लब्धम् अपि ब्राह्मणग्रहणं क्रियते, कथं नामाश्रोत्रियाणाम् अपि ब्राह्मणानां जीवनासमर्थानां भरणं स्याद् इति । चशब्दाद् दीनानाथांश् च ॥ १०.१० ॥
अकरांश् चोपकुर्वाणांश् च ॥ १०.११ ॥
अकराः प्रव्रजिताः अब्राह्मणा एव, तेषाम् एवाधिकारात् । ब्राह्मणप्रव्रतिजानां तु प्रतिग्रहानधिकाराद् एव नोक्तम् । तांश् च साधनादिदानेन बिभृयात् । चशब्दाद् व्याधिभयाद्युपहतांश् च । उपकुर्वाणा लोकोपकारिणो वैद्यादयः । आत्मीयपरिचारका इति केचित् । तद् अयुक्तम्, अर्थसिद्धत्वात् तेषाम् । चकारात् कालज्ञांश् च ॥ १०.११ ॥
योगश् च विजये ॥ १०.१२ ॥
विजये कर्तव्ये योगः कर्तव्यः । अलब्धलाभो योगः । वाल्लभ्यादिना यैर् आटविकादिभिः करो न दत्तः तान् यत्नतो गृह्णीयाद् इत्य् अर्थः । चकाराल् लब्धपरिरक्षणं च । चोरादयो यथा न हरन्ति तथा कर्तव्यम् इत्य् अर्थः । एवं च पूर्वं योगं क्षेमं च कृत्वा पश्चाद् अरिजये यत्नः कर्तव्य इति द्रष्टव्यम् ॥ १०.१२ ॥
भये विशेषेण ॥ १०.१३ ॥
भयम् अन्याभिभवं तस्मिन् विशेषेणात्यन्तं यत्नतो योगक्षेमौ कर्तव्यौ ॥ १०.१३ ॥
चर्या च रथधनुभ्याम् ॥ १०.१४ ॥
चर्या राष्ट्रस्य सर्वतो ऽटनम् । रथग्रहणं हस्त्यश्वादिवाहनोपलक्षणम्, धनुर्ग्रहणं खड्गादीनाम् । चकाराद् एकस्मिन्न् अवस्थानं च । चर्यावस्थानयोर् व्यवस्था कार्यवशाद् द्रष्टव्या ॥ १०.१४ ॥
सङ्ग्रामे संस्थानम् अनिवृत्तिश् च ॥ १०.१५ ॥
सङ्ग्रामे युद्धे संस्थानं निर्भयस्यावस्थानम्, अनिवृत्तिश् च तत्रैव प्राणपरित्यागः । चकाराद् युद्धं च । विसमासाद् गुप्ताशृअयत्वं च ॥ १०.१५ ॥
इदानीं नित्यम् अहिंस्र इत्य् अस्यापवादम् आह ।
न दोषो हिंसायाम् आहवे ॥ १०.१६ ॥
आहवो युद्धम् । प्रकृतस्यापि पुनर्वचनं विशेषार्थम् – यस्मिन्न् अन्यो ऽन्यम् आहूय पुरुषाः प्रवर्तन्ते तत्रैव न दोषो नान्यावस्थायाम् इति ॥ १०.१६ ॥
अन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेश-पराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मण-वादिभ्यः ॥ १०.१७ ॥
एवंविधान् हिंसतो दोषः । विशब्दः त्रिभिः सम्बध्यते – व्यश्वः, विसारथिः, व्यायुध इति । कृताञ्जलिः बद्धाञ्जलिः । प्रकीर्णकेशो विमुक्तकेशः । पराङ्मुखः अन्यमुखः । उपविष्टः आसीनः । स्थलारूढः पर्वतारूढः । वृक्षारूढः प्रसिद्धः । दूतो ऽहं ब्राह्मणो ऽहम् इति च यो वदति, यश् च गोवच्छब्दं करोति, एभ्यो ऽन्यत्र न दोषः ॥ १०.१७ ॥
क्षत्रियस्याभिषेकगुणयुक्तस्य धर्म उक्तः । इदानीम् इतरस्याह ।
क्षत्रियश् चेद् अन्यस् तम् उपजीवेत् तद्वृत्त्या ॥ १०.१८ ॥
अन्यो जातिमात्रसम्बन्धः तं राजानम् उपजीवेत् तद्वृत्त्या “चर्या च रथधनुभ्याम्” [ग्ध् १०.१४] इत्यादिना ॥ १०.१८ ॥
जेता लभेत साङ्ग्रामिकं वित्तम् ॥ १०.१९ ॥
यदि राज्ञा नियुक्तः परं निर्जित्य धनम् आसादयति स तत् साङ्ग्रामिकं धनं लभेत
॥ १०.१९ ॥
अस्यापवादम् आह ।
वाहनं तु राज्ञः ॥ १०.२० ॥
वाहनं हस्त्यादि । तुशब्दो विशेषवाची । महार्घं यद् रत्नादि तद् अपि राज्ञ एव, विशेषतो वाहनम् इति । ततश् च वाहनविषये स्वल्पम् अपि द्रष्टव्यम् ॥ १०.२० ॥
उद्धारश् चापृथग्जये ॥ १०.२१ ॥
अपृथग्जयः सराजको जयः तत्रोद्धारो राज्ञः सारद्रव्यम् । वाहनसमुच्चयार्थश् चकारः
॥ १०.२१ ॥
अन्यत् तु यथार्हं भाजयेद् राजा ॥ १०.२२ ॥
शौर्याद्यपेक्षया योधेभ्यो दद्यात् । राजग्रहणम् एवं कुर्वन्न् अनुरागाद् राजा सम्पद्यत इति । स्वयम् एव विभजनार्थं वा, न परैर् इति ॥ १०.२२ ॥
अधुना रक्षणनिमित्ताम् अस्य वृत्तिम् आह ।
राज्ञे बलिदानं कर्षकैर् दशमम् अष्टमं षष्ठं
वा ॥ १०.२३ ॥
नियुक्ताय देयम् इति राजग्रहणम् । प्रतिसंवत्सरं देयम् इति बलिग्रहणम् । दानं कर्तव्यम् इति शेषः । कर्षकैर् यावन्तः कृषिजीविनः, न तु वैश्येनैव । दशमं वाष्टमं वा षष्ठं वा अधममध्यमोत्तमभूभागक्रमेण व्यवस्थितविकल्पो द्रष्टव्यः ॥ १०.२३ ॥
पशुहिरण्ययोर् अप्य् एके पञ्चाशद्भागः ॥ १०.२४ ॥
पशुपालनेनोपजीवतः सकाशात् पशूनां पञ्चाशद्भागं गृह्णीयात् । हिरण्यं वार्धुषिकसकाशात् ।
समार्घं धनम् उद्धृत्य महार्घं य प्रयच्छति ।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥ [वध् २.४१]
इति वार्धुषिकस्य प्रतिषेधाद् एवास्याभावः प्राप्नोतीति चेत्, नैष दोषः, “कामं परिलुप्तकृत्याय पापीयसे दद्याताम्” [वध् २.४३] इति वसिष्ठेन प्रकारान्तरेणाभ्यनुज्ञानात् । एकेग्रहणान् न तु गौतमः, तत्र येषाम् अप्रतिप्रसवः तेषु न गृह्णीयात् । येषां प्रतिषेधाभावाद् एव वार्धुषिकत्वं स्यात्, तेषु गृह्णीयाद् इत्य् एवं द्रष्टव्यम् ॥ १०.२४ ॥
विंशतिभागः शुल्कः पण्ये ॥ १०.२५ ॥
पण्यं पणनीयं यद् वणिग्भिर् विक्रीयते हिङ्ग्वादि तेषु विंशतिभागं गृह्णीयात् । शुल्कग्रहणं सञ्ज्ञार्थम्, ततश् च “प्रातिभाव्यवणिक्शुल्क” [ग्ध् १२.३८] इत्यादौ व्यवहारसिद्धिः ॥ १०.२५ ॥
मूलफलपुष्पौषधमधुमांसतृणेन्धनानां षाष्ठ्यः ॥ १०.२६ ॥
मूलं हरिद्रादि, फलं मरीचादि, पुष्पं कुसुम्भादि, औषधम् अभयादि, तृणं यत् किञ्चित् कटादि । शेषाः प्रसिद्धाः ॥ १०.२६ ॥
कस्मात् पुनर् एतद् राज्ञो देयम् इत्य् आह ।
तद्रक्षणधर्मित्वात् ॥ १०.२७ ॥
तेषां करदायिनां रक्षणं तद्रक्षणम्, स एव धर्मः यस्यासौ तद्रक्षणधर्मी, तस्य भावस् तद्रक्षणधर्मित्वम्, तस्मात् तद्रक्षणधर्मित्वात् तच्छीलत्वाद् इत्य् अर्थः । वचनगम्ये ऽर्थे हेतुवचनं देशकालापेक्षया उक्तपरिमाणाद् अप्य् अल्पतरभागग्रहणार्थम्, इतरथा सर्वम् एव राजा रक्षतीति साधारणो ऽयं हेतुः स्याद् इति । तथा चाह उशना- “देशकाललाभानुरूपतः करान् प्रकल्पयेत्” इति ॥ १०.२७ ॥
तेषु तु नित्ययुक्तः स्यात् ॥ १०.२८ ॥
तेषु तु बल्यादानेषु सर्वदा सत्य् अपि कार्यव्यग्रत्वे तत्परो भवेत् । तुशब्दो विशेषवाची अन्येष्व् अपि द्रव्यार्जनोपायेषु धर्माद् अनपेतेषु तत्परो भवेत्, अत्र विशेषत इति ॥ १०.२८ ॥
अधिके न वृत्तिः ॥ १०.२९ ॥
स्याद् इति शेषः । कुटुम्बपोषणाद् अधिकं यत् कोशरूपेणानुप्रविष्टं तस्मिन् कोशे वृत्तिर् न स्यात्, कुटुम्बपोषणार्थम्, अन्यत्रापदः, तस्मिन् न गृह्णीयाद् इत्य् अर्थः । तथा च व्याघ्रः ।
कुटुम्बपोषणं कुर्यान् नित्यं कोशं च वर्धयेत् ।
अन्यत्रापत्तितः कोशं न गृह्णीयात् कदाचन ॥ इति ।
केचिद् व्याचक्षते – अधिकेन रक्षणद्वारागतेन जीवनं स्याद् इति । तत्र “राज्ञो ऽधिकम्” इत्य् अनेन पुनरुक्तप्रसङ्गो ऽस्ति उत नास्तीति निरूपणीयम् ॥ १०.२९ ॥
शिल्पिनो मासि मास्य् एकैकं कर्म कुर्युः ॥ १०.३० ॥
शिल्पिनो लोहकारादयः मासि मास्य् एकैकम् अहर् आत्मानुरूपं राज्ञः कर्म कुर्युः, तद् एव तेषां शुल्कं नान्यत् किञ्चिद् इति ॥ १०.३० ॥
एतेनात्मोपजीविनो व्याख्याताः ॥ १०.३१ ॥
आत्मोपजीविनो नटनर्तकादयः, ते ऽप्य् एकम् अहो राज्ञः कर्म कुर्युर् इति शिल्प्यात्मोपजीविन इति वक्तव्ये पृथग्ग्रहणम् आत्मोपजीविनाम् अल्पोपकारित्वाद् अनित्यत्वार्थम् । आत्मोपजीविनश् चेत्य् एवम् अपि न कृतम्, स्मृत्यन्तरे ऽपि शिल्पिनो यद् यद् उक्तं तस्य सर्वस्याप्य् अनुप्रवेशार्थम्, यथाह उशना- “शिल्पिनो मासि मासि कर्मैकं प्रोक्तम्, तदभावे कार्षापणं वा दद्यात्” इति
॥ १०.३१ ॥
नौचक्रीवन्तश् च ॥ १०.३२ ॥
चक्रं शकटम्, नौचक्राभ्यां य उपजीवन्ति । बहुवचनात् वर्धकिनापितादयः । चकारात् वन्यमृगघातकादयः । पूर्ववद् अनित्या मा भूद् इति पृथग्ग्रहणम् ॥ १०.३२ ॥
भक्तं तेभ्यो दद्यात् ॥ १०.३३ ॥
तेभ्यः शिल्पिप्रभृतिभ्यः भक्तं भोजनं शुल्कं दद्यात् । तद्ग्रहणम् अनन्तराणाम् एव मा भूद् इति ॥ १०.३३ ॥
पण्यं वणिग्भिर् अर्घापचयेन देयम् ॥ १०.३४ ॥
मासि मास्य् एकैकम् इत्य् अनुवर्तते । शुल्काद् अधिकम् इदम् । अर्घापचयः अर्घावरमूल्यम् । तथा च बृहस्पतिः ।
शुल्कं दद्यात् ततो मासम् एकैकं पण्यम् एव च ।
अर्घार्धावरमूल्येन वणिजस् ते पृथक् पृथक् ॥ इति ।
**प्रनष्टम् अस्वामिकम् अधिगम्य राज्ञे प्रब्रूयुः **
॥ १०.३५ ॥
प्रनष्टं स्वामिसकाशाद् अपगतम् अस्वामिकम् अविज्ञायमानस्वामिकम् – ज्ञायमानस्वामिकं तु स्वामिन एव कथयेत् । अधिगम्य लब्ध्वा राज्ञे नामात्यादिभ्य प्रब्रूयुः, प्रशब्दाद् अमायया कथयेयुः, इदम् अस्मिन् देशे एवं चासादितम्, अन्विष्यतां कस्यैतद् इति । बहुवचनप्रयोगात् सामन्तादिभिर् अपि वक्तव्यम् एवेति ॥ १०.३५ ॥
एवं कथितम् ।
विख्याप्य संवत्सरं राज्ञा रक्ष्यम् ॥ १०.३६ ॥
विख्याप्य पटहकेनावघुष्य अमुकजातीयं वस्त्व् आसादितम्, यस्यैतत् स स्वयम् उपतिष्ठताम् इति । संवत्सरं निरुपद्रवं रक्ष्यं पालनीयम् । प्राक् संवत्सराद् यदि स्वाम्य् आगच्छति तस्मै देयम्, रक्षणस्य तदायत्तत्वात् अधिकाराच् च लब्धस्यापि राजशब्दस्योपन्यासः तद्रक्षणे अत्याप्ता नियोक्तव्या इति । तथा चाह उशना- “विद्याभिजनयुक्तान् पूर्वदृष्टप्रमाणान् वृद्धान् निधिपालने नियुञ्ज्यात्” इति ॥ १०.३६ ॥
ऊर्ध्वम् अधिगन्तुश् चतुर्थं राज्ञः शेषः ॥ १०.३७ ॥
संवत्सरात् परतो येनाख्यातं तस्मै चतुर्थम्, राज्ञः शेषम् । आख्यातुश् चतुर्थं दत्वा शेषं स्वयं गृह्णीयात् उत नियुक्ताय देयम् इति सन्देहः स्याद् इति तन्निराकरणार्थं शेषं राज्ञ इत्य् उक्तम् ॥ १०.३७ ॥
अथ यो ऽर्वाक् संवत्सरान् ममेदम् इति प्रब्रूयात् स स्वामीति कथम् अवगम्यते इत्य् अत आह ।
स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु
॥ १०.३८ ॥
एतेषु कारणेषु प्रतिपादितेषु ज्ञायमानेषु स स्वामी भवेद् इति । रिक्थं पितुः सकाशात् प्राप्तम् । क्रयो मूल्येन विक्रीतम् । संविभाग उत्सन्नं यद् दायादि स्वरूपेण प्राप्तम् । परिग्रहः स्त्रीधनम् । अनन्यपूर्वस्य स्वीकरणम्, यथा नद्यादिषु वृक्षादिर् इत्य् एके तत्राधिगमेन पुनर् उक्तम् अस्ति उत नास्तीति विचारणीयम् । अधिगमः आकरादिभ्यो लब्धं रत्नादि ॥ १०.३८ ॥
एतानि तावत् सर्ववर्णानां साधारणानि ।
ब्राह्मणस्याधिकं लब्धम् ॥ १०.३९ ॥
प्रतिग्रहोपात्तम्, तद्धर्मत्वात् । एतद् उक्तं भवति – याजनाध्यापनोपात्तम् अपि द्रष्टव्यम् इति
॥ १०.३९ ॥
क्षत्रियस्य विजितम् ॥ १०.४० ॥
निगृह्य शस्त्रेण निर्जितं यत् तत् क्षत्रियस्याधिकम् ॥ १०.४० ॥
निर्विष्टं वैश्यशूद्रयोः ॥ १०.४१ ॥
निर्विष्टं कर्मणोपात्तम्, वैश्यस्य कृष्यादिना, शूद्रस्य तु शुश्रूषादिना । अधिकम् इति वर्तते
॥ १०.४१ ॥
प्रनष्टाधिगताद् अधिगन्तुश् चतुर्थम् उक्तम् । तद् विशिनष्टि ।
निध्यधिगमो राजधनम् ॥ १०.४२ ॥
निधेः पूर्वनिहितस्याधिगमो लाभः स राज्ञ एव, न ततो ऽधिगन्तुश् चतुर्थः । एवं च निधेर् अन्यद् द्रव्यं यत् तस्माद् एव चतुर्थांश इति द्रष्टव्यम् ।
ननु च निधेर् यद् अन्यद् द्रव्यं राज्ञः कथं तत्प्राप्तिः, अधिगमस्य साधारणत्वेनोक्तत्वात् येन पूर्वम् अधिगम्यते तेनैव तस्य गृह्यमाणत्वाद् इति ।
अत्रोच्यते – यस्मिन्न् अनुभूतचिह्नानि दृश्यन्ते तद् राज्ञे कथयेत् इतरत् स्वयं गृह्णीयाद् इति एवं चानुभूतचिह्नानि मुषित्वा गृह्णतो दोषः । यथाह लोकाक्षिः- “अनुभूतचिह्नानि मुषित्वा गृह्णतः पूर्वसाहसं दण्डः तद्द्रव्यद्विगुणं च राजा हरेत्” इति असति धनग्रहणे निध्यधिगमो राज्ञ इत्य् उक्ते अराज्ञ इति प्रतिषेधो ऽप्य् आशङ्क्येत ॥ १०.४२ ॥
न ब्राह्मणस्याभिरूपस्य ॥ १०.४३ ॥
अभिरूपः षट्कर्मनिरतः । तथा च वसिष्ठः- “ब्राह्मणश् चेद् अधिगच्छेत् षट्सु कर्मसु वर्तमानो न राजा हरेत्” [वध् ३.१४] इति, तस्य कर्मसाधनत्वात् ॥ १०.४३ ॥
अब्राह्मणो ऽप्य् आख्याता षष्ठं लभेतेत्य् एके ॥ १०.४४ ॥
अब्राह्मणः क्षत्रियादिः । आख्याता पूर्वं ज्ञापयिता । षष्ठम् अंशं लभेतेत्य् एके मन्यन्ते, चारित्रक्लेशफलं हि तद् इति । एक इति वचनान् न तु गौतमः, अपरिमितसारत्वान् निधीनाम् । अतो यत् किञ्चिद् अस्य देयम् इति न तु षष्ठ एवांश इति । अपिशब्दाद् ब्राह्मणो ऽप्य् अनभिरूप इति
॥ १०.४४ ॥
रक्ष्यं बालधनम् आ व्यवहारप्रापणात् समावृत्तेर् वा ॥ १०.४५ ॥
बाल अप्राप्तषोडशवर्षः । तद्ग्रहणम् अन्येषाम् अपि रक्षणासमर्थानाम् उपलक्षणम् । तद्धनं बन्धुभ्यो रक्षेत् । अन्येभ्यस् तु रक्षणस्य “रक्षणं सर्वभूतानाम्” [ग्ध् १०.७] इत्य् अनेनैव सिद्धत्वात् । आ व्यवहारप्रापणात् रक्षणसामर्थ्योपजननात्, आ समावृत्तेर् वा सत्य् अपि सामर्थ्यलक्षणे । विकल्पस् तु अध्ययनाद्यभियोगापेक्षया वर्णनीयः ॥ १०.४५ ॥
चोरहृतम् अपजित्य यथास्थानं गमयेत् ॥ १०.४६ ॥
चोराद्यपहृतं तत आच्छिद्य स्वामिन एव प्रत्यर्पयेत् । न तु “जेता लभेत साङ्ग्रामिकम्” [ग्ध् १०.१९] इत्य् अनेन कण्टकमर्दनव्याजेन वा किञ्चिद् उपजीवेत् । आच्छिद्येति वक्तव्ये अपजित्येति वचनं यो ऽप्य् अन्य आच्छिनत्ति असाव् अप्य् अमुष्मै दापनीय इति । स्वामिने दद्याद् इति वक्तव्ये “यथास्थानं गमयेत्” इत्य् आरम्भः स्वाम्यभावे ऽपि तद्भृत्येभ्यो यथार्हतो ऽर्पयेद् इति । चोरग्रहणं बलात्करणादेर् अप्य् उपलक्षणम् ॥ १०.४६ ॥
कोशाद् वा दद्यात् ॥ १०.४७ ॥
अनपजये, दुर्गदेशादिषु गतत्वात्, यावन्मात्रम् अपहृतं तत् स्वधनाद् दद्यात् । कोशाद् वेति नोक्तम्, यथास्थानं गमयेत् कोशाद् वा गमयेद् इति मा भूद् आशङ्केति ॥ १०.४७ ॥
वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् ॥ १०.४८ ॥
कृष्यादि प्रसिद्धम् । कृषिश् च वणिक् चेति द्वन्द्वैकवद्भावः । वणिग् इति वाणिज्यं कर्मोच्यते
॥ १०.४८ ॥
शूद्रश् चतुर्थो वर्णः ॥ १०.४९ ॥
शूद्र इति सञ्ज्ञा श्रुतितो द्रवतीति । वर्ण इति त्रयाणां ब्राह्मणादीनां वर्णसञ्ज्ञाप्रतिपत्त्यर्थम् । अतश् चतुर्णाम् एव वर्णसञ्ज्ञा, नान्तरजानाम् । तथा च वसिष्ठः- “चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः” [वध् २.१] इति ॥ १०.४९ ॥
एकजातिः ॥ १०.५० ॥
नास्य द्वितीया जातिर् विद्यते “उपनयनम् इति द्वितियं जन्म” इति तस्यापि जातिसञ्ज्ञात्वात् । एवं चास्योपनयनप्रतिषेधः । ततश् च तस्यैव प्रतिषेधात् तस्मात् प्राक्तनानाम् अमन्त्रकाणां यथाकालम् अनुष्ठानं द्रष्टव्यम् । तथा च गृह्यकारवचनम्- “शूद्रस्यापि निषेकपुंसवनसीमन्तोन्नयनजातकर्मनामकरणोपनिष्क्रमणान्नप्राशनचौलान्य् अमन्त्रकाणि यथाकालम् उपदिष्टानि” इति । उपरितानां तूपनयनमूलत्वाद् एव प्रतिषेधसिद्धिः ॥ १०.५० ॥
तस्यापि सत्यम् अक्रोधः शौचम् ॥ १०.५१ ॥
तस्य शूद्रस्य । अपिशब्दात् उत्कृष्टा अवान्तरजाश् च गृह्यन्ते । द्विजातीनां ब्रह्मचारिप्रकरणे स्नातकधर्मे चोक्तानाम् अपि वर्णधर्मप्रापणार्थः इहानुवादः अनुपनीतानाम् अपि प्रवेशो यथा स्याद् इति । सत्यं यथाभूतार्थवादित्वम् । अक्रोधः परानभिद्रोहबुद्धिः । शौचं मृदादिभिः । अस्तेयेन्द्रियसंयमादीनाम् उपसङ्ग्रहार्थो विसमासः । तथा च मनुः ।
अहिंसा सत्यम् अक्रोधः शौचम् इन्द्रियसंयमः ।
एतान् सामासिकं धर्मम् ॥ इति । [म्ध् १०.६३]
तथा च वसिष्ठो ऽपि- “सर्वेषां सत्यम् अक्रोधो दानम् अहिंसा प्रजननं च” [वध् ४.४]
इति ॥ १०.५१ ॥
आचमनार्थे पाणिपादप्रक्षालनम् एवैके ॥ १०.५२ ॥
आचमनार्थे स्नानार्थे पाणिपादप्रक्षालनमात्रम् एक इच्छन्ति, अमन्त्रकं स्नानं कर्तव्यम् एवेति गौतमः । विकल्पश् च सच्छूद्रापेक्षया वर्णनीयः । तथाह उशना- “सच्छूद्रः स्नायात्, असच्छूद्रः पाणिपादौ प्रक्षालयेत्” इति । नित्यस्नानस्यायम् । नैमित्तिकस्य तु पक्षान्तराभावात् स्नानम् एव कर्तव्यम् ।
अथ वा आचमनम् एवोच्यते । तदर्थं पाणिपादप्रक्षालनम् एवैक इच्छन्ति, न तु गौतमः । पाणिपादप्रक्षालनं कृत्वा सकृत् पानं च कर्तव्यम् इति तस्याभिप्रायः । तथा च मनुः- “स्त्रीशूद्रौ तु सकृत् सकृत्” [म्ध् ५.१३७] इति । विकल्पस् तु पूर्ववद् वर्णनीयः ॥ १०.५२ ॥
श्राद्धकर्म ॥ १०.५३ ॥
“अथ श्राद्धम्” इत्यादि [ग्ध् १५.१] वक्ष्यति । कर्मग्रहणं समस्तश्राद्धोपसङ्ग्रहार्थम् । यथाह कण्वः ।
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धम् अथापरम् ।
पार्वणं चेति विज्ञेयं श्राद्धं पञ्चविधं स्मृतम् ॥ इति ।
श्राद्धग्रहणेनैव लभ्यमानत्वात् कर्मग्रहणं समस्तविध्युपसङ्ग्रहार्थम् इत्य् एके । केचिन्41 मा भून् मन्त्रप्रतिषेधात् तत्साध्यविधिप्रतिषेधो ऽपीति ॥ १०.५३ ॥
भृत्यभरणम् ॥ १०.५४ ॥
भृत्यदारादिपोषणम् । अर्थप्राप्तम् अप्य् एतद् उच्यते, मा भूद् उच्छिष्टाशनविधानाद् अभृत्यत्वम् इति ॥ १०.५४ ॥
स्वदारवृत्तिः42** ॥ १०.५५ ॥**
उपनयनमूलत्वाद् उपरितनानां सर्वेषां प्रतिषेधे प्राप्ते दारपरिग्रहमात्रस्य प्रतिप्रसवः क्रियते । समानजातीयैवास्य भार्या न तु प्रतिलोमेति स्वशब्दस्योपादानम् । ततश् च ब्राह्मणादीनां विजातीयपरिग्रहः सिद्धो भवति । तथाह मनुः ।
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।
ते च स्वा चैव राज्ञः स्युस् ताश् च स्वा चाग्र्यजन्मनः ॥ इति । [म्ध् ३.१३]
स्वदार इति सिद्धे वृत्तिशब्दस्योपादानं देवरादिनियोगप्रतिषेधार्थम्, स्वदार एव वृत्तिः न परदार इति । असमासो गुर्वर्थादिदानोपसङ्ग्रहार्थम् । गार्हस्थ्यम् एवाश्रमो ऽस्य नेतराणीति पृथग्योगकरणम् ॥ १०.५५ ॥
परिचर्या चोत्तरेषाम् ॥ १०.५६ ॥
परिचर्या परिचरणं शुश्रूषा उत्तरेषां त्रयाणां वर्णानाम् । चशब्दात् कृष्यादि च । सच्छूद्रस्य शुश्रूषा, इतरस्य कृष्यादिर् इत् केचित् । गौतमस्य तावद् अयम् अभिप्रायः – यः सच्छूद्रस् तेनोभयम् अप्य् अविरोधेन कर्तव्यम्, इतरेण कृष्याद्य् एवेति । इतरेषाम् इति सिद्धे उत्तरग्रहणं यो य उत्तरस् तत्र तत्र फलभूयस्त्वज्ञापनार्थम् । तथा च आपस्तम्बः- “पूर्वस्मिन् पूर्वस्मिन् वर्णे निःश्रेयसं भूयः” [आप्ध् १.१.८] इति ॥ १०.५६ ॥
इदानीं यस्य शुश्रूषा स कथं वर्तत इत्य् अत आह ।
तेभ्यो वृत्तिं लिप्सेत ॥ १०.५७ ॥
यान् परिचरेत् तेभ्य एव जीवनं लब्धुम् इच्छेत् । एवं च वृत्त्यर्थिन एव परिचर्या नावश्यं सर्वस्येति सिद्धम् ॥ १०.५७ ॥
किं पुनर् एभ्यः प्रार्थयेत्, तैर् एवास्मै किं देयम्, इत्य् आह ।
जीर्णान्य् उपानच्छत्रवासःकूर्चादीनि ॥ १०.५८ ॥
जीर्णान्य् उपभुक्तानि । आदिशब्दाच् चान्यानि चाल्पसाराणि । यथाह मनुः ।
उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च ।
पुलाकाश् चैव धान्यानां जीर्ञ्णाश् चैव परिच्छदाः ॥ इति । [म्ध् १०.१२५]
छत्रग्रहणं शिखिपत्रकृतानाम् अप्य् उपलक्षणम् । अन्यत् प्रसिद्धम् ॥ १०.५८ ॥
उच्छिष्टाशनं शिल्पवृत्तिश् च ॥ १०.५९ ॥
पानीयस्यानियमः, अशनशब्दस्योपादानात् । उच्छिष्टं भुक्तशिष्टम् । तद् अप्य् अकृतदारस्यैव, इतरस्य तु पाकयज्ञाधिकाराद् अप्रवृत्तेः । कुत एतत् । असमासनिर्देशात्, स्मृत्यन्तराच् च । यथाह व्याघ्रः ।
उच्छिष्टम् अन्नं दातव्यं शूद्रायागृहमेधिने ।
गृहस्थाय तु दातव्यम् अनुच्छिष्टं दिने दिने ॥ इति ।
शिल्पवृत्तिः तक्षायस्कारादिकर्मोपजीवनम् । चशब्दात् कारुकर्माणि । विसमासः आपत्कल्पप्रदर्शनार्थः । तथा च मनुः ।
अशक्नुवंस् तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।
पुत्रदारात्ययं प्राप्तो जीवेत् कारुककर्मभिः ॥ इति । [म्ध् ८.२५०]
शुश्रूषां कर्तुम् अशक्नुवन् शिल्पवृत्त्योपजीवेत् । तयापि जीवनासम्भवे कारुवृत्तिर् इति द्रष्टव्यम् । शिल्पकारुकर्मणोश् भेदो लोकाद् अवगन्तव्यः । कारुकर्माणि नापितरजकचित्रकारादीनि, प्रतिलोमकर्मत्वाद् अनुलोमकर्मभ्यो निन्दितानि । शिल्पानि तु तक्षायस्कारादीनि अनुलोमकर्मत्वात् कारुकर्मभ्यो विशिष्टानीति ॥ १०.५९ ॥
यं चार्यम् आश्रयीत भर्तव्यस् तेन क्षीणो ऽपि ॥ १०.६० ॥
य ब्राह्मणादिम् आश्रयेत् परिचरेत् तेनासौ पोषणीयः । चशब्दाद् अनार्यं स्वजातीयम् अपि कर्मान्तरेणार्याणाम् एव परिचरणोपदेशात् । यं चाश्रयेतेति वक्तव्ये आर्यग्रहणं समानजातीये ऽपि साधूनां विशेषज्ञापनार्थम् । तेनेति तस्यावश्यकर्तव्यतासूचनार्थम् । क्षीणो ऽपि व्याधिजराद्युपहतो ऽपीत्य् अर्थः ॥ १०.६० ॥
तेन चोत्तरः ॥ १०.६१ ॥
तेन च शूद्रेणोत्तरो यम् आश्रयेत । एवं च वृत्तिक्षीणस्य शूद्राश्रयणम् अप्य् अस्तीति ज्ञापयति । आश्रयणम् अप्य् आत्मसन्दर्शनमात्रम् । यथाह जातूकर्णिः ।
यो नीचम् आश्रयेद् आर्यः आत्मानं दर्शयेत् सदा ।
आत्मानं दासवन् मत्वा चरेन् नीचो ऽपि तं प्रति ॥
चशब्दाद् अनाश्रितो ऽप्य् अवसन्नः । तथा च जातूकर्णिः ।
दरिद्रो ब्राह्मणो दान्तो वेदानां चैव पारगः ।
शूद्रेणापि सदा ह्य् एष भर्तव्यो ऽनाश्रितो ऽपि सन् ॥ इति ।
तेन चेतर इति वक्तव्ये उत्तर्ग्रहणं ब्राह्मण एव नियमतो भर्तव्यः, इतरो ऽनियमत इति ज्ञापनार्थम् । तथा च जातूकर्णिः ।
बिभृयाद् ब्राह्मण्ं नित्यं सर्वयत्नेन बुद्धिमान् ।
अन्यं चाप्य् आनृशंस्यार्थं शूद्रो ऽपि द्रव्यवान् सदा ॥
इति ॥ १०.६१ ॥
तदर्थो ऽस्य निचयः स्यात् ॥ १०.६२ ॥
तदर्थः उत्तरपोषणार्थः अस्य शूद्रस्य निचयः सञ्चयः स्याद् भवति । यस्माद् इत्य् अध्याहर्तव्यम् । एवं चास्य अन्यार्थो द्रव्यपरिग्रहः प्रतिषिद्धो भवति । हेतुवचनम् अपि पूर्ववद् असारद्रव्येण भरणं न भवति, किं तु स्वकुटुम्बाविरोधेन सर्वस्वदानेनेति
॥ १०.६२ ॥
अनुज्ञातो ऽस्य नमस्कारो मन्त्रः ॥ १०.६३ ॥
अनुज्ञातः श्रुतौ शिष्टैर् वास्य सच्छूद्रस्य न त्व् असतः । नमस्कारो नाम मन्त्रः । सो ऽयम् ।
देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यम् एव भवत्य् उत ॥ इति ।
अस्य पितृकार्ये विनियोगः । यथाह गृह्यकारः- “ब्राह्मणान् उपवेश्य देवतादिकं मन्त्रं जपेत्” इति । मन्त्रग्रहणं नमस्कार एवास्यानुज्ञात इति मा भूद् आशङ्केति ॥ १०.६३ ॥
पाकयज्ञैः स्वयं यजेतेत्य् एके ॥ १०.६४ ॥
पाकयज्ञाः पाकसाध्याः अष्टकादयः तैः स्वयं यजेत न परं नियुञ्ज्यात् । एवं चान्यस्य परनियोगसिद्धिः । एकेग्रहणात् न तु गौतमः । सो ऽयं विकल्पः सच्छूद्रासच्छूद्रविषयो व्याख्येयः ॥ १०.६४ ॥
न केवलं शूद्र एवैवं कुर्यात्, किं तर्हि ।
सर्वे चोत्तरोत्तरं परिचरेयुः ॥ १०.६५ ॥
सर्वे निकृष्टाः अधिकं वर्णं शुश्रूषेयुः ।
ननु च शूद्रस्योक्तत्वात् ब्राह्मणस्य चोत्तराभावात् क्षत्रियवैश्यार्थः आरम्भः । अतो बहुवचनानुपपत्तिः “परिचरेयुः सर्वे” इति ।
उच्यते – समानजातीयम् अप्य् अधिकगुणं हीनः परिचरेद् इति बहुवचनम् । सर्वशब्दाद् अनुलोमाश् चापि, अन्यथा वर्णाधिकारान् न भवति इति । शूद्रस्यापि स्वजातौ गुणाधिकपरिचरणार्थश् चकारः ॥ १०.६५ ॥
आर्यानार्ययोर् व्यतिक्षेपे कर्मणः साम्यं ॥ १०.६६ ॥
आर्यस्य उत्कृष्टजातेर् अनार्यस्य निकृष्टजातेः व्यतिक्षेपे व्यतिकरे परस्परव्यत्यासे कर्मणः आचारस्य साम्यं समत्वं तयोर् अवगन्तव्यम् । आर्यो ऽपि ब्राह्मणादिः अनार्यकर्मा न शूद्रेण परिचरणीयः । अनार्यो ऽपि शूद्रो य उक्तकारी स आश्रयणीयः । तथा च मनुः शूद्रान् अधिकृत्याह ।
धर्मेप्सवस् तु धर्मज्ञाः सतां वृत्तिम् अनुष्ठिताः ।
मन्त्रवर्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ इति । [म्ध् १२.१२७]
एवं चानेन न जातिसाम्यम् उक्तम्, किं तु जातिबलम् आश्रित्य कुत्सितं न कर्तव्यं । इतरो ऽपि हीनो ऽहम् इति कृत्वानादरो न कर्तव्य इति । व्यत्यये सति विहिताकरणे प्रतिषिद्धसेवने च यद् वक्ष्यति प्रायश्चित्तं तद् द्रष्टव्यम् ॥ १०.६६ ॥
इति मस्करीये गौतमसूत्रभाष्ये दशमो ऽध्यायः
एकादशो ऽध्यायः
आर्यानार्ययोर् व्यतिक्षेपे राजा निवारयितेत्य् उक्तम् । अधुना तधर्मान् आह ।
राजा सर्वस्येष्टे ब्राह्मणवर्जम् ॥ ११.१ ॥
राजा पूर्वम् उक्तः सर्वस्य विषयवासिनो जनस्य, निग्रहानुग्रहाचारभोगनियोगेषु प्रभुः, निग्रहे अपराधिनाम्, अनुग्रहे ऽनुग्राह्याणाम्, आचारे मर्यादावस्थाने भोगे करग्रहणे, नियोगे पुरुषाणां शिष्टकरणे । अस्यापवादः – ब्राह्मणवर्जं ब्राह्मणान् मुक्त्वेत्य् अर्थः । अपचारे ऽपि सतः सान्त्वपूर्वम् एतान् स्वधर्मे स्थापयेत्, न त्व् इतरवर्णवन् निग्रहेणेति द्रष्टव्यम् । आरम्भप्रयोजनं सर्वक्रियासु स्वतन्त्रताख्यापनार्थम् । तथा च नारदः ।
अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः । [न्स्म् १.२९]
इति ॥ ११.१ ॥
ईशत्वे ऽपि सति –
साधुकारी स्यात् साधुवादी ॥ ११.२ ॥
साधुकारी शास्त्राभिहिताविरुद्धाचरणशीलः । साधुवादी व्यवहारदर्शनकाले पक्षानाश्रितवादी । यद्य् अप्य् अस्य सर्वेशत्वम् उक्तम्, तथापि शास्त्रोक्तमर्यादां च न लङ्घयेत्, परस्वापहरणपरद्यूतादौ न प्रवर्तयेद् इत्य् अर्थः । ततः शास्त्राविरोधिपदार्थविषय एवास्य स्वतन्त्रता नाविशेषेणेति ॥ ११.२ ॥
किं च ।
त्रय्याम् आन्वीक्षिक्यां चाभिविनीतः ॥ ११.३ ॥
तर्यी ऋग्यजुःसामलक्षणा । आन्वीक्षिकी न्यायविद्या आत्मविद्या च । अनयोर् अभिविनीतः कुशलः । विसमासाद् दण्डनीत्या च । चशब्दाद् वार्तायां च । तथा च मनुः ।
त्रैविद्येभ्यस् त्रयीं विद्यां दण्डनीतिं च तद्विदः ।
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भं च लोकतः ॥ [म्ध् ७.४३]
इति ॥ ११.३ ॥
शुचिर् जितेन्द्रियो गुणवत्सहायोपायसम्पन्नः ॥ ११.४ ॥
शुचिर् अलुब्धः । जितेन्द्रियः मृगयादिव्यसनरहितः । गुणवत्सहायः गुणवद्भिर् विद्याचारित्रादिभिर् गुणैर् युक्तैः सहायैर् मन्त्रिसामन्तदूतादिभिर् उपेतः । उपायैर् देशकालावस्थाद्यपेक्षया प्रयुक्तैः सामादिभिश् च युक्तः । गुणवत्सहायोपायवान् इति वक्तव्ये सम्पन्नग्रहणम् अनिस्रावमन्त्रत्वोपसङ्ग्रहार्थम् ॥ ११.४ ॥
समः प्रजासु स्यात् ॥ ११.५ ॥
समो व्यवहारे द्वेष्यप्रिययोस् तुल्यभावः स्यात् ॥ ११.५ ॥
हितं चासां कुर्वीत ॥ ११.६ ॥
हितं चासां तटाकखननसेतुबन्धनारामादीन् प्रतिग्रामं कुर्याद् इत्य् अर्थः । चशब्दाद् द्यूतमद्यादीन्य् अहितानि निवर्तयेत् ॥ ११.६ ॥
तम् उपर्य् आसीनम् अधस्ताद् उपासीरन्न् अन्ये ब्राह्मणेभ्यः ॥ ११.७ ॥
तम् एवङ्गुणसम्पन्नं राजानम् उपरि स्थितं नीचैः समीपतः सेवेरन् क्षत्रियादयः । अब्राह्मणा इति वक्तव्ये “अन्ये ब्राह्मणेभ्यः” इति गुणवद्ब्राह्मणोपसङ्ग्रहणार्थम्, न तु जातिमात्रस्येति । तद् अधस्ताद् आसीरन्न् इति सिद्धे उपरिग्रहणम् उत्सवादिष्व् अप्य् उपरिभावार्थम्
॥ ११.७ ॥
ते ऽप्य् एनं मन्येरन् ॥ ११.८ ॥
ते ऽपि गुणवन्तो ब्राह्मणा अपि एनम् अधस्तात् स्थितं मन्येरन् पूजयेयुर् आशीर्वादादिभिः लोकपालांश इति मत्वा । यथा च मनुः ।
यस्माद् एष सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः । [म्ध् ७.५]
इत्यादि । अपिशब्दान् नीचैः स्थिता अगुणवन्तो ब्राह्मणाश् च ॥ ११.८ ॥
वर्णान् आश्रमांश् च न्यायतो ऽभिरक्षेत् ॥ ११.९ ॥
वर्णा अनुपनीता ब्राह्मणादयः । उत्तरकालम् आश्रमाः । न्यायतः लोकशास्त्राविरुद्धेन मार्गेण यथैषां शास्त्रविहितकर्मानुष्ठानोपद्रवो लोकव्यवस्थाभङ्गश् च न भवति तथा रक्षेद् इत्य् अर्थः । अभिग्रहणम् आभिमुख्यार्थम्, ततश् च स्वयम् एव विचार्य रक्षेत् । येषां वर्नत्वम् आश्रमत्वं च नास्ति प्रतिलोमानाम्, तेषाम् अपि रक्षणार्थो विसमासः । येषां वर्णत्वं नास्ति आश्रमत्वम् एवानुलोमानां तेषाम् अप्य् उपसङ्ग्रहार्थम् आश्रमग्रहणम् । तेषां तु “शूद्रस् चतुर्थो वर्णः” [ग्ध् १०.४९] इत्य् अत्र वर्णत्वनिराकरणात् । “प्रतिलोमात् तु धर्महीनः” [ग्ध् ४.२५] इत्य् अत्रोपनयनविधानाद् आश्रमत्वे सत्य् अपि वर्णत्वानपगमाच् च वर्णग्रहणेनैव लभ्यमानत्वाद् इति । चकाराद् देवताप्रतिमाश् च । तथा च व्याघ्रः ।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रान् अन्तरजांस् तथा ।
देवताप्रतिमाश् चापि रक्षेद् भूपः प्रयत्नतः ॥ इति ।
“रक्षणं सर्वभूतानाम्” [ग्ध् १०.७] इति चोरादिभ्यो रक्षणस्योक्तत्वात् । अन्योन्यासङ्करार्थम् इहोपदेशः ॥ ११.९ ॥
चलतश् चैतान् स्वधर्मे स्थापयेत् ॥ ११.१० ॥
एतान् पूर्वोक्तान् यद्य् आलस्यादिना ये चलन्ति न कुर्वन्ति तान् निगृह्य स्वधर्मम् एव कारयेद् इत्य् अर्थः । चकारात् प्रतिषिद्धसेवने च ॥ ११.१० ॥
कस्माद् एवं करोतीत्य् आह ।
धर्मस्य ह्य् अंशभाग् भवतीति विज्ञायते ॥ ११.११ ॥
हिशब्दो हेत्वर्थः । यस्माद् रक्षणतः धर्मस्यांशो भवतीति अरक्षणतो ऽप्य् अधर्मस्येत्य् अर्थसिद्धम् । अंशः षष्ठो भागः । तथा च मनुः ।
सर्वतो धर्मषड्भागो राज्ञो भवति रक्षणात् ।
अधर्माद् अपि षड्भागो भवत्य् अस्य ह्य् अरक्षतः ॥ इति । [म्ध् ८.३०४]
अमूर्तस्य धर्मस्य विभागासम्भवात्, यावान् वर्णाश्रमाणां धर्म उत्पद्यते ततः षष्ठांशपरिमाणो राज्ञो ऽपि विहितकर्मानुष्ठानाद् उत्पद्यत इति द्रष्टव्यम् । इतिकरणश् चोपसंहारप्रदर्शनार्थः, यतः एतद् एवम् अतो रक्षेत् स्थापयेच् चेति । विज्ञायत इति श्रुतिसूचनार्थम् । तद् अपि सर्वधर्माणां श्रुतिमूलत्वाद् रक्षणे गौरवोत्पादनार्थम्
॥ ११.११ ॥
ब्राह्मणं च पुरो दधीत ॥ ११.१२ ॥
ब्राह्मणं पुरः अग्रे सर्वकार्येषु कुर्यात् । चशब्दात् सेनापतिं च कुर्यात् ॥ ११.१२ ॥
विद्याभिजनवाग्रूपवयःशीलसम्पन्नम् ॥ ११.१३ ॥
विद्याशब्देनाथर्ववेद उच्यते, स एव शान्त्यादिकर्मसमर्थ इति । अभिजनः चारित्रम्, तद्वान् कार्ये प्रवर्तत इति । वाक्सम्पन्नः संस्कृतवक्तृत्वेन सर्वं रञ्जतीति । रूपसम्पन्नः प्रियदर्शनत्वाच् छ्रद्धेयवाक्यो भवतीति । वयःसम्पन्नः नातियुवा नातिस्थविरः, असाव् एव महत्कर्मयोग्यो भवतीति । शीलसम्पन्नः क्षमायुक्तः तस्यासाध्यं नास्तीति ॥ ११.१३ ॥
किं चान्यत् ।
न्यायवृत्तं तपस्विनम् ॥ ११.१४ ॥
न्यायवृत्तः अविरुद्धलोकाचारोपेतः, सः कृच्छ्रे ऽपि राजानं न परित्यजतीति । तपस्वी ऋताव् एव गमनशील इत्य् अर्थः, सो ऽभ्यन्तरप्रवेशादिषु योग्यो भवतीति । अन्ये ऽपि सहाया एवंरूपा एव कर्तव्या इति योगविभागः । विसमासो धर्मशास्त्रकुशलोपसङ्ग्रहार्थः ॥ ११.१४ ॥
तत्प्रसूतः कर्माणि कुर्वीत ॥ ११.१५ ॥
तच्छब्दः सर्वसहायोपसङ्ग्रहार्थः । प्रसूतः अभ्यनुज्ञातः । तैर् विचार्येत्य् अर्थः । कर्माणि दृष्टादृष्टार्थानि कुर्वीत ॥ ११.१५ ॥
किं च ।
ब्रह्मप्रसूतं हि क्षत्रम् ऋध्यते न व्यथत इति च विज्ञायते ॥ ११.१६ ॥
हिशब्दो यस्मादर्थे । यस्माद् ब्राह्मणानुज्ञया क्षत्रकर्मप्रवर्तमानम् ऋध्यते अवश्यं तत्फलेन युज्यत इत्य् अर्थः । विधिनैव कृतत्वात् पात्रदोषाद्यभावान् न व्यथते अन्यथा न भवतीत्य् अर्थः । इतिचशब्दौ श्रुतिद्वयसूचनार्थौ । विज्ञाय्त इति श्रुतिसूचनार्थम् । विचार्यैव कर्तव्यानीत्य् एवमर्थः श्रुत्युपन्यासः ॥ ११.१६ ॥
किं च ।
यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस् तान्य् आद्रियेत
॥ ११.१७ ॥
दैवचिन्तकाः ज्योतिःशास्त्रविदः । उत्पातचिन्तकाः शकुननिमित्तज्ञाः । प्रब्रूयुः निश्चयेन ब्रूयुः । चशब्दाद् गुरवश् च । तान्य् आद्रियेत श्रद्दधीत, तदनुरूपं कुर्याद् इत्य् अर्थः ॥ ११.१७ ॥
कस्मात्? यतः ।
तदधीनम् अपि ह्य् एके योगक्षेमं प्रतिजानते ॥ ११.१८ ॥
दैवाधीना पुरुषकाराधीना वा कर्मफलप्राप्तिः । दैवशब्देन पूर्वजन्मोपात्तं कर्मोच्यते, पुरुषकारशब्देनैतज्जन्मकृतं कर्म । तथा च कण्वः ।
पूर्वजन्मकृतं कर्म दैवम् इत्य् अभिधीयते ।
एतज्जन्मकृतं यत् तु पुरुषकारम् इहोच्यते ॥ इति ।
तत्र पुरुषकारहीनानाम् अपि पङ्ग्वादीनां निधानादिलाभदर्शनात्, प्रकृष्टकर्मकृताम् अपि फलादर्शनाद् दैवाधीनम् एव फलं न पुरुषकाराधीनम् इति मन्यमानाः तदधीनम् इति प्रतिजानते । तच्छब्देन दैवोत्पातकचिन्तकवचनम्, तेनैवादृष्टफलविज्ञानात् । तदायत्तं योगक्षेमम् । अलब्धलाभो योगः, लब्धस्य रक्षणं क्षेमः । योगस् तावत् तदधीनः निमित्तेन तल्लाभालाभविज्ञाने सति तदनुरूपयत्नस्य करणाकरणात् । क्षेमश् चापि निमित्तेन उपद्रवज्ञाने सति शान्त्यादिना तदपनेतुं शक्यत्वात् । प्रतिजानते प्रतिज्ञां कुर्वन्ति । अन्याभिप्रायसूचनार्थो ऽपिशब्दः ।
अन्ये प्य् एवं ब्रुवते – पुरुषकारम् अन्तरेणान्नादिसम्बन्धस्यानुपपद्यमानत्वात्, पुरुषकार एव प्रवृत्तानां कदाचिद् एव निष्फलत्वदर्शनात्, सर्वदा व्यभिचाराभावाच् च पुरुषकाराधीनम् एवेति मन्यमानाः दैवोत्पातकवचनस्य कदाचिद् अव्य्भिचारदर्शनान् न तदधीनम् इति ।
एकेग्रहणाद् उभयस्माद् इति गौतमः । नैकान्तेन दैवस्य प्राधान्यम्, न च पुरुषकारस्य । किं तर्हि । कदाचिद् दैवं पुरुषकारम् अपेक्षते, तथा पुरुषकारो ऽपि दैवम् इति । यथा पुरुषकारो दैवम् अपेक्षते कृष्यादौ, न दैवं वर्षादिकम् अन्तरेण कृष्यादीनां पुरुषकारेणैव फलसिद्धिर् इति । तथा अन्नादिलाभे दैवं पुरुषकारम् अपेक्षते, तम् अन्तरेण तत्सम्बन्धानुपपत्तेः । गौतमस्यायम् अभिप्रायः – दैवे दैवोत्पातचिन्तकवचनम् आद्रियेत, पुरुषकारे त्व् आप्तवचनम् इति ॥ ११.१८ ॥
शान्तिपुण्याहस्वस्त्ययनायुष्यमङ्गलसंयुक्तान्य् आभ्युदयिकानि विद्वेषणसंवननाभिचार-द्विषद्व्यृद्धियुक्तानि च शालाग्नौ कुर्यात् ॥ ११.१९ ॥
संयुक्तशब्दः प्रत्येकम् अभिसम्बध्यते । शान्तिसंयुक्तं दैवोत्पातसूचितापायनिवृत्त्यर्थं यत् क्रियते ग्रहशान्त्यादि । पुण्याहसंयुक्तं दिनदोषनाशनार्थं विवाहादौ यत् क्रियते, तद्दोषनाशनात् तत् कर्म शुभम् एव भवतीति । स्वस्त्ययनसंयुक्तं यात्रादौ यत् क्रियते । तथाह व्यासः ।
यात्रायां वासनं दैवं नारासिंहं तथा युधि ।
भये ध्यायेद् वासुदेवं त्रयं स्वस्त्ययनं स्मृतम् ॥ इति ।
आयुष्यसंयुक्तं जन्मनक्षत्रे आयुष्यवृद्ध्यर्थं यत् क्रियते । मङ्गलसंयुक्तम् अर्थाद्यर्थं यत् क्रियते श्रीहोमादि । एतान्य् एवाभ्युदयिकान्य् अभ्युदयहेतुत्वात् । स्वयम् एवाभ्युदयहेतुत्वाद् एवं न वक्तव्यम् इति चेत्, तत्कर्तुर् दोषाभावसूचनत्वाद् अदोषः । एवं चोपरितनानां कर्तुः किञ्चित् प्रायश्चित्तम् अस्तीति ज्ञापयति । तथा च पैठीनसिः ।
राज्ञो ऽभ्युदयिकं कर्म यस् तु कुर्याद् द्विजोत्तमः ।
परपीडाकरम् उक्त्वा न स पापेन लिप्यते ॥
परपीडाकरं कृत्वा विप्रोक्ताद् वाथ निष्क्रयात् ।
राजन्यानुमताद् वापि शुद्धिर् उक्ता मनीषिभिः ॥ इति ।
परपीडाकरत्वाद् उपरितनानां पृथग् उपन्यासः । विद्वेषणयुक्तं येनास्य परः प्रकृतीनां विद्विष्टो भवति । संवननयुक्तं येनास्य शत्रुः प्रणिपतति । आभिचारयुक्तं येनास्य शत्रुर् म्रियते । विगता ऋद्धिः व्यृद्धिः, विद्विष्टो व्यृद्धिः द्विषद्व्यृद्धिः तया युक्तं येनास्य परो विगतैश्वर्यो भवति उच्चाटनादि । उपरि ऋत्विग्ग्रहणाद् एतानि पुरोहितः कुर्यात् शालाग्नौ । चशब्दात् लौकिके च । तत्र पूर्वोक्तानि लौकिके, इतराणि शालाग्नाव् इति द्रष्टव्यम् ॥ ११.१९ ॥
यथोक्तम् ऋत्विजो ऽन्यानि ॥ ११.२० ॥
पुत्रकामेष्ट्यादीन्य् अन्यानि यथोक्तम् ऋत्विजः कुर्युः । राजा दक्षिणां प्रति लुब्धो मा भूद् इति यथोक्तग्रहणम् ॥ ११.२० ॥
तस्य च व्यवहारो वेदो धर्मशास्त्राण्य् अङ्गान्य् उपवेदाः पुराणम् ॥ ११.२१ ॥
व्यवह्रियते अनेनेति व्यवहारः । तस्य प्रजापालनाधिकृतस्य राज्ञो व्यवस्थासाधनान्य् एतानि । वेदादीनि प्रसिद्धानि । वेदे “गर्ता रुग् इव सनये धनानाम्” [र्व् १.१२४.७] इत्यादिव्यवहारदर्शनात्, धर्मशास्त्रे वर्णाश्रमादिप्रतिपादनात्, अङ्गे शब्दादिव्यवस्थाप्रतिपादनात्, उपवेदे अस्त्रादिव्यवहारप्रतिपादनात्, पुराणे जगत्स्थितिविज्ञानात् । विसमासः पूर्वस्य पूर्वस्य बलीयस्त्वज्ञापनार्थः । ततश् च पूर्वोत्तरविरोधे पूरोक्तम् एवाचरेत् । व्यवहारतत्त्वदर्शने वेदादीन्य् अङ्गानि भवन्तीति व्यवहारशब्देनोच्यन्ते । एतान्य् आलोच्य व्यवहारान् स्थापयेद् इत्य् अर्थः ॥ ११.२१ ॥
किं च ।
**देशजातिकुलधर्माश् चाम्नायैर् अविरुद्धाः प्रमाणम् **
॥ ११.२२ ॥
देशधर्मः कौतुकमङ्गलादिः । जातिधर्मः आभीरादीनां दन्तरागाभावादिः । कुलधर्मो “दक्षिणतश् चूडा वसिष्ठानाम्” इत्यादि । आम्नायैर् वेदधर्मशास्त्रादिभिः पूर्वोक्तैः बहुवचनप्रयोगात्, अविरुद्धा अबाधिताः प्रमाणम् । वक्ष्यमाणानां कर्षकादीनाम् अप्य् आम्नायाविरुद्धत्वज्ञापनार्थश् चकारः । देशधर्मादीन् अपि सम्यक् ज्ञात्वा आम्नायाविरोधेन गृह्णीयात् । विरोधे त्यक्त्वा इत्य् एवमर्थम् उपदेशः ॥ ११.२२ ॥
**कर्षकवणिक्पशुपालकुसीदिकारवः स्वे स्वे वर्गे **
॥ ११.२३ ॥
प्रमाणम् इति वर्तते । राजनि प्रष्टुम् अशक्ये स्ववर्ग एव प्रष्टव्य इत्य् एवमर्थ उपदेशः । कर्षकाः कृषिजीविनः । वणिजः प्रसिद्धाः । पशुपाला गोपालाः । कुसीदिनो वार्धुषिकाः । कारवो ऽयस्कारादयः । स्ववर्ग इति वक्तव्ये वीप्सावचनं न केवलं कर्षकादय एव स्ववर्गे प्रमाणम्, किं तु ब्राह्मणादयो ऽपीति । तत्रापि स्मृत्यन्तरसामर्थ्यात् त्र्यवरा एव प्रष्टव्याः, “स्ववर्गे त्र्यवरा धर्मान् प्रब्रूयुः” इति प्रजापतिवचनात् । “आम्नायैर् अविरुद्धा प्रमाणम्” [ग्ध् ११.२२] इत्य् उक्तत्वात् यदि ते तद्विरुद्धं ब्रूयुस्43 तदा सर्वैर् ब्राह्मणसकाशं गन्तव्यम्, तेषाम् एव तदविरोधेन वक्तुं सामर्थम् इति । “तस्य व्यवहारः” [ग्ध् ११.२१] इत्य् उक्तत्वात् । तत्राप्य् अपरितोषे राजसकाशं गन्तव्यम् इति द्रष्टव्यम् । तत्र तेनाप्य् आम्न्यायाविरोधेन वक्तव्यत्वात् एकस्यैव तदविरोधज्ञापनसामर्थ्याभावात्, तज्ज्ञैः ब्राह्मणैः सह ब्रूयाद् इत्य् अर्थसिद्धम् । तथा च मनुः ।
व्यवहारं दिदृक्षुस् तु ब्राह्मनैः सह पार्थिवः । [म्ध् ८.१]
इत्यादि ॥ ११.२३ ॥
इदानीं यदि कर्षकादयो राजानम् एव गच्छेयुस् तदा कथं राजा परिच्छिनत्तीत्य् आह ।
तेभ्यो यथाधिकारम् अर्थान् प्रत्यवहृत्य धर्मव्यवस्था ॥ ११.२४ ॥
तेभ्यः कर्षकादिभ्यः, यथाधिकारं यो यत्राधिकृतः प्रतिवर्गं स्थितः इत्य् अर्थः । अर्थान् आचारान् प्रत्यवहृत्य स्वयम् एव सम्यक् पृथक् पृथग् विचार्येत्य् अर्थः । कुत एतत्? अवहृत्येति वक्तव्ये प्रत्यवहृत्येत्य् आरम्भात् । ततो धर्मव्यवस्था कर्तव्येति शेषः । तत्त्वपरिच्छेदः कर्तव्यः इत्य् अभिप्रायः । ब्रूयाद् इति वक्तव्ये व्यवस्थाग्रहणं राज्ञा परिच्छिन्नस्य पुनर् निवृत्तिर् मा भूद् इति । एवं चापरितोषे44 ऽन्यत्र सिद्धस्यापि पुनः पुनः करणम् अस्तीति ज्ञापयति । धर्मबुद्ध्यैव व्यवस्थापयेत् नार्थाशयेति धर्मग्रहणम् ॥ ११.२४ ॥
न्यायाधिगमे तर्को ऽभ्युपायः ॥ ११.२५ ॥
न्याययुक्तस्याधिगमे अवधारणे तर्कः अनुमानम् अभ्युपायः प्रथमोपाय इत्य् अर्थः । तथाह नारदः ।
यथा नयत्य् असृक्पातैर् मृगस्य मृगयुः पदम् ।
तथानुमानेन नयेद् धर्मस्य नृपतिः पदम् ॥ [= म्ध् ८.४४]
इति ॥ ११.२५ ॥
तेनाभ्यूह्य यथास्थानं गमयेत् ॥ ११.२६ ॥
तेनानुमानेनाभ्यूह्य । यथाह मनुः ।
आकारैर् इङ्गितैर् गत्या चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारैश् च गृह्यते ऽन्तर्गतं मनः ॥ इति । [म्ध् ८.२६]
यथास्थानं यथातत्त्वं गमयेत् प्रापयेत् ॥ ११.२६ ॥
विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्य निष्ठां गमयेत् ॥ ११.२७ ॥
विप्रतिपत्तिः एकस्यैव तर्केणावधारणासामर्थ्यम्, अतिसौक्ष्म्यात् कार्यस्य उभयथा लिङ्गदर्शनाच् च, तस्याम्, त्रैविद्यवृद्धाः सकलवेदत्रयपारगाः, तेभ्यः प्रत्यवहृत्य अवगम्य अस्येदं लिङ्गं अस्य परिच्छेदकम्, पूर्वम् अस्येदं लिङ्गम् इदानीं लिङ्गान्तरम् इदं किं परिच्छिनत्तीत्य् एवमादि विचार्य तत्त्वं ज्ञात्वेत्य् अर्थः । आम्नायाद्यविरोधपरिज्ञापनार्थं ये सहाया उक्तास् त एवानूद्यन्ते त्रैविद्यलक्षणप्रापणार्थम् । यथाह मनुः ।
मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ॥ इति । [म्ध् ८.१]
तत्रैव वक्तव्यम् इति चेन्, नैष दोषः, आम्नायाविरुद्धविचारणायाम् एव न केवलं तैर् विचारः क्रियते किं तु लिङ्गसन्देहे ऽपि चेत्य् एवमर्थ इहोपदेश इति । असति लिङ्गसन्देहे विरोधे चासति राज्ञ एव परिच्छेदकत्वं द्रष्टव्यं सभायास् तदुभयार्थत्वाद् इति । लिङ्गसन्देहे त्रैविद्यवृद्धैर् एव प्रापयेत् न स्वयम्, यथास्थानं गमयेद् इत्य् अधिकाराद् एव सिद्धे निष्ठां गमयेद् इति पुनर् आरम्भात् ॥ ११.२७ ॥
किम् एवं कुर्वतो भवतीत्य् आह ।
तथा हास्य निःश्रेयसं भवतीति ॥ ११.२८ ॥
तस्य निर्णयं कुर्वतः निःश्रेयसम् उभयलोकविजयित्वम् अमुत्र धर्मप्राप्त्या, इहापि जनानुरागाद् इति । इतिशब्दो हेत्वर्थः, यस्माद् एवम् इति ॥ ११.२८ ॥
एवं राज्ञो भवति, त्रैविद्यवृद्धानां तु सहायरूपेण स्थितानां किं भवतीति तदनुरूपां श्रुतिर् उदाहरति ।
ब्रह्म क्षत्रेण पृक्तं देवपितृमनुष्यान् धारयतीति विज्ञायते ॥ ११.२९ ॥
ब्रह्म त्रैविद्यलक्षणं क्षत्रेण राज्ञा पृक्तं सहितम्, राज्ञा सह धर्मविवेचनं कुर्वद् इत्य् अर्थः । निरुपद्रवकर्मानुष्ठानद्वारेण “इतः प्रदानं देवा उपजीवन्ति” इत्य् एवं देवपितॄन् धारयति आहुत्यादिद्वारेण, अन्ननिष्पत्त्या मनुष्यान् । अतो राजसु प्रश्नविवेचनं धर्मायेति वक्तव्यम् ॥ ११.२९ ॥
अथ त्व् एवम् अपि व्यवस्थां कुर्वतः ते दौःशील्यान् नावतिष्ठन्ते, ततः ।
दण्डो दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत् ॥ ११.३० ॥
दमयत्य् अदान्तान् दम्यन्ते वास्मिन्न् इति दण्डः । यतश् च दमनयोगाद् दण्ड इत्य् एवं मन्वादय आहुः । यथाह मनुः ।
देवदानवगन्धर्वा रक्षांसि पतगोरगाः ।
ते ऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ इति । [म्ध् ७.२३]
अतो यो यथा दम्यते वाचा धनादिना वा, यथाह मनुः ।
धिग्दण्डो प्रथमं कुर्याद् वाग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डो त्व् अतः परम् ॥ इति । [म्ध् ८.१२९]
एवं कुर्याद् दौःशील्यादिना विकर्मस्थान् ॥ ११.३० ॥
एवं कृताः प्रजाः कथं प्रवर्तन्त इत्य् आह ।
वर्णा आश्रमाश् च स्वकर्मनिष्ठाः प्रेत्य कर्मफलम् अनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुत-वृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते ॥ ११.३१ ॥
वर्णा ब्राह्मणादयः अनुपनीताः, आश्रमाः ब्रह्मचार्यादयः, स्वकर्मनिष्ठाः स्वकर्मानुष्ठानपराः, प्रेत्य परलोके, कर्मफलम् अनुभूय उपभुज्य तत्फलोपभोगस्यावशेषेणेह विशिष्टदेशादिसम्बन्धं जन्म प्रतिपद्यन्ते । विशिष्टशब्दः प्रत्येकम् अभिसम्बध्यते – विशिष्टदेश आर्यावर्तादिः, विशिष्टजातिर् ब्राह्मणादिः, विशिष्टं कुलम् अध्ययनादिसम्पन्नम्, विशिष्टं रूपं प्रियदर्शनत्वम्, विशिष्टम् आयुः समग्रशतवर्षादि, विशिष्टं श्रुतं वेदार्थविज्ञानसहितम्, विशिष्टं वृत्तं विशिष्टं चारित्रम्, विशिष्टं वित्तं गवाश्वादिलक्षणम्, विशिष्टं सुखम् अभिलषितपदार्थस्याविघ्नेनानुभवसिद्धिः, मेधःशब्देनारोग्यम् उच्यते, विशिष्टारोग्यम् अभिलषितभक्षणे ऽप्य् अरोगोत्पत्तिः । एवं च ब्रुवता नित्यकर्मणां च कर्ता तत्फलस्य चोपभोक्ता शरीरव्यतिरिक्त आत्मा प्रतिपादितो भवति । तथा च श्रुतिः-
स एष महान् अज आत्मा यो ऽयं विज्ञानमयः कर्ता भोक्ता स उ क्षेत्रज्ञो ऽमृतमयः प्राणे प्रतिष्ठितः ॥ इति । [च्फ़्। बृआरुप् ४.४.२२]
तथा च मनुः ।
यो ह्य् आत्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ [म्ध् १२.१२]
इत्यादि । तस्य च नित्यस्य सतः कर्मक्षयात् तदारब्धस्य शरीरस्य पतने तत्कृतं कर्मफलं स्वर्गादि तत्कर्मणैवारब्धेन तत्फलोपभोगयोग्येन शरीरेणाहङ्कारेन्द्रियशक्तिमनःप्राणसहितेनानुभूयौषधादिद्वारेण अन्नमयो भूत्वा रेतोरूपेण परिणम्य तत्स्थेन वायुना पूर्वं मातुर् उदरं प्रविष्टेनाकृष्टः सन् तच्छोणितसहितः पूर्वानुभुक्तशिष्टकर्मानुगृहीतस्य शरीरस्योपादानं जन्मेत्य् आचक्षते ।
एवं व्यवस्थिते सूत्रार्थे चोद्यते आश्रमग्रहणम् अनर्थकं वर्णानाम् एवाश्रमविधानात् आश्रमत्वे ऽपि वर्णत्वानपगमाच् च । स्वग्रहणं चानर्थकम्, अनुष्ठानाद् एव स्वत्वसिद्धेः । कर्मग्रहणम् अप्य् अनर्थकम्, कर्मफलम् अनुभूयेत्य् अत्र कर्मग्रहणेनैवार्थसिद्धत्वात् । निष्ठाग्रहणम् अप्य् अनर्थकम्, बुद्धिपूर्वत्वेन विना तत्करणासम्भवात् । प्रेत्येत्य् अपि न कर्तव्यम्, जन्म प्रतिपद्यन्त इत्य् अनेनैवार्थसिद्धत्वात् । फलम् अनुभूयेति वक्तव्ये कर्मग्रहणम् अतिरिच्यते, फलस्य कर्मसाध्यत्वात् । तत इत्य् एतद् अप्य् अनर्थकम्, अधिकाराद् एव कर्मणः परामर्शसिद्धेः । शेशानुपपत्तिश् च, कृत्स्नस्य कर्मणः फलोपभोगेनोपक्षीणत्वात् । न हि फलदानाभिमुखीभूतस्य कर्मण एकदेशेनावस्थानम् उपपद्यते । न हि क्षीराद्येकदेशेन दध्यादिकार्यारम्भणम् इति । न च घृतघटादिवद् वासनाशेषः शेषशब्दवाच्यः, अमूर्तत्वात् कर्मणो वासनाशेषानुपपत्तेः । न चामुत्रानुष्ठितं कर्मेह शेषशब्देनोच्यते, तत्राधिकाराभावात्, उपयुक्तेतरार्थत्वासम्भवाच् च । न हि फलोपभोगविच्छेदस्यैव शेषत्वम् अध्यवसितुं युक्तम्, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्, कर्मणो हि फलं श्रुतं न फलविच्छेदस्य । न च अक्षीणे कर्मण्य् उपभोगविच्छेदः सम्भवति, तस्य कर्माश्रितत्वात् । यथा प्रदीपस् तैलाश्रितः तैलक्षयाद् एव क्षीयते । अपि च तस्योपसंहारः शलभादयो विद्यन्ते न तु कर्मफलस्य । तस्मान् न फलविच्छेदस्य शेषशब्दवाच्यता । न च कर्मफलस्यैव विभागः कर्तुं शक्नोति – अनेनामुत्रसुखम् अनुभोक्ष्ये अनेन विशिष्टदेशादिसम्बन्धं लप्स्ये इति, निष्पन्नत्वात् । अनिष्पन्नस्य हि विभागः श्रूयते – इदं व्रीहीणां क्षेत्रम् इदं यवानाम् इति, न तु निष्पन्ना व्रीहयो यवा क्रियन्त इति । यदि च स्वकर्मनिष्ठा अप्य् अमुत्र फलोपभोगशेषेणेह जन्म प्रतिपद्यन्ते एवं मोक्षाभावप्रसङ्गे श्रुतेर् विरोदो भवति – “ब्रह्मविद् आप्नोति परम्” [तैतुप् २.१], “तम् एव विदित्वा अतिमृत्युम् एति” [श्वेउप् ३.८] इत्यादिकायाः । यदि कर्मशेषेण विशिष्टदेशादिप्राप्तिलक्षणं जन्म भवति, ततो जगद्वैचित्र्यानुपपत्तिप्रसङ्गः, दृश्यते हि तद् इति । प्राप्तस्य च कर्मणः फलाभ्युपगमे पुरुषकारो ऽपि निष्पल एवेति । तस्माच् छेषशब्दवाच्याभावात् सूत्रेण समस्तेनापि प्रक्रान्तस्यार्थस्यानुपपद्यमानत्वात् असमञ्जसम् इदम् सूत्रम् इति ॥
तत्र समाधिः – उभयग्रहणं तावत् कर्तव्यम्, वर्णानाम् आश्रमाणां च धर्मभेदात् । प्राग् उपनयनाद् वर्णाः ऊर्ध्वम् आश्रमा इति । अस्ति चानुपनीतानाम् अपि कैश्चिद् वर्णधर्मैर् अधिकार इति । असमासो द्वन्द्वपरिग्रहार्थम्, मा भूत् समानाधिकरणाशङ्केति, दन्द्वपक्षे तूभयपदप्रधानत्वाद् उभयोर् उपादानं सिद्धं भवति इति । सृष्ट्यन्त्रजोपसङ्ग्रहार्थश् चशब्दः, तेषाम् अपि स्वकर्मानुष्ठानाद् उत्कर्षो लभ्यत इति । तथाह मनुः ।
ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽनुपस्कृतः ।
स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥ इति । [म्ध् १०.६२]
स्वग्रहणम् अपि प्राथमिककल्पोपसङ्ग्रहार्थम् । आपद्विहितस्य प्रायश्चित्तविधानाद् एवैतत् सिद्धम् इति चेन्, न, वर्णान्तरकर्मानुष्ठान एव प्रायश्चित्तविधानम्, न स्वकर्मण एव विगुणस्येति । तथा चोक्तं नारदवाक्यम् ।
आपदं ब्राह्मणस् तीर्त्वा क्षत्रवृत्त्या मृते जने ।
उत्सृजेत् क्षत्रवृत्तिं तां कृत्वा पावनम् आत्मनः ॥ [न्स्म् १.५५]
इत्यादि । तस्माद् विगुणस्य कर्मणः फलप्रतिषेधार्थं स्वग्रहणम् । एवं च विगुणं यत् कर्म न तत् फलसाधनम्, प्रायश्चित्तविधानाभावात् नापि दोषसाधनं चेति द्रष्टव्यम् । निष्ठाग्रहणं सातत्यार्थम्, यो ह्य् आ शरीरनिपातनात् कर्म करोति स एवानेन फलेन सम्बध्यत इति । प्रेत्यग्रहणम् अवश्यभावि फलम् इति ज्ञापनार्थम्, यथा दृष्टफलैर् इह सिद्धिस् तथा अवश्यं तत्राप्य् अदृष्टफलैर् इति । न तु कृतं कर्म निष्फलं भवतीति । कर्मग्रहणं तु केवलं कर्म कृत एवानेन फलेन सम्बन्धः, न ज्ञानकर्मसमुच्चयकारिण इति । असौ मुक्त एव भवतीति । अनेनैव मोक्षाभावप्रसङ्गचोद्यम् अपि परिहृतं द्रष्टव्यम् । तत इत्य् एतद् अपि कर्मनानात्वप्रतिपादनार्थम् । तस्य तस्य कर्मणः शेषेनातिरेकेण । अतश् च कर्मणां तारतम्यात् फलवैचित्र्ये सति जगद्वैचित्र्यम् उपपद्यत इति । तारतम्यं च कर्मणां देशकालशौचद्रव्यश्रद्धापात्राभ्यासविशेषाद् इति शेषशब्दश् च कर्मसमुदायापेक्षया द्रष्टव्यः । कथ्म्? यत् कर्म स्वर्गफलं तत्रैव फलं ददाति, यत् त्व् ऐहिकफलं तेन विशिष्टदेशादिसम्बन्धं जन्म भवति, स च तस्य समुदायस्य शेष इति । प्रधानकर्मणो ऽग्निहोत्रादेर् अङ्गभूतं यत् कर्म तच् छेषशब्देनोच्यते । यथा – “गोदोहनेन पशुकामस्य प्रणयेत्” [आप्श्र् १.१६.२], “खादिरं वीर्यकामस्य यूपं कुर्यात्” [षड्विम्ब्र् ४.४] इत्यादि । तत्र प्रधानकर्मफलम् अमुत्रोपभुज्यते, अङ्गफलं इहेति । वृक्षवद् वैतद् द्रष्टव्यम् । वृक्षो हि बहुभिः मूलैर् जायते । स यदा छिन्नप्रधानभूयिष्ठमूलो भवति तदाल्पनिःसारमूलत्वाद् भारम् असहमानः पतति, एवं कर्मण्य् अपि प्रधानरूपे उपभोगाद् उपक्षीणे शिष्टरूपं कर्तारं तत्र स्थापयितुम् अशक्नुवद् विशिष्टदेशादिसम्बद्धं फलं ददातीति । घृतघटवद् वा द्रष्टव्यम् । यथा – घृतघटे उपयुक्ते ऽपि स्नेहवासनाशेषाद् अग्निना संयुक्तो ज्वलति, एवं कर्मकृद् अपि वासनाशेषाद् एव विशिष्टदेशाद्य् अनुभविष्यतीति । सावयवत्वाच् च कर्मणो वासनोपपद्यत एवेति, सावयवत्वम् अपि कार्यत्वाद् इति ।
यत् तूक्तं पुरुषकारो ऽनर्थक इति, तत्रोच्यते – पुरुषकारयुक्तस्यैव फलसम्बन्धः, तद्विहीनस्यान्नादिसम्बन्धो ऽपि नास्तीति । तस्मात् फलदानकारणं पूर्वशिष्टं सम्बन्धकारणं पुरुषकार इति नानर्थकः पुरुषकार इति सर्वम् इदं45 सूत्रम् उपपद्यत एवेति ॥ ११.३१ ॥
विश्वञ्चो विपरीता नश्यन्ति ॥ ११.३२ ॥
ये पुनः न स्वयं कर्म46 कुर्वन्ति राज्ञा च न स्थाप्यन्ते ते विश्वञ्चः तिर्यग्गतयो नश्यन्ति, विशिष्टदेशादिसम्बन्धाभावात् । विपरीताः स्वकर्मनिष्ठेतराः । एवं च ब्रुवता ये स्वकर्मनिष्ठास् तेषाम् उत्तमगतित्वम्, ये राज्ञा स्वधर्मे स्थाप्यन्ते तेषां मध्यमगतित्वम्, ये स्वकर्मनिष्ठा न भवन्ति न राज्ञा च स्थाप्यन्ते तेषाम् अधमगतित्वं च दर्शितं भवति । तथा चोकं पुराणे ।
शुभैर्47 भवति देवत्वं व्यामिश्रैर् जन्म मानुषम् ।
अशुभैश् चाप्य् अधोजन्म कर्मभिर् लभते नरः ॥ ११.३२ ॥
तान् आचार्योपदेशो दण्डश् च पालयते ॥ ११.३३ ॥
तान् आज्ञान् अविहितानुष्ठानेन प्रतिषिद्धसेवनया च नश्यतो वर्णाश्रमिणः आचार्योपदेशो रक्षति, इतरांस् तु दण्ड इति ॥ ११.३३ ॥
तस्माद् राजाचार्याव् अनिन्द्याव् अनिन्दौ ॥ ११.३४ ॥
ततश् च रक्षणहेतुत्वात् कारणे सति पारुष्याद्य् अपि वक्तव्यम् । अतः परुषम् अप्य् उपदिशन्न् आचार्यः, उग्रम् अपि धारयन् राजा च, अत्यन्तोपकारित्वाद् अकुत्सनीयौ ॥ ११.३४ ॥
इति मस्करीये गौतमभाष्ये एकादशो ऽध्यायः
द्वादशो ऽध्यायः
“दण्डो दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत्” [ग्ध् ११.३०] इति सामान्येनाभिहितम् । तत्र क्वापराधे कियान् दण्ड इति तद् वक्तव्यम् इत्य् आह ।
शूद्रो द्विजातीन् अतिसन्धायाभिहत्य च वाग्दण्ड-पारुष्याभ्याम् अङ्गं मोच्यो येनोपहन्यात् ॥ १२.१ ॥
शूद्र उक्तः । स द्विजातीन् उपनीतान् ब्राह्मणादीन् अतिसन्धाय बुद्धिपूर्वम् अतिक्रम्य न तु परिहासादिना । अभिहत्य च अभिशब्दो बुद्धिपूर्वज्ञापनार्थः । अभिहत्य ताडयित्वा । क्रमेण वाग्दण्डपारुष्याभ्याम् । तत्र वाक्पारुष्येणातिसन्धाय दण्डपारुष्येणाभिहत्येति क्रमो द्रष्टव्यः । वाक्पारुष्येणातिक्रमणम् अतिक्रम्य परुषादिवचनम् । परुषशब्द उग्रपर्यायः । उग्रया वाचा अतिक्रम्य उग्रेण च दण्डेनाभिहत्य चेत्य् अर्थः । ततश् च उपलादिना न दोषः । अङ्गं शरीरावयवः मोच्यः छेद्यः येन हस्तादिना उपहन्यात् पीडयेत् । एवं च विनापि दण्डेन दण्डपारुष्यं भवतीति ज्ञापयति । वाक्पारुष्ये वाक्छेदनम् । हस्तादिना दण्डपारुष्ये तदङ्गच्छेदनम् इति द्रष्टव्यम् । चशब्दाद् उभयापराधे उभयं मोच्यः ॥ १२.१ ॥
आर्यस्त्र्यभिगमने लिङ्गोद्धारः स्वहरणं च
॥ १२.२ ॥
आर्याणां ब्राह्मणादीनां आर्यवृत्ता चेत् स्त्री । कुत एतत् स्त्र्यभिगमन इति वक्तव्ये आर्यस्त्र्यभिगमन इत्य् आरम्भात् एवं च वेश्यारूपेण स्थितायाम् अदण्ड्यः । स्त्रियाम् एवाभिगमनप्रसिद्धेर् आर्यागमन इत्य् एव सिद्धे स्त्रीग्रहणम् आर्यपरिगृहीतायां शूद्रायाम् अपीत्य् एवमर्थम् । अभिगमने कृते अभिशब्दो बुद्धिपूर्वार्थः । ततश् च स्वप्नादाव् अबुद्धस्य तथैव कृतस्य लघुतरो दण्डो द्रष्टव्यः । लिङ्गस्योद्धारः उत्पाटनं सर्वस्वहरणं च कर्तव्यम् । तल्लिङ्गोद्धारो धनस्य चेति वक्तव्ये स्वहरणं चेत्य् अभिधानात् । चकारः समुच्चयार्थः, विकल्पो मा भूद् इत्य् असमासः, क्षत्रियवैश्यस्त्रीगमने यथासङ्ख्येनैकैकम्, ब्राह्मणस्य तूभयम् इति ॥ १२.२ ॥
गोप्ता चेद् वधो ऽधिकः ॥ १२.३ ॥
यदि तासां रक्षिता भवति ततस् तदभिगमने पूर्वोक्तम् उभयं कृत्वा अधिकग्रहणात्, प्रमापणं कर्तव्यम् ॥ १२.३ ॥
अथ हास्य वेदम् उपशृण्वतस् त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम् उदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः ॥ १२.४ ॥
पञ्चवर्षाद् ऊर्ध्वम् अयम्, अथशब्दोपादानात् । तथा च स्मृत्यन्तरम् ।
वेदं श्रुत्वा तु पञ्चाब्दः शूद्रश् चेद् दण्डभाग् भवेत् ।
अप्राप्तपञ्चवर्षो न दण्डम् अर्हति कुत्रचित् ॥ इति ।
हशब्दो बुद्धिपूर्वसूचनार्थः । न गोप्तुर् एवेत्य् एवमर्थम् अस्य शब्दस्योपादानम् । वेदं साङ्गम् । कुतः? “साङ्गो वेदः स्त्रीशूद्रसकाशे नाध्येतव्यः” इति गृह्यस्मृतिदर्शनात् । उपशब्देन समीपवाचिना अक्षरश्रवण एव दोष इति दर्शयति । ततश् च । ध्वनिमात्रश्रवणे न दोषः । हशब्देन बुद्धिपूर्व एव दण्डविधानात् प्रमादात् कदाचिद् अक्षरश्रवणे ऽपि दोषाभावो द्रष्टव्यः । त्रपुजतुभ्यां त्रपुना जतुना चेति द्रष्टव्यम् । तप्ताभ्याम् इति च द्रष्टव्यम्, पूरणोपदेशसामर्थ्यात् । श्रोत्रद्वयपरिग्रहार्थः प्रतिशब्दः उदाहरणे द्विजातिभिः सह जिह्वाच्छेदः कर्तव्यः । धारणे स्वयम् एवोदाहरण इत्य् अर्थः । परशुना शरीरभेदः कर्तव्यः ॥ १२.४ ॥
आसनशयनवाक्पथिषु समप्रेप्सुर् दण्ड्यः
॥ १२.५ ॥
आसनादिष्व् आर्यैस् तुल्यत्वं स्वेच्छया कामयमानः । आसनादिषूच्छ्रितादिगुणेषु समत्वं वाक्साम्यं समकालोच्चारणम्, पथि साम्यं पृष्ठतो मुक्त्वा सह गमनम् । दण्डः स्थानाद्यपेक्षया शताद् अर्वाग् द्रष्टव्यः ॥ १२.५ ॥
शतं क्षत्रियो ब्राह्मणाक्रोशे ॥ १२.६ ॥
कृत इति शेषः । आक्रोशे वाक्पारुष्ये । दण्डपारुष्ये तु द्विगुणं कल्प्यम्, स्मृत्यन्तरसामर्थ्यात् । तथा च बृहस्पतिः ।
वाक्पारुष्ये कृते यस्य यथा दण्डो विधीयते ।
तस्यैव द्विगुणं दण्डं कारयेन् मरणाद् ऋते ॥ इति ।
तथा चाह उशना- “अवगूरणे वाक्पारुष्यतुल्यं ताडने तद्द्विगुणं शोणितोत्पादने त्रिगुणम्” इत्यादि । शतं कार्षापणानां क्षत्रियो दण्ड्यः ब्राह्मणाक्रोशे ॥ १२.६ ॥
अध्यर्धं वैश्यः ॥ १२.७ ॥
ब्राह्मणाक्रोश इति वर्तते । अर्धेनाधिकं यच् छतं तदध्यर्धं तद्दण्ड्यो वैश्यः
॥ १२.७ ॥
ब्राह्मणस् तु क्षत्रिये पञ्चाशत् ॥ १२.८ ॥
आक्रुष्टे इति वर्तते । ब्राह्मणेन क्षत्रिये आक्रुष्टे ब्राह्मण अश्रोत्रियश् चेत् । कुतः । तुशब्दोपादानात्, पञ्चाशद् दण्ड्यः । समवर्णेषु द्वादश वा कल्प्य अवचनीयेषु द्विगुणं कल्प्यम् । तथा48 च मनुः ।
समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे ।
वादेष्व् अवचनीयेषु तद् एव द्विगुणं भवेत् ॥ [म्ध् ८.२६९]
॥ १२.८ ॥
तदर्धं वैश्ये ॥ १२.९ ॥
वैश्ये आक्रुष्टे ब्राह्मणः पञ्चविंशतिर् दण्ड्यः ॥ १२.९ ॥
शूद्रे न किञ्चित् ॥ १२.१० ॥
आक्रुष्टे न किञ्चिद् ब्राह्मणो दण्ड्यः । अथ वा,49 अवचनाद् एव सिद्धम् इति चेन्, न, क्षत्रियवैश्ययोर् दण्डप्रापणार्थत्वात् । एवं च तद्विषये दण्डः कल्प्यः, क्षत्रिये चतुर्विंशतिपणम्, षट्त्रिंशतं वैश्य इति । तथाह उशना- “शूद्रम् आक्रुश्य क्षत्रियश् चतुर्विंशतिदण्डभाग् वैश्यः षट्त्रिंशत्” इत्यादि50 ॥ १२.१० ॥
ब्राह्मणराजन्यवत् क्षत्रियवैश्यौ ॥ १२.११ ॥
यत् ब्राह्मणक्षत्रिययोः परस्पराक्रोश उक्तं तत् क्षत्रियवैश्ययोर् अपि द्रष्टव्यम् । क्षत्रिये शतं वैश्ये पञ्चाशद् इति । एवम् अन्तरजानाम् अपि द्रष्टव्यम् । तथाह जमदग्निः- “मातृतुल्यम् अनुलोमानां पितृतुल्यं प्रतिलोमानाम्” इति ॥ १२.११ ॥
साहसदण्डम् उक्त्वा स्तेय इदानीम् आह ।
अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य ॥ १२.१२ ॥
स्तेयेन यद् उपात्तम् अधर्मकारणात् तद् द्रव्यं किल्बिषशब्देनोच्यते स्तेयकिल्बिषं स्तेयधनम् इत्य् अर्थः । तदष्टगुणं दण्डः, “समप्रेप्सुर् दण्ड्यः” [ग्ध् १२.५] इत्य् अत्र दण्ड्यशब्दस्य नदीस्रोतोन्यायेनाधिकृतस्यात्र षष्ट्यनुरूपार्थं दण्ड इत्य् एवं भवतीति । किल्बिषशब्देन वा दण्ड उच्यते । स्तेयकिल्बिषं स्तेयदण्ड इत्य् अर्थः । स गृहीतः स्याद् अष्टगुण इति । तत्र ब्राह्मणसुवर्णवर्जं द्रष्टव्यम्, तस्य महापातकमध्ये उपदेशाद् दण्डगौरवं भवतीति ॥ १२.१२ ॥
द्विगुणोत्तराणीतरेषां प्रतिवर्णम् ॥ १२.१३ ॥
इतरेषां वैश्यक्षत्रियब्राह्मणानाम्, प्रातिलोम्येन प्रतिवर्णम् इत्य् आरम्भात्, द्विगुणोत्तराणि दण्डः उत्तरम् उत्तरं द्विगुणम् इति । वैश्यस्य षोडशगुणम्, क्षत्रियस्य द्वात्रिंशद्गुणम्, ब्राह्मणस्य चतुःषष्टिगुणम् इति । सर्वत्र धनिने धनार्पणं द्रष्टव्यम्, “चोरहृतम् अपजित्य यथास्थानं गमयेत्” [ग्ध् १०.४६] इत्य् उक्तत्वात् ॥ १२.१३ ॥
विदुषो ऽतिक्रमे दण्डभूयस्त्वम् ॥ १२.१४ ॥
जात्युत्कर्षवद् विज्ञानोत्कर्षाद् अपि दण्डभूयस्त्वं द्रष्टव्यम्, “तत् स्वजातिविहिताद् अध्यर्धं विदुषो ज्ञेयम्” इति स्मृत्यन्तरदर्शनात् । उपपन्नं चैतत्, यतो ऽअसौ ज्ञात्वातिक्रामतीति । विदुषो दण्डभूयस्त्वम् इति सिद्धे अतिक्रमग्रहणं नियमार्थम्, चौर्यविषय एवेदम्, न साहसविषये । प्रायश्चित्तविषये ऽपीति । एवं च ब्रुवता दण्डविधानात् प्रायश्चित्तस्यापि गुरुलघुभावकल्पनास्तीति प्रदर्शितं भवति । साहसप्रकरणे च यद् उक्तम् “श्रोत्रियस्यार्धदण्डः” इति तच् चोपपन्नम् ॥ १२.१४ ॥
अस्यापवादम् आह ।
**फलहरितधान्यशाकादाने पञ्चकृष्णलम् अल्पे **
॥ १२.१५ ॥
फलानाम् आम्रादीनाम्, हरितधान्यस्य व्रीह्यादेः अपक्वस्येत्य् अर्थः । शाकस्य च मूलकादेर् अपहरणे माषमात्रदण्डः । कुतः “पञ्चकृष्णलको माषः” [म्ध् ८.१३४] इति स्मृत्यन्तरदर्शनात् । अल्पे उदरपूरणमात्रे । अधिके अन्यद्रव्ये वा “अष्टापाद्यम्” [ग्ध् १२.१२] इत्य् एतद् एव द्रष्टव्यम् ॥ १२.१५ ॥
पशुपीडिते स्वामिदोषः ॥ १२.१६ ॥
पशुभिर् उपहते सस्यादौ यस्य पशवस् तस्य दण्डो वक्ष्यमाणः ॥ १२.१६ ॥
पालसंयुक्ते तु तस्मिन् ॥ १२.१७ ॥
पालान्विते पाल एव दण्डभाग् इत्य् अर्थः । तुशब्दः पालेन कारिते दण्डभूयस्त्वज्ञापनार्थः । भूयस्त्वम् अपि द्विगुणम्, “पालकारिते द्विगुणो दण्डः” इति स्मृत्यन्तरदर्शनात् ॥ १२.१७ ॥
पथि क्षेत्रे ऽनावृते पालक्षेत्रिकयोः ॥ १२.१८ ॥
पालस्यायत्नकरणाद् इतरस्यापि वृतेर् अकरणात् ताव् अर्धम् अर्धं दद्याताम् इत्य् अर्थः ॥ १२.१८ ॥
इदानीं पशुविशेषापेक्षया दण्डविशेषम् आह ।
पञ्च माषा गवि ॥ १२.१९ ॥
माषः कार्षापणस्य विंशतिभागः । तथाह उशना ।
माषो विंशतिभागस् तु ज्ञेयः कार्षापणस्य तु ।
काकणी तु चतुर्भागो माषस्यैव प्रकीर्तितः ॥ इति ।
ते पञ्च गव्य् अपराधे दण्ड्यः ॥ १२.१९ ॥
** षड् उष्ट्रखरे ॥ १२.२० ॥**
उष्ट्रापराधे खरापराधे च प्रत्येकं षण्माषा दण्डः ॥ १२.२० ॥
अश्वमहिष्योर् दश ॥ १२.२१ ॥
अत्रापि प्रत्येकं दश माषा दण्डः ॥ १२.२१ ॥
अजाविषु द्वौ द्वौ ॥ १२.२२ ॥
बहुवचनं वत्सनिवृत्त्यर्थम् । तत् पूर्वत्रापि द्रष्टव्यम् । द्वौ द्वौ माषौ दण्डः । अन्ते वीप्साभिधानणं पूर्वे ऽभ्यनुषङ्गार्थम्, इतरथा सन्देहः स्याद् इति ॥ १२.२२ ॥
सर्वविनाशे शदः ॥ १२.२३ ॥
सर्वविनाशे प्ररोहणसामर्थ्ये यावद् विनाशितं तावन् निष्पत्तिम् अवेक्ष्य क्षेत्रस्वामिने शदः फलं देयम् । राज्ञश् चानुरूपो दण्डः ॥ १२.२३ ॥
शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यं चेलपिण्डाद् ऊर्ध्वं स्वहरणम् ॥ १२.२४ ॥
नित्यं शिष्टाकरणे नित्यं विहितस्याननुष्ठाने, न सकृत्, प्रतिषिधस्याभक्ष्यभक्षणादेर् आसेवने, न प्रमादात्, चेलपिण्डाद् भक्ताच्छादनमात्राद् यद् अन्यत् तस्यापहारः कर्तव्यः । भक्ताच्छादनं तु यावद् अन्यस्य द्रव्यस्यागमनकालस् तावद् अस्य मोक्तव्यम् । ततो ऽपि यद्य् अतिक्रामति पुनर् अस्य स्वम् अपहर्तव्यम् एवेति । एवं कृते दण्डभयात् स्वकर्मण्य् एव प्रवर्तत इति । चकारात् प्रायश्चित्तं च कारयितव्यम् ॥ १२.२४ ॥
ब्रह्मचारिप्रकरणे उक्तस्यादत्तादानप्रतिषेधस्येदानीम् अपवादम् आह ।
गो ऽग्न्यर्थे तृणम् एधान् वीरुद्वनस्पतीनां च पुष्पाणि स्ववद् आददीत फलानि चापरिवृतानाम् ॥ १२.२५ ॥
गवार्थं तृणानि । अग्निग्रहणेन श्रौतस्य स्मार्तस्यापि ग्रहणं न लौकिकस्य, तदर्थम् एधान् काष्ठानि । वीरुधां करवीरादीनां पुष्पाणि – वनस्पतिशब्दो ऽत्र वृक्षपर्यायः, साक्षाद् वनस्पतीनां पुष्पासम्भवात् । यथाह मनुः ।
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ॥ इति । [म्ध् १.४७]
पुष्पाणि देवार्चनार्थानि नानुभवार्थानि, गोऽग्निसाहचर्यात् । चकारात् पत्राणि ब्राह्मणभोजनार्थानि । वीरुद्वनस्पतिपुष्पाणि चेति वक्तव्ये ओषधार्थं मूलादेर् अपि ब्राह्मणार्थम् असमासः । स्ववत् यथा तेषां पीडा न भवति तथा गृहीतव्यम् इति । यथाह व्यासः ।
पक्वं पक्वं प्रचिन्वीत मूलच्छेदं तु वर्जयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ॥ इति ।
फलानि चाम्रफलादीनि । आपत्सूचनार्थं पृथग् अभिधानम् । चकाराच् छाकं च । अपरिवृतानाम् अनारामीकृतानाम् । उभयविशेषणं चेदम् । एवं चारामे तृणादेर् अपि प्रतिषेधः सिद्धः
॥ १२.२५ ॥
इदानीं न्यायेनापि परद्रव्यादानं स्तेयम् एवेति तत्परिहारार्थम् इदम् आरभ्यते ।
कुसीदवृद्धिर् धर्म्या विंशतिः पञ्चमाषिकी मासम्
॥ १२.२६ ॥
कुसीदं द्रव्यप्रयोगः । तत्र वृद्धिर् उपचयः धर्म्या धर्माद् अनपेता यदा विंशतिः कार्षापणानां मासं प्रयुक्ता भवन्ति तदा तस्याः प्रतिमासं पञ्चमाषपरिमाणा वृद्धिर् भवति, प्रतिमासं निष्कस्यार्धगुञ्जामात्रा वृद्धिर् इत्य् अर्थः । माषशब्देन व्रीहिपरिमितं वस्त्व् अभिधीयत इति । एवं च मनुनोक्तस्याशीतिभागस्यैव ग्रहणं सम्पद्यते । तथाह मनुः ।
वसिष्ठविहितां वृद्धिं सृजेद् वित्तविवर्धिनीम् ।
अशीतिभागं गृह्णीयान् मासं वार्धुषिकः शतेः ॥ इति । [म्ध् ८.१४०]
वसिष्ठविहितां “कामं वा परिलुप्तकृत्याय पापीयसे दद्याताम्” [वध् २,४३] इति । सुवर्णकार्षापणपक्षे चतुःषष्टिभागो भवति- “ते सुवर्णं तु षोडश” [य्ध् १.३५८] इति ॥ १२.२६ ॥
नातिसांवत्सरीम् एके ॥ १२.२७ ॥
मासम् अतिक्रम्य संवत्सरवृद्धिर् न ग्राह्येत्य् एके मन्यन्ते । एतद् उक्तम् भवति – मासि मासि यद् ग्रहीतव्यं तत् सर्वं सम्भूय संवत्सरे परिपूर्ण एव गृह्णामीत्य् एवं मत्वा प्रतिसंवत्सरं न ग्रहीतव्यम् इति । प्रतिसंवत्सरप्रतिषेधात् प्रतिमासं प्रतिषाण्मासं चाभ्यनुज्ञायते । ततश् च मासि मासि षण्मासे षण्मासे वा ग्रहीतव्यं न प्रतिसंवत्सरम् इत्य् एकेषाम् अभिप्रायः । प्रतिमासवृद्धिग्रहणे चैतद् द्रष्टव्यम् । यावद् धनसंव्यवहारस् तावद् ग्राह्यैवेति गौतमः । तद्विच्छेदे तु “नातिसांवत्सरीम्” इति व्यवस्थितविभागो द्रष्टव्यः ॥ १२.२७ ॥
चिरस्थाने द्वैगुण्यं प्रयोगस्य ॥ १२.२८ ॥
चिरस्थाने अगृहीतायां वृद्धौ तया वृद्ध्या यावता कालेन द्विगुणं भवति ततः परं न वर्धते । प्रयोगग्रहणं प्रयोगान्तरे द्वैगुण्यव्यतिक्रमार्थम् । यथाह मनुः ।
कुसीदवृद्धिः द्वैगुण्यं नात्येति सकृद् आहिता ॥ इति । [म्ध् ८.१५१]
हिरण्यस्यैव द्विगुणानतिक्रमणम् इति ज्ञापनार्थं स्थानग्रहणम् । धान्यादयो द्विगुणम् अप्य् अतिक्रम्य वर्धन्त एव । तथा च वसिष्ठः- “द्विगुणं हिरण्यं त्रिगुणं धान्यं धान्येनैव रसा व्याख्याता, पुष्पमूलफलानि च तुलाधृतम् अष्टगुणम्” [वध् २.४४–४७] इति । एवं च ब्रुवता कुसीदवृद्धिर् धर्म्येति योक्ता वृद्धिस् तस्याः सार्वत्रिकत्वं प्रदर्शितं भवति, अन्यथा प्रसङ्गाभावाद् धिरण्यस्यैव सिद्धत्वात् तदर्थं स्थानग्रहणम् अनर्थकम् इति । ततश् च सर्वत्राशीतिभागो द्रष्टव्यः । चिरग्रहणं संवत्सरसहस्रैर् अपि न वर्धत इति ॥ १२.२८ ॥
भुक्ताधिर् न वर्धते ॥ १२.२९ ॥
भोग एव तत्र वृद्धिर् भवतीति ॥ १२.२९ ॥
किं च ।
दित्सतो ऽवरुद्धस्य च ॥ १२.३० ॥
दातुम् इच्छतो धनिने स यदा धनी वृद्धिलोभाद् व्याजेन न गृह्णाति ततो ऽपि न वर्धते । यो दतुम् इच्छति तेन साक्षिमल् लाञ्छना संस्था कर्तव्या, अनभिज्ञानाद् बुद्धिव्यापारस्य । एवम् अवरुद्धस्य च निःस्वो भूत्वा देशान्तरगतस्येत्य् अर्थः । चकारः पूर्वविशेषणाशङ्का मा भूद् इति । तद्दिवसाद् आरभ्येति द्रष्टव्यम् । केचिद् राजादिना निगलबन्धनम् आहुः तत्र भूमिदेवाः प्रमाणम् ॥ १२.३० ॥
इदानीम् आपदि स्वयं कृता वृद्धिप्रकारा अभ्यनुज्ञायन्ते ।
चक्रकालवृद्धिः ॥ १२.३१ ॥
वृद्धिशब्दः प्रत्येकम् अभिसम्बध्यते । चक्रवृद्धिः – वृद्धिर् अपि पुनर् वर्धते यस्मिन् द्रव्यप्रयोगे सा चक्रवृद्दिः । यथाह नारदः ।
वृद्धेर् अपि पुनर् वृद्धिश् चक्रवृद्धिर् उदाहृता । इति । [न्स्म् १.८९]
कालवृद्धिः – अस्मात् कालात् प्राक् केवलं वा प्रकृतवृद्ध्या वा मम दातव्यम् । यदि न ददासि ततस् तस्माद् ऊर्ध्वं त्रिगुणं च चतुर्गुणं वा देयम् इति समयं कृत्वा यस्मिन् बह्वी वृद्धिर् गृह्यते सा कालवृद्धिः । प्रकृतलब्धम् अपि वृद्धिग्रहणं क्रियते स्वयं कृताया एवेयं कल्पना न पञ्चमाषपरिमिताया इति । सहनिर्देश एकया जीवनासम्भवे द्वाभ्याम् अपि जीवने न दोष इति ।
ननु च “कुसीदवृद्धिर् धर्म्या विंशतिः पञ्चमाषिकी मासम्” [ग्ध् १२.२६] इत्य् अत्रैव वक्तव्यम् । अत्रैव पृथगुपदेशाद् आपदर्थत्वं च ज्ञायते । “नातिसांवत्सरीम्” [ग्ध् १२.२७] इत्य् एतद् अपि व्याख्यानतो विशेषप्रतिपत्तिर् इत्य् अनेन न्यायेन व्याख्यानत एव पञ्चमाषपरिमितवृद्धिविषयम् इति ज्ञातुं शक्यत इति ।
अत्रोच्यते – कुसीदस्य स्वयङ्करणपक्षे आपद्य् अनापदि च अस्वयङ्कृतपक्षे चानापदि पञ्चमाषपरिमिताम् एव गृह्णीयात् नास्वयङ्कृतपक्ष आपदि चक्रादिवृद्धिम् अपि, अनेनाभिप्रायेनोपदेश इति । “नातिसांवतसरीम्” [ग्ध् १२.२७] इत्य् अस्यापि विस्पष्टीकरणार्थस् ततोपदेश इति ॥ १२.३१ ॥
कारिताकायिकाशिखाधिभोगाश् च ॥ १२.३२ ॥
कारिता शास्त्रानपेक्षया यस्मिन्न् आत्मनैव क्रियते प्रतिसंवत्सरं निष्कस्य तत्पादम् अर्धं वा देयम् इत्य् एवमादिः सा कारिता वृद्धिः । कायिका अभ्युपगताया वृद्धेर् अधिकं दिवसे दिवसे मासि मासि संवत्सरे संवत्सरे वा यस्मिन् गृह्यते सा कायिका । तथा च नारदः ।
कायाविरोधिनी शश्वत् पणपादादिकाधिका । इति । [न्स्म् १.८८]
शिखा धान्यस्य, यथा चतुर्णां प्रस्थानां पञ्चम इत्यादि । अधिभोगः वृद्ध्यर्थम् अहर् अहर् यस्मिन् घृतादि गृह्यते साधिभोगवृद्धिः । वृद्धिशब्दानुकर्षणार्थश् चकारः । गौरवप्रदर्शनार्थः पृथग्निर्देशः ॥ १२.३२ ॥
कुसीदं पशूपजलोमक्षेत्रशदवाह्येषु नातिपञ्चगुणम् ॥ १२.३३ ॥
अधिकृतम् अपि कुसीदग्रहणं क्रियते अन्यरूपो ऽयं प्रयोग इति ज्ञापनार्थम् । पशूपजं घृतादि तत् क्रीत्वा अमुष्मिन् काले मूल्यं दातव्यम्, तस्मिन्न् अदीयमानं वर्धत इति यत् परिभाषितम् इत्य् अभिप्रायः । वत्सस्य ग्रहणं मा भूद् इत्य् उपशब्दप्रयोगः । लोम ऊर्णादि । प्रकृतिग्रहणेन विकाराणाम् अपि ग्रहणं द्रष्टव्यम् । तस्यापि क्रयमूल्यस्यादीयमानस्यैव । क्षेत्रशदः51 क्षेत्रं यदा परिमितेन धान्येन प्रयुज्यते तस्मिन् काले अस्य शुल्कम्52 अदीयमानं वर्धत इति । वाह्यः प्रापणनिमित्तं यथा बलीवर्दादिभिः कस्यचिद् धान्यं प्रापयति अमुष्मिन् काले ऽस्य शुल्कम् अदीयमानं वर्धत इति । एतेषु यत् कुसीदम् उपरि सवृद्धिकं दातव्यम् इति प्रयुक्तम् इत्य् अर्थः । तत् पञ्चगुणत्वं नातिवर्तते । पशूपजग्रहणेनैव सिद्धस्य लोम्नः पुनर् ग्रहणं मयूरपत्रकृतानाम् अपि ग्रहणार्थम्, “पक्षाणां पत्ररोमाणाम् अग्ने ब्रूहि मया श्रुतम्” इति श्रुतिदर्शनात् । “चिरस्थाने द्वैगुण्यं प्रयोगस्य” [ग्ध् १२.२८] इत्य् अत्रैव वक्तव्यम् इति चेत्, नैष दोषः – एषां चक्रवृद्धिप्रयोगाभावज्ञापनार्थ इहोपदेश इति । पञ्चगुणम् इत्य् अनेन सिद्धे नातिग्रहणं प्रयोगान्तरे अतिक्रमणसूचनार्थम् ॥ १२.३३ ॥
इदानीम् अन्यो व्यवहार उच्यते ।
अजडापोगण्डधनं दशवर्षभुक्तं परैः सन्निधौ भोक्तुः ॥ १२.३४ ॥
जडः उन्मुग्धचित्तः संव्यवहारायोग्यः । पोगण्डः अप्राप्तव्यवहारः । तौ मुक्त्वा यद् अन्यस्य धनं परैः असम्बद्धैः तत्समक्षं – स्वामिन्य् एकग्रामस्थित एवेत्य् अर्थः – भुज्यते तत् दशवर्षभोक्तुर् एव भवति, न हिस् सति स्वामित्वे इयन्तं कालम् उपेक्षणम् उपपद्यत इत्य् अभिप्रायः । जडबालधनं तु नाह्रियते । तद्ग्रहणम् आध्यादीनाम् अप्य् उपलक्षणार्थम् । यथाह नारदः ।
आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः ।
राजस्वं श्रोत्रियस्वं च नोपभोगेन जीर्यति ॥ इति । [न्स्म् १.७३]
अत्र अजडधनं न परिगणितम् इति चेत्, विंशतिवर्षेणापि जीर्णत्वं मा भूद् इति । यथाह नारदः ।
प्रत्यक्षपरिभोगाच् च स्वामिनो द्विदशाः समाः ।
आध्यादीन्य् अपि जीर्येयुः स्त्रीनरेन्द्रधनाद् ऋते ॥ इति । [न्स्म् १.७४]
एवं च विंशतिवर्षात् बालधनं जीर्यत्य् एव । सन्निधाव् इत्य् अनेनैव परेषाम् अर्थसिद्धत्वात् परग्रहणं सम्बन्धिभुक्तस्यानतिचारज्ञापनार्थम् । सन्निधिग्रहणाद् अन्यग्रामस्थस्य न दोषः ॥ १२.३४ ॥
अस्यापवादं भोक्तृविशेषेणाह ॥
न श्रोत्रियप्रव्रजितराजन्यपुरुषैः ॥ १२.३५ ॥
श्रोत्रियादिभिर् भुज्यमानम् अपि नापह्रियते, उपेक्षाकारणोपपत्तेः श्रोत्रियप्रव्रजितौ धर्मतृष्णयोपेक्ष्येते, राजपुरुषो भयेनेति । प्रव्रजितस्य कथम् उपपद्यत इति चेद्, अत्रोच्यते – कस्यचिद् गृहस्य शून्यत्वेन स्थितस्य प्रव्रजितस्य शून्यगृहवासनोपदेशाद् उपपद्यत एवेति ॥ १२.३५ ॥
अधुना भुज्यमानद्रव्यविशेषेणापवादम् आह ।
पशुभूमिस्त्रीणाम् अनतिभोगः ॥ १२.३६ ॥
पशुशब्देन सर्वे चतुष्पादा यज्ञिया गृह्यन्ते, “चतुष्पादा वै पशवो यज्ञियाः” इति श्रुतिदर्शनात् । भूमिः क्षेत्रारामादिः, न गृहम्, “दशवर्षाद् वेश्मनो भोक्तुर् न भूमिः” इत्य् औशनसवचनात् । स्त्रियः परिचारिकाः । एषाम् अनतिभोगः, दशवर्शानुभवेन न स्वाम्यं भवतीत्य् अर्थः । तथा च नारदः ।
अनागमं तु यद् भुक्तं वत्सराणां शतैर् अपि । इति । [न्स्म् १.७५]
इदम् अपि वचनं पशुभूमिस्त्रीविषयत्वेन व्याख्यातम् इति ॥ १२.३६ ॥
रिक्थभाज ऋणं प्रतिकुर्युः ॥ १२.३७ ॥
यस्य धनं ये भजन्ति गृह्णन्ति त एव तदृणं दद्युर् इत्य् अर्थः, न दायादमात्रेण । पुत्रस्त्रीहारिणाम् अपि ग्रहणार्थं बहुवचनम् । तथाह नारदः ।
धनस्त्रीहारिपुत्राणाम् ऋणभाग् यो धनं हरेत् ।
पुत्रो ऽसतोः स्त्रीधनिनोः स्त्रीहारी धनपुत्रयोः ॥ इति । [न्स्म् १.२०]
एवं च रिक्थभाक्त्वे सत्य् असति च पुत्रेणावश्यं दातव्यं स्त्रीहारिणा च अन्यैस् तु रिक्थभाग्भिर् एव । पुत्राणां च मध्ये येषां रिक्थभाक्त्वं च विद्यते त एव ऋणं दद्युः न पुत्रमात्रेणेति द्रष्टव्यम् ॥ १२.३७ ॥
इदानीं पुत्रं प्रत्य् अपवादम् आह ।
प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डा न पुत्रान् अध्याभवेयुः ॥ १२.३८ ॥
प्रतिभुवस् त्रयः । यथाह व्याघ्रः ।
पाददर्शी च विश्वास्यो ह्य् अर्थदश् चेति कीर्तिताः । इति ।
अत्र दानप्रतिभुवं मुक्त्वा इतरयोर् ग्रहणम् । कुतः?
दानप्रिभुवि प्रेते दायादान् अपि दापयेत् । [म्ध् ८.१६१]
इति मनुवचनात् । प्रतिभूनिमित्तं यद् ऋणं तत् प्रातिभाव्यम् । वणिग् वाणिज्यनिमित्तं चेत्य् अर्थः । यथा मूल्यं ददामीति परिभाष्य कस्यचित् सकाशे द्रव्यं गृहीत्वा वाणिज्यकरणार्थं देशान्तरं गत्वा म्रियेत, पुत्रेण तद् अप्राप्तं च भवति ततस् तद् ऋणं पुत्रस्योपरि न भवतीत्य् अभिप्रायः । शुल्कम् आसुरादिविवाहे शुल्कं प्रतिश्रुत्य विवाहं कृत्वा यद्य् असौ म्रियते तच् छुल्कं पुत्रसोपरि न भवतीति । मद्यं मद्यनिमित्तं ब्राह्मणस्य प्रतिषिद्धत्वात् क्षत्रियादिविषयम् एतद् द्रष्टव्यम् । द्रव्यं ददामीति मद्यपाने कृते द्रव्यम् अदत्वा ऽसौ म्रियेत तद् अपि पुत्रस्य न भवतीति । तथा द्यूतनिमित्तं च ऋणम् । तथा दण्डनिमित्तं च व्यवहारापजयनिमित्तम् । नैते पुत्रान् अध्याभवेयुः पुत्राणाम् उपरि न भवतीत्य् अर्थः । रिक्थभाक्त्वे सति द्रष्टव्यम् ॥ १२.३८ ॥
निध्यन्वाधियाचितावक्रीताधयो नष्टाः सर्वान् अनिन्दितान् अपुरुषापराधेन ॥ १२.३९ ॥
निधिः निक्षेपः, अन्वाधिर् उपनिधिः, याचितम् उत्सवादिषु याच्ञया आनीत आभरणादि, अवक्रीतम् अदत्तमूल्यम् अर्धदत्तमूल्यं वा, आधिर् गोप्याधिः कांस्यादिर् इत्य् अर्थः, एते चोरहरणाग्निदाहादिना नष्टा सन्तो न केवलं पुत्रान् एव अध्याभवेयुः । किं तर्हि? येषां सकाशे निक्षेपादयः कृताः तान् अपि, सर्वग्रहणात् । अनिन्दितान् अप्रमादकारिण इत्य् अर्थः । अपुरुषापराधेन यदि नश्यन्ति । पुरुषापराधः पुरुषप्रमादः आलस्यादिः । एवं च निन्दितैः प्रमादकारिभिः ते दातव्या एव ॥ १२.३९ ॥
यदि चैषां पुत्रादीनां पित्र्यम् ऋणं न प्रतिकुर्यात् कश्चित्, ततह् स्तेनो भवतीति, अस्य “अष्टापाद्यं स्तेयकिल्बिषम्” [ग्ध् १२.१२] इति दण्डश् च विहित इत्य् अनेनैव प्रसङ्गेन हिरण्यस्तेनस्यापि दण्ड उच्यते ।
स्तेनः प्रकीर्णकेशो मुसली राजानम् ईयात् कर्माचक्षाणः
॥ १२.४० ॥
स्तेनः सुवर्णस्तेनः, अन्यद्रव्यापहारिणस् तु “अष्टापायम्” इति उक्तत्वात्, स्मृत्यन्त्रदर्शनाच् च ।
सुवर्णस्तेनकृद् विप्रो राजानम् अभिगम्य तु ।
स्वकर्म ख्यापयन् ब्रूयात् मां भवान् अनुशास्त्व् इति ॥ [म्ध् ११.९९]
दण्डप्रकरणे गमनोपदेशः प्रायश्चित्तार्थः । तथा च मनुः ।
राजभिर् धृतदण्डस् तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥ इति । [म्ध् ८.३१८]
स्तेये कृते स्तेनो भवति । स्तेयः परस्वापहारः । बुद्धिपूर्वविषय एवेदम् । अबुद्धिपूर्वकस्तेयं नोपपद्यत इति । महत्य् अपहृते त्व् एतद् द्रष्टव्यम्, विशेषानारम्भात् । प्रकीर्णकेशो मुक्तकेशो मृतसमम् आत्मानं मन्यमानः । मुसली स्ववधसाधनमुसलहस्तो राजानं च गच्छेत्, कर्म कथयन् स्तेनो ऽहम् अस्मीति ॥ १२.४० ॥
ततः एवम् उपस्थितः ।
पूतो वधमोक्षाभ्याम् ॥ १२.४१ ॥
पूतः शुद्धो भवतीति । वधान् मारणाद् वा मोक्षाद् वा । वधस् ताडनम्, तद् अपि सकृद् एव, स्मृत्यन्तरदर्शनात् ।
गृहीत्वा मुसलं राजा सकृद् धन्यात् तु तं स्वयम् । इति । [म्ध् ११.१००]
तत्र राज्ञा यदि निःशङ्केन ताडितो न म्रियेत ततो ऽपि पूत एव भवतीति द्रष्टव्यम् । अब्राह्मणविषयं चेदं ताडनम् – “न शारीरो ब्राह्मणदण्डः” [ग्ध् १२.४३] इति वक्ष्यमाणत्वात् । तथा च मनुः ।
वधेन शुध्यति स्तेनो ब्राह्मणस् तपसैव वा । इति । [म्ध् ११.१००]
अत्रैवकारात् ब्राह्मणस् तपसैवेति भाष्यकृता व्याख्यातम् । ततश् च अब्राह्मणस्य ताडनम्, ब्राह्मणस्य मोक्ष इति द्रष्टव्यम् । तथापि ब्राह्मणस्य स्वयं गमनपक्षे मोक्षः । यस् तु बलाद् आनीयते तस्य मोक्षः तपश् च द्रष्टव्यम् । एवं सर्वत्र स्वयं गमनपक्षे दण्डश् च प्रायश्चित्तं चेति द्रष्टव्यम् । तपस् त्व् अश्रोत्रियब्राह्मणस्य सान्तपनं द्रष्ट्वयम्, अश्रोत्रियब्राह्मणस्य सुवर्णहरणं चेत् । तथाह मनुः ।
चरेत् सान्तपनं कृच्छ्रं निर्यात्य् आत्मविशुद्धये । इति । [म्ध् ११.१२४]
निर्यात्य् एति सर्वस्तेयशेषत्वेनान्वेतीति द्रष्टव्यम् । श्रोत्रियस्य आपस्तम्बोक्तं द्रष्टव्यम्- “स्तेयं कृत्वा सुरां पीत्वा गुरुदारं च गत्वा ब्रह्महत्याम् अकृत्वा चतुर्थकालामितभोजिनः स्युः” [आप्ध् १.२५.९–१०] इत्यादि । कथं श्रोत्रियस्य गौरवम् इति चेत्, “विदुषो ऽतिक्रमे दण्डभूयस्त्वम्” [ग्ध् १२.१४] इति उक्तत्वात् । श्रोत्रियब्राह्मणसुवर्णहरणे त्व् अश्रोत्रियस्य चैतद् एव श्रोत्रियस्य षड्वर्षं द्रष्टव्यम् । यथाह उशना- “सुवर्णस्तेयकृत् षड्वर्षं ब्राह्मणो व्रतं चरेत्” इति । क्षत्रियस्यापि यदा प्रायश्चित्तं समुच्चीयते तदा अश्रोत्रियसुवर्णहरणे श्रोत्रियस्य भार्गवीयं द्रष्टव्यम् ।
ब्राह्मणस्य हरेद् यस् तु चरेच् चान्द्रायणादिकम् । इति ।
अश्रोत्रियस्य पूर्वम् उक्तम् औशनसं द्रष्टव्यम् । श्रोत्रियस्वहरणे त्व् एतद् एव द्विगुणम् “श्रोत्रियस्वहरणे द्विगुणम्” इति कण्ववचनात् । वैश्यस्यापि क्षत्रियवद् द्रष्टव्यम् – “वैश्यस्य क्षत्रियवच् चोरदण्डः” इत्य् औशनसवचनात् । श्रोत्रियस्वहरणे –
तपसापनुनुत्सुस् तु सुवर्णस्तेयजं मलम् ।
चीरवासा द्विजो ऽरण्ये चरेत् ब्रह्महणो व्रतम् ॥ [म्ध् ११.१०१]
इति मनुनोक्त वा द्रष्टव्यम् । शूद्रस्य प्रायश्चित्तं सर्वत्र “निष्कालको वा घृताक्तो गोमयाग्निना पादप्रभृत्य् आत्मानम् अवदाहयेत्” [वध् २०.४२] इति वसिष्ठोकं द्रष्टव्यम् । अपहृतद्रव्यवशाद् अपि प्रायश्चित्तस्य गुरुलघुभावः कल्प्यः । कुतः?
तथा परिमेयानां शताद् अभ्यधिकं वधः ।
इति लिङ्गात् । कार्षापणमूल्याद् अधिक एव राज्ञा ताडनम् । इतरत्र सर्वत्र तु मोक्ष एव द्रष्टव्यः । कार्षापणमूल्याद् अधिक एव समस्तप्रायश्चित्तप्रवेशः । “अर्धे अर्धं पादे पादम्” इति च द्रष्टव्यम् । शूद्रस्य च वैश्यवत् कल्प्यम्, “अन्यूनभावे वैश्यवच् छूद्रस्य कल्प्यम्” इति शङ्खवचनाद् इति ॥ १२.४१ ॥
अघ्नन्न्न् एनस्वी राजा ॥ १२.४२ ॥
दयादियोगाद् अघ्नन् एनस्वी राजा भवति । चोरस्य यावत् पापं तावद् अस्य भवतीत्य् अर्थः । तथा च स्मृत्यन्तरम्- “स्तेनस्याप्नोति किल्बिषम्” [न्स्म् १९.५६] इति ॥ यथा वधार्हस्यावधे दोष एवं मोक्षार्हस्यामोक्षे दोषो द्रष्टव्यः । तथा च वसिष्ठः- “एनो राजानम् ऋच्छत्य् उत्सृजन्तं सकिल्बिषम्” [वध् १९.४६] इति ॥ १२.४२ ॥
न शारीरो ब्राह्मणदण्डः ॥ १२.४३ ॥
स्वयम् उपस्थितस्यापि यः शारीरो दण्डः वधः स ब्राह्मणस्य नास्ति । तस्मान् न कर्तव्यः ।
ननु च कर्मवियोगादिदण्डान्तरविधानाद् एव शरीरस्य निवृत्तिर् भवत्य् एवेति ।
उच्यते – सत्यम् । एवमारम्भस् तु अन्यत्रापराधे ब्राह्मणस्य शरीरदण्डप्रतिषेधार्थ इति ॥ १२.४३ ॥
तर्हि कथम् असौ शास्य इत्य् अत आह ।
कर्मवियोगविख्यापनविवासनाङ्ककरणानि ॥ १२.४४ ॥
यथा पुनस् तत् कर्म न करोति तथा कर्तव्यम् इत्य् अर्थः । विख्यापनं चौर्यचिह्नेन सर्वतः परिभ्रमणकरणम् । विवासनं निर्विषयीकरणम् । अङ्कनं चिह्नकरणम् । यथाह मनुः ।
गुरुतल्पे भग कार्यः सुरापाने सुराध्वजः ।
स्तेये तु श्वपदं कार्यो ब्रह्मघ्नस् त्व् अशिराः पुमान् ॥ इति । [म्ध् ९.२३७]
एषाम् अभ्यासापेक्षया यथार्हो दण्डो द्रष्टव्यः ॥ १२.४४ ॥
अवृत्तौ प्रायश्चित्ती सः ॥ १२.४५ ॥
अचोरे एवं कृते स राजा प्रायश्चित्ती भवति । प्रायश्चित्तं तु स्मृत्यन्तराद् द्रष्टव्यम् । यथाह वसिष्ठः- “दण्ड्योत्सर्गे राजैकरात्रम् उपवसेत् त्रिरात्रं पुरोहितः कृच्छ्रम् अदण्डदण्डने पुरोहितस् त्रिरात्रं राजा च” [वध् १९.४०–४३] इति ॥ १२.४५ ॥
चोरसमः सचिवो मतिपूर्वे ॥ १२.४६ ॥
चोरस्य सचिवः सहायः बुद्धिपूर्वे प्रतिशयान्नादिदाने चोरवन् निग्राह्यः । एवं चाबुद्धिपूर्वे न दोषः ॥ १२.४६ ॥
प्रतिग्रहीताप्य् अधर्मसंयुक्ते ॥ १२.४७ ॥
मतिपूर्व इत्य् वर्तते । प्रतिग्रहीताप्य् अधर्मसंयुक्ते, स्तेनस्य प्रकृतत्वाद् एव सिद्धे अधर्मसंयुक्तग्रहणं यो यत् पापं करोति तस्य सकाशात् मतिपूर्वं प्रतिग्रहीतुर् अपि अवकीर्णिप्रायश्चित्तम् इत्यादि । अबुद्धिपूर्वे तु लघुतरं कल्प्यम् ॥ १२.४७ ॥
पुरुषशक्त्यपराधानुबन्धविज्ञानाद् दण्डनियोगः
॥ १२.४८ ॥
पुरुषविज्ञानाज् जात्यादि ज्ञात्वेत्य् अर्थः । शक्तिर् दुर्बलत्वादिः । अपराधः साहसभाषणादि । यथाह वसिष्ठः- “स्तेनो ऽनुप्रवेशान् न दुष्यते । शस्त्रधारी सहोढो व्रणसम्पन्नश् च व्यपदिष्टस् त्व् एकेषाम्” [वध् १९.३८–३९] इति । अनुबन्धः अध्यवसायः । एतान् अवधार्य दण्डधारणं कर्तव्यम् ॥ १२.४८ ॥
अनुज्ञानं वा वेदवित्समवायवचनाद् वेदवित्समवायवचनात् ॥ १२.४९ ॥
वेदविदां सङ्घवचनान् मोक्षो वा कर्तव्यः । सङ्घः समवायः चतुर्णां त्रयाणां वा । यथाह मनुः ।
चत्वारो वा त्रयो वापि य ब्रूयुर् वेदपारगाः ।
स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ॥ इति ।
वक्ष्यमाणदशावरपरिषदनुज्ञया वा । एवं च53 स्वयङ्करणे54 दोषो द्रष्टव्यः ॥ १२.४९ ॥
इति मस्करीये गौतमभाष्ये द्वादशो ऽध्यायः
त्रयोदशो ऽध्यायः
वाक्पारुष्ये सप्रतिपत्तौ दण्ड उक्तः । यदा तु विप्रतिपद्यन्ते तदा कथम् इत्य् अत आह ।
विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था ॥ १३.१ ॥
विप्रतिपत्तिर् नानाविधा प्रतिपत्तिः अर्थिप्रत्यर्थिनोः । तस्यां सत्यां साक्षिहेतुका सत्यव्यवस्था सत्यस्थापना कर्तव्या । साक्षिणः पञ्चप्रकाराः, यथाह नारदः ।
लिखितः स्मारितश् चैव यदृच्छाभिज्ञ एव च ।
गूढश् चोत्तमसाक्षी च साक्षी पञ्चविधः स्मृतः ॥ इति । [न्स्म् १.१३०]
तान् विचार्य तत्त्वावबोध इत्य् अर्थः । साक्षिनिमित्तं सत्यम् इति वक्तव्ये व्यवस्थाग्रहणं साक्षिणां विप्रतिपत्तौ बहूनां वचनं प्रमाणम् । तत्रापि सन्देहे तैर् एव शपथपूर्वं प्रतिपादितम् इत्य् एवमर्थम् ॥ १३.१ ॥
ते पुनः कियन्तः किंलक्षणा इत्य् अत आह ।
**बहवः स्युर् अनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञाम् **
॥ १३.२ ॥
बहवः त्र्यवराः स्युर् इत्य् अर्थः । यथाह मनुः ।
त्र्यवरैः साक्षिभिर् भाव्यं नृपब्राह्मणसन्निधौ ॥ इति । [म्ध् ८.६१]
स्युर्ग्रहणं सन्देहव्युदासार्थम् । अनिन्दिताः स्वकर्मसु विहितानुष्ठाना इत्य् अर्थः । स्वग्रहणं धनपुत्रादाव् अपि । यथाह मनुः- “गृहिणः पुत्रिणो मौल्याः” [म्ध् ८.६२] इत्यादि । कर्मस्व् इति बहुवचनम् आपद्विहितस्याप्य् उपसङ्ग्रहार्थम् । प्रात्ययिका राज्ञाम्, प्रत्ययेन ये चरन्ति ते प्रात्ययिकाः, राज्ञां बहुषु कर्मसु परीक्षिताः सर्वत्राप्रमत्ता एवेति निश्चिता इत्य् अर्थः । बहुवचनाद् राजनियुक्तानां सभासदादीनाम् अपि ॥ १३.२ ॥
निष्प्रीत्यभितापाश् चान्यतरस्मिन् ॥ १३.३ ॥
निष्प्रीतयो निरभितापाश् च, न कृतस्नेहा न शत्रवश् चेत्य् अर्थः । चकारान् नार्थसम्बन्धिनश् च । तथा च मनुः ।
नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः । [म्ध् ८.६४]
इत्यादि । अन्यतरस्मिन्न् अर्थिनि प्रत्यर्थिनि वेत्य् अर्थः ॥ १३.३ ॥
अपि शूद्राः ॥ १३.४ ॥
एवंविधाः शूद्रा अपि । किं पुनर् द्विजातय इति । एवं च गुणवद्द्विजाद्यभावे एवंविधाः शूद्रा अपि भवन्तीति द्रष्टव्यम् ॥ १३.४ ॥
ब्राह्मणस् त्व् अब्राह्मणवचनाद् अनवरोध्यो ऽनिबद्धश् चेत् ॥ १३.५ ॥
अब्राह्मणः क्षत्रियादिः । अब्राह्मणग्रहणाद् एव सिद्धे ब्राह्मणग्रहणं श्रोत्रियपरिग्रहार्थम् । इतरो ग्राह्य एवेति । तुशब्दात् अन्ये ऽपि लिङ्गिनो न ग्राह्या विशेषेण ब्राह्मणा इति । अब्राह्मणवचनाद् अनवरोध्यो न ग्राह्यः, अस्य वृत्तान्तस्यासौ ब्राह्मणः साक्षीत्य् अब्राह्मणेनोके राज्ञासौ साक्षित्वेन न ग्राह्य इत्य् अर्थः । अनिबद्धश् चेत् ब्राह्मणः पत्रके ऽनारोपितश् चेत् । आरोपितो भवत्य् एवेत्य् अभिप्रायः ॥ १३.५ ॥
नासमवेता अपृष्टाः प्रब्रूयुः ॥ १३.६ ॥
समुदिता यावन्तस् ते समवेता अपि राज्ञा प्राड्विवाकेन वा अपृष्टाः न प्रब्रूयुः । आ प्रश्नात् तद्व्यापारं प्रति मौनिन एव भवेयुर् इति प्रशब्दोपादानम् ॥ १३.६ ॥
किं च ।
अवचने च दोषिणः स्युः ॥ १३.७ ॥
प्रश्नकाले ऽप्य् अवचने चकाराद् अन्यथा वचने च दोषिणो दण्डभाजः स्युः । तथा च मनुः ।
सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥ इति । [म्ध् ८.१३]
तस्मात् तथ्यम् एव वक्तव्यम् इत्य् अभिप्रायः ॥ १३.७ ॥
न केवलं तथ्यवचने दण्डाभावमात्रं विपर्यये दण्डभाक्त्वम् एव55_ । किं तर्हि ।_
स्वर्गः सत्यवचने विपर्यये नरकः ॥ १३.८ ॥
सत्यवचननिमित्ताद् धर्मात् स्वर्गश् च भवति, विपर्यये अनृतवचननिमित्ताद् अधर्मान् नरकश् च भवति । वचनग्रहणं साक्षिणाम् एतत् फलम्, न तु व्यवस्थाहेतोर् नृपस्येति
॥ १३.८ ॥
इदानीं यत्र पञ्चप्रकारा अपि साक्षिणो न भवन्ति तत्र कथम् इत्य् अत आह ।
अनिबद्धैर् अपि वक्तव्यम् ॥ १३.९ ॥
निबद्धाः निश्चयेन बद्धाः स्मृताः, पञ्चविधत्वेन स्मृताः इत्य् अर्थः । ये पञ्चविधत्वेन न स्मर्यन्ते ते अनिबद्धाः, येन केनचित् प्रकारेण तद्व्यापारज्ञा तद्ग्रामस्था इत्य् अर्थः । तैर् अपि वक्तव्यम् । अपिशब्दो निबद्धाभावसूचनार्थः । अनिबद्धा अपीत्य् उक्ते ऽपि साक्षिप्रकरणत्वात् साक्षिणः स्युर् इति सामर्थ्यलब्धत्वाद् एव समस्तार्थे लभ्यमाने वक्तव्यग्रहणम् – तत्रापि येषां वचनं प्रमाणत्वेन निर्दिष्ठं तेषाम् एव वचनं ग्राह्यम्, नार्थसम्बन्धिनां वचनम्, ततश् चार्थसम्बन्धादिदोषरहितैर् एव वक्तव्यम् इति
॥ १३.९ ॥
न पीडाकृते निबन्धः ॥ १३.१० ॥
अत्र बन्धशब्देन व्यवस्था उच्यते । निश्चयं बन्धो निबन्धः । पीडाकृते हिंसादौ । न निबन्धः न प्रतिषेधो ऽस्तीत्य् अर्थः । पञ्चप्रकारैर् अन्यैश् च अर्थसम्बन्धादिदूषणयुक्तैर् अपि वक्तव्यम् एवेत्य् अभिप्रायः । तथा च उशना- “साहसे सर्वे भवन्ति” इति ॥ १३.१० ॥
तथा ।
प्रमत्तोक्ते च ॥ १३.११ ॥
प्रमत्तः अज्ञातः, वञ्चनया वा, प्रशब्दोपादानात् । यदा निगूढाः साक्षिणः कृत्वा उपायैर् एनं रहस्य् आपादयन्ति ततः तत्स्थाः अर्थसम्बन्धादिदूषणयुक्ता अपि साक्षिणो भवन्तीति । प्रमत्तेनोक्ते परिभाषित इत्य् अर्थः । चकारात् स्त्रीगमनव्यापारे ऽपि । तथा च व्याघ्रः ।
स्तेये च साहसे चैव संसर्गे च स्त्रियस् तथा ।
गरादीनां प्रयोगे च न दोषः साक्षिषु स्मृतः ॥ इति ।
विपर्यये नरक उक्तः । सः न केवलं तेषाम् एव ॥ १३.११ ॥
किं तर्हि ।
साक्षिसभ्यराजकर्तृषु दोषो धर्मतन्त्रपीडायाम्
॥ १३.१२ ॥
यत्र धर्मतन्त्रपीडा क्रियते सम्यग्व्यवहारदर्शनात् तत्र यस्यैव56 [यथैव] दोषेण कर्ता लिप्यते, एवं साक्ष्यादयो ऽपि ।
ननु च साक्षिणो दोष उक्त एव । किम् अर्थं पुनर् इहाभिधानम् इति ।
उच्यते – यदीह57 साक्षिग्रहणं न क्रियते ततः सभ्यादीनाम् असाक्षिक एव व्यवहारे दोष उक्तः स्यात् ससाक्षिके ऽपि दोषप्रापणार्थम् । यावता दोषेण कर्ता सम्बध्यते तावान् दोषः सभ्यादीनाम् अपि स्वापराधात् पृथक् पृथग् उपपद्यते न तु खण्डश इति द्रष्टव्यम् । तत्रशब्देन लोकव्यवहार उच्यते । ततश् च तत्पीडा च न कर्तव्येति तद्ग्रहणम् ॥ १३.१२ ॥
शपथेनैके सत्यकर्म ॥ १३.१३ ॥
यदा तु साक्ष्यादिप्रमाणान्तरप्रत्यस्तमयः तदा शपथेन कोशादिना एके सत्यकर्म सत्यव्यवस्थापनम् इच्छन्ति । शपथश् च प्रयुज्यमानस्य, इतरेण व्यवसितत्वात् । सत्यम् इति वक्तव्ये कर्मग्रहणं व्यवहाराद् अन्यत्रापि लौकिकव्यवहारसन्देहे शपथस्यानुप्रवेशार्थम् । तथा च श्रुतिः- “अन्याम् उदीय यदि यातुधानो अस्मि” इत्यादि । गौतमस् तु न्यायेनैव । तत्र प्रमाणलेशे सति सपथम्, असति न्याय एवेति द्रष्टव्यम् ॥ १३.१३ ॥
तद् देवराजब्राह्मणसंसदि स्याद् अब्राह्मणानाम्
॥ १३.१४ ॥
तच् छपथं देवसंसदि देवसण्निधौ । देवशब्देन देवताप्रतिमाः आदित्यादयो वा उच्यन्ते । राजा व्यवहारदर्शी । ब्राह्मणाः सभ्यादयः । तद्ग्रहणं लौकिकव्यवहारनिवृत्त्यर्थम् । एवं च व्यवहारे देवतादिसन्निधौ, लौकिके यत्र कुत्रचिद् इति द्रष्टव्यम् । अर्थान्तरनिमित्तो व्यवहारः, अपराधनिमित्तो लौकिक इति । अब्राह्मणाः क्षत्रियादयः । स्याद्ग्रहणं क्रमनिवृत्त्यर्थम् । तत्र देवतालाभे विप्रसंसदि, तदलाभे राजसंसदि द्रष्टव्यम् । तथा च स्मृत्यन्तरम् ।
अब्राह्मणान् नृपः सम्यक् कारयेद् देवसन्निधौ ।
शपथं तदलाभे च ब्राह्मणस्य समीपतः ॥
तदलाभे नृपस्याथ भगवान् काश्यपो ऽब्रवीत् ॥ इति ।
अलाभो ऽपि कार्यान्तरव्यग्रापेक्षया द्रष्टव्यः । अविप्राणाम् इति वक्तव्ये गुरुसूत्रकरणम् अश्रोत्रियब्राह्मणस्यापि देवतासन्निधिप्रवेशार्थम् । एवं च श्रोत्रियब्राह्मणस्य सत्यशब्दोच्चारणमात्राद् एव शपथं भवतीति द्रष्टव्यम् ।
स्मृत्यन्तरोपसङ्ग्रहार्थं स्याद्ग्रहणम् इत्य् एके । यथाह मनुः ।
सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥ इति । [म्ध् ८.११३]
देवराजब्राह्मणसमक्षम् इति वक्तव्ये संसदिग्रहणं देवतायाः सन्निहितस्थानोपसङ्ग्रहार्थम् । सभायाश् च छलादिदोषरहितायाः । यथाह नारदः ।
न सा सभा यत्र न सन्ति वृद्धा
न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यम् अस्ति
न तत् सत्यं यच् छलेनानुविद्धम् ॥ [न्स्म् मातृका ३.१७]
इति ॥ १३.१४ ॥
साक्षिणां सामान्येन दोष उक्तः । विशेषार्थम् इदानीम् आह ।
क्षुद्रपश्वनृते साक्षी दश हन्ति ॥ १३.१५ ॥
क्षुद्रपशवः अजाविकादयः । तद्विषये ऽनृतवचने दश पुरुषान् हन्ति । अविशेषात् स्वबन्धून् हन्तीति ज्ञायते । दशस्वबन्धुहनने यावत् पापं तावद् अस्य भवतीत्य् अर्थः । एवं सर्वत्र । ततश् च तदनुरूपेण दण्डप्रायश्चित्तकल्पनम् । साक्षिग्रहणं सभ्यादीनाम् अप्य् उपलक्षनार्थम् ॥ १३.१५ ॥
गोऽश्वपुरुषभूमिषु दशगुणोत्तरान् ॥ १३.१६ ॥
उत्तरम् उत्तरं दशगुणं भवति । गोविषये शतगुणम् । अश्वविषये सहस्रगुणम् इत्यादि ।
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥ [म्ध् ८.९८]
इत्यादि यद् उक्तं स्मृत्यन्तरे तत्परिग्रहविशेषापेक्षया प्रयोजनापेक्षया वा द्रष्टव्यम्
॥ १३.१६ ॥
सर्वं वा भूमौ ॥ १३.१७ ॥
भूमिविषये शतसहस्रं सर्वं वा मनुष्यजातम् । कृताकृतक्षेत्रभेदेन विकल्पो द्रष्टव्यः
॥ १३.१७ ॥
हरणे नरकः ॥ १३.१८ ॥
भूमेर् इति विपरिणामः । अविशेषात् आ कल्पात् भवति । दोषवचनप्रसङ्गेनैतद् उक्तम्
॥ १३.१८ ॥
इदानीं प्रकृतम् आह ।
अप्सु मैथुनसंयोगे च ॥ १३.१९ ॥
अप्सु कूपाद्याधारावस्थितासु मैथुनसंयोगे च परस्त्रीगमनादाव् इत्य् अर्थः । संयोगग्रहणात् कन्यालक्षणादाव् अपि । चकारः अब्ग्रहणं मैथुनविशेषणं मा भूद् इत्य् एवमर्थः । एवं च हरणे ऽपि नरको द्रष्टव्यः ॥ १३.१९ ॥
पशुवन् मधुसर्पिषोः ॥ १३.२० ॥
मधुघृतविषये क्षुद्रपश्वनृततुल्यो दोषः ॥ १३.२० ॥
गोवद् वस्त्रहिरण्यधान्यब्रह्मसु ॥ १३.२१ ॥
वस्त्रादिविषये ऽनृते गवानृतवद् दोषः ब्रह्मानृतम् अधीतवेदम् अनधीतवेदम् इत्य्
उक्ते ॥ १३.२१ ॥
यानेष्व् अश्ववत् ॥ १३.२२ ॥
हस्त्यादियाननिमित्ते ऽनृते अश्वानृततुल्यो दोषः । यानेष्व् इति बहुवचनम् अचेतनानां शिबिकादीनाम् अप्य् उपसङ्ग्रहार्थम् ।
केचिद् अन्यथा व्याचक्षते – पशुवन् मधुसर्पिषोर् इत्य् आरभ्य पश्वनृतवद् दोषः मधुसर्पिषोर् हरणे । वस्त्रादिहरणे च गोवद् दोषः । तत्र ब्रह्मशब्देन वेदाङ्गानि, लिखितानि पुस्तकान्य् आहुः । यानहरणे चाश्वानृततुल्यो दोष इति ॥ १३.२२ ॥
यदि त्व् एवम् अपि दोषे उक्ते साक्ष्यनृतम् एव वक्ति ततः ।
मिथ्यावचने याप्यो दण्ड्यश् च साक्षी ॥ १३.२३ ॥
अनृत उक्ते याप्यः गर्ह्यः सर्वलोकसमक्षं संव्यवहारविच्छेदनार्थम् । पुरुषशक्त्यादिविज्ञानात् तन्मूल्यप्रमाणेन दण्ड्यश् च भवति । अर्थप्रयोजनापेक्षया परिग्रहविशेषापेक्षया च समस्तव्यस्तपरिकल्पनार्थश् चकारः । अधिकाराद् एव सिद्धे साक्षिग्रहणं स एव याप्यो दण्ड्यश् च । सभ्यादयो दण्ड्या एवेति ॥ १३.२३ ॥
अस्यापवादम् आह ।
नानृतवचने दोषो जीवनं चेत् तदधीनम् ॥ १३.२४ ॥
यदा सत्यवचनात् परस्यावश्यभावी जीवनच्छेदः तदा साक्षिणानृतम् अपि वक्तव्यम् । तस्मिन्न् उक्ते न पूर्वोक्तो दोषः ॥ १३.२४ ॥
न तु पापीयसो जीवनम् ॥ १३.२५ ॥
तुशब्दो विशेषार्थः एतज् ज्ञापयति – अवश्यम्भाव्यनृतवचने दोषः, तथापि तु वधनिमित्तात् सत्याद् अनृतम् एव विशिष्टम् अल्पतरदोषत्वाद् इति । तथा च मनुः ।
शूद्रविट्क्षत्रविप्राणां यत्रोक्तार्थं भवेद् वधः ।
तत्र वक्तव्यम् अनृतं तद् धि तत्र विशिष्यते ॥ इति । [म्ध् ८.१०४]
तद् एवं मन्येत – जीवन्न् अप्य् अयं पापकर्मरतिर् एव भवति स्तेयाद्य् एव करोतीति तदा सत्यम् एव वक्तव्यम् इत्य् अभिप्रायः । पापीयस इत्य् आतिशायनिकप्रत्ययनिर्देशः । परपीडा कर्तव्येव सत्यं वक्तव्यम्, न विहिताकरणमात्रे प्रतिषिद्धकरणमात्रे वेति ॥ १३.२५ ॥
उक्ताः साक्षिणः, केन प्रष्टव्या इत्य् अत आह ।
राजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित् ॥ १३.२६ ॥
पृच्छतीति प्राट् । पृष्टं विवेक्तीति विवाकः । पृच्छति वा असौ विवादिनः58 साक्षिणो वा यद्59 उक्तं तं विचारयतीति प्राड्विवाकः । स राजैव भवेत्, श्रान्ते तस्मिन्न् अन्यकर्मप्रवृत्ते ब्राह्मणो वा शास्त्रविद् बहुश्रुत इत्य् अर्थः । तथा च मनुः ।
यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम् ।
तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शिनम् ॥ [म्ध् ८.९]
इति ॥ १३.२६ ॥
एवम् उक्तलक्षणम् ।
प्राड्विवाकम् अध्याभवेत् ॥ १३.२७ ॥
अधि आभवेत् उपर्य् एनं गच्छेद् इत्य् अर्थः । इदम् अपि ब्राह्मणपक्षे, राज्ञस् तु “तम् उपर्य् आसीनम् अधस्ताड् उपासीरन्” [ग्ध् ११.७] इत्य् उक्तत्वात् । तम् अध्याभवेद् इति सिद्धे प्राड्विवाकग्रहणं नियमार्थम्, तम् एवोपरिस्थं गच्छेन् न सहायम् अपि60 । आङ्ग्रहणम् अर्थिनम् एव परिच्छेदयेन् न पुनर् उत्पादयेद् इति । तथा च मनुः- “नोत्पादयेत् स्वयं कार्यम्” [म्ध् ८.४३] इत्यादि ॥ १३.२७ ॥
संवत्सरं प्रतीक्षेताप्रतिभायाम् ॥ १३.२८ ॥
यदाभियुक्तस्यार्थिनः साक्षिणां वा प्रतिभानं न भवति अप्रतिपत्तिर् भवति तदा संवत्सरं तेषां प्रतीक्षेत । संवत्सराद् ऊर्ध्वं यथाप्रतिभं परिच्छेदयेद् इत्य् अर्थः
॥ १३.२८ ॥
अस्यापवादः ।
धेन्वनडुत्स्त्रीप्रजननसंयुक्ते च शिघ्रम् ॥ १३.२९ ॥
धेन्वादिसम्बन्धे व्यवहारे न संवत्सरं प्रतीक्षेत, कालक्षेपे धेन्वाद्युपभोगकालो ऽतीतो भवतीति । धेनुः सक्षीरा गौः । अनड्वान् बलीवर्दः, असाव् अपि संवत्सरभोगेन जीर्यतीति । स्त्रीप्रजननसंयुक्ते ऽपि च, संयुक्तग्रहणस्य प्रत्येकम् अभिसम्बध्यमानत्वात् । स्त्रीप्रजननं कन्याविवाहः, संवत्सरप्रतीक्षणे तस्यापि कालातिक्रमो भवतीति । विवाह इति वक्तव्यम् इति चेन्, न प्रजननयोग्यग्रहणार्थत्वात् । एवं चासमर्थायाः संवत्सरप्रतीक्षणे ऽपि न दोषः । स्त्रीग्रहणं सवर्णजात्युपसङ्ग्रहार्थम् । ततश् चासवर्णायां प्रतीक्षणं कर्तव्यम् इति सूचयति । चकारः प्रत्येकम् इति सूचनार्थः । धेनुसंयुक्ते अनडुत्संयुक्ते इत्यादि, मा भूत् समुदितानाम् एव विषय इति । शीघ्रग्रहणं सवर्णजात्युपसङ्ग्रहार्थम् ॥ १३.२९ ॥
आत्ययिके च । १३.३० ॥
शीघ्रं निर्णयं कुर्याद् इत्य् अर्थः । अत्ययकर्म61 यथा सार्धम् उक्तस्य सार्धो गच्छति, म्रियमाणावस्थो वान्यतरो भवति, ग्रामोपप्लवो वा भवतीत्यादि । अत्ययवशात् धेन्वादियुक्ताद् अपि पूर्वं विचारणीयम् इति पृथक् करणम् । चशब्दः स्तेयसाहसदण्डपारुष्याद्युपसङ्ग्रहणार्थः । तथा च स्मृत्यन्तरम् ।
साहसस्तेयपारुष्यगोऽभिशापात्ययस्त्रियाम् ।
विवादयेद् सद्य एव कालो ऽन्यत्रेच्छया स्मृतः ॥ [य्ध् २.१२]
इति ॥ १३.३० ॥
सर्वधर्मेभ्यो गरीयः प्राड्विवाके सत्यवचनं सत्यवचनम् ॥ १३.३१ ॥
सर्वधर्मेभ्यः श्रुतिस्मृत्युपदिष्टेभ्यो धर्मसाधनेभ्यो गुरुतरं प्राड्विवाके व्यवहारद्रष्टरि यथाभूतार्थदर्शित्वम् इत्य् अर्थः । प्राड्विवाके वा सन्निहिते साक्ष्यादीनां यत् सत्यवचनम् इति ॥ १३.३१ ॥
इति मस्करीये गौतमभाष्ये त्रयोदशो ऽध्यायः
चतुर्दशो ऽध्यायः
विहिताकरणे दण्डप्रायश्चित्ते उक्ते । कस्मिन् काले विहितम् अकुर्वतो नेष्येते इत्य् अत आह ।
शावम् आशौचं दशरात्रम् अनृत्विग्दीक्षित-ब्रह्मचारिणां सपिण्डानाम् ॥ १४.१ ॥
शवनिमित्तो ऽशुचिभावो दशाहोरात्राणि भवति । केषां? सपिण्डानाम् । तत्स्वरूपं वक्ष्यति । ऋत्विगादिवर्जितानाम् । ऋत्विग् याजकः प्रवृत्तकर्मात्र गृह्यते दीक्षितसाहचर्यात् । यदि भूतपूर्वगतिर् इहाश्रीयते “ऋत्विक् श्वशुरः” इत्यादिवत्, दीक्षितब्रह्मचारिणोर् अप्य् एवं प्रसज्येत । ततश् च सर्वस्य भूतपूर्वगत्या ब्रह्मचारित्वाद् ऋत्विग्दीक्षितग्रहणम् अनर्थकं स्यात् । तस्मात् सर्व एव प्रवृत्तक्रिया गृह्यन्ते । दीक्षितो यजमानः । ब्रह्मचारी यावद् ब्रह्मचर्यम् । उपरिष्टात् क्षत्रियादीनाम् उपदेशाद् ब्राह्मणविषयम् इदम् । सूतकस्य वक्ष्यमाणत्वाद् आशौचं दशरात्रम् इत्य् उक्त एव शवनिमित्तस्य सिद्धे शावग्रहणं शवप्रभृति दिवसगणणा कर्तव्येत्य् एवमर्थम् ।
ननु च स्मृत्यन्तरे संस्कारप्रभृति श्रूयते-
अरण्ये काष्ठवत् त्यक्त्वा क्षिपेत् [क्षपेत्?] त्र्यहम् एव वा । [म्ध् ५.६९]
इति पूर्वकालक्रियायाम् । तथा “आहिताग्निश् चेत् प्रवसन् म्रियेत पुनः संस्कारं कृत्वा शववच् छौचम्” [वध् ४.३७] इति । तेनेदं विरुद्धम् इति ।
अत्रोच्यते – विषयविभागेनाविरोध इति । तथा व्याघ्रधर्मे विषयविभागप्रतिपादनपरं वाक्यं श्रूयते ।
मरणाद् एव कर्तव्यं संयोगो यस्य नाग्निभिः ।
दहनाद् एव कर्तव्यं यस्य वैतानिको विधिः ॥ इति ।
“पतितचण्डालसूतिकोदक्याशवस्पृष्टि” [ग्ध् १४.२९] इत्यनेन शवनिमित्ताशौचस्पर्शने स्नानविधानाद् एवाशुचिभावे सिद्धे । आशौचग्रहण्म् अध्ययनादेर् अप्य् अनधिकारार्थम् । तथा च मनुः ।
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो यज्ञः स्वाध्यायश् च निवर्तते ॥ इति ।
शावाशौचम् इति वक्तव्ये शावम् आशौचम् इति विसमासकरणं शवाङ्गभूतानाम् अस्थ्नां यावत् सञ्चयनं तावद् एव परस्परस्पर्शणं प्रत्य् अशुचिभाव इति ज्ञापनार्थम् । तथा च संवर्तः ।
अस्थिसञ्चयनाद् ऊर्ध्वम् अङ्गस्पर्शो विधीयते । इति ।
अस्थिसञ्चयनस्वरूप्क़्ं स्मृत्यन्तराद् अवगन्तव्यम् । तथा च व्याघ्रः ।
प्रथमे च द्वितीये च तृतीये च चतुर्थके ।
अस्थिसञ्चयनं कुर्याद् बन्धुभिर् हितम् ईप्सुभिः ॥ इति ।
तत्र सद्यःशौचाधिकारिणां प्रथमे ऽह्नि, एकाहसम्बन्धिनां द्वितीये ऽह्नि, त्र्यहसम्बन्धिनां तृतीये ऽह्नि, चतुरहसम्बन्धिनां दशाहसम्बन्धिनां चतुर्थे ऽह्नीति द्रष्टव्यम् । तथा तत्रैवापरं वाक्यं श्रूयते ।
चतुर्थे पञ्चमे चैव सप्तमे दशमे तथा ।
अस्थिसञ्चयनं कुर्याद् वर्णानाम् आनुपूर्व्यशः ॥ इति ।
तत्र ब्राह्मणस्य चतुर्थे क्षत्रियस्य पञ्चमे वैश्यस्य सप्तमे शूद्रस्य दशम इति द्रष्टव्यम् । ब्राह्मणस्योक्तम्, एवं क्षत्रियवैश्ययोर् अपि वृत्तस्वाध्यायापेक्षया स्वल्पाशौचानां स्वल्पम् इत्य् अनेन न्यायेन कल्प्यम् इति । ब्रह्मचारिग्रहणं परिव्राजकादीनाम् अप्य् उपलक्षणम् । तथा च बृहस्पतिः ।
नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् ।
नाशौचं सूतके प्रोक्तं शावे चापि तथैव च ॥ इति ।
दीक्षितग्रहणं चान्द्रायणादौ प्रवृत्तानाम् अपि ग्रहणार्थम् । तथा च वसिष्ठः ।
न राज्ञाम् अघदोषो ऽस्ति व्रतिनां सत्रिणां तथा ।
ऐन्द्रस्थानम् उपासीनाः ब्रह्मपूता हि ते सदा ॥ इति । [वध् १९.४८]
“श्रुत्वा चोर्ध्वं दशम्याः” [ग्ध् १४.२४], “एकादशरात्रं क्षत्रियस्य” [ग्ध् १४.२] इति च लिङ्गाद् एव दशरात्रं ग्रहीतुं शक्यते । दशरात्रग्रहणं ब्राह्मणस्याशौचे क्षत्रियादेर् अपि दशरात्रम् एवेति नियमार्थम् । तथा च स्मृत्यन्तरम् ।
क्षत्रविट्छूद्रदायादा ये स्युर् विप्रस्य बान्धवाः ।
तेषाम् अशौचे विप्रस्य दशाहं सूतकं भवेत् ॥ इति ।
विप्रस्याशौचे प्राप्ते तेषां दशाहम् एवेति तत्रार्थः । मनुर् अपि ।
सर्वे तूत्तमवर्णानाम् आशौचं कुर्युर् आदृताः ।
तद्वर्णविधिदृष्टेन स्वं तु शौचं स्वयोनिषु ॥ इति ।
ब्राह्मणाशौचए तेषां दशाहोपदेशात् तेषाम् आशौचे विप्रस्य स्मृत्यन्तरोक्तं द्रष्टव्यम् । यथाह लोकाक्षिः ।
दशाहं शावम् आशौचं जन्महान्योः स्वयोनिषु ।
षट् त्रिर् एकं तथा प्रोक्तं क्षत्रविट्शूद्रयोनिषु ॥
इति ॥ १४.१ ॥
एकादशरात्रं क्षत्रियस्य ॥ १४.२ ॥
ऋत्विग्दीक्षितब्रह्मचारिवर्जितानां सपिण्डानां शावम् आशौचम् इति वर्तते ॥ १४.२ ॥
द्वादशरात्रं वैश्यस्य ॥ १४.३ ॥
पूर्ववत् अनुवर्तते ॥ १४.३ ॥
अर्धमासम् एके ॥ १४.४ ॥
पञ्चदशाहम् इत्य् एके । वृत्तस्वाध्यायापेक्षया विकल्पो द्रष्टव्यः । एवं च ब्राह्मणादीनाम् अपि वृत्तस्वाध्यायापेक्षास्तीति गम्यते । तथा च पराशरः ।
एकाहाच् छुद्यते विप्रो यो ऽग्निवेदसमन्वितः ।
त्र्यहात् केवलवेदस् तु निर्गुणो दशभिर् दिनैः ॥ इति । [पार्स्म् ३.५]
तथा च मनुर् अपि ।
दशाहं शावम् आशौचं सपिण्डेषु विधीयते ।
अर्वाक् सञ्चयनाद् अस्थ्नां त्र्यहम् एकाहम् एव वा ॥ इति । [म्ध् ५.५९]
अत्र अर्वाक् सञ्चयनाद् इति चतुरहोपलक्षणम् । एकगुणयोगे चतुरहेणैव शुद्धिः, द्विगुणयोगे त्र्यहेण, सर्वगुणयोगे त्व् एकाहेन । सर्वगुणयोगे सति वृत्तिसङ्कोचो ऽपि भवति तदा सद्यःशौचम् इति भाष्यकृता व्याख्यातम् । तथा क्षत्रियस्यापि वाक्यचतुष्टयम् आरभ्यते – “एकादशरात्रेण” [ग्ध् १४.२] इति गौतमः । “पञ्चदशरात्रेण” [वध् ४.२८] इति वसिष्ठः । “द्वादशरात्रेण” [य्ध् ३.२२] इति याज्ञवल्क्यः । “दशरात्रेण” इति पराशरः । ब्राह्मणस्य दशरात्रवत् क्षत्रियस्यापि पञ्चदशाह एव नित्यः । तत्रैकगुणयोगे द्वादशरात्रम्, द्विगुणयोगे एकादशरात्रम्, सर्वगुणयोगे दशाहम्, निर्गुणस्य पञ्चदशाहः । तथा वैश्यस्यापि – एकगुणयोगे “अर्धमासम् एके” इत्य् अर्धमासः, द्विगुणयोगे “द्वादशरात्रं वैश्यस्य” इति द्वादशाहः, सर्वगुणयोगे पराशरोक्तम् एकादशरात्रम्, निर्गुणस्य विंशतिरात्रं वसिष्ठेनोक्तम् । तद् एव नित्यम् इत्य् एवं कल्पना द्रष्टव्या ॥ १४.४ ॥
मासं शूद्रस्य ॥ १४.५ ॥
अस्य दीक्षाद्यभावात् सपिण्डानाम् इत्य् एव । वृत्ताद्यभावाच् चैतद् एव । असच्छूद्रविषयं चेदम्, “सच्छूद्राणाम् अर्धमासम्” इत्य् औशनसवचनात् ॥ १४.५ ॥
तच् चेद् अन्तः पुनर् आपतेच् छेषेण शुध्येरन् ॥ १४.६ ॥
तद् एव समानजातीयमरणे मरणम्, जनने जननम् इति द्रष्टव्यम्,62 तद्ग्रहणात् । पुनः भूयो ऽपि अनेकशो ऽपीत्य् अर्थः । आपतेद् आगच्छेत् । ततः पूर्वाशौचावशिष्टेनैव कालेन शुद्धिः स्यात् नागतस्य कालप्रतीक्षणं कर्तव्यम् इत्य् अर्थः । अन्तर्ग्रहणं विस्पष्टार्थम् “शेषेण शुध्येरन्,” [ग्ध् ६.७] “रात्रिशेषे द्वाभ्याम्, प्रभाते तिसृभिः” [ग्ध् १८.८] इत्य् एतैर् एव मध्यमस्य ज्ञातुं शक्यत्वात् ।
अन्ये तु “जनने ऽप्य् एवम्” [ग्ध् १४.१४] इत्य् अतिदेशाद् एव सिद्धे तद्ग्रहणं समानकालापेक्षम् आहुः । यथा दशरात्रप्रमाणाशौचे दशरात्रप्रमाणाशौचम् इति । यदि स्वल्पप्रमाणके महत्प्रमाणम् आगच्छति तत् पूर्वेण न गच्छेद् इति । तथा च पैङ्गिगृह्यस्मृतिः- “अघवृद्धौ पश्चिमेन समापयेत्” इति । अघवृद्धाव् इत्य् उक्तः अल्पाघं गच्छेद् एवेति द्रष्टव्यम् ॥ १४.६ ॥
रात्रिशेषे द्वाभ्याम् ॥ १४.७ ॥
यद्य् एकरात्र्यवशिष्टे पूर्वाशौचे तदन्यद् आपतेत् ततो न पूर्वेणैव शुद्धिः किं तु द्वाभ्यां रात्रिभ्याम् । एवं च त्रिरात्रं परिगृहीतं भवति ॥ १४.७ ॥
प्रभाते तिसृभिः ॥ १४.८ ॥
प्रभाते स्नानात् पूर्वम्, सङ्गवकालात् पूर्वम् इत्य् अर्थः, “अघभाजः सङ्गवे स्नात्वा ग्रामं प्रविशेयुः” इत्य् अर्थवाददर्शनात् । यद्य् आपतेत् ततो न रात्रिशेषेण शुद्धिः । किं तु तिसृभिः रात्रिभिः ॥ १४.८ ॥
गोब्राह्मणहतानाम् अन्वक्षम् ॥ १४.९ ॥
गवार्थे ब्राह्मणार्थे वा हतानां यावद् दर्शनम् आशौचम् । सद्यः शौचम् इत्य् अर्थः । तथा च मनुः ।
गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥ इति । [म्ध् ५.९५]
सद्यःशौचाधिकारे इदम् उक्तम् । गोब्राह्मणहतानाम् अन्यतरप्रमापितानां वा । तथा च उशना- “गोभिर् हतानां ब्राह्मणेन हतानां च सद्यःशौचम्” इति ॥ १४.९ ॥
राजक्रोधाच् चायुद्धे ॥ १४.१० ॥
अन्वक्षम् इति वर्तते । चशब्दो ऽपिशब्दस्यार्थे, भिन्नक्रमश् च । राजक्रोधाद् अयुद्धे ऽपीति । अपिशब्दात् युद्धे ऽपि । तथा च मनुः ।
उद्यतैर् आहवे शस्त्रैः क्षत्रधर्महतस्य तु ।
सद्यः सन्तिष्ठते यज्ञस् तदाशौचम् इति स्थितिः ॥ इति । [म्ध् ५.९८]
चशब्दः समुच्चयार्थो वा । ततश् च य राजा क्रोधात् घातयेद् अयुद्धे तस्य सद्यःशौचम् । युद्धे अक्रोधेनापि हतस्येति ।
केचिद् एवं व्याचक्षते – राजक्रोधाद् धतानां युद्धे ऽपि जनपदक्षोभादिभिः हतानाम् इति । तथा च मनुः ।
डिम्बाहवहतानां च विद्युता पार्थिवेन च । इति । [म्ध् ५.९५]
अन्ये तु विवाहकालम् आहुः । अयुद्धे राजक्रोधाद् धतानां सद्यःशौचम्, विवाहकाले च सद्यःशौचम् इति । तथा च बृहस्पतिः ।
कृच्छ्रे विवाहे यज्ञे च सङ्ग्रामे देशविप्लवे ।
आपद्य् अपि च कष्टायां सद्यःशौचं विधीयते ॥
इति ॥ १४.१० ॥
प्रायानाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश् चेच्छताम् ॥ १४.११ ॥
अन्वक्षम् इति वर्तते । बुद्धिपूर्वं प्रायादिभिर् आत्मानं व्यापदयतां सद्यःशौचम् । प्रायः महाप्रस्थानम् । तद् अनिच्छतो ऽपि राजभयादिना सम्भवतीति इच्छताम् इत्य् उक्तम् । अनाशक अभोजनम्, एतद् अपि दुर्भिक्षादाव् अनिच्छतो ऽपि सम्भवतीति । शस्त्रं खड्गादि, तत्रापि प्रमादात् सम्भवत्य् एव । उद्बन्धनं रज्ज्वादिना, अत्रापि परिहासादिना अनिच्छतो ऽपि सम्भवति । प्रपतनं पर्वताद् वृक्षाद् वा, तत्रापि दैवाद् अबुद्धिपूर्वम् अपि सम्भवत्य् एव । एवं चाबुद्धिपूर्वम् एतैर् मृतानां यथाप्राप्तम् एवेति द्रष्टव्यम् । चकाराद् अन्यैर् अप्य् एवम्भूतैर् आत्माहननहेतुभिर् इति द्रष्टव्यम् ॥ १४.११ ॥
इदानीं सपिण्डस्वरूपम् आह ।
पिण्डनिवृत्तिः सप्तमे पञ्चमे वा ॥ १४.१२ ॥
षट्पुरुषान् अतीत्य सप्तमे प्राप्ते । पित्रादिभ्यस् त्रिभ्यः पिण्डदानम् । तेषु जीवत्सु येभ्यः पिता ददाति तेभ्य एव पुत्रो ऽपीत्य् अपरेभ्यस् त्रिभ्य इति षट्पुरुषा पिण्डसम्बन्धिनः । यदा जीवपितृकस्य “न जीवन्तम् अति ददाति” इत् जीवपिता पितामहाय प्रपितामहायेति दद्याद् इत्य् आश्रीयते तदा पञ्चमे निवृत्तिः । स्त्रीणाम् अप्य् एतत् तुल्यं पितृपक्षे वा सप्तमे निवृत्तिः । मातृपक्षे पञ्चम इति ॥ १४.१२ ॥
जनने ऽप्य् एवम् ॥ १४.१३ ॥
दशाह एव अतिदिश्यते । अन्यथा मातुर् अपि सद्यःशौचं प्राप्नोति । तद् आचारेण विरुध्यते, गृह्यस्मृत्या च “दशरात्रं दम्पती सूतकिनौ भवतः” इति । ततः यद् एव शाव उपदिष्टं दशरात्रं तत् सपिण्डानां सर्वेषां भवतीति प्रतिपत्तव्यम् । तथा च मनुः ।
दन्तजाते ऽनुजाते च कृतचौले च संस्थिते ।
अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ इति । [म्ध् ५.५८]
तथा व्याघ्रो ऽपि ।
सूतके तु सपिण्डानां पित्रोर् वा मातुर् एव वा ।
आशौचं दशरात्रं स्यात् त्र्यहं तोयप्रदायिनाम् ॥ इति ।
तत्रापि दीक्षितादिवर्जनं द्रष्टव्यम् । अपिशब्दात् “तच् चेद् अन्तः पुनर् आपतेत्” [ग्ध् १४.६]
इत्यादि ॥ १४.१३ ॥
मातापित्रोस् तत् ॥ १४.१४ ॥
मातापित्रोर् वा सूतकम् इति । उपरितनवाशब्दो ऽत्राप्य् अध्याहर्तव्यः । तथा च वसिष्ठो ऽप्य् अत्रैव वाशब्दम् उक्तवान्- “मातापित्रोर् वा तन्निमित्तत्वात्” [वध् ४.२१–२२] इति ॥ १४.१४ ॥
मातुर् वा ॥ १४.१५ ॥
तस्यैव वा जातस्य मातुर् न सपत्न्या इत्य् अर्थः । व्यवस्थितविकल्पो ऽत्र द्रष्टव्यः – यदि सर्वे वृत्तहीनास् तदानीं सर्वेषां सूतकं स्यात् । यदि सर्वे वृत्तवन्तः पिता वृत्तहीनः तदा पित्रोः । यदा पिता च वृत्तवान् सङ्कोचवृत्तिश् च तदा मातुर् एवेति । यदि तु पिता अग्निहोत्री सङ्कोचवृत्तिर् न भवति तदा उपस्पृश्याग्निहोत्रं हुत्वा पुनर् आशौचं गृह्णीयाद् इति ॥ १४.१५ ॥
गर्भमाससमा रात्रीः स्रंसने गर्भस्य ॥ १४.१६ ॥
गर्भस्रंसने तु यावान् मासो गर्भस् तावन्त्य् अहोरात्राणि भवन्ति । आ पञ्चमान् मासात् गर्भस्रंसनम्, अत ऊर्ध्वं तु गर्भपतनम् इति वेदितव्यम् । कुतः? “तस्मात् पञ्चमे मासि गर्भा विक्रियन्ते” इति ब्राह्मणलिङ्गात् । ततश् च यावन्मासो गर्भः स्रंसते तत्तुल्यान्य् अहोरात्राणि भवन्तीत्य् अर्थः ॥ १४.१६ ॥
त्र्यहं वा ॥ १४.१७ ॥
द्वैमासिकत्रैमासिकगर्भस्रंसने त्र्यहम्, ऊर्ध्वं तु मासतुल्यम् इत्य् व्यवस्था द्रष्टव्या । पतने ऽपि मासतुल्यम् एवाशौचं द्रष्टव्यम्, “गर्भे तन्माससमम् अहर् आशौचम्” इति पैङ्गिगृह्यवचनात् । आशौचं मातुर् एव, तदधिकारात् । तथा च देवगृह्यवचनम्- “गर्भस्थे प्रेते मातुर् एव स्याद् आशौचम्” इति । मासतुल्यन्यायेनैव जननोत्तरकालं मृतस्यापि दशरात्रं सिद्धम् । गर्भस्थे प्रेते मातुर् एवेत्य् एवकारात् जननोत्तरकालं पित्रोर् भवतीति गम्यते । तथा च व्याघ्रः ।
बाले मृते सपिण्डानां सद्यःशौचं विधीयते ।
दशाहेनैव दम्पत्योः सोदराणां तथैव च ॥ इति ।
सोदराणां दशाहग्रहणं नामकरणाद् ऊर्ध्वम् एव द्रष्टव्यम् । तथा च पैङ्गिगृह्यस्मृतिः- “गर्भस्थे प्रेते मातुर् एव स्याद् आशौचं जात उभयोः । कृतनाम्नि सोदराणां च । अकृतनाम्न्य् अपीत्य् एके । दन्तजाते कृतचूडे सर्वेषाम्” इत्यादि । दन्तजाते कृतचौले सर्वेषां द्वादशपुत्राणां दशाह इत्य् एव द्रष्टव्यम् । “माससमा रात्रीः स्रंसने गर्भस्य” [ग्ध् १४.१६] इत्य् एव सिद्धे गर्भग्रहणं गर्भसन्निकृष्टाया मातुर् एवेदम् आशौचम् इति नियमार्थम् ॥ १४.१७ ॥
श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् ॥ १४.१८ ॥
दशमीग्रहणं सर्वाशौचप्रदर्शनार्थम् । पक्षिण्य् अहर्द्वयमध्यगता रात्रिः, रात्रिद्वयमध्यगतम् अहर् वा । सपिण्डजननं मरणं वा श्रुत्वा पक्षिण्य् आशौचं भवति । चशब्दात् “समेत्य चाकृतचौलानां तिसृभिः” इत्य् उक्तत्वात्, कृतचौलानाम् इदं द्रष्टव्यम् । तत्रापि चतुरहसम्बन्धिनाम् इदं द्रष्टव्यम् । त्र्यहसम्बन्धिनां तु “देशान्तरस्थे प्रेते ऊर्ध्वं दशाहाच् छ्रुत्वा एकरात्रम् आशौचम्” [वध् ४.३६] इति वसिष्ठोक्तं द्रष्टव्यम् । एकाहसम्बन्धिनां तु “बाले देशान्तरस्थे” इत्य् अनेन सद्यःशौचम् । दशाहसम्बन्धिनां तु,
अतिक्रान्ते दशाहे तु त्रिरात्रम् आशुचिर् भवेत् । [म्ध् ५.७६]
इति मनुनोक्तं त्र्यहं द्रष्टव्यम् । सर्वेषाम् ऊर्ध्वं संवत्सरात् स्नानम् एव,
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति । [म्ध् ५.७६]
इति मनुवचनात् ॥ १४.१८ ॥
असपिण्डे योनिसम्बन्धे सहाध्यायिनि च ॥ १४.१९ ॥
असपिण्डः समानोदकः । तस्मिन् मृते समानोदकानां पक्षिणी । इदम् अपि चतुरहसम्बन्धिनः । एकाहसम्बन्धिनस् तु सध्यःशौचम् । “बाले देशान्तरस्थे” इत्य् अनेन त्र्यहम् असम्बन्धिन एकाहः कल्प्यः । दशाहसम्बन्धिनः “त्र्यहात् तूदकदायिनः” [म्ध् ६४] इति त्र्यहम् इत्य् एव द्रष्टव्यम् । योनिसम्बन्धिनः मातुलमातृभागिनेयपैतृष्वस्रेयाः । तेषु मृतेषु पक्षिणी । तथा सहाध्यायिनि च । सहाध्यायी एकोपाध्यायकः । चशब्दात् सुहृदि च ॥ १४.१९ ॥
सब्रह्मचारिण्य् एकाहम् ॥ १४.२० ॥
सब्रह्मचारी समानचरणः, तस्मिन् मृते एकाहोरात्रम् आशौचं गृह्णीयाद् इत्य् अर्थः, सर्वत्र गृह्णीयाद् इत्य् अध्याहारात् ॥ १४.२० ॥
श्रोत्रिये चोपसम्पन्ने ॥ १४.२१ ॥
एकां रात्रिं गृह्णीयाद् इति वर्तते । श्रोत्रिये षडङ्गवेदाध्यायिनि उपसम्पन्ने ज्ञानानुष्ठानसम्पदुपेते असब्रह्मचारिण्य् अपि । उपसम्पन्नो वा केनचित् कारणेन आश्रितः समीपपाठी वा । चशब्दाद् राजनि च ॥ १४.२१ ॥
प्रेतोपस्पर्शने दशरात्रम् आशौचम् अभिसन्धाय चेत्
॥ १४.२२ ॥
प्रेतस्य मृतस्य उपस्पर्शने निर्हरण इत्य् अर्थः । उपशब्दप्रयोगान् न स्पर्शनमात्रे । दशरात्रम् आशौचम्, अभिसन्धाय चेद् यदि दृष्टम् अङ्गीकृत्य स्पृशति, न धर्मार्थकामतो वा । संसर्गमात्रम् अत्राशौचम्, न तु वक्ष्यमाणम् “अधःशय्यासनिनः” [ग्ध् २.२७] इत्यादि, आशौचाधिकारे पुनर् आशौचग्रहणात् । अत्रैव विषयविभागः प्रतिपत्तव्यः – सपिण्डानां मध्ये यः कश्चिद् वहति संस्कर्ता वा भवति तस्य विशेषो नास्ति तत्प्रतिपादकवचनाभावात् । समानोदकानां तु दशरात्रम्,
अह्ना चैकेन रात्र्या च त्रिरात्रैर् एव च त्रिभिः ।
शवस्पृशो विशुध्यन्ति त्र्यहात् तूदकदायिनः ॥ [म्ध् ५.६४]
इति मनुवचनात्, समानोदकानां ये प्रेतनिर्हरणं कुर्वन्ति संस्कारं वा कुर्वन्ति तेषां दशरात्रम् आशौचम् इतरेष्ं त्रिरात्रम् इति भाष्यकृता व्याख्यातत्वात् । ये च समानोदकेभ्यो ऽन्ये तेषाम् अपि मनुनोक्तं द्रष्टव्यम् ।
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ॥
यद्य् अन्नम् अत्ति तेषां यः स दशाहेन शुध्यति ।
अनदन्न् अन्नम् अह्नैव न च तस्मिन् गृहे वसेत् ॥ इति । [म्ध् ५.१०१–१०२]
अत्र शवनिर्हरणं संस्कारं वा कृत्वा कटकरणं च करोति तदन्नं वाश्नाति चेद् दशाहः । कटकरणमात्रम् एव कृत्वा तद् अन्नं नाश्नाति चेत् त्र्यहः । कटकरणं च न करोति तद्गृहे च वसति चेद् अहोरात्रम् । ग्रामं च न प्रविशति अह्नैवेति एवकारात् सज्योतिर् भवति । सपिण्डम् असपिण्डं वा दृष्टार्थम् अङ्गीकृत्य वहति तस्येदं सूत्रं विज्ञेयम् इति । ब्राह्मणस्य ब्राह्मणस्पर्शन एवैतत्, वैश्यशुद्रयोः पृथगारम्भात् । क्षत्रियस्यापि क्षत्रियोपस्पर्शने आत्मीयम् एव, आद्यन्ताभिधाने मध्यप्रसिद्धेः ॥ १४.२२ ॥
उक्तं वैश्यशूद्रयोः ॥ १४.२३ ॥
समानजातीयप्रेतोपस्पर्शने आत्मीयम् एव नित्यत्वेनोपात्तम् आशौचं भवतीत्य् अर्थः ॥ १४.२३ ॥
आर्तवीर् वा ॥ १४.२४ ॥
ऋतुसमानसङ्ख्या वा रात्रीर् वैश्यशुद्रयोर् आशौचम् । षड् वेति वक्तव्ये आर्तवीग्रहणं पञ्चर्तवो भवन्तीति ज्ञापनार्थम् । तत्र शूद्रस्य षट्, वैश्यस्य पञ्चेति द्रष्टव्यम् । तत्र वैश्यस्य वृत्तवतः पञ्च अवृत्तवतः आत्मीयम् । शूद्रविषये ऽपि सच्छूद्रस्य वृत्तवतः षट् इतरस्यार्धमासम्, असच्छूद्रस्य वृत्ताभावात् मासम् एवेति द्रष्टव्यम् ॥ १४.२४ ॥
पूर्वयोश् च ॥ १४.२५ ॥
पूर्वयोर् ब्राह्मणक्षत्रिययोर् आर्त्वीर् वा पूर्वोक्तं वा । विकल्पानुकर्षणार्थश् चकारः ॥ १४.२५ ॥
त्र्यहं वा ॥ १४.२६ ॥
पूर्वयोर् इति वर्तते । तत्र ब्राह्मणस्यावृत्तवतो दशरात्रम्, वृत्तवतः पञ्च, आहिताग्नेस् त्र्यहम्, एवं क्षत्रियस्यापि कल्प्यम् इति ॥ १४.२६ ॥
आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् ॥ १४.२७ ॥
आचार्ये तत्पुत्रे तत्पत्न्यां च प्रेतायां याज्ये शिष्ये च मृते । चशब्दाद् आचार्याचार्ये । एवंशब्देन त्र्यह एवैको ऽतिदिश्यते, “आचार्ये च प्रेते त्रिरात्रम्” [वध् १३.३९] इत्यादिवसिष्ठस्मृतिदर्शनात्
॥ १४.२७ ॥
पूर्वं समानजाताव् उक्तम् । असमानजातौ तु ।
अवरश् चेद् वर्णः पूर्वं वर्णम् उपस्पृशेत् पूर्वो वावरं तत्र शवोक्तम् आशौचम् ॥ १४.२८ ॥
अवरो जघन्यः क्षत्रियादि । वर्णग्रहणं प्रतिलोमसंसर्गे नाशौचमात्रम् । किं तर्हि? प्रायश्चित्तम् अपि भवतीति । यद्य् अप्य् अनुलोमा अपि न वर्णशब्दवाच्याः, तथापि “प्रतिलोमास् तु धर्महीनाः” [ग्ध् ४.२५] इति प्रतिलोमानाम् एव धर्महीनत्वाद् अनुलोमानां मातृवत् कल्प्यम् इति । पूर्वं वर्णं ब्राह्मणादिं तम् उपस्पृशेत् वहेत्, उपशब्दप्रयोगात् । पूर्वो वा अवरं क्षत्रियादिम् । तत्र परस्परवहने यच् छाव उक्तम् आशौचं तद् एव भवति । तथा क्षत्रियस्य ब्राह्मणस्पर्शने दशरात्रम् । तथा ब्राह्मणस्य क्षत्रियस्पर्शने पञ्चदशाह इति । एवं सर्वत्र । आशौचाधिकारे पुनर् आशौचग्रहणं तद्वद् आशौचार्थम्, न पुनः स्वाध्यायाद्यभावमात्रम् इति । शावाशौचम् इति वक्तव्ये उक्तग्रहणं भोजनादिव्यवहारे ऽपि तदाशौचप्रवेशार्थम् । एवं च “अनिर्दशाहे पारशवे” [वध् ४.३२] इत्यादि यत् स्मृत्यन्तरे प्रायश्चित्तं श्रूयते तदा शौचोत्तरकालं द्रष्टव्यम् । अत्रोक्तम् आशौचम् इति वक्तव्ये शवग्रहणं शवनिमित्तस्य सर्वस्यानुप्रवेशार्थम् । ततः दृष्टार्थम् अङ्गीकृत्य परस्परवहने स्मृत्यन्तरोक्तं द्रष्टव्यम् । तथाह व्याघ्रः ।
अवरश् चेद् वरं वर्णं अवरं वा वर्यो यदि ।
वहेच् छववद् आशौचं दृष्टार्थे द्विगुणं भवेत् ॥ इति ।
तथादृष्टार्थे ऽपि ।
अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे यज्ञफलम् आनुपूर्व्याल् लभन्ति ते ॥
इत्यादि । शवोक्तम् आशौचम् इति वक्तव्ये तत्रग्रहणं वृत्तस्वाध्यायापेक्षोक्तम् आशौचं मा भूद् इति । एवं च यथा ब्राह्मणस्य दशाहो नित्यः, एवं क्षत्रियादीनाम् अपि पञ्चदशाहादयो वेदितव्याः । वहने यद् उक्तम् आशौचं तद् एव संस्कर्तर्य् अपि वेदितव्यम् । कुतः? औशनसे “संस्कर्ता चैव चोढा च त्रिरात्रेण विशुध्यति” इति समानोपदेशात् ॥ १४.२८ ॥
समानजाताव् असमानजाताव् अपि शववहननिमित्ताशौचम् उक्तम् । बुद्धिपूर्वं तत्स्पर्शनमात्रे इदानीम् आह ।
पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेलोदकोपस्पर्शनाच् छुध्यते ॥ १४.२९ ॥
पतितो ब्रह्महादिः । चण्डालः उक्तलक्षणः । सूतिका प्रसूता असमाप्ताशौचकाला । उदक्या रजस्वला । शवग्रहणेन तन्निमित्तं सर्वम् उच्यते । यच् छवं ये च तदाशौचभाजः ये च कटकरणं कुर्वन्ति ये च वहन्ति ये अच् संस्कुर्वन्तीत्यादि । उपस्पर्शनशब्दः प्रत्येकम् अभिसम्बध्यते । पतितचण्डालसूतिकोदक्याशवोपस्पर्शने स्पृष्ट्युपस्पर्शने तत्स्पृष्ट्युपस्पर्शण इति । स्पृष्टी पतितादीनां साक्षात् स्प्रष्टा, तत्स्पृष्टी पतितादिस्पृष्टिस्प्रष्टा । उपशब्दो बुद्धिपूर्वार्थः । शवस्य बुद्धिपूर्वस्पर्शनम् अलङ्काराद्यर्थं केवलेच्छाया वा । समानजातीयशवम् असमानजातीयशवं वा विशेषाभावात् । अबुद्धिपूर्वे तु मानवोक्तं द्रष्टव्यम् । यथाह ।
दिवाकीर्त्यम् उदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥
इति द्वयोर् आशौचम् आम्नातम्, गौतमस् तु त्रयाणाम् अपीति । सचेलः सवस्त्रः उदकोपस्पर्शनात् । एवं च स्नानाद् इति वक्तव्यम् इति चेत्, नैष दोषः, पूर्वं दण्डवद् आप्लुत्य पुनर् यथावत् स्नायाद् इत्य् एवमर्थं “उदकोपस्पर्शनात्” इत्य् उक्तम् । सचेलम् उदकम् उपस्पृशेद् इति वक्तव्ये, उदकोपस्पर्शनाद् इत्य् उपादानं नैमित्तिकस्नाने ऽपि तर्पणानुप्रवेशार्थम् । तथा च भार्गवीयम् ।
नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानम् उच्यते ।
तर्पणं त्रिविधस्यापि प्रजापतिर् उवाच ह ॥ इति ॥ १४.२९ ॥
शुनश् च ॥ १४.३० ॥
उपस्पर्शने सचेल उदकोपस्पर्शनात् “शुध्येत्” इति वर्तते । स्पृष्टितत्स्पृष्टिनिवृत्त्यर्थं पृथग् ग्रहणम् । श्वग्रहणं सृगालादीनाम् अप्य् उपलक्षणार्थम् । चकाराद् अस्थि च, तद् अपि सस्नेहम् । यथाह मनुः ।
नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।
आचम्यैव तु निःस्नेहं गां स्पृष्ट्वा वीक्ष्य वा रविम् ॥ इति । [म्ध् ५.८७]
एतत् तु अबुद्धिपूर्वस्पर्शने । बुद्धिपूर्वे तु वसिष्ठ आह- “मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रम् आशौचम् अस्निग्धे त्व् अहोरात्रम्” [वध् २३.२४] इति । चकाराद् रक्तादि च ।
केचिच् छवानुगमनम् आहुः । तत्र सचेलस्नानं घृतप्राशनम् अपि द्रष्टव्यम् । तथाह मनुः ।
अनुगम्येच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव वा ।
स्नात्वा सचेलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥ इति । [म्ध् ५.१०३]
सर्वेषां स्वजातिविषय एवेदम् । क्षत्रियवैश्यानुगमने तु वसिष्ठोक्तं द्रष्टव्यम् । तथा चाह- “अस्निग्धे त्व् अहोरात्रं शवानुगमने चैवम्” [वध् २३.२५] इति । तत्र शवानुगमने त्रिरात्रैकरातयोर् अतिदेशः । ततश् च क्षत्रियानुगमने एकरात्रम्, वैश्यानुगमने पक्षिणीं शूद्रानुगमने त्रिरात्रं प्रायश्चित्तं च द्रष्टव्यम् । तथाह अङ्गिराः ।
प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः ।
नीयमानम् अनुगच्छेत् त्रिरात्रम् अशुचिर् भवेत् ॥
त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतम् प्राश्य विशुध्यति ॥ इति ।
क्षत्रियस्य वैश्यानुगमने वैश्यस्य शूद्रानुगमने च ब्राह्मणवत् कल्प्यम् । क्षत्रियस्य शूद्रागमने एकरात्रसहितं प्राणायामशतं द्रष्टव्यम् ॥ १४.३० ॥
यद् उपहन्याद् इत्य् एके ॥ १४.३१ ॥
एके तु यद् एवाङ्गम् उपस्पृशति श्वा तस्यैव प्रक्षालणम् इच्छन्ति । सो ऽस्य विकल्पः – उपरिकायस्पर्शने स्नानम्, अधःकायस्पर्शने तु प्रक्षालनम् इति द्रष्टव्यम् । तथा पक्षिस्पर्शे ऽपि । तथा जातूकर्णिः ।
ऊर्ध्वं नाभेः करौ मुक्त्वा यद् अङ्गं स्पृशते खगः ।
स्नानं तत्र विधातव्यं शेषे प्रक्षाल्य शुध्यति ॥ इति ।
एवं च श्वविषये ऽपि करवर्जं द्रष्टव्यम् ॥ १४.३१ ॥
उदकदानं सपिण्डैः कृतजटस्य ॥ १४.३२ ॥
अधिकारात् प्रेतस्य कृतजटस्य कृतचौलस्य सपिण्डैर् उदकं देयम् । न सर्वैर् अशुचिभिः । उदकक्रियाचोदनेनाशौचम् अपि द्रष्टव्यम्, “उदकक्रियाशौचं च” [वध् ४.९] इति वसिष्ठेन सहनिर्देशात् । यस्योदकक्रिया तस्याशौचम् अपि भवतीति तत्र सहनिर्देशस्य प्रयोजनम् । तद्वत् स्मृत्यन्तरात् त्रिरात्रं द्रष्टव्यम् । तथाह मनुः ।
निवृत्तचैलकानां तु त्रिरात्राच् छुद्धिर् इष्यते । इति । [म्ध् ५.६६]
क्षत्रियादीनाम् अप्य् एतत् तुल्यम् एव, विशेषाभावात् । एवं च वयोऽवस्थापेक्षया ये त्र्यहादयः आशौचविकल्पाः श्रूयन्ते ते ऽपि सर्वेषां तुल्यरूपेण द्रष्टव्याः, विशेषाभावाद् एव । एवं च ये वृत्ताद्यपेक्षया पञ्चदशाहादय परिकल्पिताः ते कृतोपनयने प्रमीते वेदितव्याः । तथा देशान्तराशौचं च । तथा च व्याघ्रः ।
तुल्यं वयसि सर्वेषाम् अतिक्रान्ते तथैव च ।
उपनीते तु विषमं तस्मिन्न् एवातिकालजम् ॥ इति ।
उक्ताद् असमाप्ताशौचकालात् प्राग् यत् श्रूयते “यच् छेषं दशरात्रस्य” [म्ध् ५.७५] इत्यादि, तद् उपनीतात् प्राग् अपि द्रष्टव्यम् । कृतजटस्य सङ्कारो ऽपि द्रष्टव्यः स्मृत्यन्तरात् । तथाह लोकाक्षिः ।
तूष्णीम् एवोदकं दद्यात् तूष्णीम् एवाग्निम् एव च ।
सर्वेषां कृतचूडानाम् अन्यत्रापीच्छया द्वयम् ॥ इति ।
एवं च कृतजटस्य नियमतो ऽग्निसंस्कारः उदकदानं च, अकृतचौलस्यानियम इति द्रष्टव्यम् । तथा च मनुः ।
नात्रिवर्षस्य कर्तव्या बान्धवैर् उदकक्रिया ।
जातदन्तस्य वा कुर्युर् नाम्नि वापि कृत् सति ॥ [म्ध् ५.७०]
इति ॥ १४.३२ ॥
तत् स्त्रीणां च ॥ १४.३३ ॥
तद् उदकदानम् अग्निसंस्कारसहितम्, तद्ग्रहणात् । स्त्रीणां च कर्तव्यम् । कृतजटानुकर्षणार्थश् चकारः । आशौचलाघवार्थं पृथग् ग्रहणम् । तत् स्मृत्यन्तराद् अवगन्तव्यम् । तत्र,
अप्रौढायां तु कन्यायां सद्यःशौचं विधीयते ।
इति प्राक् चौलकरणात् सद्यःशौचम् । प्रौढाशब्देन चूडाकरणम् उच्यते ।
अहस् त्व् अदत्तकन्यासु बालेषु च विशोधनम् । [य्ध् ३.२४]
इति चूडाकरणाद् ऊर्ध्वं प्रदानकालात् प्राक् एकाहः ।
स्त्रीणाम् असंस्कृतानां तु त्र्यहाच् छुद्ध्यन्ति बान्धवाः । [म्ध् ५.७२अब्]
इत्य् अनेन प्रदानकालाद् ऊर्ध्वम् अप्रत्तायाः त्रिरात्रम् इति ।
यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः । [म्ध् ५.७२च्द्]
इत्य् अत्र दण्डापूपिकया स्त्रीविषये पित्रोर् दशाह एव द्रष्टव्यः । सपिण्डविषये ऽपि त्रिपूरुषं द्रष्टव्यम्, “अप्रत्तानां तु स्त्रीणां त्रिपूरुषम्” [वध् ४.१८] इति वसिष्ठवचनात् ॥ १४.३३ ॥
एके प्रत्तानाम् ॥ १४.३४ ॥
उदकवाग्भ्यां प्रत्तानाम् अपि वरपक्षैर् एव कर्तव्यम् इत्य् एके मन्यन्ते । गौतमस् तु,
अद्भिर् वाचा च दत्तायाः म्रियेतादौ वरो यदि ।
अन्यस्मै विधिवद् देया यथा कन्या तथैव सा ॥
इति कन्यावद् इत्यतिदेशात् पित्रादिभिर् एव देयम् इति । तत्र पितृपक्षाभावे वरपक्षैः कर्तव्यम् इति द्रष्टव्यम् ॥ १४.३४ ॥
इदानीम् आशौचे कथं वर्तेयुर् इत्य् अत आह ।
अधःशय्यासनिनो ब्रह्मचारिणः सर्वे ॥ १४.३५ ॥
अधः भूमाव् एव शयीरन्, आसीरंश् च, मैथुनं च वर्जयेयुः, यावद् आशौचम् । सर्वग्रहणं समानोदकानाम् अप्य् एवम् इति ज्ञापनार्थम् ॥ १४.३५ ॥
न मार्जयीरन् ॥ १४.३६ ॥
उज्ज्वलवेषधारिणश् च न स्युर् इत्य् अर्थः । गात्रमलापकर्षणं वा वर्जयेयुः ॥ १४.३६ ॥
मांसं न भक्षयेयुर् आ प्रदानात् ॥ १४.३७ ॥
आ श्राद्ध्करणाद् आमिषं प्राणात्ययादाव् अपि न भक्षयेयुः ॥ १४.३७ ॥
प्रथमतृतीयपञ्चमसप्तमनवमेषूदकक्रिया
॥ १४.३८ ॥
प्रथमादिष्व् अहःसु सपिण्डैः कर्तव्यम्, पुत्रैस् तु प्रतिदिनम् इति द्रष्टव्यम् । क्रियाग्रहणं गृह्योक्तोदकदानविध्युपसङ्ग्रहणार्थम् । “पुत्राः प्रेताय सकृद् उदकं प्रोहन्ति” इत्यादि
॥ १४.३८ ॥
वाससां च त्यागः ॥ १४.३९ ॥
उदकदानकालधारितानां च वस्त्राणां त्यागः । अन्यानि धारणीयानीत्य् अर्थः । चशब्दात् केशादीनि च । तथा च स्मृत्यन्तरम् ।
द्वितीये ऽहनि कर्तव्यं क्षुरकर्म प्रयत्नतः ।
तृतीये पञ्चमे वापि सप्तमे वाप्रदानतः ॥ १४.३९ ॥
अन्ते त्व् अन्त्यानाम् ॥ १४.४० ॥
अन्ते नवमे अन्त्यानां शूद्राणां वाससां त्याग इत्य् अनुवर्तते । तुशब्दो विशेषार्थः । उदकदानं प्रथमादिषु कर्तव्यम् । वाससां त्यागः अन्त एवेति अन्त्यानाम् इति बहुवचनम् अनुलोमानां सव्यवहार्याणाम् अप्य् एवेम् एवेति ॥ १४.४० ॥
दन्तजन्मादि मातापितृभ्याम् ॥ १४.४१ ॥
दन्तजन्मप्रभृति नियमतो मातापितृभ्याम् उदकदानं कर्तव्यम् । एवं च तयोर् अपि प्राग् अनियम इति द्रष्टव्यम् ॥ १४.४१ ॥
बालदेशान्तरितप्रव्रजितासपिण्डानां सद्यःशौचम्
॥ १४.४२ ॥
बालः नामकरणात् प्राक् । ततश् च नामकरनाद् ऊर्ध्वं प्राग् दन्तजननात् स्मृत्यन्तरोक्तम् एकाह द्रष्टव्यम् ।
नॄणाम् अकृतचौलानाम् अशुद्धिर् नैशिकी स्मृता । इति । [म्ध् ५.६७]
दन्तजननाद् ऊर्ध्वं प्राक् चूडाकरणात् त्र्यहम् ।
अरण्ये काष्ठवत् त्यक्त्वा क्षपेयुः त्र्यहम् एव तु । इति । [म्ध् ५.६९]
देशान्तरे यो मृतः तस्मिन्न् एव काले न श्रूयते स देशान्तरितः । प्रव्रजितः नैष्ठिको वानप्रस्थः परिव्राजकश् च । तस्मिन् मृते असपिण्डानां सद्यःशौचम् इति । असपिण्डः समानोदकः, तस्य चोक्तो विषायः ॥ १४.४२ ॥
राज्ञां च कार्यनिरोधात् ॥ १४.४३ ॥
सद्यःशौचम् इति वर्तते । राज्ञाम् इति बहुवचनं राजसदृशानाम् अमात्यानाम् अपि ग्रहणार्थम् । चकाराद् यस्य चेच्छति । तथा च मनुः- “यस्य चेच्छति पार्थिवः” [म्ध् ५.९५] इति । कार्याम् रक्षणादि तस्य विरोधः असम्भवः ॥ १४.४३ ॥
ब्राह्मणस्य च स्वाध्यायानिवृत्त्यर्थं स्वाध्यायानिवृत्त्यर्थम् ॥ १४.४४ ॥
हेतुवचनं वृत्तस्वाध्यायापेक्षया आशौचं भवतीति ज्ञापनार्थम् । चकारात् क्षत्रियादेर् अपि स्वाध्यायनिमित्तप्रवेशार्थं प्रतिपादिताः विषयाः । द्विरुक्तिर् अध्यायपरिसमाप्त्यर्था
॥ १४.४४ ॥
इति मस्करीये गौतमभाष्ये चतुर्दशो ऽध्यायः
पञ्चदशो ऽध्यायः
अथ श्राद्धम् अमावाश्यायां पितृभ्यो दद्यात् ॥ १५.१ ॥
श्राद्धं पञ्चविधम्, यथाह व्याघ्रः ।
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं तथापरम् ।
पार्वणं चेति विज्ञेयं श्राद्धं पञ्चविधं स्मृतम् ॥ इति ।
तत्राहर् अहर् यत् क्रियते तन् नित्यम्, यथाह मनुः ।
दद्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।
पयोमूलफलैर् वापि पितृभ्यः प्रीतिम् आवहन् ॥ इति । [म्ध् ३.८२]
तथा तत्रैवोक्तम् ।
एकम् अप्य् आशयेद् विप्रं पित्रर्थं पाञ्चयज्ञिके ।
न चैवात्राशयेत् किञ्चिद् वैश्वदेवं प्रति दिव्जम् ॥ इति । [म्ध् ३.८३]
तथा च स्मृत्यन्तरम् अपि ।
ब्रह्मचर्यम् अनध्यायं मुक्त्वा श्राद्धं तु नैत्यकम् । इति ।
यद् उक्तं नैमित्तिकम् एकोद्दिष्टं एकम् एवोद्दिश्य क्रियमाणत्वाद् एकोद्दिष्टम्, यथाह कात्यायनः- “अथैकोद्दिष्टम् एको द्विजः एकं पात्रम् एकं पवित्रम् एको ऽप्य् अर्घ्यः एकः पिण्डो नावाहनं नाग्नौकरणम्” इति, तद् आशौचानन्तरम् आरभ्य सपिण्डीकरणात् प्राक् कर्तव्यम्, यथाह लौकाक्षिः-
एकोद्दिष्टं तु कर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवम् आद्यम् एकादशे ऽहनि ॥ इति ।
तथा व्याघ्रो ऽपि ।
एकादशे ऽह्नि कर्तव्यं त्रिपक्षे च तथैव च ।
षण्मासे च तथा कुर्याद् एकोद्दिष्टं प्रयत्नतः ॥ इति ।
ततः संवत्सरे परिपूर्णे सपिण्डीकरणं कर्तव्यम् । तथा च जातूकर्णिः ।
ततः संवत्सरे पूर्णे त्रिपक्षे वा तथैव च ।
सपिण्डीकरणं कुर्याद् अर्वाग् वृद्धिकरं भवेत् ॥ इति ।
त्रिपक्ष इति आहिताग्निविषयम् । कुतः? बृहस्पतिवचनात् । तथाह ।
अनन्तरम् अमावास्यां दशरात्रस्य चेद् भवेत् ।
सपिण्डीकरणं तत्र कुर्याद् एवाग्निमान् सुतः ॥
तदलाभे त्रिपक्षे तु सपिण्डीकरणं स्मृतम् ॥ इति ।
“त्रिपक्षे सपिण्डीकरणम्” इति जाबालौ श्रूयते श्रुतिर् इति । सपिण्डीकरणाद् ऊर्ध्वं सङ्क्रान्त्यादौ पिण्डत्रयनिर्वापेण श्राद्धं कर्तव्यम् । प्रतिसंवत्सरे विपन्ने अहन्य् एकोद्दिष्टं कर्तव्यम्63 । यथाह उशना ।
सङ्क्रान्त्याम् उपरागे च पर्वायनमहालये ।
त्रीन् पिण्डान् निर्वपेत् तत्र विपन्ने ऽह्न्य् एकम् एव तु ॥ इति ।
प्रतिसंवत्सरम् आग्रहायण्या ऊर्ध्वम् अष्टका कर्तव्या । तथाह गृह्यकारः- “ऊर्ध्वम् आग्रहायण्यास् त्रयोपरक्षास् तेषाम् एकैकस्मिन्न् एकैकाष्टका भवति शाकाष्टका मांसाष्टकापूपाष्टका” इत्यादि । तत्र काम्यं कामनया यत् क्रियते, यथा “एकादश्यां पुत्रकामः” इत्यादि । वृद्धिश्राद्धं नान्दीमुखम् । पार्वणम् नाम मासिश्राद्धम् । अथ वा पिण्डत्रयनिर्वापेण यद् यत् क्रियते अष्टकादि शेषं सर्वं तन्नैमित्तिकम् इति ।
अस्मिन् पञ्चविधे स्थिते – “अथ श्राद्धम् अमावास्यायां पितृभ्यो दद्यात्” । अथानन्तरं सपिण्डीकरणात् । कुतः? “अमावास्यायां पितृभ्यः श्राद्धं दद्याद्” इत्य् आरम्भात्, इदं मासिश्राद्धम् इति ज्ञातं शक्यत्वात्, स्मृत्यन्तरे सपिण्डीकरणाद् अर्वाक् मासिश्राद्धप्रतिषेधात् । यथाह बृहस्पतिः ।
सपिण्डीकरणाद् अर्वाक् पार्वणं यः करोति तु ।
क्रिमिर् भूत्वा श्वविष्ठायां पितृभिः सह मज्जति ॥ इति ।
एवं तर्हि सपिण्डीकरणाद् अर्वाग् यानि श्राद्धानि तान्य् एव वक्तव्यानीति चेत्, केषाञ्चित् तदभावसूचनार्थम् अनन्तरं पार्वणम् एव कर्तव्यम् इति । तथा च बृहस्पतिः ।
यतीनां तु मृतानां च क्रिया काचिन् न दृश्यते ।
अहन्य् एकादशे प्राप्ते पार्वणं तु विधीयते ॥
नैष्ठिकानां वनस्थानां मुक्तानां च तथैव च ।
सपिण्डीकरणं नोक्तं एकोद्दिष्टं तथैव च ॥ इति ।
श्राद्धम् इति कर्मनामधेयम्, अतिशयवच्छ्रद्धासाध्यत्वात् । श्रद्दधान एव हि प्रतिपद्यते, यथा “पुत्रैर् दत्तेनान्नेन यत्रतत्रस्थाः पितरस् तदुपभोगेन सुखम् आसते” इत्य् अर्थवाददर्शनात् । अमावास्यायाम्, सूर्याचन्द्रमसोः परस्मिन् सन्निकर्षे पितृभ्यः पितॄन् उद्दिश्य, बहुवचनात् पितामहप्रपितामहयोर् अपि देयम् ॥ १५.१ ॥
पञ्चमीप्रभृति वापरक्षस्य यथाश्राद्धम् ॥ १५.२ ॥
कृष्णपक्षस्य वा पञ्चम्या आरभ्य दद्यात् । यथाश्राद्धं यथाश्रद्धास्ति तथा कर्तव्यम् इत्य् अर्थः । अष्टकाश्राद्धं पञ्चमीप्रभृति दद्याद् इत्य् अभिप्रायः । अपरपक्षग्रहणम् अमावास्याधिकारात् पूर्वपक्षे मा भूद् इति ॥ १५.२ ॥
सर्वस्मिन् वा ॥ १५.३ ॥
सर्वस्मिन् वापरपक्षे प्रतिपत्प्रभृति वा कुर्याद् इत्य् अर्थः । प्रभूतद्रव्यस्यायं द्रष्टव्यः
॥ १५.३ ॥
द्रव्यदेशब्राह्मणसन्निधाने वा ॥ १५.४ ॥
द्रव्यस्य रजतादेः । तथा च व्याघ्रः ।
रजतं कालशाकं च खड्गमत्स्यामिषं मधु ।
आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः ॥ इति ।
देशस्य पुष्करादेः । यथाह व्याघ्रः ।
पुष्करेष्व् अक्षयं श्राद्धं कुरुक्षेत्रे तथैव च ।
नद्यां मधोदधौ चैव ह्रदे गोष्ठे गिरौ तथा ॥ इति ।
ब्राह्मणानां यतीनां पङ्क्तिपावनानाम् । यथा च व्यासह् ।
स्वधा च राजतं पात्रं दौहित्रः कुतपस् तिलाः ।
वस्त्रं च पावनीयानि त्रिदण्डी यतिर् एव च ॥ इति ।
सन्निधाने उपपत्तौ । पूर्वपक्षे वा कुर्याद् इत्य् अभिप्रायः ॥ १५.४ ॥
कालनियमः शक्तितः ॥ १५.५ ॥
यदा अस्य द्रव्यादेर् असम्भवो ऽत्यन्तं तदा ऊर्ध्वम् आग्रहायण्या इत्य् उक्तः कालनियमो नास्ति । यस्मिन् मासे अत्यन्तसम्भवस् तस्मिन्न् एव कर्तव्यम् इत्य् अभिप्रायः । द्रव्याद्यसम्भवे यथा पक्षविशेषो नास्ति तथा मासविशेषो ऽपि नास्तीत्य् अभिप्रायः । एवं चानेनैव न्यायेन तिथिनियमस्याप्य् अभावः प्रतिपादितः ॥ १५.५ ॥
सर्वदा च श्राद्धे ।
प्रकर्षेद् गुणसंस्कारविधीन् अन्नस्य ॥ १५.६ ॥
प्रकर्षेद् अतिशयेन कुर्यात्, अन्नस्य भक्ष्यभोज्यादेः, गुणान् जातिविशेषान् शाकापूपादीन् संस्कारान् सुसिद्धत्वसुरभित्वादीन् विधीन् दर्भतिलापसव्यत्वादीन् ॥ १५.६ ॥
नवावरान् भोजयेत् ॥ १५.७ ॥
सति सामर्थ्ये एवम् ॥ १५.७ ॥
अयुजो वा यथोत्साहं वा ॥ १५.८ ॥
अयुग्मान् यथोत्साहं यथासामर्थ्यम्, अर्वाग् नवभ्यः, पूर्वत्रावरग्रहणात्, ऊर्ध्वं नवभ्यः प्राप्त्यभावात् ।
ननु च अयुजो वेत्य् एव वक्तव्यम् । ततश् चोर्ध्वं नवभ्यो ऽप्रापितत्वात् ऊनप्रापणार्थ एवारम्भः स्यात् । ततश् चासामर्थ्यकृत एव विकल्पो भविष्यतीति यथोत्साहम् इत्य् अतिरिक्तम् ।
उच्यते – उत्साहे ऽपि सति सत्क्रियाद्यविरोधेन भोजयितव्यम् इति । यथाह वसिष्ठः ।
द्वौ दैवे पितृकार्ये त्रीन् एकैकम् उभयत्र वा ।
भोजयेत् सुसमृद्धो ऽपि न प्रसज्येत विस्तरे ॥
सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् ।
पञ्चैतान् विस्तरो हन्ति तस्मात् तं परिवर्जयेत् ॥ इति । [वध् ११.२७–२८]
देवाः विश्वेदेवाः तदङ्गभूताः । यथाह व्यासः ।
दक्षस्य दुहिता साध्वी विश्वा नाम प्रकीर्तिता ।
तस्याः पुत्रा महात्मानो विश्वे देवा महाबलाः ॥
क्रतुर् दक्षो वसुः सत्यः कालः काम्यः शुची रुचिः ।
पुरूरवाद्रवौ चेति विज्ञेयास् ते दशामराः ॥
इष्टिश्राद्धे क्रतुदक्षाव् अष्टक्यां कालकाम्यकौ ।
नान्दीमुखे वसुसत्यौ काम्ये चापि शुची रुचिः ॥
पुरूरवाद्रवौ चैव पार्वणे तु प्रकीर्तितौ ॥
आह्वयेन् नामतस् तेषां तत्र तत्र नियोगतः ॥ इति ।
तथा च स्मृत्यन्तरम् ।
देवाद्यन्तं भवेच् छ्राद्धं पित्राद्यन्तं न तद् भवेत् ।
पित्राद्यन्तं यदि भवेत् तद् वै रक्षांसि भुञ्जते ॥ इति ।
तथा भार्गवीयम् अपि ।
एक एव यदा विप्रो द्वितीयो नोपपद्यते ।
पितॄणां ब्राह्मणे योज्यं दैवं हस्ते नियोजयेत् ॥ इति ।
तथा च बृहस्पतिः ।
द्वौ दैवे ऽथर्वणौ विप्रौ प्राङ्मुखौ विनिवेशयेत् ।
त्रींस् तथोदङ्मुखान् पित्र्ये ऋग्यजुःसामगान् द्विजान् ॥
इति ॥ १५.८ ॥
कीदृशान् ब्राह्मणान् भोजयेद् इत्य् आह ।
श्रोत्रियान् वाग्रूपवयःशीलसम्पन्नान् ॥ १५.९ ॥
श्रोत्रियान् छन्दोऽध्यायिनः, वाक्सम्पन्नान् संस्कृतभाषिणः, रूपसम्पन्नान् मनोज्ञवपुषः, वयःसम्पन्नान् परिणतवयसः, शीलसम्पन्नान् प्रशान्तमनसः, एवङ्गुणान् ब्राह्मणान् भोजयेत् ॥ १५.९ ॥
वयःसम्पन्नत्वस्यापवादम् आह ।
युवभ्यो दानं प्रथमम् ॥ १५.१० ॥
यत् प्रथमम् एकोद्दिष्टं तत् तरुणेभ्यो देयम् ॥ १५.१० ॥
एके पितृवत् ॥ १५.११ ॥
यद्वयसः पित्रादयः प्रमीताः तद्वयोभ्य एव दद्याद् इत्य् एके मन्यन्ते । सपिण्डीकरणे यद् एकोद्दिष्टं तद्विषयम् इदं वेदितव्यम् । सपिण्डीकरणे एकोद्दिष्टम् उक्तम् एव स्मृत्यन्तरे । यथाह यमः ।
सपिण्डीकरणे प्राप्ते कुर्याच् छ्राद्दद्वयं तथा ।
सपिण्डीकरणे विप्रान् भोजयेत् पार्वणे यथा ॥
पृथक् च कल्पयेद् अन्नम् एकोद्दिष्टविधानतः ॥ इति ।
अथ वा पितृवद् इति पितरम् उद्दिश्य तरुणं पितामहम् उद्दिश्य वृद्धं प्रपितामहम् उद्दिश्य वृद्धतरं भोजयेद् इति ॥ १५.११ ॥
न च तेन मित्रकर्म कुर्यात् ॥ १५.१२ ॥
तेन श्राद्धेन न मित्रकार्यं कुर्याद् अन्योन्यम् । चकारात् अमित्रसंवरणम् अपि ॥ १५.१२ ॥
**पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश् च दद्युः **
॥ १५.१३ ॥
अयं तावत् प्रथमः कल्पः, यत् पुत्राः श्राद्धं कुर्वन्तीति । तदभावे तु सपिण्डा उक्ताः । तदभावे मातृसपिण्डाः मातुलादयः । तदभावे शिष्याः सम्बन्धिशब्दत्वात् आचार्याय, चशब्दाड् याज्यश् च ऋत्विज इति । एकोद्दिष्टविषयं चैतत्, मातृसपिण्डशिष्ययाज्यानां दातृत्वेनोपदेशात् । न ह्य् एकस्य मातृसपिण्डः तत्पितुर् अपि मातृसपिण्डो भवति । एवं शिष्ययाज्याव् अपीति । एवं च सपिण्डीकरणादाव् अन्यः क्रमो द्रष्टव्यः । यथाह उशना- “पुत्राभावे सपिण्डाः समानोदकाः सगोत्राः समानार्षेयाश् च” इत्यादि । एकेनैवैकोद्दिष्टं कार्यं नाशौचवत् सर्वैर् इति विसमासः
॥ १५.१३ ॥
तदभावे ऋत्विगाचार्यौ ॥ १५.१४ ॥
ऋत्विग् याज्याय आचार्यः शिष्याय तदभावे पूर्वस्याभावे । पृथक्करणे श्राद्धं कुर्वता ऋत्विगाचार्याणां प्रायश्चित्ताभावज्ञापनार्थम् । एवं च पूर्वेषाम् अवश्यं प्रायश्चित्तं कर्तव्यम् इति द्रष्टव्यम् । ऋत्विगाचार्याणां श्राद्धं कुर्वताम् अभ्युदयश् च भवति चोदनासामर्थ्यात् । तदभावग्रहणं पूर्वत्र “मातृसपिण्डाः शिष्याश् च” [ग्ध् १५.१३] इत्य् अत्राप्य् अधिकारज्ञापनार्थम् । योग्यानाम् एव श्राद्धं द्रष्टव्यम् । कुतः? स्मृत्यन्तरसामर्थ्यात् । यथाह प्रजापतिः ।
गोब्राह्मणहतानां च विद्युता पार्थिवेन च ।
आत्मनस् त्यागिनां चैव पतितानां तथैव च ॥
सर्पैर् हतानां विप्राणां चरन्तीनां च कामतः ।
पाषण्डम् आश्रितानां च प्रेतकर्म न विद्यते ॥
स्नेहात् कार्यभयादिभ्यो यदि कुर्यान् नराधमः ।
चण्डालेन हतस्यापि तस्य वक्ष्यामि निष्कृतिम् ॥
एषाम् अन्यतमं प्रेतं यो वहेत दहेत वा ।
चरेत् सान्तपनं कृच्छ्रं मत्या चेत् तप्तकृच्छ्रकम् ॥
तच्छवं केवलं स्पृष्ट्वा पातयित्वाश्रु वा तथा ।
एकरात्रं तु नाश्नीयात् त्रिरात्रं बुद्धिपूर्वके ॥
श्राद्धं कृत्वा चरेत् कृच्छ्रं मत्या सान्तपनं चरेत् ।
तथा श्राद्धभुजां चैव द्विगुणं ब्रह्मचारिणाम् ॥
इति ॥ १५.१४ ॥
न भोजयेत् स्तेनक्लीबपतितनास्तिकतद्वृत्ति-वीरहाग्रेदिधिषूदिधिषूपतिस्त्रीग्राम-याजकाजपालोत्सृष्टाग्निमद्यपकुचरकूटसाक्षि-प्रातिहारिकान् ॥ १५.१५ ॥
श्रोत्रियादिगुणयोगेनैषां प्राप्तौ सत्यां प्रतिषिध्यते । स्तेनो हिरण्यस्तेनादयः, तस्य पतितत्वाद् एव प्रतिषेधात् । क्लीबः भग्नोत्साहः । तथा च भगवान् वासुदेवः- “मा क्लैभ्यं गच्छ कौन्तेय” [भ्ग् २.३] इत्यादि, न तृतीयप्रकृतिः, तस्य श्रोत्रियत्वाभावेन प्राप्त्यभावात् । पतितो ब्रह्महादिः । नास्तिकः परलोकाभावाद्यवस्थितप्रज्ञः, सो ऽपि मनोदुष्टः, क्रियादुष्टस्य तु निन्दितकर्माभ्यासात् पतितत्वोपदेशात् । तद्वृत्तिः तेनैव च नास्तिक्येन य उपजीवति लोकायतशास्त्रद्वारेण । वीरहा पुरुषमात्रघातकः, “अवीरायाश् च योषितः” [म्ध् ४.२१३] इत्यादौ पुरुषे वीरशब्दप्रयोगात् । वृथा सोमाभिषवकृद् वा “वीरहा वा एष देवानां यः सोमम् अभिषुणोति” इति श्रुतिदर्शनात् । अग्रेदिधिषूदिधिषूपतिः, पतिशब्दः प्रत्येकम् अभिसम्बध्यते । ज्येष्ठायाः पूर्वं प्रत्ता अग्रेदिधिषूः, पुनः सा ज्येष्ठा दिधिषूः । तथा च मनुः ।
ज्येष्ठायां यद्य् अनूढायां कन्या या तूह्यते ऽनुजा ।
सा चाग्रेदिधिषूर् ज्ञेया पूर्वा तु दिधिषूः स्मृता ॥ इति ।
तयोर् भर्ता । अथ वा पतिशब्दयुक्तः स एव, यथाह प्रजापतिः ।
भ्रातुर् मृतस्य भार्यायां यो ऽनुरज्येत कामतः ।
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥
स चैव जीवतो भ्रातुः स चाग्रेदिधिषूः स्मृतः ॥ इति ।
व्याघोक्तौ वा ।
परपूर्वापतिं धीरा वदन्ति दिधिषूपतिम् ।
इष्टो ऽग्रेदिधिषूर् विप्रः सैव यस्य कुटुम्बिनी ॥
स्त्रीग्रामयाजकः, याजकशब्दः प्रत्येकम् अभिसम्बध्यते । स्त्रीणां कामदेवादि प्रति यो याजयति स स्त्रीयाजकः । ग्रामयाजको बहुयाजकः । अजपालः अजारक्षणोपजीवकः । उत्सृष्टाग्निः शास्त्रेण विना श्रौतस्य स्मार्तस्य वा अग्नेः त्यागं य करोति स उत्सृष्टाग्निः । मद्यपः नालिकेरादेर् मद्यस्य रकषणद्वारेणोपजीवकः, सुराव्यतिरिक्तमद्यभोक्ता वा । कुचरः कुत्सिताचारः कुत्सिताचारत्वम् अपि पुत्राचार्यत्वदेवताद्यर्चनयाचनशीलत्वादि । कूटसाक्षी प्रसिद्धः । प्रातिहारिकः इन्द्रजालोपजीवकः । एतान् न भोजयेत् । पतितानां स्पर्शप्रतिषेधाद् एव भोजनप्रतिषेधे सिद्धे कृतप्रायश्चित्तानां भोजनप्रतिषेधार्थ आरम्भः ॥ १५.१५ ॥
उपपतिर् यस्य च सः ॥ १५.१६ ॥
उपपतिः जारः । यस्य च स इति व्यभिचारिणी यस्य भार्येत्य् अर्थः । एतौ न भोजयेत् ॥ १५.१६ ॥
कुण्डाशिसोमविक्रय्यगारदाहिगरदावकीर्णिगण-
प्रेष्यागम्यागामिहिंस्रपरिवित्तिपरिवेत्तृपर्याहित-
पर्याधातृत्यक्तात्मदुर्वालकुनखिश्यावदच्छिवित्रि-
पौनर्भवकितवाजपराजप्रेष्यप्रातिरूपिकशूद्रापति-
निराकृतिकिलासिकुसीदिवणिक्शिल्पोपजीविज्यावादित्रतालनृत्त-
गीतशीलान् ॥ १५.१७ ॥
कुण्डग्रहणं गोलकस्याप्य् उपलक्षणम्, तस्यान्नं यो ऽश्नाति स कुण्डाशी । कुण्डाशिप्रतिषेधाच् चार्थतः कुण्डगोलकयोर् अपि प्रतिषेधः सिद्धः । तयोः स्वरूपः स्मृत्यन्तरे ज्ञातव्यम् । यथाह मनुः ।
परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डस् तु मृते भर्तरि गोलकः ॥ इति । [म्ध् ३.१७४]
सोमविरक्यी सोमलताविक्रेता तत्साध्यकर्मविक्रेता वा । अगारदाही वेश्मोद्दीपकः । विषद्रव्यस्य दाता गरदः । अवकीर्णी बुद्धिपूर्वं खण्डितब्रह्मचर्यो ब्रह्मचारी । यथाह मनुः ।
कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ।
अतिक्रमं व्रतस्याहुर् धर्मज्ञा ब्रह्मवादिनः ॥ [म्ध् ११.१२०]
गणप्रेष्यः गणानां प्रेषणकृत् । अगम्यागामी कन्यादूषकः । समानप्रवरस्त्रीगामीत्य् एके । “सखिसयोनिसगोत्राशिष्यभार्यास्नुषायां गवि च तल्पसमः” [ग्ध् २३.१२] इति साम्योपदेशात् पतितग्रहणेन गृह्यत इति । हिंस्रः प्राणिनां वधरुचिः । परिवित्तिः, ज्येष्ठे अकृतविवाहे कनीयान् यो विवाहः करोति स परिवेत्ता, ततः स ज्येष्ठः परिवित्तिः । पर्याहितः, यस्मिन्न् अकृताधाने कनीयान् आधानं करोति स पर्याहितः, कनिष्ठः पर्याधाता ।
ननु च परिवित्तिपरिवेत्तृशब्दौ क्रमेण पर्याहितपर्याधात्रोर् अपि वर्तेते, स्मृत्यन्तरे तथा दृष्टत्वात् । यथाह मनुः ।
दाराग्निहोत्रसंयोगं कुरुते यो ऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥ इति । [म्ध् ३.१७१]
ततश् च पर्याहितपर्याधात्रोः पृथगारम्भो ऽनर्थक इति ।
तत्रोच्यते – यश् च याजनं करोति यश् च कन्यां ददाति तयोर् अपि ग्रहणार्थम् उभयोर् उपादानम् । यथाह मनुः ।64
परिवित्तिः परिवेत्ता यया च परिविद्यते ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ इति । [म्ध् ३.१७२]
अस्यापवादो द्रष्टव्यः । यथाह उशना ।
पितृव्यपुत्राः सापत्न्याः परदारसुतास् तथा ।
दाराग्निहोत्रसंयोगे न दोषः परिवेदने ॥ इति ।
तथाह वसिष्ठो ऽपि ।
उन्मत्तः किल्बिषी कुष्ठी पतितः क्लीब एव च ।
राजयक्ष्मामयावी च न न्याय्याः स्युः प्रतीक्षितुम् ॥ इति ।
शातातपो ऽपि ।
कॢइबे देशविनष्टे च पतिते प्रव्रजिते तथा ।
योगशास्त्रनियुक्ते च न दोषः परिवेदने ॥ इति ।
तथा च कण्वः ।
व्यसनासक्तचित्तो यो नास्तिको वा भवेद् यदि ।
कनीयसो वृत्तवतो न दोषः परिवेदने ॥
इत्यादि ।
त्यक्तात्मा साहसिकः । शस्त्रपाणिर् इत्य् एके । दुर्वालः शिपिविष्टः । हीनप्रजनन इत्य् एके । कुनखी अकारणेन विनष्टनखः । श्यावदन् कृष्णदशनः रोगेण विना । पौनर्भवः स्वैरिणीपुत्रः । कितवो द्यूतकृत् । मृन्मयहस्त्यश्वादिव्यवहारस्याप्य् उपलक्षणम् । अजप उपनीतमात्रो ऽश्रोत्रियः । राजप्रेष्यो राज्ञः प्रेषणकृत् दूतादिः । प्रातिरूपिकः कूटतुलामानादिव्यावहारिकः येन केनचित् प्रकारेण वञ्चको वा । शूद्रापतिः सैव भार्या यस्य । निराकृतिः न क्वचिद् आश्रमे व्यवस्थितः । किलासी कुष्ठी भूमिहर्ता वा । कुसीदी वार्धुषिकः प्रतिषिद्देन मार्गेण । वणिक् सति सम्भवे वैश्यवृत्त्युपजीवी । शिल्पोपजीवी तक्षचित्रकर्माद्युपजीवी तेषां सकाशे तद्विद्याशिक्षकश् च, उपशब्दप्रयोगात् । ज्याशीलो धनुर्वेदोपजीवी । वादित्रशीलो वंशवीणाद्युपजीवी । तालशीलो भेर्यादिताडनोपजीवी । नृत्तशीलो नृत्तोपजीवी । गीतशीलो गीतोपजीवी । एतान् न भोजयेत् । एतस्माद् एव प्रतिषेधात् एतेषाम् अकार्यकारित्वम् अपि सिद्धम् । अतः स्तेयादि न कर्तव्यम् ॥ १५.१७ ॥
पित्राकामेन विभक्तान् ॥ १५.१८ ॥
ये च पित्रा अनिच्छता विभक्ताः । चशब्दान् मात्रा च । तांश् च न भोजयेत् ॥ १५.१८ ॥
शिष्यांश् चैके सगोत्रांश् च ॥ १५.१९ ॥
चशब्दाद् याज्यांश् च । द्वितीयाच् चकारात् समानार्षेयांश् च । एकेग्रहणात् भोजनीया एवेति गौतमः । तत्र यदि गुणवन्तः तदा भोजयेत् । यदि गुणहीनास् तदा न भोजनीया इति द्रष्टव्यम् । तथा च वसिष्ठः- “शिष्यान् अपि गुणवतो भोजयेत्” [वध् ११.३३] इति । तत्रापिशब्दात् समानगोत्राणाम् अपि ग्रहणम् इति ॥ १५.१९ ॥
भोजयेद् ऊर्ध्वं त्रिभ्यः ॥ १५.२० ॥
“अयुजो वा यथोत्साहम्” [ग्ध् १५.८] इत्य् अनेनाविशेषात् प्राप्ते विशेषार्थम् इदम्, असत्य् अप्य् उत्साहे त्रिभ्य ऊर्ध्वम् अयुग्मान् भोजयेद् इति ॥ १५.२० ॥
गुणवन्तम् ॥ १५.२१ ॥
एकम् अपि भोजयेद् इति, एकवचनप्रयोगात् । तथाह वसिष्ठः ।
अपि वा भोजयेद् एकं ब्राह्मणं वेदपारगम् ।
श्रुतवृत्तशीलसम्पन्नम् अवलक्षणवर्जितम् ॥ इति । [वध् ११.२९]
वाशब्दानुपादानं द्वयोर् अप्य् अनुज्ञानार्थम् । तथाह मनुः ।
एकैकम् अपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।
पुष्कलं फलम् आप्नोति नामन्त्रज्ञान् बहून् अपि ॥ [म्ध् ३.१२९]
इति ॥ १५.२१ ॥
सद्यः श्राद्धी शूद्रातल्पगः तत्पुरीषे मासं नयति पितॄन् ॥ १५.२२ ॥
अनेन भोक्तुर् दातुश् च ब्रह्मचर्यम् उच्यते । तथा च मनुः ।
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा ।
न च छन्दांस्य् अधीयीत यस्य श्राद्धं च तद् भवेत् ॥ इति । [म्ध् ३.१८८]
सद्य इति क्रियाविशेषणं सद्य एव नयतीति । शूद्राग्रहणं कालपरिमाणार्थम्, इतरास्व् अल्पतरं कालम् इति । तल्पग्रहणं भार्यार्थम् । ततश् चान्यस्यां विशिष्टतरो दोषः । तस्याः समीपे मासं पितॄन् अधिवास्य यावद् एनस् तावता दोषेण सम्बन्धत इत्य् अर्थः ॥ १५.२२ ॥
तस्मात् तद् अहर् ब्रह्मचारी स्यात् ॥ १५.२३ ॥
यस्माद् अयं दोषस् तस्मात् तस्मिन्न् अहनि मैथुनवर्जकः स्याद् ऋताव् अपि, हेतुवचनात् ॥ १५.२३ ॥
श्वचण्डालपतितावेक्षणे दुष्टम् ॥ १५.२४ ॥
श्वादिभिर् वीक्षितम् अन्नं श्राद्धं वा दोषवद् भवति । अन्नपक्षे अभोज्यम्, श्राद्धपक्षे त्व् अकृतं भवतीत्य् अर्थः ॥ १५.२४ ॥
तस्मात् परिश्रिते दद्यात् ॥ १५.२५ ॥
यस्माद् एवं तस्मात् प्रच्छन्नप्रदेशे दद्यात् । हेतुवचनं श्राद्धाद् अन्यत्रापि परिश्रित एव भोक्तव्यम् इति ॥ १५.२५ ॥
तिलैर् वा विकिरेत् ॥ १५.२६ ॥
अपरिवृतदोषशमनं भवति । स्मृत्यन्तरसामार्थ्यात् पितॄणां च तृप्तिर् भवति । यथाह भृगुः ।
पानीयम् अपि यद् दत्तं तिलैर् मिश्रं द्विजस्य तु ।
पितृभ्यः कामधुक् तत् स्यात् पितृग्राह्यम् इदं ततः ॥ ॥ १५.२६ ॥
पङ्क्तिपावनो वा शमयेत् ॥ १५.२७ ॥
पङ्क्तिपावनो वक्ष्यमाणः, अपरिवृतदोषं शमयेत् ॥ १५.२७ ॥
पङ्क्तिपावनाः षडङ्गवित् ज्येष्ठसामगस् त्रिणाचिकेतस् त्रिमधुस् त्रिसुपर्णः पञ्चाग्निः स्नातको मन्त्रब्राह्मणविद् धर्मज्ञो ब्रह्मदेयानुसन्तान
इति ॥ १५.२८ ॥
एते च सति श्रोत्रियत्वे अधिकगुणयोगात् पङ्क्तिं शोधयन्ति निर्दोषां कुर्वन्तीति पङ्क्तिपावनाः । षडङ्गवित् षण्णाम् अङ्गानाम् अन्यतमस्यार्थाभिज्ञः । तथा पुराणे ।
चतुर्दशानां विद्यानाम् एकस्याः पारगो ऽपि यः ।
आत्मकैवल्यविच् चैव सर्वे ते पङ्क्तिपावनाः ॥ इति ।
ज्येष्ठसामगः, ज्येष्ठसाम छन्दोगानां सामविशेषः, तदध्यायी ज्येष्ठसामगः । त्रिणाचिकेतो नाम अध्वर्यूणाम् ऋग्विशेषः । त्रिमधुर् बह्वृचानां सूक्तविशेषः । त्रिसुपर्णो बह्वृचानां तैत्तिरीयाणां च । पञ्चाग्निः सभ्यावसथ्याभ्यां सह । स्नातको विद्याव्रतस्नातकः । मन्त्रब्राह्मणवित् विनाप्य् अङ्गविज्ञानेन । धर्मज्ञो धर्मशास्त्राथज्ञः । ब्रह्मदेयानुसन्तानो ब्राह्मविवाहोढासन्ततिः । इतिकारः प्रकारवाचः । यथाह वसिष्ठः- “त्रिणाचिकेतः पञ्चाग्निस् त्रिसुपर्णश् चतुर्मेधा वाजसनेयी षडङ्गविच् छन्दोगो ज्येष्ठसामिको मन्त्रब्राह्मणविद्यः स्वधर्मान् अधीते यस्य च दशपुरुषं मातृपितृवशः श्रोत्रियो विज्ञायते विद्वांसः स्नातकाश् चैते पङ्क्तिपावना भवन्ति” [वध् ३.१९] इत्य् एवमादीनां स्मृत्यन्तरोक्तानाम् अप्य् उपलक्षणार्थम् ॥ १५.२८ ॥
हविःषु चैवम् ॥ १५.२९ ॥
हविःषु अभ्युदयकर्मसु । बहुवचनं न केवलं पित्र्याङ्गभूते दैव एवम् । किं तर्हि? सर्वाभ्युदयेष्व् अपीति । चशब्दाद् एव सिद्धे एवशब्दः परिश्रितपङ्क्तिपावनार्थः ॥ १५.२९ ॥
दुर्वालादीन् श्राद्ध एवैके श्राद्ध एवैके ॥ १५.३० ॥
दुर्वालाद् आरभ्य ये अनुक्रान्तास् तान् श्राद्ध एव न भोजयेत्, न तु दैवे । एकेग्रहणात् न तु गौतमः, सम्भवासम्भवकृतो विकल्प इति ॥ १५.३० ॥
इति मस्करीये गौतमभाष्ये पञ्चदशो ऽध्यायः
षोडशो ऽध्यायः
सामान्यो ऽयं द्विजातीनां धर्म इत्य् अत आह ।
श्रवणादि वार्षिकं प्रोष्ठपदीं वोपाकृत्याधीयीत छन्दांसि ॥ १६.१ ॥
श्रवणेन युक्ता पौर्णमासी श्रवणा । तद्धितविकल्पो द्रष्टव्यः । तदादित आरभ्य वर्षासु भवं वार्षिकम्, एतद् अपि सञ्ज्ञार्थम्, ततश् च “अभितो वार्षिकम्” [ग्ध् १६.४०] इति व्यवहारसिद्धिः । प्रोष्ठपदी वा पौर्णमासीम् आदितः कृत्वा उपाकृत्य उपाकरणं कृत्वाधीयीत । अध्ययनं च अपूर्वाधिगमो गृहीताभ्यासश् च । छन्दांसि मन्त्रब्राह्मणम् । एतद् उक्तं भवति – श्रावण्यां पौष्ठपद्यां वोपाकृत्य तदादि वेदानां वर्षाकालसम्बन्ध्यध्ययनं कुर्वीतेति ॥ १६.१ ॥
कियन्तं कालम् अधीयीतेत्य् आह ।
अर्धपञ्चमान् मासान् पञ्च दक्षिणायनं वा ॥ १६.२ ॥
उपाकरणोत्तरकालं विकल्पः कृतार्थाकृतार्थापेक्षया द्रष्टव्यः ॥ १६.२ ॥
अधीयानः ।
ब्रह्मचार्य् उत्सृष्टलोमा न मांसं भुञ्जीत ॥ १६.३ ॥
ब्रह्मचारी मैथुनवर्जकः, उत्सृष्टलोमा अकृतश्मश्रुः । लोमग्रहणेन नखादीनाम् अपि ग्रहणम् । न मांसं भक्षयेत् देवार्चनशिष्टम् अपि । गृहस्थस्यायं नियमः, ब्रह्मचारिणः प्राप्त्यभावात् । ब्रह्मचर्यरक्षणम् ऋतुगमनम् । कुतः? “गृहस्थस्य ऋताव् एव गमनं ब्रह्मचर्यम् उपदिशन्ति” इति स्मृतेः । यद्य् उत्सृष्टलोमशब्देन कॢप्तलोमत्वं परिगृह्यते तदा “न रूढश्मश्रुर् अकस्मात्” [ग्ध् ९.७] इत्य् अनेनैव सिद्धत्वाद् अनारम्भः प्राप्नोति । तस्माद् आरम्भसामर्थ्यात् अकॢप्तत्वम् एव गृह्यते ॥ १६.३ ॥
द्वैमास्यो वा नियमः ॥ १६.४ ॥
अयं ब्रह्मचर्यनियमो मासद्वयं वा । शक्त्यपेक्षया विकल्पः । नियमग्रहणम् अवश्यकर्तव्यतार्थम् । एवं च – नियमाभावे अध्ययनप्रसङ्गनिवृत्तिर् द्रष्टव्या ॥ १६.४ ॥
एवम् अधीयानः ।
नाधीयीत वायौ दिवा पांसुहरे ॥ १६.५ ॥
यावद् दिवा पांसुवर्षुको वायुर् वहति तावन् नाधीयीत । दिवा पांसुहर इत्य् एव सिद्धे वायुग्रहणं वात्यायाम् अपि नाधीयीतेत्य् एवमर्थम् । तथाह उशना- “वात्यासौ पिशाचिका तस्मात् तस्यां नाधीयीत” इति । दिवाग्रहणाद् रात्रौ न दोषः, यदि रात्राव् अपीष्यते दिवेत्य् अनारम्भेणैव सिध्यतीति ॥ १६.५ ॥
कर्णश्राविणि नक्तम् ॥ १६.६ ॥
कर्णश्राविणि नक्तं रात्रौ तु यदा वायुः कर्णश्रावी भवति श्रोत्रं शब्देन पूरयति तदा नाधीयीत । नक्तग्रहणाद् दिवा न दोषः ॥ १६.६ ॥
वाणभेरीमृदङ्गगर्तार्तशब्देषु ॥ १६.७ ॥
वाणो वीणा, “वाणः शततन्तुर् भवति” इति महाव्रते दर्शनात् । भेरीमृदङ्गौ प्रसिद्धौ । गर्तशब्दो रथशब्दः, अव्यक्तो वा ध्वनिह् । आर्तशब्दः क्रन्दितध्वनिः, आक्रोशादिर् वा । शब्दशब्दः प्रत्येकम् अभिसम्बध्यते यावद् एतेषां ध्वनिस् तावद् अनध्यायः १६.७ ॥
श्वसृगालगर्दभसंह्रादे ॥ १६.८ ॥
ह्रादशब्दः प्रत्येकम् अभिसम्बध्यते, श्वादीनां समुदितानां शब्दे श्वसंह्रादे सृगालसंह्रादे गर्दभसंह्रादे च, समित्य् आरम्भात्, “सम् इत्य् एकीभावे” सत्य् भाष्यकारेणोक्तत्वात् । दण्डापूपिकया त्रयाणां समुदितानाम् अपि द्रष्टव्यम् । एवं चैकैकस्य न दोषः ॥ १६.८ ॥
लोहितेन्द्रधनुर्नीहारेषु ॥ १६.९ ॥
लोहिते इन्द्रधनुषि नीहारे च नाधीयीत लौहित्यम् आकाशस्य लोहितवर्णत्वं तस्मिन् दृष्टे नाधीयीत । तथेन्दुधनुषि, तत् प्रसिद्धम् । नीहारो हिमः । यावद् एतेषां दर्शनं तावन् नाधीयीत ॥ १६.९ ॥
अब्भ्रदर्शने चापर्तौ ॥ १६.१० ॥
अनृतौ सोदकमेघदर्शने, न यस्य कस्यचित् । चकाराद् विद्युद्दर्शने च । यावद् दर्शनमात्रं तावद् अनध्यायः । तथा च कण्वः- “विद्युद्दर्शने नाधीयीत” इति ॥ १६.१० ॥
मूत्रित उच्चारितः ॥ १६.११ ॥
यावन् मूत्रोच्चाराव् उत्पद्येते अनुत्सर्गे ऽप्य् अनध्यायः, कृते तूत्सर्गे “मानसम् अप्य् अशुचिः” [ग्ध् १६.४७] इति वक्ष्यमाणत्वात् ॥ १६.११ ॥
** निशासन्ध्योदकेषु ॥ १६.१२ ॥**
निशाशब्देनार्धरात्रम् उच्यते, न रात्रिमात्रम्, “विद्युति नक्तं च” [ग्ध् १६.२५] इत्यादिविशेषानारम्भात् । तेनार्धरात्रे सन्ध्यायां चोदके चावस्थितो नाधीयीत ॥ १६.१३ ॥
वर्षति च ॥ १६.१३ ॥
यावद् वर्षकर्म तावन् नाधीयीत । चशब्दात् अनृतौ वर्षत्य् अहोरात्रं च ॥ १६.१३ ॥
एके वलीकसन्तानम् ॥ १६.१४ ॥
एके अच्छिन्नधारं वर्षति नाधीयीतेतीच्छन्ति । अधीयीतेति गौतमः । कृतार्थाकृतार्थापेक्षया विकल्पः ॥ १६.१४ ॥
आचार्यपरिवेषणे ॥ १६.१५ ॥
आचार्यौ सुरासुरयोः शुक्रबृहस्पती, तयोः परिवेषणे नाधीयीत । आचार्यपरिवेषणम् उपाध्यायस्यान्नापहरणम् इत्य् एके ॥ १६.१५ ॥
ज्योतिषोश् च ॥ १६.१६ ॥
आदित्यचन्द्रसमो द्विवचननिर्देशात्, परिवेषणे नाधीयीत चकाराद् आचार्ये व्यसनगते ॥ १६.१६ ॥
भीतो यानस्थः शयानः प्रौढपादः ॥ १६.१७ ॥
भीतो वर्तमानभयः, यानस्थ अश्वाद्यारूढः, शयानः शय्याम् आसेवमानः, प्रौढपादः पादे एकपादारूढः, पीठिकाद्यारोपितचरणो वा । वृक्षारूढस्यापि ग्रहणर्थो विसमासः
॥ १६.१७ ॥
श्मशानग्रामान्तमहापथाशौचेषु ॥ १६.१८ ॥
श्मशानं शवदहनस्थानम्, तत्समीपे । ग्रामान्तो ग्रामसीमा तत्समीपे । महापथो राजमार्गः, अशौचम् अशुचिस्थानम् । एतेष्व् अवस्थितो नाधीयीत । आशौचं जननमरणनिमित्तम् इत्य् एके । तद् अयुक्तम्, पूर्वम् उक्तत्वात् । सद्यःशौचपक्षे ऽप्य् अध्ययनाभावज्ञापनार्थम् इत्य् एके, सद्यःशौचे ऽपि दानप्रतिग्रहभोजनान्य् एव कर्तव्यानि न त्व् अध्ययनम् । दशरात्राद् अर्वाग् इत्य् अपरे । मातापित्रोस् तन्मातुर् वेत्य् अस्मिन् पक्षे ऽपि सपिण्डानाम् अध्ययनाभावज्ञापनार्थम् इति केषाञ्चिद् दरास्नम् । आशौचवतः समीपे नाध्येतव्यम् इत्य् एवमर्थ उपदेशः गङ्गायां घोष इत्यादिवद् इति । श्मशानग्रहणं च भूतपूर्वगत्या प्रतिषेधार्थम्, इदानीन्तनस्य “श्मशानाभ्यध्ययने चैव” [ग्ध् १.६६] इत्य् अनेनैवोक्तत्वात् । ततश् च श्रवणपरम्परया यत् स्थानं श्मशानम् इति श्रूयते तत्र नाध्येतव्यम् इति ॥ १६.१८ ॥
पूतिगन्धान्तःशवदिवाकीर्त्यशूद्रसन्निधाने ॥ १६.१९ ॥
पूतिगन्धो दुर्गन्धः । अन्तःशवे ग्रामे अनिर्हृतप्रेते । दिवाकीर्त्यो नापितः शूद्रो ऽपि, न तु चण्डालः, तस्य शूद्रप्रतिषेधाद् एवार्थतः सिद्धेः, तस्य समीपे न पठेत् । अथ वा दिवाकीर्त्यग्रहणेन तत्कर्म गृह्यते । ततः कृतश्मश्रुर् अकृतशौचो नाधीयीतेति । केचिद् दिवाकीर्यशब्देन चण्डालम् एवोक्त्वा, अन्तःशब्दम् अधिकृत्य व्याचक्षते – अन्तश्चण्डाले ग्राम इति । तथाह आपस्तम्बः- “अन्तःशवम् अन्तश्चण्डालम् अभिनिर्हृतानां तु सीम्न्य् अनध्यायः” [१.९.१४–१६] इति । शूद्रस्य सन्निधाने बधिरस्यापि कुतः? “अथ हास्य वेदम् उपशृण्वतः” इत्य् अनेनैव सिद्धे इह पुनर् आरम्भात् ॥ १६.१९ ॥
शुक्तके चोद्गारे ॥ १६.२० ॥
अम्ले उद्गारे नाधीयीत । चकाराद् अन्यस्मिन् ज्वरादौ नाधीयीत ॥ १६.२० ॥
ऋग्यजुषां च सामशब्दो यावत् ॥ १६.२१ ॥
ऋग्यजुषां चानध्यायः यावत् सामध्वनिः श्रूयते । शाखान्तरे साम्नो ऽप्य् अनध्यायार्थश् चकारः । तथा च स्मृत्यन्तरम्- “शाखान्तरे च साम्नाम् अनध्यायः” इति । द्विवचनेन वक्तव्ये ऋग्यजुषाम् इति बहुवचनं तदङ्गभूतानां सूत्रादीनाम् अप्य् उपसङ्ग्रहार्थम् । ध्वनिमात्रश्रवणे ऽपि नाध्येतव्यम् इति यावद्ग्रहणम्, अन्यथा ऋग्यजुषां च सामशब्द इत्य् अवक्ष्यत् ॥ १६.२१ ॥
आकालिका निर्घातभूमिकम्पराहुदर्शनोल्काः ॥ १६.२२ ॥
यस्मिन् काले एते भवन्ति तस्मात् कालाद् आ द्वितीयाद् अनध्यायकारिण इत्य् आकालिकाः । निर्घातः अशनिपातः, भूमिकल्पो भूमिचलनम्, राहुदर्शनं ग्रहणम्, उल्का उल्कापातः ।
त्र्यहं न कीर्तयेत् ब्रह्म राज्ञो राहोश् च सूतके । [म्ध् ४.११०]
इत्य् एवमादिभिर् अधिकाहःप्रतिपादकैः स्मृत्यन्तरैः कृतार्थाकृतार्थापेक्षया विकल्पो द्रष्टव्यः ॥ १६.२२ ॥
स्तनयित्नुवर्षविद्युतश् च प्रादुष्कृताग्निषु ॥ १६.२३ ॥
प्रकाशितेष्व् अग्निषु अग्निहोत्रहोमकाले सन्ध्यायाम् इत्य् अर्थः । एते स्तनयित्नुप्रभृतयो भवन्त आकालिका भवन्ति । सर्वसमुच्चयार्थः चकारः, एकैकस्य द्वयोर् वा मा भूद् इति
॥ १६.२३ ॥
अहर् ऋतौ ॥ १६.२४ ॥
वर्षासु सन्ध्यायाम् एते भवन्तो नाकालिकाः । अहर्मात्रानध्यायकारिणः । अहःशब्देन रात्रिर् अप्य् अभिधीयते “अहश् च कृष्णम् अहर् अर्जुनं च” इत्यादिश्रुतिदर्शनात् । ततश् च प्रातःसन्ध्यायाम् उपलभ्यमानेषु अहर् अनध्यायः, सायंसन्ध्यायां रात्रिर् इति द्रष्टव्यम्
॥ १६.२४ ॥
विद्युति नक्तं चापररात्रात् ॥ १६.२५ ॥
विद्युति सन्ध्यायाम् ऋतौ दृश्यमानायां त्रिभागाद् अर्वाग् रात्रिर् अनध्यायः । चकारात् प्रातर् उपलभ्यमानायाम् अहश् च सर्वम् अनध्यायः न रात्रिवत् त्रिभागाद् अर्वाक्, “विद्युति प्रातर् अहर् अनध्यायः” इति जाबालिगृह्यदर्शनात् ॥ १६.२५ ॥
त्रिभागादिप्रवृत्तौ सर्वम् ॥ १६.२६ ॥
या सन्ध्यायाम् उपलभ्यते तस्या अह्नः पूर्वभागाव् अतिक्रम्य तत आरभ्य प्रवृत्तिर् अस्ति चेत् ततः सर्वं नक्तम् अनध्यायः ॥ १६.२६ ॥
उल्का विद्युत्समेत्य् एकेषाम् ॥ १६.२७ ॥
उल्का च विद्युत्तुल्या । यथा विद्युत्य् अनध्यायः तथोल्कापाते ऽपि द्रष्टव्यम् इत्य् एकेषां मतं न तु गौतमस्य । कृतार्थाकृतार्थापेक्षया विकल्पः ॥ १६.२७ ॥
स्तनयित्नुर् अपराह्णे ॥ १६.२८ ॥
स्तनयित्नुर् अपराह्णे भवन् विद्युत्समो भवति । नक्तम् आपररात्राद् अनध्यायं करोतीत्य् अर्थः ॥ १६.२८ ॥
अपि प्रदोषे ॥ १६.२९ ॥
प्रथमे ऽपि रात्रिभागे प्रवृत्तः पूर्ववद् आपररात्राद् अनध्यायं करोतीत्य् अर्थः ॥ १६.२९ ॥
सर्वं नक्तम् आर्धरात्रात् ॥ १६.३० ॥
प्रथमात् रात्रिभागाद् आरभ्यार्धरात्रात् प्रवृत्तः सर्वं नक्तम् अनध्यायं करोति ॥ १६.३० ॥
अहश् चित् [चेत्] सज्योतिः ॥ १६.३१ ॥
प्राग् अपराह्णाद् यद् अहः स्तनयित्नुर् भवति ततः सज्योतिर् अनध्यायः, दिवसम् एवेत्य् अर्थः
॥ १६.३१ ॥
विषयस्थे च राज्ञि प्रेते ॥ १६.३२ ॥
विषयस्थे स्वराष्ट्रस्थे इत्य् अर्थः, राजनि प्रमीते । आकालिकानुकर्षणार्थश् चकारः । ततश् च आकालिको ऽनध्यायः ॥ १६.३२ ॥
विप्रोष्य चान्योन्येन सह ॥ १६.३३ ॥
यदा शिष्याचार्यौ सहाध्यायिनौ वा परस्परम् अवियुक्तौ प्रवसेयुः । तदा चाकालिको ऽनध्यायः । चकारात् समेत्य च ॥ १६.३३ ॥
सङ्कुलोपाहितवेदसमाप्तिच्छर्दिश्राद्धमनुष्य-यज्ञभोजनेष्व् अहोरात्रम् ॥ १६.३४ ॥
सङ्कुलः केनचित् कारणेन ग्रामाद्युपद्रवः । उपाहितो ऽग्निसम्भ्रमः अग्निदाहः । वेदसमाप्तिः वेदस्थप्रकरणसमाप्तिः, ग्रामो दग्ध इत्यादिवत् । शाखासमाप्तिर् वा । छर्दिः प्रसिद्धा । श्राद्धम् एकोद्दिष्टादि, तत्र भोक्तुः । मनुष्ययज्ञे मित्रमेलके । भोजने अनेकब्राह्मणभोजने । एतेष्व् अहोरात्रम् अनाध्यायः ॥ १६.३४ ॥
अमावास्यायां च ॥ १६.३५ ॥
अहोरात्रम् अनध्यायः । चशब्दात् पौर्णमास्यां च ॥ १६.३५ ॥
द्व्यहं वा ॥ १६.३६ ॥
अमावास्यायां पौर्णमास्यां च द्व्यहं वा पूर्वोक्तम् अहोरात्रं वा अनध्यायः । उभयत्र चतुर्दश्याम् इति द्रष्टव्यम् । तत्र वेदस्य द्व्यहम् अङ्गादेर् अहोरात्रम् एवेति व्यवस्थितविकल्पो द्रष्टव्यम् । तथा चाह उशना- “पर्वणीतिहासवर्जितानां सर्वासां विद्यानाम् अनध्यायः” इति
॥ १६.३६ ॥
कार्तिकी फाल्गुन्य् आषाढी पौर्णमासी ॥ १६.३७ ॥
चशब्दात् पूर्वम् अनध्यायप्रापणाद् इह पौर्णमासीशब्देन प्रतिपदो गृह्यन्ते । एतास्व् अनध्यायः । एवं चान्यासु प्रतिपत्सु न दोषः । तत्र “प्रतिपत्सु न चिन्तयेत्” इत्य् औशनसवचनेन कृतार्थाकृतार्थापेक्षया विकल्पो द्रष्टव्यः ॥ १६.३७ ॥
तिस्रो ऽष्टकास् त्रिरात्रम् ॥ १६.३८ ॥
तिस्र ऊर्ध्वम् आग्रहायण्या अपरपक्षेह्वष्टकास् त्रिरात्रम् अनध्यायकारिण्यः । अतस् तासु त्रिरात्रम् अनध्यायो भवति, सप्तम्याम् अष्टम्यां नवम्याम् इति ॥ १६.३८ ॥
अन्त्याम् एके ॥ १६.३९ ॥
अन्त्याम् एवाष्टकाम् अनध्यायकारित्वेनेच्छन्ति । पूर्ववद् विकल्पः ॥ १६.३९ ॥
अभितो वार्षिकम् ॥ १६.४० ॥
आदाव् अन्ते चेत्य् अर्थः । वर्षाकाले भवं वार्षिकम् इति तत्कालसम्बन्ध्य् अध्ययनम् उच्यते । यत् कृत्वा यत् प्रारभ्यते आदाव् अन्ते च यत् क्रियते अभितःशब्देन तद् द्वयं गृह्यते । त्रिरात्रम् अनध्याय इत्य् अनुवर्तते । उपाकर्मणि चोत्सर्गे त्रिरात्रम् अनध्याय इत्य् अर्थः । तथा चाह उशना- “उपाकर्मणि चोत्सर्गे त्र्यहम् अनध्यायः” इति ॥ १६.४० ॥
सर्वे वर्षविद्युत्स्तनयित्नुसन्निपाते ॥ १६.४१ ॥
सर्वे आचार्या वर्षादीनां सन्निपाते त्रिरात्रम् अनध्यायम् इच्छन्ति । गौतमस् तु “स्तनयित्नुवर्षविद्युतश् च प्रादुष्कृताग्निषु” [ग्ध् १६.२३] इत्य् आकालिकम् । तत्र पूर्ववद् विकल्पः ॥ १६.४१ ॥
प्रस्यन्दिनि ॥ १६.४२ ॥
विद्युत्स्तनयित्नुसन्निपाते त्रिरात्रम् इत्य् अनुवर्तते । यस्मिन्न् अहनि विरलशो वर्षति देवस् तस्मिन्न् एवाहनि विद्युदग्निसन्निपातश् च तत्रापि त्रिरात्रम् इच्छन्ति ॥ १६.४२ ॥
ऊर्ध्वं भोजनाद् उत्सवे ॥ १६.४३ ॥
उत्सवे सर्वाभ्युदये भोजनाद् ऊर्ध्वं तद् अहोरात्रम् अनध्यायः । उपनयनादाव् उत्सवे भुक्त्वा तदुत्तरकालम् अनध्याय इत्य् अर्थः ॥ १६.४३ ॥
प्राधीतस्य च ॥ १६.४४ ॥
प्राधीतस्य च अध्येतुं प्रथमं प्रवृत्तस्यानुत्सवे ऽपि भोजनोत्तरकालम् अनध्यायः । चकाराद् वेदान्ताध्येतुश् च भोजनोत्तरकालम् अनध्यायः ॥ १६.४४ ॥
निशायां चतुर्मुहूर्तम् ॥ १६.४५ ॥
रात्र्यां प्रथमांश् चतुरो मुहूर्तान् नाधीयीत, स्मृत्यन्तरसामर्थ्यात् त्रयोदश्याम् । यथाह उशना- “त्रयोदश्यां प्रथमांश् चतुरो मुहूर्तान् नाधीयीत” इति ॥ १६.४५ ॥
नित्यम् एके नगरे ॥ १६.४६ ॥
एके नगरे ग्रामे सदैवानध्यायम् इच्छन्ति । न तु गौतमः, ग्रामनिवासिनां सदैवानध्यायप्रसङ्गात् । तत्र शूद्रादिभूयिष्ठे अनध्यायः, द्विजातिबहुले अध्येतव्यम् इति द्रष्टव्यम् ॥ १६.४६ ॥
मानसम् अप्य् अशुचिः ॥ १६.४७ ॥
अप्रयतो मनसाप्य् अध्ययनं न कुर्यात् । एवं चान्येष्व् अप्य् अनध्यायेषु मनसाध्ययनं न प्रतिषिध्यते । नित्यार्थं वा मानसग्रहणम् । अशुचिः सन् नैत्यकम् अपि नाधीयीतेति । एवं च नैत्यके अन्ये ऽनध्याया न सन्तीति द्रष्टव्यम् । तथाह मनुः ।
नैत्यके नास्त्य् अनध्यायो होममन्त्रेषु चैव हि ।
नैत्यके नास्त्य् अनध्यायो ब्रह्मसत्रं हि तत् स्मृतम् ॥ [म्ध् २.१०५–०६]
इति ॥ १६.४७ ॥
श्राद्धिनाम् आकालिकम् ॥ १६.४८ ॥
दातॄणाम्, भोक्तॄणां तु “सङ्कुलोपाहित-” [ग्ध् १६.३४] इत्य् उक्तत्वात् । बहुवचनं सर्वश्राद्धसूचनार्थम्, एकोद्दिष्टे दातॄणाम् एव मा भूद् इति ॥ १६.४८ ॥
अकृतान्नश्राद्धिकसंयोगे च ॥ १६.४९ ॥
यदाकृतान्नं पितॄन् उद्दिश्य दीयते भोजनाभावे तद् अकृतान्नश्राद्धिकम् । तत्संयोगं दातृप्रतिग्रहीत्रोर् उभयोः संयोगवचनात्, आकालिको ऽनध्यायः । चकाराद् अन्यत्रापि पित्रर्थे । यथाह मनुः ।
प्राणि वा यदि वाप्राणि यत् किञ्चिच् छ्राद्धिकं भवेत् ।
प्रतिगृह्याप्य् अनध्यायः पाण्यास्या ब्राह्मणाः स्मृताः ॥ इति । [म्ध् ४.११७]
आमश्राद्धस्यैतद् एव लिङ्गम् ॥ १६.४९ ॥
प्रतिविद्यं च यान् स्मरन्ति यान् स्मरन्ति ॥ १६.५० ॥
प्रतिवेदं प्रतिशाखं च यान् अनध्यायान् गृह्यकाराः स्मरन्ति चकाराद् धर्मान्तरेव् अपि, नाधीयीतेति सम्बन्धः ॥ १६.५० ॥
इति मस्करीये गौतमभाष्ये षोडशो ऽध्यायः
सप्तदशो ऽध्यायः
मानसम् अप्य् अशुचिर् इत्य् अभिहितम् । तदशुचित्वम् आहारजनितम् अपि भवतीति भोज्याभोज्यविवक्षयाह ।
प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत
॥ १७.१ ॥
प्रकर्षेण स्तुतानां स्वकर्मसु न क्षत्रियादिकर्मसु अर्थकामपरित्यागेन मुख्यकर्मानुष्टानरतानाम् इत्य् अर्थः, तेषां द्विजातीनां उपनीतानाम् । भोजनस्यार्थप्राप्तत्वात् परिसङ्ख्यार्थम् इदं वचनम् । ब्राह्मणग्रहणं द्विजातिप्रदर्शनार्थम् । क्षत्रियादीनाम् अप्रशस्ताभ्यनुज्ञानार्थम् इत्य् एके । भुञ्जीत भोजनं कुर्याद् इत्य् अर्थः । प्रशस्तानाम् इत्य् उक्ते आहोपुरुषिकामात्रेणापि प्रशस्ता भवन्तीति स्वकर्मग्रहणम् । प्रशस्तानां स्व इत्य् एव सिद्धे कर्मग्रहणम् काम्यनिवृत्त्यर्थम् । स्वकर्मस्व् इति बहुवचनं ज्ञानकर्मसमुच्चयकारिणां प्राधान्यख्यापनार्थम् ॥ १७.१ ॥
प्रतिगृह्णीयाच् च ॥ १७.२ ॥
एषां धनम् । एतान् अध्यापयेद् याजयेच् चेत्य् एवमर्थश् चकारः ॥ १७.२ ॥
एवम् अपि ।
एधोदकयवसमूलफलमध्वभयाभ्युद्यत-शय्यासनावसथयानपयोदधिधानाशफरिप्रियङ्गु-स्रङ्मार्गशाकान्य् अप्रणोद्यानि सर्वेषाम् ॥ १७.३ ॥
एधः काष्ठम्, उदकं कुम्भाद्यवस्थितम् अपि, यवसं तृणानि, मूलफले प्रसिद्धे, मधु माक्षिकम्, अभयं परित्राणम्, अभ्युद्यतशय्यासनानि प्रसिद्धानि, आवसथं प्रतिश्रयादिः, यानादीनि प्रसिद्धानि, शफरी मत्स्यविशेषः, प्रियङ्गुः धान्यविशेषः, स्रक् ग्रथितानि कुसुमानि, मार्गं मृगमांसम्, शाकं प्रसिद्धम्, अप्रणोद्यानि अप्रत्याख्येयानि, अयाचितानि, अप्रणोद्यग्रहणात् । अस्मिन् सूत्रे अभ्युद्यतशब्देन प्रतिग्रहीतृसकाशं यद् आनीयते तद् उच्यते । तत्र जातिविशेषो नास्ति । तथाह मनुः ।
उद्यताम् आहृतां भिक्षां पुरस्ताद् अप्रवेदिताम् ।
भोज्यां प्रजापतिर् मेने अपि दुष्कृतकर्मणः ॥ इति । [म्ध् ४.२४८]
अस्यापवादः ।
श्रद्दधानस्य भोक्तव्यं चोरस्यापि विशेषतः ।
न त्व् एव बहुयाज्यस्य यश् चोपनयते बहून् ॥ इति । [वध् १४.१७]
तथा चापरम् ।
चिकित्सकस्य मृगयोः शल्यकर्तुश् च पाशिनः ।
षण्डस्य कुलटायाश् च उद्यातापि न गृह्यते ॥ इति । [वध् १४.१९]
तत्रापि भोज्यद्रव्यम् एव द्रष्टव्यम्, “भोज्यां प्रजापतिर् मेने” [म्ध् ४.२४८] इति लिङ्गात् । एवं चाभ्युद्यतम् अपि भोज्यम्, न प्रतिग्राह्यम् । अप्रणोद्यग्रहणात् प्रणोदने दोषः । तथा च वसिष्ठः ।
नाश्नन्ति पितरस् तस्य दश वर्षाणि पञ्च च ।
न च हव्यं वहत्य् अग्निर् यस् ताम् अभ्यवमन्यते ॥ इति । [वध् १४.१८]
तत्रापि भोज्यद्रव्यम् एव प्रतिगृह्णीयात् अप्रशस्तेभ्यो द्विजातिभ्यः पृथग्ग्रहणात् । सर्वग्रहणात् शूद्राद् अपि । सर्वेभ्य इति वक्तव्ये सर्वेषाम् इत्य् उपादानम् आत्मसम्बन्धिज्ञापनार्थम् । एवं च परकीयं मुषित्वा यो ददाति तस्याग्रहणे न दोषः
॥ १७.३ ॥
पितृदेवगुरुभृत्यभरणे चान्यत् ॥ १७.४ ॥
भरणवचनम् आवश्यककर्मार्थम् । पितृभरणम् एकोद्दिष्टादि, अविच्छेदेन श्राद्धकरणम् । देवभरणं सायं प्रातर् अग्निहोत्रहोमादि । गुरवः पित्रादयः । भृत्याः पुत्रदासादयः । एतेषां भरणं भक्ताच्छादनादीनां दानम् । एतेषु निमित्तेष्व् अन्यद् अप्य् अप्रणोद्यम् । चशब्दाद् एधोदकादि च । भरणम् इत्य् उक्तत्वात् न स्वयं ततो गृहीत्वा पुष्टो भवेत् । केचिच् चकारम् आतिथ्यार्थम् आहुः । तथाह वसिष्ठः ।
गुर्वर्थे दारम् उज्जिहीर्षन्न् अर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान् न तु तृप्येत् स्वयं ततः ॥ इति । [वध् १४.१३]
आपदि तु “याजनाध्यापनप्रतिग्रहाः सर्वेषाम्” [ग्ध् ७.४] इत्य् अनेन याचित्वा प्रतिग्रहणम् उक्तम् । इह तु लभ्यमानस्याप्रणोदः । एवं चापद्य् अयाचितालाभ एव याचित्वा प्रतिग्रहणम् इति प्रदर्शितम् । आपद्विषयत्वाद् अनापदि न ग्राह्यम् इति द्रष्टव्यम् ॥ १७.४ ॥
वृत्तिश् चेन् नान्तरेण शूद्रात् ॥ १७.५ ॥
अप्रणोद्यम् इति वर्तते । न तु पूर्वेण वृत्तिश् चेद् इति । यदि जीवनं शूद्रप्रतिग्रहणम् अन्तरेण न निर्वर्तेत तत्र शूद्रात् प्रतिगृह्णीयात् । न तु याजनभोजनप्रवचनानि कुर्यात् । तथाह् मनुः ।
नाध्याच् छूद्रस्य पक्वान्नं विद्वान् आशौचिनो ऽपि वा ।
आमम् एवाददीतास्माद् अवृत्ताव् एकरात्रिकम् ॥ [म्ध् ४.२२३]
इत्यादि । तथा च वसिष्ठः ।
शूद्रान्नेनोदरस्थेन यो ऽधिगच्छति मैथुनम् ।
यस्यान्नं तस्य ते पुत्रा अन्नाच् छुक्लं प्रवर्तते ॥ इति । [वध् ६.२७]
याजने तु वक्ष्यति “शूद्रयाजकं शूद्रार्थयाजकम्” इत्यादि [ग्ध् २०.१] । तथाध्यापने तु “शूद्रशिष्यो गुरुश् चैव” [म्ध् ३.१५६] इत्यादि ॥ १७.५ ॥
अस्यापवादः ।
पशुपालक्षेत्रकर्षककुलसङ्गतकारयितृपरिचारका भोज्यान्नाः ॥ १७.६ ॥
पशुपालः पशूनां संरक्षिता स पशुस्वामिनो भोज्यान्नः । तथा क्षेत्रकर्षकश् च । तथाह उशना- “स्वगोपालो भोज्यान्नः स्वक्षेत्रकर्षकश् च” इत्यादि । कुलसङ्गतः पारम्पर्येण मित्ररूपेणागतः । कारयिता नापितः । परिचारको दासः । एतस्माल् लिङ्गान् नापितस्य शूद्रत्वम् अध्यवसीयते । तथा चाह मनुः ।
क्षेत्रकः कुलमित्रश् च गोपालो दासनापितौ ।
एते शूद्रेषु भोज्यान्नाः यश् चात्मानं निवेदयेत् ॥ [म्ध् ४.२५३]
इत्यादि । प्रकरणाद् यदि शूद्रान्नभोजनम् अन्तरेण प्राणधारणं न स्यात् तत एतेषाम् अन्नम् अदनीयम् । कुतः कुलसङ्गतकारयितृपरिचारिकाणाम् अन्नं भोज्यम् इति वक्तव्ये भोज्यान्ना इति लिङ्गात् भोक्तव्यम् इति द्रष्टव्यम् ॥ १७.६ ॥
वणिक् चाशिल्पी ॥ १७.७ ॥
भोज्यान्न इत्य् अनुषङ्गः । वाणिज्योपजीवी च शूद्रो भोज्यान्नः । स चेद् अशिल्पी कुम्भकारादिको न भवति । चशब्दाद् अशूद्रो ऽपि शिल्पी भोज्यान्नः ॥ १७.७ ॥
अनेनैव प्रसङ्गेनान्यद् अप्य् अभोज्यम् आह ।
नित्यम् अभोज्यम् ॥ १७.८ ॥
यत्राहर् अहर् अनाथाय दीयते तन् नित्यं न भोक्तव्यम् । नित्यं वा सर्वदा परगृहे अनापद्य् अभोक्तव्यम् । यथाह मनुः ।
उपासते गृहस्था ये परपाकम् अबुद्धयः । [म्ध् ३.१०४]
इत्यादि ॥ १७.८ ॥
केशकीटावपन्नम् ॥ १७.९ ॥
केशग्रहणं सर्वगात्रलोमोपसङ्ग्रहणार्थम् । कीटग्रहणम् अप्य् अशुद्धप्राणिप्रदर्शनाऋथम् । अवपन्नं पचनकाल एव सिद्धम् इत्य् अभिप्रायः । अभोज्यं च । एवं च ब्रुवता पचनोत्तरकालं कृतप्रायश्चित्तं भोक्तव्यम् इति ज्ञापितम् । तथा च वसिष्ठः- “कामं तु केशकीटान् उद्धृत्याद्भिः प्रक्षाल्य भस्मनावकीर्य वाचा प्रशस्स्तम् उपयुञ्जीत भोज्यम्” [वध् १४.२३] इति । बह्वन्नस्य पचनकाल एव सम्बन्धस्यापि प्रायश्चित्तं द्रष्टव्यम् । यथाह मनुः ।
पक्षिदग्धं गवाघ्रातम् अवधूतम् अवक्षुतम् ।
दूषितं केशकीटैश् च मृत्प्रक्षेपेण शुध्यति ॥ इति । [म्ध् ५.१२५]
अत्र पक्षिग्रहणं काकाद् अन्यत्र द्रष्टव्यम्, तस्य प्रायश्चित्तान्तरदर्शनात् । यथाह पराशरः ।
शृतं द्रोणाधिकं चान्नं श्वकाकैर् उपपादितम् ।
न त्याज्यं तस्य शुद्ध्यर्थं ब्राह्मणेभ्यो निवेदयेत् ॥
गायत्र्यष्टसहस्रेण मन्त्रपूतेन वारिणा ।
भोज्यं तत् प्रोक्षितं विप्रैः पर्यग्निकृतम् एव च ॥ इति ।
बहुत्वम् अपि देशकालाद्यवस्थया द्रष्टव्यम् । यथाह व्याघ्रः ।
देशं कालं तथा मानं द्रव्यं द्रव्यप्रयोजनम् ।
उपपत्तिम् अवस्थां च ज्ञात्वा शौचं प्रकल्पयेत् ॥
इति ॥ १७.९ ॥
रजस्वलाकृष्णशकुनिपदोपहतम् ॥ १७.१० ॥
अभोज्यम् इति सर्वत्रानुवर्तते । रजस्वलाग्रहणं सर्वाशुचिप्रदर्शनार्थम् । पदग्रहणम् अप्य् अशुचिशरीरावयवप्रदर्शनार्थम् । एतैर् उपहतं स्पृष्टम् ॥ १७.१० ॥
भ्रूणघ्ना प्रेक्षितं गवोपघ्रातं भावदुष्टम्
॥ १७.११ ॥
भ्रूणहा ब्रह्महा । तथा च वसिष्ठः- “ब्राह्मणं हत्वा भ्रूणहा भवति” [वध् २०.२३] इति । तद्ग्रहणं श्वचण्डालपतितानाम् अप्य् उपलक्षणम्, “श्वचण्डालपतितावेक्षणे दुष्टम्” [वध् २३.३३] इति सहोपदेशात् ।
ननु च यद्य् एवं सहोपदिष्टानाम् अपि ग्रहणं स्यात् तदा “चण्डालपतित” [वध् २३.३३] इत्य् एतस्मिन् सूत्रे सहनिर्देशात्, “श्वचण्डाल” [वध् २३.३३] इत्य् एतस्मिन् सूत्रे चण्डालपतितयोर् अन्यतरोप्देशेन इतरस्यापि लक्षणया सिद्धत्वाद् उभयोर् उपादानम् अनर्थकम् इति ।
अत्रोच्यते – नियमार्थ आरम्भः, अवेक्षणे त्रयाणाम् एव प्रतिषेधः, न पतितसूत्रोपात्तानां सूतिकादीनाम् अपीति । तस्माद् इह भ्रूणहग्रहणेन श्वादीनाम् अपि ग्रहणम् इत्य् उक्तं युक्तम् एव । एवं सति विरोधाभावात् “रजस्वलाकृष्णशकुनि” [ग्ध् १७.१०] इत्य् अस्मिन् सूत्रे रजस्वलाग्रहणेनाप्य् एकसूत्रोपात्तानां पतितादीनाम् अपि ग्रहणम् । ततश् च रजस्वलादिभिः स्पृष्टम् एव नावेक्षितम्, भ्रूणाहादिभिर् अवेक्षितं स्पृष्टं चेति द्रष्टव्यम् । गवा च सामीप्येनाघ्रातम्, भावदुष्टं भोजयित्रा अपध्यानेन दत्तम्, भोक्तुर् मनसो तुष्टिकरं वा
॥ १७.११ ॥
शुक्तं केवलम् अदधि ॥ १७.१२ ॥
यद् आम्लरसं भवति तच् शुक्तम्, न तु स्वभावत एवाम्लम्, अदधीत्य् अपवाददर्शनात् । केवलं द्रव्यान्तरासंस्पृष्टं काञ्जिकादिवत्, तद् अभोज्यम् । अदधि दधि केवलम् अपि द्रव्यान्तरेण तक्रादिना संस्पृष्टम् अपि भोज्यम् ॥ १७.१२ ॥
पुनः सिद्धम् ॥ १७.१३ ॥
यत् पूर्वपाकतुल्यताम् आपद्यते, न तु शीतलत्वाद् अपक्वत्वाद् वा, पुनर् ग्रहणात् ॥ १७.१३ ॥
पर्युषितम् अशाकभक्षस्नेहमांसमधूनि ॥ १७.१४ ॥
पर्युषितं रात्र्यन्तरितं शाकादिवर्जम् । पर्युषितं शाकादि भोज्यम् । शाकं अस्नेहसंयुक्तम् अपि, भक्षाः पिष्टादयः, स्नेहो घृतादि तत्संसृष्टम् अपि द्रष्टव्यं स्मृत्यन्तरदर्शनात् । यथाह मनुः ।
यत् किञ्चित् स्नेहसंयुक्तं भक्ष्यं भोज्यम् अगर्हितम् ।
तत् पर्युषितम् अप्य् आद्यं हविःशेषं च यद् भवेत् ॥ इति । [म्ध् ५.२४]
मांसं चास्नेहसंयुक्तम् अपि । स्नेहग्रहणेनैव मधुनः सिद्धे पृथग्ग्रहणम् पर्युषितस्यापि मधुनः स्त्रियाः प्रतिषेधार्थम् । तथा च कल्पकाराणाम् अप्य् उपनिषत् – “तस्माद् उत स्त्रियो मधु नाश्नन्ति” इति ॥ १७.१४ ॥
संसर्गदुष्टं कालदुष्टं चोक्त्वा साम्प्रतम् आश्रयदुष्टम् आह ।
उत्सृष्टपुंश्चल्यभिशतानपदेश्यदाण्डिकतक्ष-कदर्यबन्धनिकचिकित्सकमृगय्वनिषुचार्युच्छिष्ट-भोजिगणविद्विषाणाम् ॥ १७.१५ ॥
उत्सृष्टम् अस्वामिकम् । पुंश्चली व्यभिचारिणी । अनेनैव गणिका चार्थसिद्धा । तथा च वसिष्ठः- “गणान्नं गणिकान्नं च” [वध् १४.१०] इति । अभिशस्तः दोषेनाभिख्यातः । अनपदेश्यः स्त्रीलिङ्गेन पुंलिङ्गेन वा अनिर्देश्यः तृतीया प्रकृतिर् इत्य् अर्थः । दाण्डिको राज्ञा निग्रहे नियुक्तः । तक्षो रथकारः । कदर्यः असभ्यभाषणरतः, “नाश्लीलं कीर्तयेद् यद्य् अश्लीलं कीर्तयेत् तं कदर्यम् आहुः” इति ब्राह्मणदर्शनात् । बन्धनिको गुप्तिपालः । चिकित्सको वैद्यो ब्राह्मणः, “तस्माद् ब्राह्मणेन भेषजं न काऋयम्” इति तैत्तिरीयाणां ब्राह्मणे दर्शनात् । तथा च वसिष्ठो ऽपि-
नानृजुर् ब्राह्मणो भवति न वणिङ् न कुशीलवः ।
न शूद्रप्रेषणं कुर्वन् न स्तेनो न चिकित्सकः ॥ इति । [वध् ३.३]
स्तेनोपजीविक इत्य् एके । शल्यकर्तेत्य् अपरे,
चिकित्सकस्य मृगयोर् शल्यहर्तुश् च पाशिनः । [वध् १४.१९]
इति दर्शनात् । मृगयुर् लुब्धकः, स चेद् अनिषुचारी65 वागुरिकः । उच्छिष्टभोजी उच्छिष्तान्नभोजकः । गणो जनसमुदायः । विद्विषाणः शत्रुः । एषाम् अन्नम् अभोज्यम् । प्रशस्तानाम् अप्रशस्तानाम् अभोजनोपदेशात्, आपद्य् अप्य् एषाम् अन्नं न भोज्यम् ॥ १७.१५ ॥
अपाङ्क्त्यानां प्राग् दुर्वालात् ॥ १७.१६ ॥
ये चापाङ्क्त्याः प्राग् उपदिष्टाः स्तेनादयस् त्यक्तात्मपर्यन्तास् तेषाम् अकृतप्रायश्चित्तानाम् अन्नम् अभोज्यम्, ब्रह्महादीनां तु कृतप्रायश्चित्तानाम् अपि, “नास्यास्मिन् लोके प्रत्यापत्तिर् विद्यते कल्मषं तु निर्हण्यते” [आप्ध् १.२४.२५] इत्य् आपस्तम्बवचनात् ॥ १७.१६ ॥
वृथान्नाचमनोत्थानव्यपेतानि ॥ १७.१७ ॥
वृथान्नं यद् आतिथ्याद्यनुद्देशेनात्मार्थं पच्यते । तथा बह्वृचानाम् ऋक् ।
मोघम् अन्नं विन्दते अप्रचेताः
सत्यं ब्रवीमि वध इत् स तस्य ।
नार्यमणं पुष्यति नो सखायम्
केवलाघो भवति केवलादी ॥ इति ॥ [र्व् १०.१७०.६]
आचमनव्यपेतम्, यद् अर्धं भुक्त्वा आचम्य पुनस् तद् एव भुङ्क्ते उत्थानव्यपेतम्, यद् अर्धं भुक्तम् एवोत्थाय भुङ्क्ते एतत् त्रिविधम् अप्य् अभोज्यम् । आचमनोत्थानव्यपेतम् इति वक्तव्ये बहुवचनम् एकपङ्क्ताव् अन्यतरेणाचमने उत्थाने च कृते अन्यतरस्याभोज्यम् इति । तथाह उशना- “अगुरुभिर् आचमनोत्थाने कृतं च” इति । एवं गुरुभिः कृते न दोषः ॥ १७.१७ ॥
समासमाभ्यां विषमसमे पूजातः ॥ १७.१८ ॥
समेन विद्याकुलादितुल्येन सह विषमां पूजाम् आसनपरिचरणादिकां कृत्वा असमेन च समां कृत्वा यत्रान्नं दीयते तत्र पूजातः विषमे च समे च सति न भोक्तव्यम् ॥ १७.१८ ॥
अनर्चितं च ॥ १७.१९ ॥
अन्नमन्त्रेणानमस्कृतम् । यथाह वसिष्ठः- “रोचत इति सायं प्रातर् अशनान्य् अभिपूजयेत्” [वध् ३.६९] इति । चकारात् “को भोक्ष्यते” इत्य् अभिक्रुष्टम् । तथा च वसिष्ठः- “को भोक्ष्यत इति चाक्रुष्टम्” [वध् १४.९] इति ॥ १७.१९ ॥
गोश् च क्षीरम् अनिर्दशाहाः सूतके ॥ १७.२० ॥
गोः प्रसूताया अनतिक्रान्तदशाहाया क्षीरम् अभोज्यम् । चशब्दाद् दध्यादि च ॥ १७.२० ॥
अजामहिष्योश् च ॥ १७.२१ ॥
अनिर्दशाहयोर् अजामहिष्योः क्षीरम् अपेयं सदध्यादि । अजानाम् अधिकारार्थश् चशब्दः । पृथग् ग्रहणं गोक्षीरस्य कदाचित् सप्तरात्राद् ऊर्ध्वम् अदोषार्थम् ॥ १७.२१ ॥
नित्यम् आविकम् अपेयम् औष्ट्रम् ऐकशफं च ॥ १७.२२ ॥
नित्यग्रहणं न केवलं दशाह एवेति । विकारप्रत्ययनिर्देशात् मूत्राद्य् अप्य् आसाम् अपेयम् इति । एवं च पूर्वेषां मूत्रादेः पेयत्वम् अवगम्यते । एकशफाः एकखुरा वडवादयः । इतरे प्रसिद्धाः । विसमासो मृगादीनाम् आरण्यानां सर्वेषाम् उपसङ्ग्रहार्थः । तथा च मनुः ।
आरण्यानां च सर्वेषां मृगाणां महिषं विना । इति । [म्ध् ५.९]
चकारान् मानुषस्त्रीक्षीरं च । प्रकृतम् अप्य् अपेयग्रहणं नित्यार्थं क्रियते । ततश् चाजामहिष्योर् अत्यन्तापद्य् अनिर्दशाहयोर् अप्य् अनुग्रहः सिद्धः ॥ १७.२२ ॥
स्यन्दिनीयमसूसन्धिनीनां च ॥ १७.२३ ॥
नित्यं सदध्यादि क्षीरम् अपेयम् इत्य् अनुषङ्गः । स्यन्दिनी नितान्तग्रन्थिस्तनी । यमसूः यमलापत्या । सन्धिनी एकां वेलाम् अन्तरीकृत्य दुह्यते वत्सान्तरेण वा । गर्भिणी या दुह्यते सा सन्धिनीत्य् एके । चशब्दाद् व्याधितानां च ॥ १७.२३ ॥
विवत्सायाश् च ॥ १७.२४ ॥
याश् च व्यपेतवत्साः याश् च नाशमरणाभ्यां वत्सैर् वियुक्ताः तासाम् अपेयम् । पृथग् ग्रहणं दध्यादीनां प्रतिषेधाभावार्थम्, क्षीरमात्रस्यैव प्रतिषेधः स्याद् इति । अजामहिष्योर् अप्य् उपसङ्ग्रहार्थश् चकारः ॥ १७.२४ ॥
साम्प्रतं ये स्वरूपत एवाभक्ष्यास् त उच्यन्ते ।
पञ्चनखाश् चाशल्यकशशश्वाविड्गोधाखड्ग-कच्छपाः ॥ १७.२५ ॥
अभक्ष्या इत्य् उत्तरत्र वक्ष्यति । तस्येहानुकर्षः । पञ्च नखा येषां हस्तचरणयोः, पञ्च पञ्चनखाः सृगालवानरादयः, ते चाभक्ष्याः शल्यकादि वर्जयित्वा । चशब्दः पयोमूत्रोच्छिष्टानाम् उपसङ्ग्रहार्थः । शल्यकः कण्टकवराहः । शशः प्रसिद्धः । श्वाविट् उलूकः । गोधा प्रसिद्धा । खड्गः शृङ्गमृगः । कच्छपः प्रसिद्धः । ये अभक्ष्यास् तेषां मूत्राद्य् अपेयं द्रष्टव्यम्,
अभक्ष्याणां तु यन् मूत्रं तदुच्छिष्टं तथैव च ।
अभोज्यम् इति निर्दिष्टं विष्टा चैव तथैव च ॥
इति वत्सवचनात् । पञ्चनखाश् चेति प्रथमानिदेशः शरीरावयवानां सर्वेषां ग्रहणं यथा स्याद् इति । पञ्चनखाश् चेति प्रथमानिर्देशः शरीरावयवानां सर्वेषां ग्रहणं यथा स्याद् इति । यदि मांसम् एव अभीष्टं तदा षष्ठ्या निर्देशो युक्त इति । एवं च रुधिरादयो ऽप्य् अपेया एव । एवं सर्वत्र द्रष्टव्यम् ॥ १७.२५ ॥
उभयतोदत्केश्यलोमैकशफकलविङ्कप्लव-चक्रवाकहंसाः ॥ १७.२६ ॥
उभयतोदतः मनुष्यादयः । तेषां पञ्चनखत्वाद् एव प्रतिषेधे सिद्धे प्रायश्चित्तगौरवार्थं पुनर् अभिधानम् । एवम् अन्यत्रापि विशेषनिर्देशे द्रष्टव्यम् । केशिनः केशातिशययुक्ताश् चमर्यादयः । अलोमाः सर्पादयः । एकशफाः अश्वादयः । कलविङ्को ग्रामचटकः । प्लवः शकटबिलः । चक्रवाकहंसौ प्रसिद्धौ ॥ १७.२६ ॥
काककङ्कगृध्रश्येना जलजा रक्तपादतुण्डा ग्राम्यकुक्कुटसूकरौ ॥ १७.२७ ॥
काकादयः पक्षिणः प्रसिद्धाः । जलजाः सर्व एवाविशेषेण । रक्तपादाः पारावतादयः । रक्ततुण्डाश् चकोरादयः । ग्राम्यशब्दः कुक्कुटसूकराभ्यां सम्बध्यते । एवं चारण्यानाम् अप्रतिषेधः । विसमास अन्येषां क्रव्यादादीनाम् अपि प्रतिषेधार्थम् ॥ १७.२७ ॥
धेन्वनडुहौ च ॥ १७.२८ ॥
धेनुः पयस्विनी गौ । अनड्वान् बलीवर्दः । तयोर् ग्रहणं वत्सादीनाम् अप्य् उपलक्षणम् । एवं तर्हि गौश् चेति वक्तव्यम् इति चेद्, अत्रोच्यते – भक्ष्यत्वसमुच्चयार्थश् चकारः । तस्मिन् भक्ष्यत्वपक्षे तयोर् एव ग्रहणं यथा स्यात् न वत्सादीनाम् अपीत्य् एवमर्थ उपदेशः । तथा च वसिष्ठः- “भक्ष्यौ तु धेन्वनडुहौ मेध्यौ वाजसनेयके विज्ञायते” [वध् १४.४६] इति । तत्रातिथिरूपेणागतस्य धेन्वनडुहौ भक्ष्यौ इतरेषाम् अभक्ष्याव् इति द्रष्टव्यम्, वसिष्ठलिङ्गात्, यथा “पितृदेवातिथिपूजायाम् अप्य् एवं पशून् हिंस्याद् इति मानवम्” (वध् ४.५), “अथापि ब्राह्मणाय वा राजन्याय वाभ्यागताय महोक्षाणं महाजं वा पचेद् एवम् एवास्मा आतिथ्यं कुर्वन्ति” (वध् ४.८) इति ॥ १७.२८ ॥
अपन्नददवसन्नवृथामांसानि ॥ १७.२९ ॥
अपन्नदत् अपतितदन्तः । अवसन्नो व्याधितः । स्वयं मृत इत्य् अपरे । वृथामांसम् आत्मार्थम् एव पक्वम् । वृथाग्रहणाद् एव सिद्धे प्रायश्चित्तगौरवार्थः पुनरुपदेशः । एतच् च भक्ष्यविषयं द्रष्टव्यम्, अभक्ष्ये प्राप्त्यभावात् ॥ १७.२९ ॥
किसलयक्याकुलशुननिर्यासा लोहिताः ॥ १७.३० ॥
किसलयं सर्वेषाम् अग्रप्ररोहः । क्याकुः अहिच्छत्रं छत्राकम् । लशुनं प्रसिद्धम् । निर्यासाः लोहिताश् चेत् । तथा च मनुः- “लोहितान् वृक्षनिर्यासान्” [म्ध् ५.६] इत्यादि । एवं च हिङ्ग्वादीनाम् अप्रतिषेधः ॥ १७ ३० ॥
व्रश्चनाश् च ॥ १७.३१ ॥
व्रश्चनप्रभवाः वृक्षाणाम् अनुजा इत्य् अर्थः । ते लोहिताश् चालोहिताश् चाभक्ष्याः । एवं चाव्रश्चनप्रभवत्वाद् अलोहितत्वात् कर्पूरादीनाम् अप्रतिषेधः । केचित् “लोहिता व्रश्चनाश् च” इति सूत्रभेदं कुर्वन्ति । तेषाम् अपि पक्षे कर्पूरादीनाम् अप्रतिषेधः । अन्ये निर्यासा वार्क्षा इति व्याचक्षते । तेषां हिङ्ग्वादीनां प्रतिषेधः । चशब्दात् पलाण्डुगृञ्जनादीनि स्मृत्यन्तरोपदिष्टानि गृह्यन्ते ॥ १७.३१ ॥
निचुदारुबकबलाकाशुकमद्गुटिट्टिभमान्धाल-नक्तञ्चरा अभक्ष्याः ॥ १७.३२ ॥
निचुदारुः दार्वाघाटः, मद्गुः जलनिमज्जनशीलः, टिट्टिभः टिट्टिभशब्दानुकरणशीलः, मन्धालो वाग्गुदः, नक्तञ्चराः उलूकादयः, अन्ये प्रसिद्धाः । अभक्ष्याः इति क्रियापदं पञ्चनखा इत्यारभ्य सम्बध्यत इत्य् उक्तम् ॥ १७.३२ ॥
भक्ष्याः प्रतुदविष्किराजालपादाः ॥ १७.३३ ॥
अन्यतरोपदेशाद् एवान्यतरस्य सिद्धेः उभयवर्गोपदेशो येषां विधिः प्रतिषेधो वा नास्ति तेषाम् आपद्य् अनुग्रहार्थः । प्रतुदाः प्रतुद्य प्रतुद्य मुखेन ये भक्षयन्ति मयूरादयः । विष्किराः विकीर्य विकीर्य ये भक्षयन्ति लावकादयः । अजालपादाः ये ऽजालपादा न भवन्ति तुम्बकादयः ॥ १७.३३ ॥
मत्स्याश् चाविकृताः ॥ १७.३४ ॥
विकृताः पाण्यन्तररूपाः । सशल्कसमुच्चयार्थश् चकारः । सशल्काश् चाविकृताश् चेति उभयविशेषणयुक्ता एव भक्ष्याः, नैकविशेषणयुक्ता इत्य् अर्थः । पूर्वम् अजालपादा इत्य् उक्तत्वात् जालपादानाम् अत्र चैकविशेषणयुक्तानां च प्रतिषेधो द्रष्टव्यः । एवम् उत्तरत्रापि द्रष्टव्यम् ॥ १७.३४ ॥
वध्याश् च धर्मार्थे ॥ १७.३५ ॥
यज्ञादौ धर्मनिमित्ते ये हता पूर्वम् अभक्ष्या अपि भक्ष्याः । चकारात् प्राणानाम् अत्यये च । तथा च मनुः ।
प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया ।
यथाविधि नियुक्तस्य प्राणानाम् एव चात्यये ॥ इति । [म्ध् ५.२७]
ननु च यज्ञादौ हतानां श्रुतिविधानाद् एव सिद्धत्वाद् इहोपदेशो ऽनर्थक इति ।
अत्रोच्यते – ये अदृष्टम् एवोद्दिश्य क्रियन्ते तच्छिष्टभक्षण एव प्रायश्चित्ताभावः न तु दृष्टप्रयोजने शिष्टभक्षण इति । अत एव यज्ञार्थे इत्य् अनुक्त्वा धर्मार्थे इत्य् उक्तम् । अनेनैवावकीर्णिपशोर् अपि मांसभक्षणं निरस्तम्, तस्य प्रायश्चित्तार्थत्वात्, न त्व् अदृष्टार्थत्वम् इति । एवं च यथा दृष्टप्रयोजनमांसभक्षणे स्मार्तप्रायश्चित्तानुप्रवेशः तथा तद्विषयहिंसायाम् अपि भवतीति गम्यते । अनेनैवाभिप्रायेण मनुनाप्य् उक्तम्,
कुर्यात् घृतपशुं सङ्गे कुर्यात् पित्ष्टपशुं तथा । [म्ध् ५.३७]
इत्यादि ॥ १७.३५। ॥
व्यालहतादृष्टदोषवाक्प्रशस्तान्य् अभ्युक्ष्योपयुञ्जीतोपयुञ्जीत ॥ १७.३६ ॥
व्यालैः सिंहादिभिः हतस्य पशोर् मांसम् अभ्युक्षणमात्रं कृत्वा भक्षयेत् । अदृष्टदोषे व्यालहतविशेषणम्, तथा वाक्प्रशस्ते च । व्यालहतस्य पशोर् मांसं भक्ष्यं तच् चेद् अदृष्टदोषं वाक्प्रशस्तं च भवतीति । अदृष्टदोषम् अभक्ष्यवर्गे चानुपदिष्टम्, भक्ष्यत्वोपदेशाद् एव सिद्धत्वात् । वाक्प्रशस्तं चान्यैः । एवं च यद् भक्ष्यवर्गे अभक्ष्यवर्गे चानुपदिष्टम् आपदि विहितं तस्यानाप्द्य् अनेन प्रकारेणाभ्यनुज्ञानम् । बहुवचनम् अपि विशेषणत्रययुक्तस्यैव शुचित्वं नैकविशेषणयुक्तस्येति । एवं “बैष्कम् अप्य् उपयुञ्जीत” [ग्ध् ३.३१] इत्य् अत्राप्य् अदृष्टदोषत्वादि द्रष्टव्यम् । अश्नीयाद् इति वक्तव्ये उपयुञ्जीतेति भक्षणाद् वर्जनम् एव श्रेय इति । तथा च मनुः ।
न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला ॥ [म्ध् ५.५६]
इति ॥ १७.३६ ॥
इति मस्करीये गौतमभाष्ये सप्तदशो ऽध्यायः
अष्टादशो ऽध्यायः
सामान्या विशिष्टाश् चाश्रमधर्मा उक्ताः । स्त्रिय इदानीं वक्तव्या इत्य् आह ।
अस्वतन्त्रा धर्मे स्त्री ॥ १८.१ ।
अस्वतन्त्रा पराधीना धर्मे पारलौकिके भर्त्रा सहास्या धर्माधिकारः, न तु पुरुषवत् स्वातन्त्र्येण । तथाह मनुः ।
नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्य् उपोषितम् ।
पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥ इति । [म्ध् ५.१५५]
शङ्खेनाप्य् उक्तम्- “न च व्रतोपवासनियमेज्यादानधर्मो वानुग्रहकरः स्त्रीणाम् अन्यत्र पतिशुश्रूषायाः कामं तु भर्तुर् अनुज्ञया व्रतोपवासनियमादीनाम् अभ्यासः स्त्रीधर्मः” इति ।
ननु च श्रौतस्मार्तानां पुरुषोद्देशेन विहितत्वात् स्वातन्त्र्येण स्त्रियाः प्राप्त्यभावात् प्रतिषेधानुपपत्तिः । अथोच्येत अस्वातन्त्र्यवचनं सहधर्मक्रियायां स्त्रिया अपि फलम् अस्तीत्य् एवमर्थम् इति, तद् अयुक्तम्, सहधर्मचारिणीत्वाद् एवास्यार्थस्य लब्धत्वात् । तथा अस्वतन्त्रेति न ज्ञायते किन्तन्त्रया अनया भवितव्यम् इति । भर्त्रधीनतयेति चेत्, न, उपरिष्टात् “नातिचरेद् भर्तारम्” [ग्ध् १८.२] इत्य् अनेन भर्तृपरतन्त्रत्वस्य वक्ष्यमाणत्वात् । तेनाव्यभिचारो वक्ष्यत इति चेत्, न, (च) अतिचारस्य धर्मार्थकामविषयस्य प्रतिषिद्धत्वाद् इति ।
अत्रोच्यते – उपवासदानादेर् धर्मसाधनस्य भर्तुर् अनुज्ञायां सत्यां स्त्रियाः प्रापणार्थो ऽयम् आरम्भः, आश्रमधर्मस्य भर्तृद्वारेण प्राप्तत्वात् । तथा च शङ्खवचनं यद् दर्शितम् “कामं तु भर्तुर् अनुज्ञया” इत्यादि । तथा दानविषये ऽपि नारद आह ।
स्त्रीकृतान्य् अप्रमाणानि कार्याण्य् आहुर् अनापति ।
विशेषतो गृहक्षेत्रदानाधमनविक्रयाः ॥ [न्स्म् १.२२]
इत्यादि । इदं भर्तृधनविषयम्,
स्त्रीधनस्येशिनी स्त्री स्याद् भर्ता च तदनुज्ञया ।
भोक्तुं रक्षयितुं योग्यो भर्तुं नाशयितुं न च ॥
इति कण्ववचनाद् इति चेत्, न, स्मृत्यन्तरदर्शनात् । तथाह व्याघ्रः ।
न दातव्यं न होतव्यं स्त्रीधनं जातु केनचित् ।
पत्यनुज्ञातपूर्वं चेत् स्त्रिया दातव्यम् एव तत् ॥ इति ।
तथा च लोकाक्षिः ।
ईशाना स्त्री धनस्योक्ता नाधिदानक्रयेषु च ।
आध्यादि तत्कृतं तस्मान् न सिध्यति कदाचन ॥ इति ।
एवं कण्ववचने ऽपि दानाधमनविक्रयं वर्जयित्वैव स्वाम्यं द्रष्टव्यम् । यत् तूक्तं “किन्तन्त्रया भवितव्यम्” इति, तत्रापि भर्तृपुत्रपित्रधीनया यथाकालम् । तथाह मनुः ।
बाले पितुर् वशे तिष्ठेत् पाणिग्राहस्य यौवने ।
पुत्रस्य स्थविरीभावे न स्त्री स्वातन्त्र्यम् अर्हति ॥ इति । [म्ध् ५.१४८]
तथा च तत्रैवापरम् अपि ।
बालया वा युवत्या वा स्थविर्या वापि योषिता ।
न स्वातन्त्र्येण कर्तव्यं काऋयं किञ्चिद् गृहेष्व् अपि ॥ [म्ध् ५.१४७]
इति ॥ १८.१ ॥
एवं च धर्माद् अन्यत्र कामचारे प्राप्त आह ।
नातिचरेद् भर्तारम् ॥ १८.२ ॥
भर्तुर् अनुज्ञया विना तत्प्रतिषिद्धा वा न क्वचिद् अपि प्रवर्तेतेत्य् अर्थः । पतिम् इति वक्तव्ये यो यो भरणं करोति तं तं प्रत्य् एवम् इति भर्तृग्रहणम् ॥ १८.२ ॥
किं च ।
वाक्चक्षुःकर्मसंयता ॥ १८.३ ॥
स्याद् इति शेषः । यावदर्थसम्भाषिणी वाक्संयता । अकार्यकृताम् ईक्षकादीनाम् अप्रेक्षणी चक्षुःसंयता । गृहव्यापारयुक्ता कर्मसंयता ॥ १८.३ ॥
अपतिर् अपत्यलिप्सुर् देवरात् ॥ १८.४ ॥
अपतिर् अविद्यमानभर्तृका अयोग्यपतिर् वा । तथा च बृहस्पतिः ।
नष्टे मृते प्रव्रजिते क्लीबे ऽथ पतिते पतौ ।
पञ्चस्व् आपत्सु नारीणां पतिर् अन्यो विधीयते ॥ इति ।
अपत्यलिप्सुः यद्य् अनपत्या सत्य् अपत्यम् इच्छति पुनर् देवराद् उत्पादयेद् इत्य् अर्थः । देवरो भर्तुर् ज्येष्ठो यवीयान् वा ॥ १८.४ ॥
केन विधिनोत्पादयेद् इत्य् आह ।
गुरुप्रसूता नर्तुम् अतीयात् ॥ १८.५ ॥
गुरुभिर् अनुज्ञाता भर्तृपक्षैः पितृपक्षैश् च नियुक्तेत्य् अर्थः । ऋतुं नातीयात् ऋतुकालाद् अन्यत्र न युज्येतेत्य् अर्थः । तत्राप्य् एकस्मिन् दिने यदि गर्भोत्पत्तिर् भवति तत्रैव भवति, नो चेत् तस्मिन् ऋतौ न भवतीति । तथा तलवकाराणां ब्राह्मणम्- “यद् वा प्रथमम् अहो रेतः सिच्यते स गर्भः सम्भवति, अतो यत् तत सिच्यते मुधैव तत् परासिच्यते” इति । तत्रापि घृतेनाभ्यज्येति द्रष्टव्यम् । यथाह उशना- “नियुक्तां सर्वाङ्गघृताभ्यक्तां घृतेन सर्वाङ्गम् आत्मानम् अभ्यज्य गच्छेत्” इति ॥ १८.५ ॥
पिण्डगोत्रर्षिसम्बन्धेभ्यः ॥ १८.६ ॥
उत्तरसूत्रे वाशब्दस्याभाववैकल्पिकार्थस्यानुकर्षः । ततश् चाधिकाराद् देवराभावे सपिण्डमात्राद् अप्य् अपत्यलिप्सुः स्यात् । तदभावे सगोत्रमात्रात् । अत्र सगोत्रशब्देन समानोदको द्रष्टव्यः, “सन्निकृष्टं सन्निकृष्टं गृह्नीयात्” इति स्मृत्यन्तरदर्शनात् । ऋषिसम्बन्धात् ऋषिसम्बन्धाः स्वकुल्याः ॥ १८.६ ॥
योनिमात्राद् वा ॥ १८.७ ॥
सर्वाभावे ब्राह्मणजातिमात्राद् वा । मात्रशब्दो धर्मवाची ततश् च गुणवदभावे निर्गुणाद् इति द्रष्टव्यम् । पृथग् ग्रहणं कुलीने सति परगामित्वप्रतिषेधार्थम् । तथा च वसिष्ठः- “न खलु तत्कुलीने विद्यमाने परगामिनी स्यात्” [वध् १७.८०] इति ॥ १८.७ ॥
नादेवराद् इत्य् एके ॥ १८.८ ॥
अदेवरात् सपिण्डादेः सकाशाद् अपत्यं न जनयेद् इत्य् एके मन्यन्ते । देवराभावे अन्यतो ऽपीत्य् आचार्यः ॥ १८.८ ॥
नातिद्वितीयं जनयितुर् अपत्यम् ॥ १८.९ ॥
द्वितीयं अतीत्य तृतीयं नोत्पादयेत् । एवं च द्वितीयम् अनुज्ञातं भवति । यदि तृतीयम् उत्पादयति जनयितुर् देवरादेर् भवति, न क्षेत्रिणः । ततश् च तद् अयोग्यं भवतीत्य् एतावद् अत्र विवक्षितम् ॥ १८.९ ॥
समयाद् अन्यस्य ॥ १८.१० ॥
समयः “तव रतिर् ममापत्यम्” इत्य् एवंरूपः समयः कृतश् चेद् अन्यस्य क्षेत्रिणो भवति तृतीयम् अपि । अतस् तद् अदुष्टम् इत्य् अभिप्रायः ॥ १८.१० ॥
जीवतश् च क्षेत्रे ॥ १८.११ ॥
अन्यस्येत्य् अनुकर्षणार्थश् चकारः । जीवतः प्रजननासमर्थस्य पत्युः क्षेत्रे भार्यायां यद् अपत्यम् उत्पद्यते तत् क्षेत्रिण एव भवति विनापि समयेन द्वितीयाद् अधिकम् अपीत्य् अभिप्रायः
॥ १८.११ ॥
परस्मात् तस्य ॥ १८.१२ ॥
परस्मात् देवरादिव्यतिरिक्तात् व्यतिक्रमाद् वा यदि जीवतो ऽप्य् अपत्यम् उत्पद्यते तत् द्वितीयाद् अधिकम् अपि तस्यैव जनयितुर् एव भवति न क्षेत्रिणः ॥ १८.१२ ॥
द्वयोर् वा ॥ १८.१३ ॥
एवम् उत्पन्नम् अपत्यं बीजिक्षेत्रिणोर् वा भवति । द्व्यामुष्यायणो भवतीत्य् अर्थः ॥ १८.१३ ॥
रक्षणात् तु भर्तुर् एव ॥ १८.१४ ॥
रक्षणे भरणपोषणसंस्कारादौ क्रियमाणे भर्तुः, परस्मात् छिद्रेण यद् अपत्यम् उत्पद्यते तद् भर्तुर् एव भवति । तुशब्दो विशेषार्थः । प्रव्रजितनष्टपतितादेः अरक्षितो ऽपि भवति । य एव रक्षणसमर्थः तस्य विशेषेण भवतीति ॥ १८.१४ ॥
मृते भर्तरि विधिर् उक्तः । इदानीं नष्टे आह ।
नष्टे भर्तरि षड्वार्षिकं क्षपणम् ॥ १८.१५ ॥
देशान्तरतिरस्कृते भर्तरि षड्वर्षाण्य् अपत्योत्पत्तिर् न कर्तव्या । ततः परम् इच्छन्ती गुरुनियोगं कारयित्वा अपत्यम् उत्पादयेद् इत्य् अभिप्रायः । कुतः । “अनियुक्तायाम् उत्पन्न उत्पादयितुः पुत्रो भवतीत्य् आहुः” [वध् १७.६३] इति वसिष्ठस्मृतिदर्शनात् ॥ १८.१५ ॥
श्रूयमाणे ऽभिगमनम् ॥ १८.१६ ॥
षड्वर्षाद् ऊर्ध्वं यदि भर्ता श्रूयमाणो भवति तस्मिन् श्रूयमाणे तम् एवाभिमुख्येन गच्छेत्, नान्यस्माद् अपत्यम् उत्पादयेद् इत्य् अभिप्रायः ॥ १८.१६ ॥
प्रव्रजिते तु निवृत्तिः प्रसङ्गात् ॥ १८.१७ ॥
यदि प्रव्रजितो भर्ता भवति तस्मिन् प्रसङ्गात् तं प्रति गमनान् निवृत्तिः । तं प्रति न गच्छेद् इत्य् अर्थः । अथ वा प्रसङ्गाद् अपत्योत्पादनान् निवृत्तिः, अपत्यं नोत्पादयेत् । तुशब्दो विशेषार्थः । अभिलाषाभावे नोत्पादयेत् संयतया भवितव्यम् इत्य् एके वर्णयन्ति । प्रव्रजिते अपत्यं नोत्पादयेत् । तुशब्दात् स्वयम् अपि प्रव्रजेत्, देशान्तरस्थस्याभिप्रायो ज्ञातुम् अशक्य इति
॥ १८.१७ ॥
द्वाद शवर्षाणि ब्राह्मणस्य विद्यासम्बन्धे ॥ १८.१८ ॥
विद्याधिगमार्थं प्रोषितस्य ब्राह्मणस्य भार्या द्वादश वर्षाणि क्षपयेत् अपत्योत्पत्तिं तदभिमुखगमणम् च, प्रव्रजिते तु निवृत्तिं च कुर्याद् इति द्रष्टव्यम् । अत्र ब्राह्मणग्रहणात् पूर्वं क्षत्रियादिविषयम् इति गम्यते । अथ वात्र विद्याग्रहणाद् अर्थार्थं गतस्य ब्राह्मणस्यैव । स्मृत्यन्तरसामर्थ्यात् कामविषये क्षपणं नास्तीति । यथाह वसिष्ठः- “प्रोषितपत्नी पञ्च वर्षाण्य् उपासीतोर्ध्वं पञ्चभ्यो वर्षेभ्यो भर्तृसकाशं गच्छेद् यदि धर्मार्थाभ्यां प्रवसेद् अथ तु कामाद् यथा प्रेते एवं वर्तितव्यं स्यात्” [वध् १७.७५–७७] इति । एवं च क्षत्रियादेर् विद्यार्थं गतस्यापि ब्राह्मणादिभ्यो ऽर्धम् अर्धं परिकल्प्यम् । अर्थार्थं गतस्य वसिष्ठोक्तं द्रष्टव्यम् । यथाह वसिष्ठः- “एवं ब्राह्मणी पञ्चाप्रजाता षट् प्रजाता, चत्वानि राजकन्याप्रजाता पञ्च प्रजाता, त्रीणि वैश्या अप्रजाता चत्वारि प्रजाता, द्वे शूद्रा अप्रजाता त्रीणि प्रजाता” [वध् ७८] इति । अनेनैव न्यायेन विद्यासम्बन्धे ऽप्य् अप्रजाताया एकवर्षन्यूनभावो द्रष्टव्यः ॥ १८.१८ ॥
भ्रातरि चैवं ज्यायसि यवीयान् कन्याग्न्युपयमेषु
॥ १८.१९ ॥
भ्रातर्य् अकृतदारे अनाहिताग्नौ च प्रोषिते ज्येष्ठे कनीयान् एवम् एव कुर्यात् । एवंशब्दात् समस्तातिदेशः श्रूयमाणे तदभिगमनम्, प्रव्रजिते तु तदभिगमननिवृत्तिश् च ततो द्रष्टव्या । एवं तर्हि प्रव्रजिते संयतत्वम् अपि प्राप्नोतीति चेत्, न, स्मृत्यन्तरदर्शनात् । यथाह उशना- “प्रव्रजति ज्येष्ठे क्षपणं नास्ति सद्य एव निविशेत्” इत्यादि । एवम् अप्य् अर्थार्थं गतस्य षड्वार्षिकं प्राप्नोतीति चेत्, न, तत्रापि स्मृत्यन्तरसामर्थ्यात् । यथाह वसिष्ठः ।
द्वादशैव तु वर्षाणि ज्यायान् धर्मार्थयोर् गतः ।
न्याय्यः प्रतीक्षितुं भ्रात्रा श्रूयमाणः पुनः पुनः ॥ इति ।
चकारात् स्मृत्यन्तरोक्तानाम् अप्य् उपसङ्ग्रहः । यथाह वसिष्ठः- “अष्टौ दश द्वादश वर्षाणि ज्येष्ठं भ्रातरम् अनिविष्टम् अप्रतीक्षमाणः प्रायश्चित्ती भवति” इति । तत्र बहुशः श्रूयमाणे द्वादश, पुनः पुनर् इत्य् उक्तत्वात् । किञ्चिच् छ्रूयमाणे दशवर्षाणि, सर्वथा अश्रूयमाणे अष्टाव् इति द्रष्टव्यम् । क्षत्रियादेः पूर्ववद् अर्धम् अर्धं परिकल्प्यम् । अस्यापवादः ।
उन्मत्तः किल्बिषी कुष्ठी पतितः क्लीब एव च ।
राजयक्ष्मामयावी च न न्याय्यः स्यात् प्रतीक्षितुम् ॥
इत्यादिस्मृत्यन्तरोक्तो द्रष्टव्यः । ज्येष्ठग्रहणाद् एव कनीयसो ऽर्थतः सिद्धेः सम्बन्धिशब्दत्वाद् एकमातृकस्यैव दोष इति ख्यापनार्थम् । स्मार्तस्याप्य् अगेर् उप्सङ्ग्रहार्थं बहुवचनम् ॥ १८.१९ ॥
षड् इत्य् एके ॥ १८.२० ॥
षड् एव वर्षाणि प्रतीक्षेतेत्य् एके मन्यन्ते । तत्र प्रोषितो ऽत्यन्तवृद्धश् चेत् षड्वर्षाणि क्षपयेत्, नो चेद् द्वादशवर्षाणीति द्रष्टव्यम् ॥ १८.२० ॥
प्रासङ्गिकम् उक्त्वा स्त्रीधर्मम् एवाह ।
त्रीन् कुमार्य् ऋतून् अतीत्य स्वयं युज्येतानिन्दितेनोत्सृज्य पित्र्यान् अलङ्कारान् ॥ १८.२१ ॥
त्रीन् ऋतून् कुमारी कन्या अतीत्य यद्य् एतां पित्रादिर् न दद्यात् स्वयम् एव भर्तारं प्रतिपद्येत अनिन्दितं कुलाभिजनादिसमन्वितम् इत्य् अर्थः । उत्सृज्य पित्रादिदत्तालङ्कारान् । पितृग्रहणं प्रदर्शनार्थम् । तथा चाह मनुः ।
अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा ।
मातृकं भ्रातृदत्तं वा स्तेयं स्याद् यदि तं हरेत् ॥ [म्ध् ९.९२]
इति ॥ १८.२१ ॥
कस्मिन् काले पित्रादिभिर् दातव्येत्य् अत आह ।
प्रदानं प्राग् ऋतोः ॥ १८.२२ ॥
ऋतुदर्शनात् प्राग् एनां दद्यात् ॥ १८.२२ ॥
यतः ।
अप्रयच्छन् दोषी ॥ १८.२३ ॥
न केवलम् अप्रयच्छतो दाननिमित्तगुणाभावः । किं तर्हि? दम्पत्योः ब्रह्महत्यासमं पापं भवति । यथाह वसिष्ठः ।
यावन्तः कन्याम् ऋतवः स्पृशन्ति
तुल्यैः सकामाम् अभियाच्यमानाम् ।
भ्रूणनि तावन्ति हतानि ताभ्यां
मातापितृभ्याम् इति धर्मवादः ॥ [वध् १७.७१]
इति ॥ १८.२३ ॥
प्राग् वाससः प्रतिपत्तेर् इत्य् एके ॥ १८.२४ ॥
दुर्विज्ञेयत्वाद् ऋतोः वाससः प्रतिपत्तेः प्राग् दद्यात्, यदैव लज्जिता तदैव दद्याद् इत्य् अर्थः । एवेम् एके मन्यन्ते । वरसम्भवतो विकल्पः ॥ १८.२४ ॥
यदा पित्रादिर् दद्यात् तदा आच्छाद्यालङ्कृतां दद्याद् इत्य् उक्तम् । तत्र द्रव्याभावे कथम् इत्य् अत आह ।
द्रव्यादानं विवाहसिद्ध्यर्थम् ॥ १८.२५ ॥
द्रव्यस्य परकीयस्यादानम् अननुज्ञातस्य स्वीकरणं विवाहसिद्धये यावता विवाहो निर्वर्तते आत्मीयाभावे तावद् अपहृत्य दद्याद् इत्य् अर्थः ॥ १८.२५ ॥
किं च ।
धर्मतन्त्रसङ्गे च ॥ १८.२६ ॥
धर्मतन्त्रस्याग्निहोत्रादेः प्रवृत्तस्य विच्छेदः सङ्गः, तस्मिंश् च सति परस्वापहरणं कुर्यात् । तन्त्रग्रहणं यत् प्रक्रान्तम् अवश्यकर्तव्यं तस्यैव सङ्गे, न त्व् अप्रवृत्तस्य प्रवृत्त्यर्थम् । सिद्ध्यर्थम् इत्य् अस्यानुकर्षणार्थश् चकारः । यावता निर्वर्तते तावद् एव गृह्णीयात् न ततो ऽधिकम् इति । एवं चाधिकग्रहणे स्तेयम् एव भवति ॥ १८.२६ ॥
कुतस् तद् आदेयम् इत्य् अत आह ।
शूद्रात् ॥ १८.२७ ॥
यज्ञार्थं हि धनम् । न च शूद्रस्य वैदिकेषु कर्मस्व् अधिकारः । अतः प्रथमं तावच् छूद्राद् आददीत ॥ १८.२७ ॥
तदलाभे ।
अन्यत्रापि शूद्रात् ॥ १८.२८ ॥
अन्यत्रापीति वक्तव्ये शूद्रग्रहणं वैश्यक्षत्रियप्रापणार्थम् । तदलाभे वैश्यात् । तदलाभे क्षत्रियाद् इति ॥ १८.२८ ॥
तत्रापि ।
बहुपशोर् हीनकर्मणः ॥ १८.२९ ॥
हीनकर्मा यः अननुरूपं कर्म करोति, किञ्चिद् अपि न करोतीति वा स हीनकर्मा । तत्सकाशाद् आददीत ॥ १८.२९ ॥
शतगोर् अनाहिताग्नेः ॥ १८.३० ॥
अन्यकर्मकृतो ऽपि शतगोः अग्न्याधानम् अकुर्वतः । शतग्रहणं द्रव्यपरिमाणोपलक्षणार्थम्, शतनिष्कस्येत्य् अर्थः । एवं सर्वत्र ॥ १८.३० ॥
सहस्रगोश् चासोमपात् ॥ १८.३१ ॥
यश् चाहिताग्निर् अपि सहस्रगुः सोमं न पिबति तस्माद् अप्य् आददीत । चशब्दाद् अन्य्तो ऽपि । यः प्रभूतधनत्वे सति तदनुरूपं कर्म न करोति तस्माद् अप्य् आददीत ॥ १८.३१ ॥
न केवलं निमित्तद्वयम् एव परद्रव्यादाने, किं च ।
सप्तमीं चाभुक्त्वानिचयाय ॥ १८.३२ ॥
सप्तमीं वेलाम् अभुक्त्वा धनक्षयात् परद्रव्यादानं कुर्यात् । तथाह मनुः ।
तथैव सप्तमे भक्ते भक्तानि षड् अनश्नता ।
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ इति । [म्ध् ११.१६]
हीनकर्माधिकारार्थः चकारः । तथोदाहृतं च मनुवचनम् । अनिचयाय उदरपूरणमात्रम्
॥ १८.३२ ॥
अप्य् अहीनकर्मभ्यः ॥ १८.३३ ॥
अस्याम् अवस्थायां यथाविहितकर्मकारिभ्यो ऽपि । अपिशब्दाद् आहिताग्नेः सोमपाच् च ॥ १८.३३ ॥
यद्य् आददानो राजपुरुषेण नृपसमीपं नीयते चौर्यनिमित्तं च पृच्छ्यते तदा –
आचक्षीत राज्ञा पृष्टः ॥ १८.३४ ॥
आचक्षीत कथयेत् न तु भयाद् अपह्नुवीत पृष्टः सन् । न तु स्वयं गत्वा कथयेत् ॥ १८.३४ ॥
यस्मात् ।
तेन हि भर्तव्यः श्रुतशीलसम्पन्नश् चेत् ॥ १८.३५ ॥
हिशब्दो यस्मादर्थे । यस्मात् तेन हि भर्तव्यः, “बिभृयात् ब्राह्मणान् श्रोत्रियान्” [ग्ध् १०.९] इति वचनात् । श्रुतशीलसम्पन्नो यदि भवति । श्रुतेन वेदार्थविज्ञानेन, शीलेन तच्चोदितकर्मानुष्ठानेनापि सम्पन्नः सम्यक् स्तुतः । “बिभृयात् ब्राह्मणान् श्रोत्रियान्” [ग्ध् १०.९] इति श्रोत्रियाणां भरणोपदेशात् भर्तव्यवचनेनैव श्रुतशीलसम्पन्नता सिद्धेति चेत्, उच्यते – अश्रोत्रियाणाम् अपि भरणोपदेशात् “निरुत्साहांश् च ब्राह्मणान् [चाब्राह्मणान्]” [ग्ध् १०.१०] इति । एवं च परस्वापहरणे अब्राह्मणो न भर्तव्य इति प्रदर्शितम् । तेनेति वचनं राज्ञो धर्मार्थम् एवास्य भरणं न वृत्त्यर्थम् इति ॥ १८.३५ ॥
**धर्मतन्त्रपीडायां तस्य करणे ऽदोषो ऽदोषः **
॥ १८.३६ ॥
यस्माद् भर्तव्यस् तस्माद् अस्य धर्मतन्त्रपीडायाम् – धर्मशब्देनाग्निहोत्रादय उच्यन्ते, तन्त्रशब्देन विवाहः, पीडाशब्देनात्मपीडा सप्तमीं चाभुक्त्वेत्य् अनेनोक्ता । धर्मविच्छेदे विवाहसिद्धये आत्मपीडायां चेत्य् अर्थः । तस्य चौर्यस्य करणे अदोषः । दण्डो नास्तीत्य् अर्थः । राज्ञ उपेक्षया धर्मतन्त्रपीडायां सत्यां चौर्यं कृत्वा स्वदोषाद् आगते चौर्ये ब्राह्मणस्य दण्डपातनं न युक्तम् इत्य् अभिप्रायः ।
केचिद् व्याचक्षते — श्रुतशीलसम्पन्नश् चेत् भर्तव्यत्वाद् आचक्षीत । अश्रोत्रियो ऽप्य् आचक्षीत । यस्मात् तस्माद् अश्रोत्रियस्यापि धर्मतन्त्रपीडायां दण्डो नास्तीति ।
अपरे व्याचक्षते — बिभृयाच् छ्रोत्रियान् इति यो ऽसौ भर्तव्यः, सो ऽस्मिन्न् अपराधे ऽपि भर्तव्य एव । हिशब्द एवशब्दार्थे । तदनुरूपो ऽर्थः अस्यापि दातव्य इत्य् अर्थः । अश्रोत्रियम् अपि न दण्डयेत्, यतस् तस्यापि तस्मिन्न् अपराधे दण्डो नास्तीति । कुतः? धर्मतन्त्रपीडायाम् इत्य् अस्य सूत्रस्याश्रोत्रियार्थत्वाद् आरम्भस्येति ॥ १८.३६ ॥
इति मस्करीये गौतमभाष्ये अष्टादशो ऽध्यायः
एकोनविंशो ऽध्यायः
पञ्चविधो धर्मो व्याख्येयतया प्रक्रान्तः । तत्र चतुर्विध उक्तः । इदानीं पञ्चमो धर्मो नैमित्तिको वक्तव्यः । तदभिधानार्थम् उक्तोपसंहारं करोति ।
उक्तो वर्णधर्मश् चाश्रमधर्मश् च ॥ १९.१ ॥
किं पुनर् अनेन सूत्रेण क्रियते । अनुक्तप्रकरणोपन्यासार्थम् उक्तानुवादः क्रियत इति चेत्, अयुक्तम्, अनुपसंहारे ऽप्य् उत्तरस्याभिधातुं शक्यत्वात् । तर्हि श्रोतॄणाम् अधिकाकाङ्क्षानिवृत्तिः क्रियत इति चेत्, तद् अप्य् अयुक्तम्, नैमित्तिकारम्भाद् एव तत्सिद्धेः । किं च वर्णाश्रमग्रहणं न कर्तव्यम्, तत्सम्बन्धेनैव धर्माभिधानात्, उक्तो धर्म इत्य् एतावतापि तदुपसंहारः कृतो भवतीति, कृत्स्नोपसंहारेण हि वर्णाश्रमधर्मगुणधर्मयोर् अप्य् अभिधानं कर्तव्यम् इति ।
निष्प्रयोजनत्वाच् चकाराव् अप्य् अनर्थकौ । तस्माद् इदम् असमञ्जसं सूत्रम् इति ।
अत्र ब्रूमः —
केचित् तावद् वर्णयन्ति – आधारं प्रसिध्यर्थम् इति । इदम् अयुक्तम्, “वर्णा आश्रमाश् च” [ग्ध् ११.३१] इति सूत्रारम्भाद् एव ज्ञायमानत्वात् ।
अपरे पुनर् वर्णयन्ति – शूद्रस्याभक्ष्यभक्षणप्रायश्चित्ताभावार्थम् इदम् इति । तद् अप्य् अयुक्तम् – “प्रशस्तानां स्वकर्मसु द्विजातीनाम्” [ग्ध् १७.१] इत्य् अत्र ब्राह्मणग्रहणं द्विजातिप्रदर्शनार्थम् उक्तं न शूद्रप्रदर्शनार्थम् अपि । कुतः? स्मृत्यन्तरदर्शनात् । यथाह मनुः ।
एतद् उक्तं द्विजातीनां भक्ष्याभ्यक्षय्म् अशेषतः । [म्ध् ५.२६]
इति शूद्रस्य भक्ष्याभक्ष्याधिकाराभावात् प्रायश्चित्ताभावो ऽर्थसिद्ध इति ।
अन्ये वर्णयन्ति – उपनयनात् प्राग् अपि कैश्चिद् वर्णधर्मैर् अधिकारार्थम् इदम् इति । तद् अप्य् असम्यक्, “वर्णा आश्रमाश् च” [ग्ध् ११.३१] इत्य् अत्रैवोक्तत्वात् ।
अपरे वर्णयन्ति – वर्णाश्रमधर्माणां स्त्रिया अपि प्राप्त्यर्थम् इति । तद् अप्य् अयुक्तम्, विवाहात् प्राग् अनुपनीता सा भवतीति “वर्णा आश्रमाश् च” [ग्ध् ११.३१] इत्य् अत्र वर्णग्रहणेनैव सिद्धम्, उत्तरकालम् अप्य् उपनीतेत्य् आश्रमग्रहणाद् आश्रमधर्मैर् अधिक्रियत इति । तत्राह मनुः ।
वैवाहिको विधिः स्त्रीणाम् औपनायनिकः स्मृतः । [म्ध् २.६७]
इत्यादि । अतस् तत एव सिद्धे किम् अनेन सूत्रेण क्रियत इति ।
अपर आहुः – उत्तरार्थो ऽयम् अनुवादः । येषां वर्णविभागेन धर्मा उक्तास् तेषाम् एव वक्ष्यमाणो ऽपीति । ततश् च शूद्रस्यापि प्रायश्चित्तसिद्धिर् इति । तद् अप्य् अयुक्तम्, द्वयम् एव प्रायश्चित्तानां निदानं विहिताकरणं प्रतिषिद्धसेवनं च । तत्र विहिताकरणे मनुर् आह ।
वेदोदितानां नित्यानां कर्मणाम् अतिवर्तने ।
स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ॥ इति । [म्ध् ११.२०३]
प्रतिषिद्धसेवायां च बृहस्पतिर् आह ।
प्रतिषिद्धं तु यः कुर्याद् ब्राह्मणस् तु विशेषतः ।
एकरात्रम् अनादेश आदिष्टे तु पृथक् पृथक् ॥ इति ।
ततश् च शूद्रस्याप्य् अर्थसिद्धत्वात् न तत्प्रापणार्थम् इदम् आरब्धम् इति ।
अत्रोच्यते — आशङ्कानिवृत्त्यर्थम् इदम्, उपरिष्टाद् वैदिकानि पुनःस्तोमादीन्य् उदाहरिष्यन्ते तानि शूद्रस्य न भवन्ति । अतस् तद्वद् इतरेषाम् अपि तन्निवृत्तिर् मा भूद् इत्य् आशङ्कापनीयत इति । वयोऽवस्थाविशेषापेक्षया वा प्रायश्चित्तस्यानुग्रहार्थं वर्णग्रहणम् । यथाह भृगुः ।
अशीतिर् यस्य वर्षाणि बालो वाप्य् ऊनषोडशः ।
प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो रोगिण एव च ॥ इति ।
बलविशेषापेक्षया वा । यथाह भृगुः ।
दुर्बलस्यापि यत् प्रोक्तं तद् उक्तं बालवृद्धयोः ।
सङ्कोचवृत्तिना वापि तथा कालविपर्यये ॥ इति ।
व्यासो ऽपि ।
देशं कालं वयः शक्तिं ज्ञानं बुद्धिकृतं तथा ।
अबुद्धिकृतम् अभ्यासं ज्ञात्वा निष्क्रमणं वदेत् ॥ इति ।
चशब्दो ऽप्य् अवान्तरजोपसङ्ग्रहार्थः । तदुपसङ्ग्रहश् च तेषाम् अपि प्रायश्चित्तार्धप्राप्त्यर्थः । ततश् च मातृजातिवत् परिकल्प्यम् । आश्रमग्रहणं प्रायश्चित्तानां सम्भवप्रापणार्थम्, यथैव पापक्षयार्थं प्रायश्चित्तानां कल्पना क्रियते एवम् आश्रमापक्षयापि । ततश् च जपादीनां सम्भवतो विशेषः, न हि होमदानयोः भुक्षुके सम्भवः, अनग्नित्वाद् अपरिग्रहत्वाच् च । तथा ब्रह्मचारिणां दाने । द्वितीयश् चकारः स्त्रीधर्मानुकर्षणार्थः । वर्णाश्रमग्रहणेनैव तस्य सिद्धेः पुनर् अप्य् अनुवादः प्रायश्चित्तकल्पनार्थः । तत्रोदाहृतं च भृगुवचनम्- “अशीतिर् यस्य वर्षाणि” इत्यादि । तथा च अङ्गिराः ।
नार्य् अप्य् अकामतः प्राप्ता पापम् अर्धं समाचरेत् ।
अर्वाक् तु द्वादशाद् वर्षात् पुरुषो ऽप्य् अर्धभाग् भवेत् ॥
इति ॥ १९.१ ॥
इदानीं प्रायश्चित्तकारणम् आह ।
अथ खल्व् अयं पुरुषो याप्येन कर्मणा लिप्यते
॥ १९.२ ॥
ननु च शिष्टस्याक्रिया प्रतिषिद्धसेवनं च प्रायश्चित्तकारणम् । तच् चोपरितनसूत्रे प्रतिपादयिष्यत इत्य् अनर्थकम् एवैतत् सूत्रम् इति ।
अत्रोच्यते – आत्मानम् अज्ञात्वा यः कर्म करोति तस्यैव कर्मसम्बन्धः, न त्व् आत्मज्ञानिनः विहिताकरणे प्रतिषिद्धसेवने वा लेपसम्बन्धो ऽस्तीति अनात्मज्ञानिन एव प्रायश्चित्ताधिकारार्थम् इदम् । तथा चाथर्वोपनिषत् ।
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ इति ।
ततश् चाज्ञानिन इदम् ।
अथ कर्मानुष्ठानान्तरम्, खल्व् इत्य् अवधारणे अयम् एव पुरुष इति । अयम् इति प्रत्यक्षेण शरीरिणं क्षेत्रज्ञं व्यपदिशति, अवधारणया परमात्मानं निवर्तयति । तथा चोपनिषत् ।
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोर् अन्यः पिप्पलं स्वाद्वत्त्य् अनश्नन्न् अन्यो अभिचाकशीति ॥ इति । [मुण्डुप् ३.१.१]
पुरि शयनात् पुरुषः । तथोपनिषत्- “यो वेद निहितं गुहायां परमे व्योमन्” इति [तैतुप् २.४.१] । याप्येन गर्ह्येण कर्मणा लिप्यते सम्बध्यते । यद्य् अप्य् अयं धर्मेणापि लिप्यते, तथापि धर्मसम्बन्धे प्रायश्चित्ताभावाद् अधर्मस्यैवोपादानम् । “खल्व् अयं पुरुषो यापेन कर्मना लिप्यते” इत्य् उक्ते कृतस्य कर्मणो ऽवश्यसम्बन्धात् अथशब्दो ऽनर्थक इति चेन्, न, अनुपलक्षिते ऽपि प्रायश्चित्तनिमित्ते जपादेर् अनुष्ठानार्थः । तथा च मनुः ।
संवत्सरस्यैकम् अपि चरेत् कृच्छ्रं द्विजोत्तमः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ इति । [म्ध् ५.२१]
एवं चाबुद्धिपूर्वके ऽपि प्रायश्चित्तम् अस्तीति ज्ञापितम् । तथा च मनुः ।
अकामतः कृते पापे प्रायश्चित्तं विदुर् बुधाः ।
कामकारकृते ऽप्य् आहुर् एके श्रुतिनिदर्शनात् ॥ इति । [म्ध् ११.४६]
ततः बुद्धिपूर्वे गुरुतरम् अबुद्धिपूर्वे लघुतरम् इति द्रष्टव्यम् । तथा च वक्ष्यति “अन्तावसायिनीगमने कृच्छ्राब्दः अमत्या द्वादशरात्रम्” [ग्ध् २३.३३–३४] इत्यादि । पूर्वजन्मकृतस्यापि सम्बन्धज्ञापनार्थं कर्मग्रहणम् । तथा च मनुः ।
इह दुश्चरितैः केचित् केचित् पूर्वकृतैस् तथा ।
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ इति । [म्ध् ११.४८]
तत्रैवाह “ब्रह्महा क्षयरोगित्वम्” [म्ध् ११.४९] इत्यादि । एवं च क्षयादिलिङ्गदर्शने पूर्वजन्मकृतस्यापि प्रायश्चित्तविधानं कर्तव्यम् इत्य् एवमर्थम् उपदेशः कर्तव्य इत्य् अर्थः । पापेन कर्मणा लिप्यत इति वक्तव्ये याप्यग्रहणं धर्मो ऽपि लोकनिन्दितश् चेद् अधर्माय भवतीति ज्ञापनार्थम् । तथा च मनुः ।
परित्यजेद् अर्थकामौ यौ स्यातां धर्मवर्जितौ ।
धर्मं चाप्य् असुखोदर्कं लोकसङ्क्रुष्टम् एव च ॥ इति । [म्ध् ४.१७६]
याप्येनेति विसमासः, यद्य् अप्य् आत्मना न कृतं तथापि परैर् गर्हितत्वाद् अभिशंसनमात्रेणापि प्रायश्चित्ती भवतीति ज्ञापनार्थम् । तथा च वसिष्ठः ।
ब्राह्मणम् अनृतेनाभिशंस्य पतनीयेनोपपनीयेन वा मासम् अब्भक्षः शुद्धवतीर् आवर्तयेत् । [वध् २३.३९] पूतो भवतीति विज्ञायते । एतेनाभिशस्तो व्याख्यातः । [वध् २३.३७]
इति ॥ १९.२ ॥
कथं याप्येन कर्मणा लिप्यत इति चेत्, तत्साधनसेवनात् । किं तत्साधनम् इति चेत्, तद् आह ।
**यथैतद् अयाज्ययाजनम् अभक्ष्यभक्षणम् अवद्यवदनं शिष्टस्याक्रिया प्रतिषिद्धसेवनम् **
इति ॥ १९.३ ॥
यथैतद् इति दृष्टान्तार्थम् । अयाज्ययाजनम् अयाज्यानां पतितानां याजनम् । अभक्ष्यभक्षणं लशुनादीनां भक्षणम् । अवद्यवदनम् अनृतादीनां वदनम् । शिष्टस्य विहितस्य सन्ध्योपासनादेर् अक्रिया अकरणम् । प्रतिषिद्धस्य हिंसादेः सेवनम् करणम् । इतिकरणं परिसमाप्त्यर्थम्, एतावद् अधर्मसाधनम् इति ।
ननु च प्रतिषिद्धग्रहणाद् एवायाज्ययाजनादेर् अपि सङ्ग्रहणात् पुनर् अभिधानम् अनर्थकम् इति ।
उच्यते – अनुज्ञातानाम् अप्य् एतेषाम् अकार्यत्वज्ञापनार्थं स्वशब्देनोप्दानम् इति । ततश् चाप्य् अविद्यस्याप्य् आपद्य् अनुष्ठाने प्रायश्चित्तं सिद्धम्, तत्र ह्य् अभ्यनुज्ञातम् “याजनाध्यापनप्रतिग्रहाः सर्वेषाम्” [ग्ध् ७.४] इति । तथा ह्य् अभक्ष्याणां भक्षणम् अपि भक्ष्यवर्गानुपदिष्टानाम् अप्य् आपद्य् अनुज्ञातम् । तथा आपद्य् अनृतम् अपि स्मृत्यन्तरे अभ्यनुज्ञातम् । यथाह व्याघ्रः ।
यस्योक्तौ वाङ्मनःपीडा नित्यं भवति चेत् ततः ।
तत्र वक्तव्यम् अनृतं व्याघ्रस्य वचनं यथा ॥
इत्य् अनुज्ञानसामर्थ्याल् लघुतरप्रायश्चित्तम् इति । तद् अपि प्रथमकल्पितात् चतुर्भागरूपम् । यथाह उशना- “आपद्विहितैः कर्मभिर् आपदं तीर्त्वा पुनस् तेषां प्रायश्चित्तं चतुर्भागं कुर्यात्” इति ॥ १९.३ ॥
तत्र प्रायश्चित्तं कुर्यान् न कुर्याद् इति मीमांसन्ते
॥ १९.४ ॥
तस्मिन् याप्यकर्मसम्बन्धे तन्निर्यातनार्थं प्रायश्चित्तं कर्तव्यम् उत न कर्तव्यम् इति मीमांसन्ते विचारयन्ति ब्रह्मवादिनः ॥ १९.४ ॥
न कुर्याद् इत्य् आहुः ॥ १९.५ ॥
एके तावद् उपपत्तिबलान् न कुर्याद् इत्य् आहुः ॥ १९.५ ॥
आपत्कल्पविषये तावद् विधीयमानत्वाद् अदोषः । अनापद्य् अपि विहिताकरणे प्रतिषिद्धसेवने वा प्रायश्चित्तम् अनर्थकम् । कुतः ।
न हि कर्म क्षीयत इति ॥ १९.६ ॥
हिशब्दो यस्मादर्थे । यस्मात् कृतं कर्म फलप्रदानम् अन्तरेण न क्षीयते प्रायश्चित्तैः, ततश् चात्मसंस्थं कर्म आ विनाशात् फलं ददाति । तथाह शङ्खः ।
यथा पृथिव्यां बीजानि रत्नानि च पयोनिधौ ।
एवम् आत्मनि कर्माणि तिष्ठन्ति प्रभवन्ति च ॥ इति ।
तत्फलप्रदानोत्तरकालं स्वयम् एव विनश्यति । बीजवीर्यम् इवाङ्कुरे । तथा श्रुतिः- “पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन” इति । न चेह केवलः सुखोपभोगः कस्यचिद् उपलभ्यते येनानुमीयेतास्य प्रायश्चित्तेनाशुभं हीयत इति । यानि तु श्रौतानि प्रायश्चित्तानि तानि “भिन्ने जुहोति स्कन्ने जुहोति” इत्य् एवमादीनि निमित्ते कर्माङ्गानि न दोषनिर्हरणार्थानि । लोके ऽपि च घटस्य छिद्रस्य जत्वादिना कार्यसामर्थ्याधानमात्रं क्रियते न पूर्ववत् प्रत्यापत्तिः । न चाशुभस्यात्मानं व्याप्यावस्थितस्यापनोदः शक्यते कर्तुम्, उदकव्यापिन इव लवणस्य । प्रायश्चित्तजनितेन धर्मेणाधर्मो ऽभिभूयते न तु विनाश्यते । औष्ण्येनेवोदकशीतत्वम्, पुनर् अपि शीतभावदर्शनात् ॥ १९.६ ॥
कुर्याद् इत्य् अपरम् ॥ १९.७ ॥
कुर्यात् प्रायश्चित्तम् इत्य् अपरं दर्शनम् । न विद्यते अस्मात् परम् इत्य् अपरं सिद्धान्त इत्य् अर्थः । आपत्कल्पधर्मानुष्ठाने तावद् वचनेन विधीयमानस्य वचनान्तरेण प्रायश्चित्तम् अपि दर्शितम् । अनापद्य् अपि प्रायश्चित्तम् अर्थवद् एव । कथम्? जपादिनिमित्तदुःखोपभोगेनैव क्षीयते, तत्करणत्वाज् जपादिनिमित्तस्य दुःखानुभवस्य, दीर्घकालिको ऽप्य् अल्पकालिकेन क्षीयत एव, यथा दीर्घकालिको रोगो लोके ऽल्पकालिकव्यथेनौषधपानेन क्षीयते ।
कथं पुनर् इदम् अवगम्यते यथा प्रभूतदुःखफलो ऽधर्मो ऽल्पेन दुःखोपभोगेन क्षीयत इति । आगमाद् अवगम्यते । तं च दर्शयति- “पुनःस्तोमेनेष्ट्वा पुनःसवनम् आयन्तीति विज्ञायते,” “व्रात्यस्तोमेनेष्ट्वा,” “तरति सर्वं पाप्मानं तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते,” “अग्निष्टुताभिशस्यमानं याजयेद् इति च” [ग्ध् १९.८–११] ।
अयम् अस्याभिप्रायः – आगमगम्य एवायम् अर्थः इदं धर्मसाधनम् इदम् अधर्मसाधनम् इति । अस्मिन् कृते अधर्मः क्षीयत इति नोपपत्तिगम्यः, प्रत्यक्षादिप्रमाणान्तराविषयत्वात् । तेन यावत्य उपपत्तय उक्ताः प्रायश्चित्ताकरणे, ताः सर्वा आगमविरोधाद् एव निरस्यन्ते ।
यद् उक्तं न हि घटस्य छिद्रितस्य जत्वादिप्रतिपूरणेन प्रत्यापत्तिर् अस्तीति,
तत्रोच्यते – तत्र हि योग्यतापादनम् एव विवक्षितम्, न हि घटोत्पत्तिर् इत्य् अविरोधः । प्रायश्चित्तेनापि चाधर्मक्षयद्वारेण पुरुषस्य योग्यतैव क्रियत इति । यत् तूदकव्यापिलवणवद् आत्मव्याप्यधर्मापनयनम् अशक्यम् इति, तद् वस्त्ररागस्येव क्षारादिभिर् अपनयनम् इत्य् अविरुद्धम् । यस् त्व् अभिभव उक्तः, असाव् अपि “सर्वं पाप्मानं तरति” इत्य् अनेनैव श्रुतिवचनेन निरस्तः । यद्य् अभिभवमात्रं क्रियते तदा तरतीति वाचोयुक्त्यनुपपत्तिः । यत् तु कर्माङ्गानि प्रायश्चित्तानीति, तन् न सर्वत्र, यत्र हि निमित्तं विहिताकरणं प्रतिषिद्धसेवनं वा तत्र तद्दोषनिर्घाताय, यथा “तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते” [ग्ध् १९.१०] इति । यत्र तद् उभयं नास्ति तत्र निमित्ते कर्माङ्गम् इति ग्राह्यम् ।
ननु च यद्य् अयम् अर्थः आगमेन साध्यते तदा एकम् एवोदाहरणं युक्तम्, उदाहरणबहुत्वे प्रयोजनं वक्तव्यम् इति ।
उच्यते विषयभेदप्रदर्शनार्थो ऽनेकोदाहरणोपन्यासः । पुनःस्तोमोदाहरणेन तावद् एतत् प्रदर्शयति अप्रतिग्राह्यप्रतिग्रहदोषो नश्यतीति, “अप्रतिग्राह्यात् तु बहु प्रतिगृह्य पुनःस्तोमेन यजेत” इति श्रुतेः । अप्रतिग्राह्यप्रतिग्रहवचनम् अभक्ष्यभक्षणावद्यवदनयोर् अपि प्रदर्शनार्थम् । “अभक्ष्यभक्षणम् अवद्यवदनं पुनःस्तोमेन तरति” इति श्रुत्यन्तरदर्शनात् ॥ १९.७ ॥
ततश् च तैर् यदा सर्वकर्मानधिकृता भवन्ति तदा –
पुनःस्तोमेनेष्ट्वा पुनः सवनम् आयन्तीति विज्ञायते
॥ १९.८ ॥
सवनशब्देन कर्मोच्यते । पुनस् तदापत्तिः पुनर् अपि श्रौतस्मार्तकर्मयोग्यो भवतीत्य् अर्थः । आयन्तीति बहुवचनम् अभक्ष्यभक्षणावद्यवदनप्रदर्शनार्थम् । विज्ञायत इति श्रुतिसंसूचनार्थम् ॥ १९.८ ॥
व्रात्यस्तोमैश् चेष्ट्वा ॥ १९.९ ॥
चकारः पुनः सवनम् आयन्तीत्य् अस्यानुकर्षणार्थः । व्रात्यस्तोमैर् इति बहुवचनं चत्वारो व्रात्यस्तोमाः श्रुतिप्रसिद्धा इति । व्रात्या नाम अतीतोपनयनकालाः, तैः यक्ष्यमाणत्वाद् व्रात्यस्तोमाः । तथा च वसिष्ठः-
पतितसावित्रीक उद्दालकव्रतं चरेत् । द्वौ मासौ यावकेन वर्तयेत् मासं पयसार्ध्मासम् आमिक्षयाष्टरात्रं घृतेन षड्रात्रम् अचाचितं हविष्यं भुञ्जीत त्रिरात्रम् अब्भक्षणम् अहोरात्रम् उपवसेत् । अश्वमेधावभृतं वा गच्छेत् । व्रात्यस्तोमेन वा यजेत । इति । [वध् ११.७६–७९]
व्रात्यग्रहणम् अप्य् उपपातकोप्लक्षणम्, “अपाङ्क्त्यानां प्राग् दुर्वालाद् गोहन्तृब्रह्मोज्झतन्मन्त्रकृदवकीर्णिपतितसावित्रीकेषूपपातकम्” [ग्ध् २१.११] इति व्रात्यस्योपपातकमध्ये पाठात्, “व्रात्यस्तोमेनोपपातकं विनश्यति” इति स्मृत्यन्तरदर्शनात् । एवं चानेनोपपातकदोषा विनश्यन्तीति प्रदर्शितम् ॥ १९.९ ॥
तरति सर्वं पाप्मानं तरति ब्रह्महत्यां यो ऽश्वमेधेन यजत इति च ॥ १९.१० ॥
सर्वं पाप्मानम् इत्य् अनेन विहिताकरणे प्रतिषिद्धसेवने च यत् पापं तस्य विनाशं दर्शयति । ब्रह्महत्याम् अपि तरति महापातकस्यापि ब्रह्महत्यायाः सर्वाधर्मगरीयस्त्वज्ञापनार्थं पृथग् अभिधानम्, अन्यथा प्रतिषिद्धसेवनेन गृह्यमाणत्वात् न वक्तव्यम् । तथा च व्यासः ।
ब्रह्महत्याश्वमेधाभ्यां न परं पुण्यपापयोः ॥
इति ॥ १९.१० ॥
अग्निष्टुताभिशस्यमानं याजयेद् इति च ॥ १९.११ ॥
अग्निष्टुदुदाहरणेन देहान्तराधर्मनिमित्तदोषक्षयं दर्शयति, अभिशंसनं हि न विना पुरुषापचारेण भवतीति । चकारः विज्ञायत इत्य् अस्यानुकर्षणार्थः । इतिकरणः पृथक् पृथक् श्रुत्यन्तरसूचनार्थम् । एवं हि सर्वत्र विषये ऽपि श्रुतिदर्शनात् प्रायश्चित्तं कर्तव्यम् एव ।
ननु च वचनगम्ये ऽर्थे को ऽयं विचारः करणाकरणयोः प्रायश्चित्तस्य – स च नोपपद्यते । यदि क्रियते “उपनयनं ब्राह्मणस्य” इत्य् अतः प्रभ्र्ति कर्तव्यम् इति ।
उच्यते – महापातकानाम् अभ्यासे समुच्चये च प्रायश्चित्ताभावज्ञापनर्थो ऽयं विचारः । महापातकानाम् अभ्यासे समुच्चये च प्रायश्चित्तं न कर्तव्यम्, “न हि कर्म क्षीयते” इति श्रुतिदर्शनात्, पृथक् पृथक् कर्तव्यम् इति । एवं चान्येषाम् उपपातकादीनाम् अभ्यासे समुच्चये च प्रायश्चित्तं भवति ।
एके ब्रुवते – प्रायश्चित्तस्तुत्यर्थो ऽयं विचार इति ।
अपरे ब्रुवते – अकामकृत एव प्रायश्चित्तं न कामक्र्त इति ।
तद् अयुक्तम् – “अन्तावसायिनीगमने कृच्छ्राब्दो ऽमत्या द्वादशरात्रः” [ग्ध् २३.३३], “ज्ञानपूर्वं चेत् त्रिरात्रम्” [ग्ध् २०.९], “दोषवति च कर्मण्य् अभिसन्धिपूर्वे” [ग्ध् २५.१०] इत्यादिभिर् विरोधप्रसङ्गात् ।
अन्ये ब्रुवते – कामकृतस्य गुरुत्वख्यापनार्थो ऽयं विचार इति ।
तद् अयुक्तम्, “अथ खल्व् अयं पुरुषः” [ग्ध् १९.२] इति अत्रैव ज्ञापितत्वात् ॥ १९.११ ॥
**तस्य निष्क्रयणानि जपस् तपो होम उपवासो दानम् **
॥ १९.१२ ॥
तस्य याप्यकर्मणः निष्क्रयणानि संशोधनानि, यथैव लोके कांस्यादीनां भस्मादीनि संशोधनानि एवम् एते अधर्माणाम् इति । तस्येत्य् असति सन्देहः स्यात् किं पुनःस्तोमादीन्य् उत जपादीनीति । जपो वक्ष्यमाणस्योपनिषदादेर् अभ्यासः प्रकाशोपांशुमानसलक्षणः । यथाह मनुः ।
विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर् गुणैः ।
उपांशुः स्याच् छतगुणः सहस्रो मानसः स्मृतः ॥ इति । [म्ध् २.८५]
तपो वक्ष्यमाणं ब्रह्मचर्यादि । होम आज्यादेर् द्रव्यस्य व्याहृत्यादिमन्त्रपूर्वो ऽग्नौ प्रेक्षेपः । उपवासः इन्द्रियाणां सर्वेषां संयमः । तथा च पौराणिकाः ।
व्यावृत्तिश् चैव दोषेभ्यः सहवासो गुणैर् इह ।
उपवासः स विज्ञेयो न शरीरस्य शोषणम् ॥ इति ।
यत् तु तपोमध्ये अनाशकं पठन्ति तद् अत्यन्तभक्तपरित्यागः क्लेषकरैः सहोपदेशात् अनाशक इत्य् उक्तत्वाच् च । दानं हिरण्यादेर् द्रव्यस्य पात्रे प्रतिपादनम् । विसमास एकैकस्य निष्क्रयणत्वज्ञापनार्थः ॥ १९.१२ ॥
तत्र तावज् जपस्वरूपम् आह ।
उपनिषदो वेदान्ताः सर्वच्छन्दःसु संहिता मधून्य् अघमर्षणम् अथरवशिरो रुद्राः पुरुषसूक्तं राजनरौहिणे सामनी बृहद्रथन्तरे पुरुषगतिर् महानाम्न्यो महावैराजं महादिवाकीर्त्यं ज्येष्ठसाम्नाम् अन्यतमद् बहिष्पवमानं कूश्माण्डानि पावमान्यः सावित्री चेति पावनानि ॥ १९.१३ ॥
उपनिषदो रहस्यब्राह्मणानि । वेदान्ता आरण्यकानि । सर्वच्छन्दःसु संहिता, न पदानि क्रमो वा । सर्वच्छन्दःस्व् इति विशेषणं न स्वशाखायाम् एवेति ज्ञापनार्थम् । मधूनि “मधु वाता ऋतायते” [र्व् १.९०.६] इत्यादीनि मधुशब्दसंयुतानि । अघमर्षणं “ऋतं च सत्यं च” इत्यादि । अथर्वशिरो ऽथर्ववेदे प्रसिद्धम् । रुद्राः “नमस् ते रुद्र मन्यवे” [व्स् १६.१] इत्यादिरुद्रशब्दयुक्ताः । पुरुषसूक्तम् “सहस्रशीर्षाः पुरुषः” [र्व् १०.९०] इत्यादि । राजरौहिणे “इन्द्रं नरो नेमधिता हवन्ते” [र्व् ७.२७.१] इत्य् अस्याम् ऋचि गीते सामनी । यजुषोर् अप्य् एवन्नामत्वात् सामग्रहणम् । बृहत् “त्वाम् इद्धि हवामहे” [र्व् ६.४६.१] इत्य् अस्याम् ऋचि गीतम् । रथन्तरम् “अभि त्वा शूर नोनुमः” [र्व् ७.३२.२२] इत्य् अस्याम् ऋचि गीतम् । पुरुषगतिः “अहम् अस्मि प्रथमजा ऋतस्य” [र्व् ७.२७.१] इत्य् अस्याम् ऋचि गीयेते । “त्वाम् इद्धि हवामहे” [र्व् ६.४६.१] इत्य् आभ्यां बृहत् । “अभि त्वा शूर नोनुमः” [र्व् ७.३२.२२] इत्य् अत्र रथन्तरम् । “अहम् अस्मि प्रथमजा ऋतस्य” [तैत्ब्र् २.८.८.१] इत्य् अस्यां गीतम् । महानाम्न्यः “विदा मघवन्” [ऐता ४.१५] इत्य् अस्यां साम । महावैराजम् “पिबा सोमम्” [र्व् ६.१७.१] इत्य् अस्याम् ऋचि गीतम् । महादिवाकीर्त्यम् “विभ्राड् बृहत् पिबत्” [र्व् १०.१७०.१] इत्य् अस्यां साम । ज्येष्ठसाम्नाम् अन्यतमत् “शं नो देवीः” [र्व्१०.९.४] “चित्रं देवानाम्” [र्व् १.११५.१] इत्य् अनयोः तृचेष्व् एकं साम । बहिष्पवमानम् “उपास्मै गायता नरः” [र्व् ९.११.१] इत्याद्याः । कूश्माण्डानि “यद् देवा देवहेलनम्” [व्स् २०.१४] इत्यादीनि यजूंषि । पावमान्यः पवमानलिङ्गानि “स्वादिष्ठया मदिष्ठया” [र्व् ९.१.१] इत्यादीनि । सावित्री प्रसिद्धा । चशब्दो ऽनुक्तोपसङ्ग्रहार्थः, ततश् च सामादीनि स्मृत्यन्तरोक्तानि द्रष्टव्यानि । इतिशब्दः प्रकारवाची एवम्प्रकारा एवेति । तथा च स्मृत्यन्तरपठितानां शिवसङ्कल्पादीनाम् एव ग्रहणं द्रष्टव्यम्, न चापठितानां श्रीसूक्तादीनाम् । विसमासः एकैकस्यैव पावनार्थः ।
ननु च जपस्य निष्क्रयत्वेनोक्तत्वात् तत्साधनत्वाच् चैषां पावनत्वं सिद्धम् एवेत्य् अनर्थकं पावनग्रहणम् ।
उच्यते – निमित्ताद् अन्यत्राप्य् एषां पवित्रत्वज्ञापनार्हं पावनग्रहणम् इति ॥ १९.१३ ॥
इदानीम् जपादिप्रवृत्तस्याहारनियमम् आह ।
पयोव्रतता शाकभक्षता फलभक्षता प्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानम् इति मेध्यानि ॥ १९.१४ ॥
पयोव्रतता क्षीराहारता । व्रतग्रहणाद् उपवासन्यायो द्रष्टव्यः । शाकं प्रसिद्धम् । फलं आम्रफलादि । प्रसृतयावकः, प्रकरणात् प्रसृतयावकाशनम् इति वक्तव्ये एवम् अभिधानं स्मृत्यन्तरोक्तविध्युपसङ्ग्रहणार्थम् । तथाह उशना-
स्नातः शुचिर् भूत्वोदितेषु नक्षत्रेषु ताम्रभाजने प्रसृतयावकं श्रपयेत् यथा यवागूर् भवति । तस्मिन् श्रपणकाले रक्षां कुर्यात् “नमो रुद्राय भूतानां पतये पर्वतानां पतये त्वम् इमां रक्षस्व” इत्य् अनेन मन्त्रेअण । ततः प्रणवेनावरोप्य “देवस्य त्वा सवितुः” इत्यादिनोत्पूय सावित्र्याभिधार्य ततो ऽभिमन्त्रयेत्-
यवो ऽसि धान्यराजो ऽसि वारुणो मधुसंयुतः ।
निर्णोदः सर्वपापानां पवित्रम् ऋषिभिः स्मृतः ॥
वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम् ।
अलक्ष्मी कालकण्ठी च सर्वं पुनीत मे यवाः ॥
महापातकसंयुक्तं दारुणं राजकिल्बिषम् ।
स्त्रीबालवृत्तधर्मं च सर्वं पुनीत मे यवाः ॥
सुवर्णस्तैन्यम् अव्रत्यम् अयाज्यस्य च याजनम् ।
ब्राह्मणानां परीवादं सर्वं पुनीत मे यवाः ॥
श्वसूकरावधूतं च काकाद्युच्छिष्टम् एव च ।
मातापित्रोर् अशुश्रूषां सर्वं पुनीत मे यवाः ॥
गणान्नं गणिकान्नं च शूद्रान्नं शवसूतके ।
चोरस्यान्नं तथाभक्ष्यं सर्वं पुनीत मे यवाः ॥
इत्य् एतैः षड्भिः, ततो “ब्रह्मा देवानाम्” इति प्राश्य, “प्राणाय त्वा” इत्यादिभिस् ततो यथाकामं सर्वं प्राश्नीयात् षड्रात्रं ततो नियमातिक्रमजात् प्रतिषिद्धसेवनजात् अभक्ष्यभक्षणजाद् उपपातकजाच् च सर्वस्मात् पापात् प्रमुच्यते । सप्तरात्रं पीत्वा भ्रूणहत्यां गुरुतल्पसुवर्णस्तैन्यसुरापानादि पुनाति । एकादशरात्रं पीत्वा पूर्वकृतानि पापानि नुदति । एकविंशतिरात्रं पीत्वा गणान् पश्यति गणाधिपतिं पश्यति विद्याः पश्यति विद्याधिपतिं पश्यति । एवम् अहर् अहर् अनत्याहारो यवागूं प्राश्नीयात् ।
इति ।
हिरण्यादीनि प्रसिद्धानि । इतिकरणेन प्रकारवाचिनान्येषां पञ्चगव्यादीनाम् अपि प्राशनं द्रष्टव्यम् । पुनः पुनः क्रियापदाभ्यासः एकैकस्य मेध्यत्वज्ञापनार्थः ॥ १९.१४ ॥
इदानीं जपादीनां स्थानम् आह ।
सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रदास् तीर्थानि ऋषिनिवासगोष्ठपरिष्कन्दा इति देशाः ॥ १९.१५ ॥
सर्वे शिलोच्चयाः पर्वताः, उपरिष्टात् पुण्या इत्य् उपादानाद् अपुण्यानाम् अपि ग्रहणार्थं सर्वग्रहणम् । पुण्याः कैलासादयः, अपुण्याः अविवक्षिताः । पुण्या नद्य गङ्गादयः, अपुण्याः क्षुद्रनद्यः । पुण्या ह्रदाः अशोष्याः श्रीपुष्करादयः । तीर्थानि कन्यातीर्थादीनि । ऋषिनिवासाः वसिष्ठाद्याश्रमाः । गोष्ठं प्रसिद्धम् । परिष्कन्दः देवालयः,
सुराणां च परिष्कन्दं ब्राह्मणं च वनस्पतिम् ।
कुर्यात् प्रदक्षिणं नित्यं वाराहं वामनं तथा ॥
इति शिष्टस्मरणात् । इतिकरणम् अन्येषां पुण्यारण्यादीनाम् उपलक्षणम् । एवं च नैमिशारण्यादयो द्रष्टव्याः । विसमास उक्तप्रयोजनः ॥ १९.१५ ॥
इदानीं तपःस्वरूपम् आह ।
**ब्रह्मचर्यं सत्यवचनं सवनेषूदकोप-स्पर्शनम् आर्द्रवस्त्रताधःशायितानाशक इति तपांसि **
॥ १९.१६ ॥
ब्रह्मचर्यादि प्रसिद्धम् । सवनशब्देन पूर्वाह्णमध्यन्दिनापराह्णा उच्यन्ते, बहुवचनात् । इतिकरणं प्राणायामादीनाम् उपसङ्ग्रहार्थम् । तथाह कवषः ।
उपस्थपायुमनोवाक्श्रोत्रत्वग्घ्राणचक्षुर्जिह्वाकृतानां पापानाम् अहर् अहः सायं प्रातस् त्रीन् प्राणायामान् धारयेत् । शूद्रान्नभोजनतत्स्त्रीगमनतत्प्रतिग्रहेषु समुच्चितेषु सप्ताहं सप्त प्राणायामान् धारयेत् । पृथक् पृथक् त्र्यहम् । अभक्ष्याभोज्यापेयालेह्यानां प्राशने अपुण्यानां मधुमांसघृततैललाक्षालवण-दधिक्षारक्षीरवर्जितानां विक्रये च द्वादशाहं द्वादश द्वादश प्राणायामान् धारयेत् । उपपातकेष्व् अर्धमासं द्वादश द्वादश प्राणायामान् धारयेत् । पातकसमानां चतुर्मासं द्वादश द्वादश प्राणायामान् धारयेत् । अथ पतनीयेषु षण्मासं द्वादश द्वादश प्राणायामान् धारयेत् । गुरुतल्पसमानां संवत्सरं द्वादश द्वादश प्राणायामान् धारयेत् । अथाप्य् उदाहरन्ति ।
> सव्याहृतिकाः सप्रणवाः प्राणायामास् तु षोडश ।
> अपि ब्रूणहनं मासात् पुनन्त्य् अहर् अहः कृताः ॥ इति ।
एवम् अन्येषाम् आजस्रिकाणां जपादीनां कालविशेषो विज्ञातव्यः । इति ।
तथा च पौराणिकाः ।
प्राणायामाः ब्रह्मचर्यं मौनं चैव निराशनम् ।
इत्य् एतत् तपसो रूपं ध्यानं च परमेष्ठिनः ॥ इति ।
होमाः कूश्माण्डगणहोमादयः स्मृत्यन्तरे प्रसिद्धाः । यथाह उशना ।
अगम्यागमने सुवर्णस्तेये निक्षेपहरणे गर्हितान्नादिभोजने अभक्ष्यभक्षणे पर्वमैथुने रजस्वलागमने ऽयाज्ययाजने पौर्णमास्यां लुप्तकेशनखस्मश्रुः स्नातः ततः प्रभृति कूश्माण्डैर् जुहुयाच् चतुर्भिः सकृद् घृतं सप्ताहं द्वादशाहम् अर्धमासं मासम् । इति ।
यथाह व्याघ्रः-
पातकोपपातकमहापातकानाम् अन्येषां च सर्वेषां पापानां पूर्वं कृतानाम् अपि गणहोमं कुर्यात् सकृत् कृतेनापि सर्वं तरति किं पुनर् अभ्यासेनेति । अथाप्य् उदाहरन्ति ।
वैश्वानरीं व्रातपतीं पवित्रेष्टिं तथैव च ।
ऋताव् ऋतौ प्रयुञ्जानः पुनाति दशपौरुषम् ॥
इति विज्ञायते विज्ञायते । इति ।
प्रसिद्धत्वाद् एवात्रानुपादानम् । तथैवोपवासस्यापि ॥ १९.१६ ॥
इदानीं दानसाधनं दर्शयति ।
हिरण्यं गौर् वासो ऽश्वो भूमिस् तिला घृतम् अन्नम् इति देयानि ॥ १९.१७ ॥
हिरण्यादीनि प्रसिद्धानि । इतिकरणं रत्नादीनाम् उपसङ्ग्रहार्थम् ॥ १९.१७ ॥
कालम् इदानीम् आह ।
संवत्सरः षण्मासाश् चत्वारस् त्रयो द्वाव् एकश् चतुर्विंशत्यहो द्वादशाहः षडहस् त्र्यहो ऽहोरार इति कालाः ॥ १९.१८ ॥
इतिकरणात् केवला रात्रिर् अहश् च गृह्यते ॥ १९.१८ ॥
इदानीं प्रतिपापम् आनन्त्यात् प्रायश्चित्तोपदेशो न शक्यत इत्य् अत आह ।
एतान्य् एवानादेशे विकल्पेन क्रियेरन्, एनःसु गुरुषु गुरूणि लघुषु लघूनि ॥ १९.१९ ॥
एतान्य् एव जपादीनि । एवेत्य् अवधारणार्थः । यदि हि “एतान्य् अनादेशे” इत्य् एतावद् उच्येत ततो यत्र स्वशब्देन प्रायश्चित्तानि नोपदिष्टानि तत्रैव जपादीनां कल्पना स्यात् । एवकाराद् उपदिष्टे ऽप्य् अभ्यासात् प्रतिपूरणसिद्धिः । अनादेशो यत्रान्यत् प्रायश्चित्तं नोपदिष्टम् इत्य् अर्थः । अनादेश इत्य् असति उपदिष्ट एव तैः सह भवतीति । विकल्पेन विविधाभिः कल्पनाभिर् इत्य् अर्थः । क्वचिज् जप एव क्वचित् तप एवेत्यादि क्रियेरन् । एतस्मिन्न् असति यथोपदिष्टानां जपादीनां द्विसमुच्च्यत्रिसमुच्चयादिकल्पनं न स्यात् । सति तु तस्मिन् क्वचिज् जपः क्वचित् तपश् च दानं चेत्यादिकल्पनासिद्धिः । क्व पुनर् एषां कल्पनेत्य् अत आह- एनसि पापे गुरुणि गुरूणि महान्ति प्रायश्चित्तानि लगुनि अल्पे लघूनि अल्पानि प्रायश्चित्तानि । कथम् अधर्मस्य गौरवलाघवं विज्ञायत इति चेद्, उच्यते – अभिसन्ध्यनभिसन्ध्यभ्यासादिभिः । यथाह आपस्तम्बः- “यः प्रमत्तो हन्ति प्राप्तदोषफलम्, सह सङ्कल्पेन भूयः, एवम् अन्येष्व् अपि दोषवत्सु कर्मसु, तथा पुण्यफलेषु, यथा कर्माभ्यासः” [आप्ध् १.२९.२–५, १८] इति । यत्र तु प्रतिषेध एव केवलः, तत्रापि राजदण्डापेक्षया, स्मृत्यन्तरे वा निन्दार्थवादफलविपाककथनेन पीडाद्यतिशयापेक्षया वा गुरुत्वादि वेदितव्यम् इति ॥ १९.१९ ॥
कृच्छातिकृच्छ्रौ चान्द्रायणम् इति सर्वप्रायश्चित्तं सर्वप्रायश्चित्तम् ॥ १९.२० ॥
कृच्छ्रादिस्वरूपं वक्ष्यति । सर्वप्रायश्चित्तं न केवलम् अनादेशे ऽपीत्य् अर्थः । सामर्थ्याद्यपेक्षया गुरुणि लघुनि वा प्रकाशे रहस्ये चेति । चान्द्रायणस्य पृथगभिधानं कृच्छ्रातिकृच्छ्र्योः स्थाने चान्द्रायणस्यैव केवलस्य कल्पनार्थम् । एवं च तस्यापि स्थाने तयोर् अपि कल्पनासिद्धिः । व्यस्तानाम् अपि कल्पनार्थम् इतिकरणम् । ततश् च कृच्छ्रातिकृच्छ्रौ सम्भूय सर्वप्रायश्चित्तम्, केवलं चान्द्रायणम् अपि सर्वप्रायश्चित्तम् इति । एकवचनं समस्तानाम् अपि कल्पनार्थम् । केचिद् इतिकरणं प्रकारस्याप्य् उपसङ्ग्रहार्थम् इति व्याचक्षते । यथाह मनुः ।
यतात्मनो ऽप्रमत्तस्य द्वादशाहम् अभोजनम् ।
पराको नाम कृच्छ्रो ऽयं सर्वपापप्रणाशनः ॥ इति । [म्ध् ११.२१५]
प्राजापत्यचान्द्रायणयोः स्थाने पराको द्रष्टव्यः । कुतः? तुल्यदण्डदर्शनात् । यथाह लोकाक्षिः ।
त्रयस्त्रिंशत् पणानां तु प्राजापत्यस्य दापयेत् ।
शतं सपादं दाप्यं स्यात् तथा सान्तपनस्य तु ॥
अतिकृच्छ्रस्य तु तथा सप्तषष्टिश् चतुःशतम् ।
कृच्छ्रातिकृच्छ्रयोश् चैव पणपञ्चशतं तथा ॥
दापयेच् च पराकस्य पणपञ्चशतं तथा ।
त्रयस्त्रिंशाधिकं दण्डम् इत्य् आहुर् ब्रह्मवादिनः ॥ इति ।
प्रायश्चित्तं निष्क्रयणम् इत्य् अर्थः । एवं च सति सर्वनिष्क्रयणम् इति वक्तव्यम् इत्य् चेत्, अत्रोच्यते – यन् निष्क्रयणार्थं क्रियते तस्य प्रायश्चित्तम् इति सञ्ज्ञा भवतीति ज्ञापनार्थम् । अन्वर्थसञ्ज्ञार्थं गुरुसञ्ज्ञाकरणम् । तथाह व्याघ्रः ।
प्रायो नाम तपः प्रोक्तं चित्तं संयम उच्यते ।
तपः संयमसंयुक्तं प्रायश्चित्तं विदुर् बुधाः ॥
इति ॥ १०.२० ॥
इति मस्करीये गौतमभाष्ये एकोनविंशो ऽध्यायः
विंशो ऽध्यायः
याप्यकर्मसम्बन्धे प्रायश्चित्तविधिर् उक्तः । तत्र यदि पिता याप्यकर्मसम्बन्धी भवति तदा पुत्रः किं कुर्याद् इत्य् अत आह ।
त्यजेद् पितरं राजघातकं शूद्रयाजकं शूद्रार्थयाजकं वेदविप्लावकं भ्रूणहनं यश् चान्तावसायिभिः सह संवसेद् अन्तावसायिन्याम् ॥ २०.१ ॥
त्यजेत् वक्ष्यमाणेन विधिना । पितरम् इति पितृवचनाद् दण्डापूपिकया पुत्रादीनाम् अर्थसिद्धस् त्यागः । राजघातकं राजानं न्यायवृत्तम् अभिचारेण यो हिनस्ति स त्यक्तव्यः । एवं चान्यायवृत्तम् अभिचारेण प्रमापयतो नास्ति त्यागः । तथा पुराण उक्तम् ।
चातुर्विदं हतं तेन यो हिनस्ति महीपतिम् ।
बहिष्कार्यः स सर्वेण पापकर्मा न मन्त्रतः ॥ इति ।
यत् तु वक्ष्यति “न कर्हिचित् मातापित्रोर् अवृत्तिः” [ग्ध् २१.१५] इति, तद् अन्यत्र द्रष्टव्यम् । शूद्रयाजकं शूद्रस्य यो निषादस्थपतीष्टिं कारयति, तस्येष्टिविधानात् । एवं तर्हि भ्रूणहत्यायां सर्वस्य चोदनावद् द्रष्टव्यम् । शूद्रार्थयजकं य शूद्राद् अर्थम् अधिगम्य यागं करोति । तथाह मनुः- “ये शूद्राद् अधिगम्यार्थम्” [म्ध् ११.४२] इति । वेदविप्लावकम् अनध्याप्याध्यापकम् । भ्रूणहा ब्रह्महा, तद्ग्रहणं पतितोपलक्षणम् । यथाह मनुः ।
पतितस्योदकं कार्यं सपिण्डैर् बान्धवैर् बहिः ।
निन्दिते ऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ ॥ इति । [म्ध् ११.१८२]
“यश् चान्तावसायिभिः सह संवसेत्” । अन्तावसायिनः चाण्डालादयः । यथाह अङ्गिराः ।
चण्डालः श्वपचः क्षत्ता सूतो वैदेहकस् तथा ।
मागधायोगवौ चैव सप्तैते ऽन्तावसायिनः ॥ इति ।
तैः सहैकत्रावस्थाने वसति, चकाराच् चाक्रिकादिभिश् च । यथाह कण्वः ।
चाक्रिकः पुल्कसो जम्भः खरजीवी प्रदीपकः ।
एते च शूद्रप्रभवाः अस्पृश्याः परिकीर्तिताः ॥ इति ।
अन्तावसायिन्यां संवसेद् इति सम्बन्धः, तया सह मैथुनम् आचरतीत्य् अर्थः । अथ किम् एतेषु राजघातकत्वादिषु निमित्तेषु सत्सु पतितत्वं भवति उत न भवतीति सन्देहः ।
किं चातः? यदि तावद् भवति ततो “ब्रह्महसुराप” [ग्ध् २१.१] इत्य् अत्रैवैषां पाठं कृत्वा “त्यजेत् पतितं पितरम्” इत्य् एतावद् एव वक्तव्यम्, एवं चेह भ्रूणहनम् इति न वक्तव्यं भविष्यति । अथ न भवति, ततस् त्यागो न युज्यते । स्मृत्यन्तरे ऽपि पतितत्वसंयोग एव त्यागविधिर् उक्तः । तथा च दर्शितो मानवश्लोकः- “पतितस्योदकं कार्यम्” [म्ध् ११.१८२] इत्यादि ।
अत्रोच्यते – पतितत्वं तावत् भवत्य् एषु निमित्तेषु । तथापि पातकिमध्ये न पठितं प्रायश्चित्तलाघवार्थम् । भ्रूणहग्रहणं तत्साम्यापादनेन तत्समप्रायश्चित्तज्ञापनार्थम् । यत्र समीक्रियते तत्र हीनतापि गम्यते यथा राजसमो मन्त्रीति । एषां मध्ये केषाञ्चित् प्रायश्चित्तं श्रूयते “राजन्यवधे षड्वार्षिकम्” [ग्ध् २२.१३] इत्यादि । तथा “अन्तावसायिनीगमने कृच्छ्राब्दः” [ग्ध् २३.३३] इत्यादि । येषां नोपलब्यते तेषां सर्वप्रायश्चित्तं कल्प्यम् । एवं सर्वत्र समीकरणविषये सर्वप्रायश्चित्तम् एव द्रष्टव्यम् । एवं तर्हि तुल्यप्रायश्चित्तत्वात् कौटसाक्ष्यादीनाम् इह पाठः प्रसज्येतेति चेत्, उच्यते – एतेष्व् एव पतितेषु पिता त्यक्तव्यो न त्व् अन्यत्रेति भेदारम्भः । अत्र राजघातादिष्व् अबुद्धिपूर्वेष्व् अपि पतितत्वं द्रष्टव्यम् । कुतः? सहोपदिष्टानां मध्ये एकस्याबुद्धिपूर्वविषये ऽपि पतितत्वदर्शनात् । यथाह मनुः ।
चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ [म्ध् ११.१७५]
इति ॥ २०.१ ॥
अथेदानीं तस्य त्यागविधिर् उच्यते ।
तस्य विद्यागुरून् योनिसम्बन्धांश् च सन्निपात्य सर्वाण्य् उदकादीनि प्रेतकर्माणि कुर्युः ॥ २०.२ ॥
तस्य त्याज्यस्य नात्मनः विद्यागुरवः आचार्यगुरूपाध्यायाः बहुवचनप्रयोगात् त्रीन् अपि । योनिसम्बन्धाः मातुलमातामहादयः । तत्रापि बहुवचन्म् उक्तप्रयोजनम् । चकाराद् ऋत्विग्याज्यादयश् च । सन्निपात्य एकीकृत्य अयम् एवङ्कर्मा त्यक्ष्याम्य् अहम् एनम् इति प्रकाश्य पुत्रादयो ज्ञातयो जीवत एव सर्वाण्य् उदकदानश्राद्धादीनि प्रेतकर्माणि कुर्युः ॥ २०.२ ॥
पात्रं चास्य विपर्यस्येयुः ॥ २०.३ ॥
अस्य त्याज्यस्य पात्रं च विपर्यस्येयुः त एव ज्ञातयः । विपर्यासो ऽनुदकीकरणम् । उदकदानेन समुच्चयार्थश् चकारः । श्राद्धकर्मानन्तरं मा भूद् इति ततश् चोदकदानं कृत्वा पात्रविपर्यासं च कृत्वा श्राद्धं कुर्याद् इति द्रष्टव्यम् ॥ २०.३ ॥
कथं विपर्यस्येयुर् इत्य् अत आह ।
दासः कर्मकरो वावकराद् अमेध्यपात्रम् आनीय दासीघटात् पूरयित्वा दक्षिणामुखः पदा विपर्यस्येद् अमुम् अनुदकं करोमीति नामग्राहम् ॥ २०.४ ॥
दासो ध्व्जाभृतादि । यथाह मनुः66 ।
ध्वजाभृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ ।
पैतृको दण्डदासश् च सप्तैते दासयोनयः ॥ इति । [म्ध् ८.४१५]
कर्मकरो भृतकः । सम्भवतश् चानयोर् विकल्पः । अवकरात् वर्चस्थानात् अशुचि पात्रं किञ्चिद् आदाय दासी परिचारिणी तस्या घटात् पूरयित्वा । अनेनैवान्यत्र दासीघटस्याशुचित्वं द्रष्टव्यम् । दक्षिणामुखो भूत्वा पदा पादेन विपर्यस्येत् अपसव्यम् उत्सृजेत् “अमुं देवदत्तम् अनुदकं करोमि” इति मन्त्रम् उक्त्वा । अमुम् इत्य् अनेनैव नामग्रहणस्य सिद्धत्वात् नामग्राहम् इति विस्पष्टार्थम्, न तूपांशु जपेद् इति ॥ २०.४ ॥
तं सर्वे ऽन्वालेभेरन् प्राचीनावीतिनो मुक्तशिखाः
॥ २०.५ ॥
तं दासं कर्मकरं वा, सर्वे सपिण्डा न केवलं पुत्रः, अन्वालभेरन् संस्पृशेयुर् इत्य् अर्थः । प्राचीनावीतिनः अपसव्ययज्ञोपवीतिनः । मुक्तशिखाः शिखां विकीर्य । अनेनैव ज्ञापकेनान्यस्मिन्न् आचमनादौ शुभकर्मणि मुक्तशिखस्यायोग्यत्वं द्रष्टव्यम् ॥ २०.५ ॥
विद्यागुरवो योनिसम्बन्धाश् च वीक्षेरन् ॥ २०.६ ॥
न तु स्पृशेयुर् इत्य् अर्थः । चकाराद् ऋत्विगादयश् च ॥ २०.६ ॥
अप उपस्पृश्य ग्रामं प्रविशन्ति ॥ २०.७ ॥
एवम् इदं कर्म कृत्वा ततः स्नात्वा गृहान् गच्छन्ति । एकस्मिन्न् एवाहनि श्राद्धादीनि गम्यन्ते । ग्रामप्रवेशोपदेशाच् च बहिर् इदं कर्तव्यम् इति ॥ २०.७ ॥
अत ऊर्ध्वं तेन सम्भाष्य तिष्ठेद् एकरात्रं जपन् सावित्रीम् अज्ञानपूर्वम् ॥ २०.८ ॥
अतस् त्यागाद् ऊर्ध्वं तेन त्यक्तेन सह सम्भाष्य सम्भाषणं कृत्वा । अज्ञानाद् इदं प्रायश्चित्तं द्रष्टव्यम् । तिष्ठेद् इत्य् एकवचनात् ज्ञात्यादेर् अन्यो ऽपि, अधिकारात् ज्ञातय एव । एकरात्रम् अहोरात्रं न भुञ्जीतेत्य् अर्थः । सावित्रीं जपन् ॥ २०.८ ॥
ज्ञानपूर्वं चेत् त्रिरात्रम् ॥ २०.९ ॥
यस् तु बुद्धिपूर्वम् अनेन सम्भाषेत स त्रिरात्रम् एवंविधोक्तं67 विधिम् आतिष्ठेत् । तावच् चैतद् एवं यावद् असाव् अकृतप्रायश्चित्तः । कार्यान्तरसम्भाषणम् इदं न पथि प्रश्नादौ । तत्र पराशरोक्तं द्रष्टव्यम् ।
क्षुते निष्ठीविते चैव दन्तस्पृष्टे तथानृते ।
पतितानां भाषणे च दक्षिणं श्रवणं स्पृशेत् ॥ [पार्स्म् १२.१९]
इति ॥ २०.९ ॥
यस् तु प्रायश्चित्तेन शुद्ध्येत् तस्मिन् शुद्धे शातकुम्भमयं पात्रं पुण्यतमाद् ध्रदात् पूरयित्वा स्रवन्तीभ्यो वा तत एनम् अप उपस्पर्शयेयुः ॥ २०.१० ॥
तुशब्दो ऽवधारणार्थः । यस् तु प्रायश्चित्तेन शुद्ध्येत् न राजदण्डेन । एवं च ब्रुवता अन्यत्र राजदण्डस्यापि शुद्धिकारणत्वम् उक्तम् । ततश् चान्यत्र राजदण्डितस्यापि शुद्धिर् वेदितव्या । तस्मिन् शुद्धे लोकसमक्षं चरितप्रायश्चित्तः इत्य् अर्थः । शातकुम्भमयं पात्रं सौवर्णपात्रम् अतिशयेन पुण्याद् ध्रदाद् अशोष्यप्रायात् पूरयित्वा स्रवन्तीभ्यो वा सदाप्रवाहाभ्यो नदीभ्यः । बहुवचनात् बह्वीभ्यः । सम्भवतो विकल्पः । ततस् तस्मात् पात्राद् एनं कृतप्रायश्चित्तं स्नापयेयुर् वक्ष्यमाणैर् मन्त्रैः । सामर्थ्यात् पूर्वं परित्यक्तारः ॥ २०.१० ॥
अथास्मै तत् पात्रं दद्युस् तत् प्रतिगृह्य जपेच् छान्ता द्यौः शान्ता पृथिवी शान्तं शिवम् अन्तरिक्षं यो रोचनस् तम् इह गृह्णामीत्य् एतैर् यजुर्भिः पावमानीभिस् तरत्समन्दीभिः ॥ २०.११ ॥
अथ अनन्तरम् अस्मै स्नाताय तत् पूर्णपात्रं दद्युः । तत् प्रतिगृह्येमं मन्त्रं जपेत् । कैर् मन्त्रिः? शान्तेति वक्ष्यति । एतैर् एवोक्तैः शान्ता द्यौर् इत्यादिभिर् यजुर्भिः । पवमानीभिः “पवमानः सुवर्जनः” इत्य् अष्टाभिः तरत्समन्दीभिश् चतसृभिः ॥ २०.११ ॥
कूश्माण्डैश् चाज्यं जुहुयात् ॥ २०.१२ ॥
जुहुयाद् इत्य् एकवचननिर्देशाद् एक एव जुहुयात्, न सर्वे ज्ञात्यादयः । तेषां मध्ये योग्यस्येदं द्रष्टव्यम् । कूश्माण्डैः “यद् देवा देवहेडनम्” इत्यादिभिर् आज्यं जुहुयात् । चशब्दान् महाव्याहृतिभिश् च ॥ २०.१२ ॥
**हिरण्यं ब्राह्मणाय दद्याद् गां वाचार्याय च **
॥ २०.१३ ॥
होमान्ते सुवर्णं ब्राह्मणाय दद्याद् गुणातिशययुक्ताय, ब्राह्मणस्यैव प्रतिग्रहाधिकारे ब्राह्मणग्रहणात् । कृतप्रायश्चित्तस्येदम्, न होमकर्तुः । गां वा आचार्याय च । चकारो हिरण्याधिकारार्थः । आचार्याय होमकर्त्रे गां वा हिरण्यं वा दद्यात् । एतस्य द्वयं मुख्यम्, गौर् हिरण्यम् अपि द्रष्टव्यम्, समविकल्पोदपेशात् ॥ २०.१३ ॥
यस्य तु प्राणान्तिकं प्रायश्चित्तं मृतः शुध्येत्
॥ २०.१४ ॥
यस्य तु प्राणान्तिकं मरणान्तिकं प्रायश्चित्तम् उपदिष्टम्, यतमानो म्रियेत, असौ मरणाद् एव शुध्यति । ज्ञायमानम् अप्य् एतद् उच्यते – प्रत्युद्धारे सत्य् अपि सपिण्डताप्रतिषेधार्थम् । तुशब्दो विशेषार्थः । प्राणान्तिकं प्रायश्चित्तम् अध्यवस्य प्रायश्चित्तमध्ये यदि म्रियेत तदापि शुध्यति विशेषतः कृतप्रायश्चित्तो मृत इति । तथाह व्यासः ।
यतमानः सदा धर्मे म्रियते यदि मध्यतः ।
प्राप्नोत्य् एव हि तत् सर्वं अत्र मे नास्ति संशयः ॥
इति ॥ २०.१४ ॥
सर्वाण्य् एव तस्मिन्न् उदकादीनि प्रेतकर्माणि कुर्युः
॥ २०.१५ ॥
सर्वाण्य् एवोदकश्राद्धादीनि यावन्ति प्रेतसंस्कारकर्माणि तानि सर्वाणि तस्मिन् यो मरणान्तिकप्रायश्चित्तकः पूतो यश् च प्रत्युद्धृतो यश् चान्तरा म्रियते । अर्थाद् एतद्व्यतिरिक्तस्य न कार्याणि । सर्वशब्दाद् आशौचम् अपि सपिण्डाः कुर्युः ॥ २०.१५ ॥
एतद् एव शान्त्युदकं सर्वेषूपपातकेषूपपातकेषु
॥ २०.१६ ॥
एतद् एव यदन्तरम् उक्तं शान्त्युदकम् इति शान्ता द्यौर् इत्यादिभिर् अभिमन्त्रितं स्नानाय यज् जलम् उक्तं तद् एव सर्वेषु, सर्वशब्दान् महापातकसमेष्व् अप्य् उपपातकेषु वक्ष्यमाणेषु तत्प्रायश्चित्तादाव् एतद् अपि कर्तव्यम् इति ॥ २०.१६ ॥
इति मस्करीये गौतमभाष्ये विंशो ऽध्यायः
एकविंशो ऽध्यायः
पतितानां त्यागविधिर् उक्तः । के पुनस् ते इत्य् अत आह ।
ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसम्बन्धाग-स्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतित-त्यागिनः पतिताः ॥ २१.१ ॥
ब्रह्महा ब्राह्मणवधकृत् । सुरापः त्रिप्रकारायां सुरायां यस्य या प्रतिषिद्धा तां पीतः । यथाह मनुः ।
गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका न पातव्या तथा सर्वा द्विजोत्तमैः ॥ इति । [म्ध् ११.९४]
गुरुतल्पगः – गुरोर् आचार्यस्य, तल्पशब्देन शयनवाचिना भार्या लक्ष्यते, तां मैथुनाय यो गच्छति । मातृसम्बन्धागः मातृपक्षे अर्वाक् पञ्चमात् या कन्या तां वरयिता । पितृसम्बन्धागः पितृपक्षे ऽपि सप्तमाद् अर्वाक् । योनिसम्बन्धागः भगिनीभर्ता । स्तेनः सुवर्णचोरः । नास्तिकः परलोकाद्यभाववादी । निन्दितकर्माभ्यासी निन्दितस्य प्रतिषिद्धस्य बुद्धिपूर्वं सान्तत्येन सेवकः । कर्मग्रहणात् कायिकस्यैवेदम्, न वाङ्मनसयोर् अपचारेण । ब्रह्महादीनां पतितानां यस् त्यागं न करोत्य् असौ पतितात्यागी । अपतितानां द्वेषादिना यः परित्यागं करोत्य् असाव् अपतितत्यागी । एते ब्रह्महादयः पतिताः ॥ २१.१ ॥
पातकसंयोजकाश् च ॥ २१.२ ॥
ये पातकेषु प्रयोजयन्ति । चशब्दाद् अनुमन्ता च ॥ २१.२ ॥
तैश् चाब्दं समाचरन् ॥ २१.३ ॥
तैः सह संवत्सरं समाचरन् यानासनशयनैः । तथा च कण्वः ।
संवत्सरेण पतति पतितेन समाचरन् ।
यानासनशयैर् नित्यम् इत्य् आहुर् ब्रह्मवादिनः ॥ इति ।
चकाराद् याजनादिभिः सद्यो ऽपि । तथा च वृद्धयाज्ञवल्क्यः ।
याजनं योनिसम्बन्धं स्वाध्यायं सहभोजनम् ।
कृत्वा सद्यः पतत्य् एव पतितेन समाचरन् ॥ इति ।
अविशेषात् बुद्धिपूर्वे ऽबुद्धिपूर्वे च । तत्र अबुद्धिपूर्वे लघुतरं प्रायश्चित्तं द्रष्टव्यम् । यथाह वसिष्ठः ।
पतितसम्प्रयोगं च ब्राह्मेण वा यौनेन वा यास् तेभ्यः सकाशान् मात्रा उपलब्धास् तासां परित्यागस् तैश् च न संवसेद् उदीचीं दिशं गत्वानश्नन् संहिताध्ययनम् अधीयानः पूतो भवतीति व्ज्ञायते । इति । [वध् २०.४५–४६]
तत्र ब्राह्मेण वा यौनेन वेति द्वितीयो वाशब्दो यानासनशयनानाम् अप्य् उपसङ्ग्रहार्थः । अधीतवेदस्यैव संहिताध्ययनसम्भवात्, अनधीतवेदस्य यावता कालेन स्वशाख्यायाः संहिताध्ययनं समाप्यते तावन्तं कालं सावित्र्या जपो द्रष्टव्यः, “संहिताध्ययनम् अधीयीत तावन्तं कालं सावित्रीं जपेत्” इति स्मृत्यन्तरदर्शनात् । तथा च तैत्तिरीयाणां स्वाध्यायब्राह्मणलिङ्गम् – “अनश्नन् त्रिः स्वाध्यायं वेदम् अधीयीत त्रिरात्रं वा सावित्रीं गायत्रीम्” इत्यादि । एवं ब्राह्मणलिङ्गदर्शनात् वासिष्ठे अविशेषिते ऽपि त्रिः संहिताध्ययनं द्रष्टव्यम् । एकस्याध्ययनस्यैकं प्राजापत्यं द्रष्टव्यम् । यथाह कण्वः ।
एकम् अध्ययनं कुर्यात् प्राजापत्यम् अथापि वा ।
दद्याद् वा दशसाहस्रं गवां मुष्टिं विचक्षणः ॥ इति ।
बुद्धिपूर्वे तु मनुनोक्तं द्रष्टव्यम् ।
यो येन पतितेनैषां संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ॥ इति । [म्ध् ११.१८१]
संवत्सराद् अर्वाक् व्याघ्रोक्तं द्रष्टव्यम् ।
पतितेन तु संसर्गम् अज्ञात्वा कुरुते यदि ।
उत्सर्गं तस्य लब्धस्य कृत्वा सान्तपनं चरेत् ॥ इति ।
बुद्धिपूर्वे तु कण्वोक्तं द्रष्टव्यम् ।
पतितेन तु संसर्गस् त्व् अभिसन्धिकृतो यदि ।
कृत्वा लब्धसमुत्सर्गं चरेच् चान्द्रायणव्रतम् ॥ इति ।
सहभोजने तु लोकाक्षिर् आह ।
पतितैः सह भुक्त्वान्नं पराकेन विशुध्यति ।
ज्ञात्वा तु तद्व्रतं कुर्याद् इति धर्मविदो विदुः ॥
इति ॥ २१.३ ॥
किम् एषां पतितत्वम् इत्य् आह ।
द्विजातिकर्मभ्यो हानिः पतनम् ॥ २१.४ ॥
द्विजातिकर्मभ्यः श्रौतेभ्यो ऽग्निहोत्रादिभ्यः स्मार्तेभ्यश् चाष्टकादिभ्यः हानिः तैर् अनधिकार इत्य् अर्थः । कर्मभ्यो हानिर् इति वक्तव्ये द्विजातिग्रहणाच् छूद्रवद् अवस्थानं दर्शयति । शूद्रस्यापि च पतितत्वं प्रतिलोमवर्णवद् अवस्थानम् ॥ २१.४ ॥
न केवलं पतनम् । किं च ।
परत्र चासिद्धिः ॥ २१.५ ॥
पतनीयसेवायाः प्राग् अपि च यद् एतेन श्रेयः समाचरितं तत्फलेनासम्बन्ध इति परत्र चासिद्धिः । चशब्दाद् इह चाकीर्तिः । तद् एतत् पातकपदार्थस्वरूपावधारणं द्विजातिकर्मभिर् अनधिकारार्थं प्रायश्चित्तानुष्ठानप्ररोचनार्थं च ॥ २१.५ ॥
तम् एके नरकम् ॥ २१.६ ॥
तं कर्मभिर् अनधिकारं परत्र च शुभस्यानुपभोगं नरकं मन्यन्ते सुहृद्ज्ञातिवर्जितस्यातीव दुःखोत्पत्तेः नरको ऽपि दुःखकारणत्वात् । यथाह निरुक्तभाष्यकारः- “नरकं न्यक्करणं नीचैर् गमनं नास्यास्मिन् रमणं विद्यते” इति । गौतमस् तु नरकभाग् इति मन्यते ॥ २१.६ ॥
त्रीणि प्रथमान्य् अनिर्देश्यानि मनुः ॥ २१.७ ॥
एषां पातकानाम् आद्यानि त्रीणि ब्रह्महत्यासुरापानगुरुतल्पगमनानि पातकान्य् अनिर्देश्यानि, अनिर्देश्यप्रायश्चित्तत्वात् । मनुर् आह ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते । इति । [म्ध् ११.८९]
तथा सुरापाने ऽपि ।
मतिपूर्वम् अनिर्देश्यं प्राणान्तिकम् इति स्मृतम् । [म्ध् ११.१४५]
इत्य् एवमादि द्रष्टव्यम् । प्रत्यापत्त्यभावाद् वा अनिर्देश्यानीत्य् उक्तम् । यथाह आपस्तम्बः- “नास्यास्मिन् लोके प्रत्यापत्तिर् विद्यते कल्मषं तु निर्हन्यते” [आप्ध् १.२४.२५] इति । मनुग्रहणं स्मृत्यर्थस्य समस्तस्य मनुः स्मर्तेति प्रदर्शनार्थम् । तद् आहुः पौराणिकाः ।
ऋचो यजूंषि सामानि मन्त्रा आथर्वणाश् च ये ।
सप्तर्षिभिस् तु यत् प्रोक्तं स्मार्तं तन् मनुर् अब्रवीत् ॥
इति ॥ २१.७ ॥
न स्त्रीष्व् अगुरुतल्पः पततीय् एके ॥ २१.८ ॥
स्त्रीषु प्रवर्तमानस्य अगुरुतल्पं गुरुदारान् वर्जयित्वा अन्यस्त्रीगमनात् न पततीय् एके मन्यन्ते । गौतमस् तु सर्वत्र पततीत्य् एवेति । सो ऽयं बुद्धिपूर्वाबुद्धिपूर्वभेदेन विकल्पो द्रष्टव्यः । नागुरुतप इत्य् एव सिद्धे स्त्रीग्रहणं चातुर्वर्ण्यस्त्रीणाम् उपसङ्ग्रहणार्थम्, प्रतिलोमासु पतितत्वं यथा स्याद् इति । तथाह मनुः ।
चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ इति । [म्ध् ११.१७५]
एतत् त्रयं कृत्वा पतति न गमनमात्रेणेति चेत्, तद् अयुक्तम् – गमनमात्र एव प्रायश्चित्तोपदेशात् । यथाह वसिष्ठः- “अथापरं भ्रूणहत्यायां द्वादशरात्रम् अब्भक्षो द्वादशरात्रम् उपवसेद् अश्वमेधावभृतं वा गच्छेद् एतेनैव चण्डालीव्यवायो व्याख्यातः” [वध् २३.३८, ४०–४१] इति । इदम् अबुद्धिपूर्वे सकृद्गमने द्रष्टव्यम् । तत्रैवाभ्यासे गुरुतल्पप्रायश्चित्तं द्रष्टव्यम् । यथाह मनुः ।
गुरुतल्पव्रतं कुर्यात् रेतः सिक्त्वा स्वयोनिषु ।
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्व् अन्त्यजासु च ॥ इति । [म्ध् ११.१७०]
तस्माद् अभ्यासे सकृद्गमने च पतितप्रायश्चित्तातिदेशात् गमनमात्रेणापि पतत्य् एवेति । स्त्रीष्व् इति बहुवचनं पूजार्थम् । स्त्रीषु अपतितस्त्रीषु पतत्य् एव । यथाह कवषः ।
पतितां च स्त्रियं गत्वा पतत्य् अज्ञानतो द्विजः ।
तल्पव्रतं तदभ्यासे ज्ञानतस् तद्व्रतं चरेत् ॥ इति ।
अत्राबुद्धिपूर्वे ऽभ्यासे गुरुतल्पव्रतातिदेशात् सकृद्गमने वसिष्ठोक्तं द्रष्टव्यम्- “गुर्वीसखीं गुरुसखीम् अपपात्रां पतितां च गत्वा कृच्छ्राब्दपादं चरेत्” [वध् २०.१६] इति । बुद्धिपूर्वे सकृद्गमने ऽपि तद्व्रतं चरेद् इति द्रष्टव्यम् ॥ २१.८ ॥
भ्रूणहनि हीनवर्णसेवायां च स्त्री पतति ॥ २१.९ ॥
यच् चैतत् ब्रह्महत्याद्य् उपदिष्टं एतत् पुरुषवत् स्त्रिया अपि द्रष्टव्यम् । यत् तु तस्या अधिकं तद् उच्यते – भ्रूणहनं सेवमाना पततीति । भ्रूणहग्रहणं पतितोपलक्षणम् । हीनवर्णः शूद्रः । केचिद् उपसर्गप्रयोगात् प्रतिलोमम् आहुः । यथाह वसिष्ठः ।
चतस्रस् तु परित्याज्याः शिष्यगा गुरुगा च या ।
पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥ [वध् २१.१०]
इति त्यागोपदेशात्, पतितात्यागे पतितत्वप्रसङ्गात् । चकारो ब्रह्महत्यादिभिः समुच्चयार्थः । केचिद् गर्भपतनम् आहुः । यथाह वसिष्ठः ।
त्रीणि स्त्रियाः पातकानि लोके धर्मविदो विदुः ।
भर्तुर् वधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ॥ इति । [वध् २८.७]
तत्र पतितप्रतिलोमयोः संसर्गे पुरुषवत् प्रायश्चित्तं द्रष्टव्यम्,
एतम् एव विधिं विद्याद् योषित्सु पतितास्व् अपि । [म्ध् ११.१८८]
इति मनुवचनात् । शूद्रं सेवमाना शूद्रस्य संसर्गं कुर्वाणा यद्य् अपि पतति, तथापि आ प्रजोत्पत्तेः प्रायश्चित्तं द्रष्टव्यम् । यथाह वसिष्ठः ।
ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ इति । [वध् २१.१२]
तथा तत्रैव प्रायश्चित्तम् अप्य् उक्तम् ।
प्रतिवर्णं चरेयुस् ताः कृच्छ्रं चान्द्रायणोत्तरम् । इति । [वध् २१.१३]
चान्द्रायणोत्तरं चान्द्रायणे उत्तरे चान्द्रायणान्य् उत्तराणीति । ब्राह्मणी क्षत्रिया वैश्यानुक्रमेण योज्यम् । “शूद्रसङ्गताः अप्रजाता विशुध्यन्ति” [वध् २१.१२] इत्य् उक्तत्वात् क्षत्रियवैश्यसङ्गताः प्रजाता अपि विशुध्यन्तीति द्रष्टव्यम् । तत्र क्षत्रियेण सङ्गतायाश् चान्द्रायणम् उत्तरं वैश्येन सङ्गतायाश् चान्द्रायणे उत्तरे इति कल्प्यम् । तथा क्षत्रियायां वैश्येन सङ्गतायां चान्द्रायणम् उत्तरम् इति कल्प्यम् । पुरुषाणां तु प्रतिलोमगमने “शूद्रो ब्राह्मणीम्” [वध् २१.१] इत्यादि वसिष्ठोक्तं द्रष्टव्यम् । अनुलोमगमने तु वक्ष्यति – “द्वे परदारे” [ग्ध् २२.३१] इत्यादि । अत्र पतितास्व् अपि चतस्र एव परित्याज्याः । कुतः? “चतस्रस् तु” [वध् २१.१०] इति तुशब्देन नियमवाचिना चतसॄणाम् एव परित्यागस्य वसिष्ठेन प्रतिपादितत्वात् । इतरेषां तु मनूक्तं द्रष्टव्यम् ।
एतम् एव विधिं कुर्याद् योषित्सु पतितास्व् अपि ।
वस्त्रान्नम् आसां देयं च वसेयुश् च गृहान्तिके ॥ इति । [म्ध् ११.१८८]
अयम् अपि वक्ष्यति “स्त्री चातिचारिणी” [ग्ध् २२.३७] इत्यादि ॥ २१.९ ॥
कौटसाक्ष्यं राजगामि पैशुनं गुरोर् अनृताभिशंसनं पातकसमानि ॥ २१.१० ॥
कौटसाक्ष्यं सक्ष्ये अनृतवादित्वम् “अन्यत्र नानृतवचने दोषः” [ग्ध् १३.२४] इत्य् अपवादात् । राजगामि पैशुनं राजकुले परदोषकथनम् । राजनीति वक्तव्ये गामीति वचनाद् राजकुलाद् अन्यत्रापि यत् पारम्पर्येण राजानं गच्छति तद् अपि गृह्यते । गुरोर् आचार्यस्य केनचिद् अनृतदोषेणाभिमुख्येन शंसनम् आख्यानम् । एतानि पातकतुल्यानि महापातकतुल्यानीति द्रष्टव्यम्,
गुरोश् चालीकनिर्बन्धः समानि ब्रह्महत्यया । [म्ध् ११.५५]
इति स्मृत्यन्तरदर्शनात् । बुद्धिपूर्वव्यतिक्रम एवैषां पातकसमत्वम्, न प्रमादमोहादिभिर् इति विसमासकरणम् । एवं च प्रमादादिभिर् न दोषः ॥ २१.१० ॥
अपाङ्क्त्यानां प्राग् दुर्वालाद् गोहन्तृब्रह्मोज्झ-तन्मन्त्रकृदवकीर्णिपतितसावित्रीकेषूपपातकम्
॥ २१.११ ॥
दुर्वालात् प्राग् य उपदिष्टा अभोज्यान्नाः पतितकूटसाक्षिवर्जिताः । नास्तिकास् तु पातकात् पृथग्भूता एवाभोज्यान्नानां मधे पठिताः । कुतः? त्रिविधा नास्तिकाः । तथाहुः पौराणिकाः।
नास्तिकास् त्रिविधाः प्रोक्ता धर्मज्ञैस् तत्त्वदर्शिभिः ।
क्रियादुष्टो मनोदुष्टो वाग्दुष्टश् च तथैव च ॥
उपपातकस् तु वाग्दुष्टो मनोदुष्टस् तु पातकः ।
अभ्यासात् तु क्रियादुष्टो महापातक उच्यते ॥ इति ।
अत्र वाग्दुष्ट उपपातकमध्ये पठितः, मनोदुष्टः पातकमध्ये, क्रियादुष्टो “निन्दितकर्माभ्यासि” [ग्ध् २१.१] इत्य् अनेनैवोक्तम् इति । अत्र य उपपातकमध्ये पठितः तस्य वसिष्ठोक्तं प्रायश्चित्तं द्रष्टव्यम्- “नास्तिकः कृच्छ्रं द्वादशरात्रं चरित्वा विरमेन् नास्तिक्यात्” [वध् २१.२९] इति । यस् तु पातकमध्ये पठितः तस्य आपस्तम्बोक्तं द्रष्टव्यम्- “एतद् एवान्येषाम् अपि पतनीयानाम् अपि” [आप्ध् १,२८,१४] इति । यस् तु महापातकः तस्याभ्यासात् प्राक् सर्वप्रायश्चित्तं द्रष्टव्यम् । अभ्यासे तु ब्रह्महत्याप्रायश्चित्तं वसिष्ठोक्तम् “अथापरं भ्रूणहत्यायाः” [च्फ़्। वध् २३.३८] इत्यादि द्रष्टव्यम् । अलम् अतिप्रसङ्गेन, प्रस्तुतं व्याख्यास्यामः ।
गोहन्ता गोघातकः । ब्रह्मोज्झः यो वेदम् अधीत्य प्रमादाद् विस्मरति स गृह्यते । यस् तु बुद्धिपूर्वम् एव परित्यजति नास्तिक एव सः । तस्य विशिष्टतरो दोष इति । एवं चात्र यः प्रमादाद् विस्मरति तस्य वसिष्ठोक्तं द्रष्टव्यम्- “ब्रह्मोज्झः कृच्छ्रं द्वादशरात्रं चरित्वा पुनर् उपयुञ्जीत वेदम् आचार्यात्” [वध् २०.१२] इति । इतरस्य मनूक्तं द्रष्टव्यम् ।
ब्रह्मोज्झं वेदनिन्दा च कौटसक्ष्यं सुहृद्वधः ।
गर्हितान्नाद्ययोर् जग्धिः सुरापानसमानि षट् ॥ इति । [म्ध् ११.५६]
तन्मन्त्रकृत् यो गोहन्तृब्रह्मोज्जयोः याजनादि करोति । अवकीर्णी विप्लुतब्रह्मचर्यो ब्रह्मचारी । अस्यापङ्क्त्यत्वेन गृहीतत्वात् पुनर्वचनं यो ब्रह्मचारी प्रजाम् उत्पादयत्य् असौ कृतप्रायश्चित्तो ऽपि यावद् असौ पुनर् अप्य् उपपातकप्रायश्चित्तम् न करोति तावद् असौ उपपातकित्वेन वर्जनीय इति । केचिद् एवं वर्णयन्ति – नैष्ठिकानैष्ठिकत्वेन गुरुलघुप्रायश्चित्तार्थं पुनर् वचनम् । उपकुर्वाणस्य लघु नैष्ठिकस्य गुर्व् इति । तद् अपि द्विगुणं नैष्ठिकस्य “अवकीर्णितो द्विगुणो दण्डः” इति कवषधर्मे द्विगुणदण्डदर्शनात् । पतितसावित्रीको व्रात्यः । एतेषु निमित्तेषु उपपातकं भवति । सञ्ज्ञाकरणं प्रायश्चित्तविधानार्थम् ॥ २१.११ ॥
अज्ञानाध्यापनाद् ऋत्विगाचार्यौ पतनीयसेवायां च हेयौ ॥ २१.१२ ॥
अज्ञानाद् ऋत्विक्, अध्यापनाद् आचार्यः, एतयोर् निमित्तयोर् अपि परित्यागः । अनभिज्ञस्यार्त्विज्यासम्भवात् तं त्यजतो यजमानस्य नास्ति दोषः । एवम् आचार्यो ऽप्य् आलस्यादिभिः सम्यङ् नाध्यापयति तम् अपि त्यजतो नास्ति दोषः शिष्यस्य । पतनीयसेवायां च पतनीयस्य कर्मणः पतितेन सह यानासनादेः सेवायाम् आचरणे । कुतः? पतितौ हेयाव् इति वक्तव्ये पतनीयसेवायाम् इत्य् उपादानात् । पतितस्यापतितत्यागिन इत्य् एव सिद्धत्वात् प्राग् ऽप्य् अब्दात् परित्यागार्थम् इदं व्याख्यानम् । अत्राप्य् अपतितत्यागदोषः प्रसज्येतेति चेत्, अत्रोच्यते – नैव सहासनादेस् त्यागो विधित्सितः । किं तर्हि? ऋत्विगन्तरोपादानम् आचार्यान्तरगमनं चेति । तत्र सहासनादेः त्यागं कुर्वतः स दोषः, नर्त्विगाचार्यान्तरगमनं कुर्वत इति । चकाराद् उपपातकिनाव् अपि ॥ २१.१२ ॥
अन्यत्र हानात् पतति ॥ २१.१३ ॥
अन्यत्र पूर्वोक्ताद् अज्ञानाध्यापननिमित्ताद् अन्यत्र हानात् त्यागात् पतति । ततस् तयोर् अन्यत्र त्यागो न कर्तव्यः ॥ २१.१३ ॥
तस्य च प्रतिग्रहीतेत्य् एके ॥ २१.१४ ॥
तस्य च ऋत्विजम् आचार्यं वा त्यजतो यः प्रतिग्रहीता ऋत्विगाचार्यौ वा तस्यार्त्व्ज्यम् अध्यापनं वा यः करोतीत्य् अर्थः । चकारात् तेन सहाध्यायी च पततीत्य् एके मन्यन्ते । ज्ञानात् पतति न त्व् अज्ञानाद् इति गौतमः ॥ २१.१४ ॥
न कर्हिचिन् मातापित्रोर् अवृत्तिः ॥ २१.१५ ॥
न कस्याञ्चिद् अप्य् अवस्थायां पतितावस्थायाम् अपीत्य् अर्थः । अवृत्तिर् अशुश्रूषा सा न कर्तव्या । तस्याम् अप्य् अवस्थायां शुश्रूषितव्याव् इत्य् अर्थः । शुश्रूषा नमस्कारादिः ॥ २१.१५ ॥
दायं तु न भजेरन् ॥ २१.१६ ॥
दायं तदीयं धनं न भजेरन् न गृह्णीयुर् इत्य् अर्थः । मातुर् दायं स्त्रीधनम् । दायाभावे आत्मीयाद् अपि द्रव्याद् अशनाच्छादने दातव्ये इति तुशब्दोपादानम् । निःस्वयोः पतितावस्थायाम् अप्य् अशनाच्छादनचोदनाद् अपतितयोर् अप्य् अर्थसिद्धम् । अत्र पतिताया अपि मातुस् त्यागो नास्तीति द्रष्टव्यम् । कुतः? स्मृत्यन्तरदर्शनात् । यथाह वसिष्ठः- “माता तु पुत्रं प्रति न पतति” [वध् १३.४७] इत्यादि । पतितावस्थायाम् अपि पुत्रेण माता न त्यक्तव्येत्य् अभिप्रायेण तद् उक्तम् इति ॥ २१.१६ ॥
ब्राह्मणाभिशंसने दोषस् तावत् ॥ २१.१७ ॥
यो दोषेण ब्राह्मणम् अभियुङ्क्ते “इदम् एनस् त्वया कृतम्” इत्य् एवमभियोगे, यावांस् तस्य अधर्मो भवति अभियोक्तुर् अपि तावान् एवेति । तद् यथा पतित इत्य् अभियोगे पतित एव भवति । स यथा लोकैः परिहरणीयः तथा अभियोक्तापि परिहरणीयः । तदीयेनापि प्रायश्चित्तेनाधिक्रियत इति ॥ २१.१७ ॥
द्विर् अनेनसि ॥ २१.१८ ॥
यस् त्व् अनृतेनाभिशंसनं करोति तस्य द्विगुणो ऽभियोक्तुर् दोषो भवति अनृताभिवदनाद् अभिशंसनाच् चेति । ब्राह्मणग्रहणं चात्र द्विजातिप्रदर्शनार्थम् । तथा अविशेषेणैव स्मृत्यन्तरम् पठितम् ।
पतितं पतितेत्य् उक्त्वा चोरं चोरेति वा पुनः ।
वचनात् तुल्यदोषः स्यात् मिथ्या द्विर्दोषतां व्रजेत् ॥ इति । [वध् २०.३०]
तत्रापि पतितग्रहणम् उपपातकस्याप्य् उपलक्षणम् । स्मृत्यन्तरे- “ब्राह्मणम् अनृतेनाभिशस्य पतनीयेनोपपतनीयेन वा मासम् अब्भक्षः शुद्धवतीर् आवर्तयन् पूतो भवतीति विज्ञायते, एतेनैवाभिशस्तो व्याख्यातः” [वध् २३.३९, ४१] इति लिङ्गात् । एवं चात्र पातकोपपातकाभिशंसन एव दोषो न सर्वत्रेत्य् अत्रापि द्रष्टव्यम् । पूर्वम् आख्यातुर् एवायं दोषः न सर्वैर् व्यवहृतस्य । तथाह आपस्तम्बः- “दोषं बुद्ध्वा न पूर्वः परेभ्यः पतितस्य समाख्याता स्यात्” [आप्ध् १.२१.२०] इति ॥ २१.१८ ॥
दुर्बलहिंसायां चाविमोचने शक्तश् चेत् ॥ २१.१९ ॥
यत्र दुर्बलस्य हिंसा विनाशो भवति तत्र तद्विमोचने विमोक्षणे शक्तश् चेत् तदविमोचने यावान् हन्तुर् दोषस् तावान् अस्यापि भवति । चशब्दात् क्षुद्व्याध्यादिपीडितस्यापि भक्तौषधाच्छादनाद्यदाने शक्तौ सत्यां तद्धनने यावान् दोषस् तावान् एवास्यापि भवति ।
ननु चाहारार्थं यः प्रमापयति तद्विच्छेदे ऽपि दोषः प्राप्नोतीति ।
उच्यते – अतुल्यत्वाद् आहारप्राणविच्छेदयोः । आहारविच्छेदे मूलादिभिर् अपि क्षुन्निवृत्तिः शक्या कर्तुम्, प्राणविच्छेदे तु न कश्चिद् अस्ति प्रतीकार इति ॥ २१.१९ ॥
अभिक्रुद्धावगोरणे ब्राह्मणस्य वर्षशतम् अस्वर्ग्यम् ॥ २१.२० ॥
अभिक्रुद्धेन, न परिहासादिना, अवगोरणे प्रहरणोद्यमने ब्राह्मणस्यानपराधिनः । अपराधिनः आततायित्वप्रसङ्गेन न दोष इति । वर्षशतम् अस्वर्ग्यं नरकपतनम् । समानजातीयविषयम् इदम् । क्षत्रियादिभिः कृते –
द्विगुणं त्रिगुणं चैव चतुर्गुणम् अथापि वा ।
क्षत्रविट्छूद्रजातीनां ब्राह्मणस्य वधे कृते ॥
इति प्राजापत्यस्मृतिलिङ्गात् । वर्षाणाम् अपि द्विगुणत्रिगुणत्वादि कल्प्यम् । अनेनैव न्यायेन ब्राह्मणेन कृते क्षत्रविट्छूद्रजातीनां त्रिपादम् अर्धं पादम् इति द्रष्टव्यम् । ब्राह्मणक्षत्रियवत् क्षत्रियवैश्ययोर् अपि, एवं क्षत्र्यवैश्यवद् वैश्यशूद्रयोर् अपि कल्प्यम् । एवं सर्वस्योत्तमस्योत्तमस्य नीचेन नीचेन वधे कृते द्रष्टव्यम् ॥ २१.२० ॥
निघाते सहस्रम् ॥ २१.२१ ॥
आयुधेन पाणिना वा निघाते सहस्रं वर्षाणाम् अस्वर्ग्यम्, अधिकृतत्वात् ॥ २१.२१ ॥
लोहितदर्शने यावतस् तत् प्रस्कन्द्य पांसून् सङ्गृह्णीयात् सङ्गृह्णीयात् ॥ २१.२२ ॥
रुधिरोत्पादने कृते तद् रुधिरं ब्राह्मणाद् अवसृत्य यावतः पांसून् सङ्गृह्णीयात् पिण्डीकुर्यात् तावन्ति वर्षसहस्राणि नरकपतनम्, अपरिमितकालम् इत्य् अर्थः । दोषविशेषकथनं प्रायश्चित्तविशेषज्ञापनार्थम् । यथाह कण्वः ।
अवगूर्य चरेत् कृच्छ्रम् अतिकृच्छं निपातने ।
कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ इति ।
प्रायश्चित्तविशेषात् दण्डविशेषो द्रष्टव्यः ॥ २१.२२ ॥
इति मस्करीये गौतमभाष्ये एकविंशो ऽध्यायः
द्वाविंशो ऽध्यायः
प्रायश्चित्तनिमित्तान्य् उक्तानि । अथेदानीं प्रतिपापं प्रायश्चित्तानि वक्तव्यानि । तत्राद्यस्य तावद् आह ।
प्रायश्चित्तम् । अग्नौ सक्तिर् ब्रह्मघ्नस् त्रिर् अवच्छातस्य ॥ २२.१ ॥
प्रायश्चित्तम् इत्य् अधिकारार्थम्, प्रायश्चित्तम् एवैतन् नादृष्टार्थम् इति । अग्नौ सक्तिः सङ्गः पतनम् इत्य् अर्थः । त्रिर् इति पतनविशेषणम् । पतने अवाक्छिरस्त्वं च द्रष्टव्यम् । यथाह मनुः ।
प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्छिराः । इति । [म्ध् ११.७३]
कस्येदं प्रायश्चित्तम्? ब्रह्मघ्नः ब्राह्मणहन्तुः । अवच्छातस्य अवशीर्णस्य भक्तत्यागेन कर्शितदेहस्येत्य् अर्थः । तथा च काठकश्रुतिः- “अनशनेन कर्शितो ऽग्निम् आरोहेत्” इति ॥ २२.१ ॥
लक्ष्यं वा स्याज् जन्ये शस्त्रभृताम् ॥ २२.२ ॥
लक्ष्यं शरवेध्यम्, तद् वा भवेज् जन्ये सेनामध्ये । शस्त्रभृताम् इति धनुःप्राये युद्धे, नान्यशस्त्रप्राये इति ॥ २२.२ ॥
**खट्वाङ्गकपालपाणिर् वा द्वादश संवत्सरान् ब्रह्मचारी भैक्षाय ग्रामं प्रविशेत् कर्माचक्षाणः **
॥ २२.३ ॥
खट्वाङ्गं प्रसिद्धम् । कपालं शवशिरः । यथाह मनुः- “कृत्वा शवशिरो ध्वजम्” [म्ध् ११.७२] इति । तद्धारणं च चिह्नार्थम् । द्वादशसंवत्सरान् एवं चरेत् । ब्रह्मचारी मैथुनवर्जितः । भैक्षार्थम् एव ग्रामं प्रविशेत् । तद् एव चास्याहारः । भैक्षचरणम् अपि मृन्मयेन पात्रेण । यथाह शङ्खः- “मृन्मयं पात्रम्” इति । अन्यदा अरण्य एवावस्थानम् । ब्रह्मचर्यभैक्षोपदेशाच् च व्रतत्वम् अपि द्रष्टव्यम् । यथाह कण्वः ।
पवित्रपाणिर् दण्डी च पङ्कदन्तो रजस्वलः ।
तीर्थवासी कुशाच्छादी जटिलो ब्रह्महा भवेत् ॥ इति ।
कर्माचक्षाणः ब्रह्महास्मीति सर्वदा कथयन् ॥ २२.३ ॥
पथो ऽपक्रामेत् सन्दर्शनाद् आर्यस्य ॥ २२.४ ॥
पथो मार्गाद् अपेयात् दृष्टिपाताद् आर्यस्य द्विजातेः । अनेनैव न्यायेन पृष्ठतः पार्श्वतश् च दूरत एव परिहरेद् इति द्रष्टव्यम् । तत्र गोवालव्यजनाद् अर्वाक् सन्निकृष्टे सचेलस्नानं द्रष्टव्यम् । यथाह व्याघ्रः ।
चण्डालं पतितं चैव दूरतः परिवर्जयेत् ।
गोवालव्यजनाद् अर्वाक् सचेलः स्नानम् आचरेत् ॥ इति ।
शूद्रम् अपि संस्पर्शनात् परिहरेद् इति द्रष्टव्यम् । यथाह लोकाक्षिः ।
महापातकिसंस्पर्शे वर्णानां स्नानम् उच्यते ।
अस्नात्वा भोजने चैव तप्तकृच्छ्रं समाचरेत् ॥
त्रिरात्रं तु पिबेद् अम्बु शङ्खपुष्पीश्रितं पयः ।
एवम् आर्तवचण्डालशवानाम् अपि कीर्तितम् ॥
इति ॥ २२.४ ॥
स्थानासनाभ्यां विहरन् सवनेषूदकोपस्पर्शी शुध्येत्
॥ २२.५ ॥
अन्यत्र विरोधिभ्यः आचमनादिकालेभ्यः कृत्स्नम् अहस् तिष्ठेत् । एवं रात्रिम् आसनेन नयेद् इति । त्रिषवणस्नानं च कुर्वन् ब्रह्महत्यानिमित्ताद् एनसो मुच्यते । शुध्येद् इत्य् उपसंहारार्थम्
॥ २२.५ ॥
प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य ॥ २२.६ ॥
ब्राह्मणस्य वा तद्धेतुके प्राणलाभे सति शुध्येत्, चोरव्याघ्रादिभिः प्रमाप्यमानं मोचयित्वेत्य् अर्थः । एकस्य विच्छिन्नाः प्राणाः अन्यस्मै दत्ता इति । अनेनैव न्यायेन सर्वेषां हनने तज्जातीयप्राणविच्छेदे विमोक्षणात् शुद्धिः द्रष्टव्या ॥ २२.६ ॥
द्रव्यापचये वा त्र्यवरं प्रतिराद्धः ॥ २२.७ ॥
प्रकरणात् ब्राह्मणस्य यद् द्रव्यं हिरण्यादि तद् अपि यज्जीवनाय पर्याप्तम् – द्रविणम् अपि प्राणरूपम् “प्राणा ह्य् एते बहिश्चराः” इति दर्शनात् – तस्य दस्युभिर् अपह्रियमाणस्यापहृतस्य वा अपचये प्रतिमोचने शुध्येत् । मोचनासम्भवे त्रिः प्रतिराद्धः त्रिःकृत्वा पुरुषकार इत्य् अर्थः । यथाह मनुः ।
त्र्यवरं प्रतिराद्धो वा सर्वस्वम् अपजित्य वा ।
विप्रस्य तन्निमित्ते वा प्राणलाभे विमुच्यते ॥ इति । [म्ध् ११.८०]
अस्माद् एव लिङ्गात् दरिद्रस्याक्लेशेनानुभवपर्याप्तस्य धनस्य प्रदानाद् अपि शुद्धिर् ज्ञातव्या
॥ २२.७ ॥
अश्वमेधावभृथे वा ॥ २२.८ ॥
अवभृतग्रहणं क्रियान्तरनिवृत्त्यर्थम् । वचनसामर्थ्याद् एनम् अप उपस्पर्शयेयुः । शुध्येद् इति वर्तते । वाशब्दग्रहणात् उपसंहृतस्याभिधानाच् च एतानि स्वतन्त्राण्य् एव प्रायश्चित्तानीति । केचित् प्रक्रान्तद्वादशवार्षिकस्येत्य् आहुः । तथा च शङ्खो द्वादशवर्षे शुद्धिम् आप्नोतीत्य् उक्त्वा आह- “अन्तराले वा ब्राह्मणं मोचयित्वा गवां द्वादशानां परित्राणात्” इति । तत्राभ्यासे प्रक्रान्तद्वादशवार्षिकस्य समाप्तिविशेषणत्वेन द्रष्टव्यम्, अनभ्यासे तु स्वतन्त्राण्य् एवेति ॥ २२.८ ॥
अन्ययज्ञे ऽप्य् अग्निष्टुदन्तश् चेत् ॥ २२.९ ॥
अन्यो यज्ञो यस्य तद् इदम् अन्ययज्ञम् अवभृथं स च यज्ञो यद् अग्निष्टुदन्तो भवति । अग्निष्टुन्मध्य इत्य् अर्थः । स च सर्वमेधः सत्त्रं वा तत्रापि स्नात्वा शुध्येत् ॥ २२.९ ॥
न केवलं ब्राह्मणानां प्राणविच्छेदेनैव ब्रह्महा भवति । किं तर्हि?
सृष्टश् चेद् ब्राह्मणवधे ऽहत्वापि ॥ २२.१० ॥
सृष्टो निश्चितो ऽध्यवसित इत्य् अर्थः । ब्राह्मणो हन्तव्य इत्य् एवं येनाध्यवसायः कृतो भवति ब्राह्मणहननविषये असाव् अहत्वापि ब्रह्महा भवति, तस्याप्य् एतद् एव प्रायश्चित्तं तत्सङ्कल्पस्य दृष्टत्वाद् इत्य् अभिप्रायः । अनेनैव न्यायेन सर्वप्राणिवधे तदीयम् एव प्रायश्चित्तं द्रष्टव्यम्, अत्र ब्राह्मणग्रहणस्य प्रदर्शनार्थत्वाद् इति ॥ २२.१० ॥
आत्रेय्यां चैवम् ॥ २२.११ ॥
आत्रेयी ऋतुमती ब्राह्मणी, यथाह वसिष्ठः- “रजस्वलाम् ऋतुस्नाताम् आत्रेयीम् आहुः । अत्र ह्य् एष्यद् अपत्यं भवतीति” [वध् २०.३५–३६] । तस्यां च हतायां ब्र्हमहा भवति । क्षत्रियवैश्ययोर् अपि सवनगतयोर् उपसङ्ग्रहार्थश् चकारः । यथाह मनुः ।
हत्वा गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत् ।
राजन्यवैश्यौ चेजानौ आत्रेयीम् एव च स्त्रियम् ॥ इति । [म्ध् ११.८७]
एवम् इति समस्तप्रायश्चित्तोपदेशार्थम् । अन्ये तु अत्रिगोत्राम् आत्रेयीम् आहुः । आत्रेयीग्रहणाद् अनात्रेय्यां न ब्रह्महा भवतीति द्रष्टव्यम् ॥ २२.११ ॥
गर्भे चाविज्ञाते ब्राह्मणस्य ॥ २२.१२ ॥
ब्राह्मणस्य गर्भे स्त्रीपुन्नपुंसकत्वेनाविज्ञाते हते औषधादिना ब्रह्महा भवति यदि ब्राह्मण्याम् एवाहितो भवति । विज्ञाते तु यथालिङ्गम् एवेति द्रष्टव्यम् । प्रायश्चित्तातिदेशार्थश् चकारः । तद् एतत् ब्रह्महत्याप्रायश्चित्तम् अनेकप्रकारं हन्तुः हन्यमानस्य चाभिसन्ध्यनभिसन्ध्याद्यपेक्षया योजनीयम् ।
अत्र केचित् ब्रुवते – हन्तुस् तावद् युक्तं कुर्यान् न कुर्याद् इत्य् अत्र कामाकामकरणे गुरुलाघवस्योक्तत्वात् । “निन्दितकर्माभ्यासि” [ग्ध् २१.१] इत्य् अनेनाभ्यासे ऽपि दोषगुरुत्वश्रवणात् । यत् तु हन्यमानं प्रति गुरुलघुभावकल्पनं तद् अयुक्तं ज्ञापकाभावात् । अपि च “ब्राह्मणो न हन्तव्यः” इत्य् अत्र ब्राह्मणोद्देशेन हननप्रतिषेधो विधीयते । न चोद्दिश्यमानस्य विशेषणं विवक्ष्यते गुणवान् निर्गुणो वेति यथा “दशापवित्रेण ग्रहं सम्मार्ष्टि” [आप्श्र् १२.४.८]इत्य् अत्रैकत्वम् अविवक्षितम् । तस्मात् ब्राह्मणत्वजातिनिबन्धन एव प्रतिषेधः नाङ्गीकृतो गुण इति ।
तद् एतद् अयुक्तम् – हन्यमानगुणापेक्षया दोषगुरुत्वप्रख्यापकस्य विद्यमानत्वात् । यथाह मनुः ।
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥ इति । [म्ध् ८.३५०]
अत्राततायिवधाभ्यनुज्ञानेनैव बहुश्रुतादीनाम् अपि वधे सिद्धे बहुश्रुतादीनां वधे विशिष्टतरो दोष इति ज्ञापनार्थं तेषाम् उपादानम् । यथा प्रशस्तकर्मापेक्षया च गुरुत्वम् अवगम्यते येन राजन्यवैश्ययोर् अपि सवनगतयोः प्रमापणे ब्रह्महत्याप्रायश्चित्तम् उपदिष्टं “राजन्यवैश्यौ चेजानौ” [म्ध् ११.८७] इत्य् अनेन । यथा –
एतद् एव चरेद् अब्दं प्रायश्चित्तं द्विजोत्तमः ।
प्रमाप्य वैश्यं वृत्तस्थं दद्याद् चैकशतं गवाम् ॥ [म्ध् ११.१२९]
इति वृत्तस्थवैश्यप्रमापणे पृथग् उक्तम्, इतरस्य तु “स्त्रीशूद्रविट्क्षत्रवधः” [म्ध् ११.६६] इत्य् अनेनोपपातकप्रायश्चित्तम् इति ।
यत् तूक्तम् उद्दिश्यमानस्य विशेषणम् अविवक्षितम् इति, तद् अप्य् अयुक्तम् – प्रायश्चित्तविधिनैव ब्राह्मणवधप्रतिषेधो ऽनुमीयते न हि ब्राह्मणवधप्रतिषेधकं वचनम् अस्ति यस्मिन् विशेषणम् अविवक्षितम् इत्य् उच्येत । यद्य् अपि विद्यते, तथापि विशेषणं शक्यत एव विवक्षितुम् उक्तज्ञापकसामर्थ्याद् एव । अपि च यथा विशेषणम् अविवक्षितं तथा सङ्ख्याप्य् अविवक्षितैव प्राप्नोति, ततश् चैकस्मिन् हते द्वयोश् च तुल्यम् एव प्रायश्चित्तं प्राप्नोति । न चैतद् इष्टम् । तस्मात् “ब्राह्मणो न हन्तव्यः” इत्य् अत्रापि गुणवतो हनने विशिष्टतरो दोष इति ज्ञातुं शक्यत एवेत्य् उक्तं सर्वम् उपपन्नम् एवेति
॥ २२.१२ ॥
राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यम्
॥ २२.१३ ॥
क्षत्रियवधे कृते षट्सु वर्षेषु भवं षड्वार्षिकं ब्रह्मचर्यं तद् अपि प्राकृतं स्वाभाविकं खट्वाङ्गादिरहितम् इत्य् अर्थः । ततश् च ब्रह्महत्याप्रायश्चित्तम् एव षड्वर्षाणि कर्तव्यम् इत्य् अर्थः । बुद्धिपूर्वविषयम् इदं वृत्तवतश् च हनने । अवृत्तवतो हनने,
“स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् । [म्ध् ११.६६]
इत्य् उपपातकप्रायश्चित्तं द्रष्टव्यम् । एवम् उत्तरत्रापि । तत्र बुद्धिपूर्वहनने यद् वक्ष्यति “अग्न्युत्सादिनिराकृत्युपपातकेषु चैवम्” [ग्ध् २२.३४] इति तत् द्रष्टव्यम् । अबुद्धिपूर्वे तु मनुनोक्तं द्रष्टव्यम् ।
एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः ।
अवकीर्णी विशुद्ध्यर्थं चान्द्रायणम् अथापि वा ॥ इति । [म्ध् ११.११७]
ब्राह्मणस्येत्य् अधिकारात् ब्राह्मणविषयम् इदम् । क्षत्रियजातेस् तु द्वादशवर्षं द्रष्टव्यम्, वैश्यस्याष्टादशवर्षम्, शूद्रस्य चतुर्विंशतिवर्षम् इत्य् एवम् उत्तरत्रापि कल्प्यम् ॥ २२.१३ ॥
वृषभैकसहस्राश् च गा दद्यात् ॥ २२.१४ ॥
वृत्तवतः । पूर्ववत् अबुद्धिपूर्वविषयम् इदं द्रष्टव्यम् । यथाह मनुः ।
तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।
वैश्ये ऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोडशः ॥ [म्ध् ११.१२६]
इत्य् उक्त्वा, पुनर् अप्य् आह ।
अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः ।
ऋषभैकसहस्रा गा दद्याच् छुद्ध्यर्थम् आत्मनः ॥
त्र्यब्दं चरेद् वा नियतो जटिलो ब्रह्महव्रतम् ।
वसन् दूरतरे ग्रामाद् वृक्षमूलनिकेतनः ॥ [म्ध् ११.१२७–२८]
इति द्रष्टव्यम् । एवं सर्वत्र चकाकाद् दानसहितं षड्वार्षिकं प्राकृतब्रह्मचर्यम् अपि द्रष्टव्यम् । यथाह उशना- “राजन्यवधे षड्वार्षिकं ब्रह्महव्रतं तस्यान्ते ऋषभैकसहस्रगोदानं च” इति । अभिषेकगुणयुक्तस्य बुद्धिपूर्वहनने इदम् । अबुद्धिपूर्वे तु स एवाह- “अष्टौ वर्षानि वा चरेत्” इति ॥ २२.१४ ॥
वैश्ये त्रैवार्षिकम् ॥ २२.१५ ॥
प्राकृतं ब्रह्म्चर्यम् । क्षत्रियवद्विषयो द्रष्टव्यः ॥ २२.१५ ॥
ऋषभैकशताश् च गा दद्यात् ॥ २२.१६ ॥
पूर्ववद् बुद्धिपूर्वविषयम् इदम् । तथा च मनुनोक्तम् उदाहृतं च- “एतद् एव चरेद् अब्दम्” [म्ध् ११.१२९] इत्यादि । चकारात् पूर्वेण समस्तम् अपि । तद् अप्य् अत्यन्तगुणवतो बुद्धिपूर्वहनने । अबुद्धिपूर्वहनने तु “एतद् एव व्रतं कुर्युः” [म्ध् ११.११७] इत्य् एतद् एव द्रष्टव्यम् । क्षत्रियवैश्ययोस् तुल्यप्रायश्चित्तस्यान्याय्यत्वाद् अवृत्तवतो न स्याद् इति । एवं तर्हि “अग्न्युत्सादिनिराकृत्युपपातकेषु चैवम्” [ग्ध् २२.३४] इत्य् अत्रावृत्तवतोः क्षत्रियवैश्ययोस् तुलत्वं प्राप्नोतीति चेत्, अत्रोच्यते – तपसा पूरणं कर्तव्यम् इति । तथा च मनुः ।
यस्मिन् कर्मण्य् अस्य कृते मनसः स्याद् अलाघवम् ।
तस्मिंस् तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ॥ इति । [म्ध् ११.२३३]
एवं सर्वत्र कल्पयितव्यम् । एवं स्थिते वृत्तवतो वैश्यस्याबुद्धिपूर्वहनने स्मृत्यन्तरोक्तं द्रष्टव्यम् । यथाह उशना- “वैश्यं हत्वा सप्त मासान् ब्रह्महत्याव्रतं चरेत्” इति । सर्वत्र गुणाधिक्ये ऽभ्यासे च जपादीनाम् अप्य् अधिककल्पना कर्तव्या । दद्याद् इत्य् अधिकाराद् एव सिद्धे पुनर् दद्याद्ग्रहणं गवाम् अभावे अन्यस्यापि द्रव्यस्य प्रापणार्थम् । तथा च व्याघ्रः ।
गवाम् अभावे निष्कं वा निष्कार्धं पादम् एव वा ।
यद् वा स प्रतिगृह्णीयात् तद् दद्याच् छ्रोत्रियाय तु ॥
॥ २२.१६ ॥
शूद्रे संवत्सरम् ॥ २२.१७ ॥
द्विजातिदासस्य बुद्धिपूर्वहनने इदम् ॥ २२.१७ ॥
तस्यैवाबुद्धिपूर्वे आह ।
ऋषभैकादशाश् च गा दद्यात् ॥ २२.१८ ॥
गवाम् अधिकृतत्वात् पुनर् गोग्रहणं शुक्लवर्णविशिष्टगोदानार्थम् । तथा च मनुः ।
प्रमाप्य शूद्रं षण्मासान् एतद् एव व्रतं चरेत् ।
ऋषभैकादशाश् चापि दद्याद् विप्राय गाः सिताः ॥ इति । [म्ध् ११.१३०]
चकारात् पूर्वयुक्तम् अपि तस्यैव वृत्तवतो बुद्धिपूर्वहनने द्रष्टव्यम् । अबुद्धिपूर्वे तु “अग्न्युत्सादि” [ग्ध् २२.३४] इत्यादि । अदारास्य बुद्धिपूर्वहनने एतद् एव व्रतं कुर्युर् इति । अबुद्धिपूर्वे तु तप्तकृच्छ्रं द्रष्टव्यम् । यथाह उशना- “शूद्रं हत्वा तप्तकृच्छ्रम्” इति । अत्रानुलोमप्रतिलोमयोः स्मृत्यन्तरोक्तं द्रष्टव्यम् । यथाह व्याघ्रः ।
अनुलोमानां तु सर्वेषां तन्मातृहनने च यत् ।
तद् एव निर्दिशेद् विद्वान् स्त्रीणाम् अर्धं तथैव च ॥
आत्रेयीहनने ब्रूयाद् यन् मातुर् उपदिश्यते ।
गर्भे चैव तथाज्ञाते व्याघ्रस्य वचनं यथा ॥ इति ।
एवम् एव प्रतिलोमस्त्रीणां द्रष्टव्यम् । तत्र पुरुषाणां त्व् अङ्गिरा आह ।
अन्त्यानां तु गमने भोजने च प्रमापणे ।
पराकेण विशुद्धिः स्यात् भगवान् अङ्गिरो ऽब्रवीत् ॥ इति ।
शूद्रप्रभवानाम् इदं बुद्धिपूर्वे । अबुद्धिपूर्वे तु चान्द्रायणं द्रष्टव्यम् । यथाह लोकाक्षिः ।
हनने प्रतिलोमेषु शूद्रजानां कथं भवेत् ।
ज्ञानपूर्वे पराकः स्याद् अज्ञाते त्व् ऐन्दवं तथा ॥ इति ।
शूद्रप्रभवाणां “असमानायां तु शूद्रात् पतितवृत्तिः” [ग्ध् ४.२७] इति समगुणत्वात् प्रायश्चित्तसाम्यम् अपि युक्तम् एव । इतरेषाम् अपि तत्रैवाह ।
इतरेषां चतुर्भागं पितुर् उक्तं मनीषिभिः ।
स्वजातीनां वधे यद्वच् छूद्रस्य विधिर् उच्यते ॥ इति ।
अनुलोमप्रतिलोमयोः वधे शूद्रस्य यत् प्रायश्चित्तम् उक्तं तद् एव स्वजातिहनने ऽपि द्रष्टव्यम् इति तत्रार्थः । शूद्रस्य तु तत्रैवोच्यते ।
सर्वम् अर्धं त्रिपादं च पादं चैव व्रतं भवेत् ।
वर्णमात्राभ्यन्तरजहिंसागमनभोजने ॥
इति ॥ २२.१८ ॥
अनात्रेय्यां चैवम् ॥ २२.१९ ॥
चकाराद् एवातिदेशे सिद्धे एवङ्कारकरणं राजन्यवधप्रायश्चित्तातिदेशार्थम्, अनन्तरोक्तं मा भूद् इति । तथाह वसिष्ठः- “अनात्रेयीं राजन्यहिंसायां राजन्यां वैश्यहिंसायाम्” [वध् २०.३७–३८] इत्यादि । तर्हि तत्रैव वक्तव्यम् इति चेत्, उच्यते – अन्ते ऽभिधानं कृते प्रायश्चित्ते ऽपि न संवसेद् इत्य् एवमर्थम् । तथा च मनुः ।
ब्रह्मघ्नांश् च कृतघ्नांश् च विशुद्धान् अपि धर्मतः ।
शरणागतहन्तॄंश् च स्त्रीहन्तॄंश् च न संवसेत् ॥ [म्ध् ११.१९०]
इति ॥ २२.१९ ॥
गां च वैश्यवत् ॥ २२.२० ॥
गां हत्वा वैश्यवत् प्रायश्चित्तं कुर्यात् । तत्र वृत्तवत्या हननम् इदम् । बुद्धिपूर्वत्वं च प्रकरणाद् अधिक्रियते । तत्र बहुक्षीरगुणयुक्ताया बुद्धिपूर्वहनने वैश्योक्तं त्रैवार्षिकं ब्रह्मचर्यं द्रष्टव्यम् । तत्र च धनवत ऋषभैकसहस्रगोदानम् । कुतः? राजवधे वर्षत्रयं ब्रह्मचर्यरक्षणस्य गोसहस्रदानस्य प्रतिनिधिरूपेण दृष्टत्वात् । तथैवोदाहृतं च मनुवाक्यम् “ऋअषभैकसहस्रा गाः” [म्ध् ११.१२७] इत्यादि ।
बहुक्षीरयुक्तायां गुरुतरो दोष इति कस्माद् अवगम्यत इति चेत्, उच्यते –
क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः । इति । [म्ध् ८.२९७]
तत्र क्षुद्रपशुशब्देन अल्पप्रयोजनानां गवां ग्रहणम्, नाजाविकानाम्,
गर्दभाजाविकानां तु दण्डः स्यात् पञ्चमाषकः । [म्ध् ८.२९८]
इति तेषां पृथग्दण्डदर्शनात् । तस्मात् तद्विषये दण्डलघुत्वदर्शनात् बहुप्रयोजनानां गुरुतरो दोष इति गम्यते । तस्या एवाबुद्धिपूर्वहनने ऋषभैकशताश् च गा दद्याद् इति द्रष्टव्यम् । तदसम्भवे अब्दं वा ब्रह्मचर्यम् । यद् वैश्यस्य दानतपसोः समुच्चितयोर् उक्तं तद् अत्रापि द्रष्टव्यम् । तस्यापि विषय अस्या एव ब्राह्मणपरिगृहीतायाः बुद्धिपूर्वहनने68 । ब्राह्मणपरिगृहीतायां गुरुत्वम् अपि,
गोषु ब्राह्मणसंस्थासु स्थूरिकायाश् च भेदने । [न्स्म् १९.४०]
इति लिङ्गात् । अत्र गोदानाशक्तौ निष्कं निष्कार्धं पादम् एव वेति द्रष्टव्यम् । तथोदाहृतं च व्याघ्रवचनम्,
गवाम् अभावे निष्कं वा निष्कार्धं पादम् एव वा ।
इत्यादि । तत्र राज्ञो गोसहस्रदानं सुवर्णसहस्रदानं वा, तत्सदृशस्य निष्कार्धम् इत्य् अयं पक्षः । प्राकृतस्य तु पादम् । कुत? अस्मिन् विषयकरणे जातुकर्णिवचनात् ।
गोसहस्रं सुवर्णस्य सहस्रं राज्ञ उच्यते ।
तदर्धं मध्यमस्योक्तं पादं स्यात् प्राकृतस्य तु ॥ इति ।
तथा च मनुर् अपि कस्मिंश्चित् प्रकरणे आह ।
कार्षापणं भवेद् दण्ड्यः यत्रान्यः प्राकृतो जनः ।
तत्र राजा भवेद् दण्ड्यः सहस्रम् इति धारणा ॥ इति । [म्ध् ८.३३६]
अनेनापि प्राकृतजनाद् राज्ञो ऽधिकं गम्यते । सर्वासम्भवे वर्षचतुष्टयं वा प्राकृतब्रह्मचर्यरक्षणं द्रष्टव्यम् । एवं सर्वत्र । तस्या एवाबुद्धिपूर्वहनने वसिष्ठोक्तं द्रष्टव्यम् । यथाह वसिष्ठः- “गौश् चेद् घता स्यात् तस्याश् च चर्मणार्द्रेण परिवेष्टितः षण्मासान् कृच्छ्रं तप्तकृच्छ्रं वातिष्ठेत्” [वद्स् २१.१८] इत्यादि । तस्य अबुद्धिपूर्वविषयपरिज्ञानम् “ब्राह्मणश् चेद् अप्रेक्षापूर्वम्” [वध् २१.१६] इत्य् अत्र अप्रेक्षापूर्वम् इत्य् अधिकारात् । तत्र “ऋषभवेहतौ दद्याताम्” [वध् २१.२२] इति द्विवचनात् द्वौ हन्तारौ गम्येते । तत्र ऋषभहनने ऋषभं गोहनने गवादीति द्रष्टव्यम् । व्याघ्रोक्तं वा ।
गां चेद् घन्यान् नरो ऽज्ञानात् पणसप्तशतं ततः ।
श्रोत्रियाय दरिद्राय दद्याच् छुद्ध्यर्थम् आत्मनः ॥ इति ।
गां चेति चकाराच् छूद्रोक्तम् अपि द्रष्टव्यम् । तत्राल्पप्रयोजनाया हनने बुद्धिपूर्वे वत्सरतपश्चरणसहितम् ऋषभैकादशगोदानं द्रष्टव्यम् । तस्या एवाबुद्धिपूर्वे जातुकर्ण्युक्तं द्रष्टव्यम् । यथाह-
गां चेद् अकामतो हन्यात् ब्राह्मणानुज्ञया ततः ।
प्राजापत्यत्रयं कृत्वा स्पर्शयेत् ब्राह्मणाय गाम् ॥ इति ।
तस्या एव ब्राह्मणपरिगृहीताया बुद्धिपूर्वे हनने मनुनोक्तं द्रष्टव्यम् । यथाह ।
उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् ।
कृतवासो वसेद् गोष्ठे चर्मणार्द्रेण संवृतः ॥
चतुर्थकालम् अश्नीयाद् अक्षारलवणं मितम् ।
गोमूत्रेणाचरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥
दिवानुगच्छेत् ता गास् तु तिष्ठन्न् ऊर्ध्वं रजः पिबेत् ।
शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनं वसेत् ॥
तिष्ठन्तीष्व् अनुतिष्ठेत् तु व्रजन्तीष्व् अनु च व्रजेत् ।
आसीनासु तथासीत नियतो विगतस्पृहः ॥
आतुराम् अभिषिक्तां वा चोरव्याघ्रादिभिर् भयैः ।
पतितां पङ्कलग्नां वा सर्वप्राणैर् विमोचयेत् ॥
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा स्वशक्तितः ॥
आत्मनो यदि वान्येषां क्षेत्रे गेहे ऽथ वा खले ।
भक्षयन्ती न कथयेत् पिबन्तं चैव वत्सकम् ॥
अनेन विधिना यस् तु गोघ्नो गा अनुगच्छति ।
स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति ॥
ऋषभैकादशा गाश् च दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ इति । [म्ध् ११.१०८–१६]
अबुद्धिपूर्वे तु संवत्सरं प्राकृतं ब्रह्मचर्यं द्रष्टव्यम् । यदि वत्सस्याकामतो मृत्युर् भवति तदा वृषभैकादशगोदानं द्रष्टव्यम् । वत्सं प्रति लघुत्वम् अपि,
वत्सानाम् अर्धदण्डः स्यात् समो दण्डः पयस्विनीनाम् ।
बलीवर्दानां वृषभाणां च तथैवोक्तं मनीषिभिः ॥
इति प्राजापत्यस्मृतिदर्शनात् । तस्य बुद्धिपूर्वे तु,
वत्सं हत्वा नरो बुद्ध्या ततश् चान्द्रायणं चरेत् ।
पणान् पञ्चशतं वापि दद्याच् छुद्ध्यर्थम् आत्मनः ॥
इति कवषस्मृत्युक्तं द्रष्टव्यम् । स्वामिने तन्मूल्यं दाप्यम् “दाप्यस् तस्य च तधनम्” [म्ध् ८.१७६] इति लिङ्गात् । अस्मिन् वधे शूद्राणाम् अर्धदण्डः, लोकाक्षिवचनात्-
द्विजातीनां तु सर्वेषां सर्वो दण्डो विधीयते ।
शूद्राणाम् अर्धदण्डः स्याद् इति धर्मविदो विदुः ॥
इति ॥ २२.२० ॥
**मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिंसासु **
च ॥ २२.२१ ॥
अत्र काकग्रहणं मनुना विड्वराहश्लोकपठितानां क्रव्यादश्लोकपठितानां बिडालश्लोकपठितानां मार्जारश्लोकपठितानां चोपलक्षणम् ।
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।
प्राश्य मूत्रपुरीषाणि द्विजश् चान्द्रायणं चरेत् ॥ [म्ध् ११.१५४]
क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे ।
नरकाकबकानां च तप्तकृच्छ्रं विशोधनम् ॥ [म्ध् ११.१५६]
बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च ।
केशकीटावपन्नं च पिबेत् ब्राह्मीं सुवर्चलाम् ॥ [म्ध् ११.१५९]
मार्जारनकुलौ हत्वा चाषं मण्डूकम् एव च ।
श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् ॥ [म्ध् ११.१३१] इति ।
एतेषां समुदायवधे शूद्रहत्याव्रतं चरेद् इति द्रष्टव्यम् । शूद्रहत्याप्रायश्चित्तानुकर्षणार्थश् चकारः । बुद्धिपूर्वाबुद्धिपूर्वभेदे ऽपि शूद्रवद् एव । प्रत्येकवधे त्व् अबुद्धिपूर्वे विड्वराह्यादीनां मध्ये केषाञ्चिद् आहत्य विधीयते स्मृत्यन्तरे ।
घृतकुम्भं वराहं तु तिलद्रोणं तु तित्तिरम् ।
शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥
हत्वा हंसं बलाकं च बकं बर्हिणम् एव च ।
वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥ इति । [म्ध् ११.१३४–३५]
इदं महतानां वधे । प्रत्येकवधे तु कार्षापणमात्रं देयम् । तथाह व्याघ्रः ।
हंसानां च मयूराणां जलस्थानां च पक्षिणाम् ।
कपीनां श्येनभासानां वधे दद्यात् पणं द्विजः ॥
वासो दद्याद् धयं हत्वा पञ्च नीलान् वृषान् गजम् ।
अजमेषाव् अनड्वाहं खरं हत्वैकहायनम् ॥
क्रव्यादांश् च मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ।
अक्रव्यादो वत्सतरीम् उष्ट्रं हत्वा तु कृष्णलम् ॥ इति ।
बुद्धिपूर्वे दण्डानुरूपं परिकल्प्यम् । यथाह दण्डपारुष्ये –
मनुष्यमारणे क्षिप्रं चोरवत् किल्बिषं भवेत् ।
प्राणभृत्सु महत्स्व् अर्धं गोमायूष्ट्रहयादिषु ॥
क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ।
प्रमापणे प्राणभृतां तत्र दण्डो विचारितः ॥
पञ्चाशत्सु भवेद् दण्डः शुभेषु मृगपक्षिषु ।
गर्दभाजाविकानां तु दण्डः स्यात् पञ्चमाषकः ॥
माषिकस् तु भवेद् दण्डः श्वसूकरनिपातने ॥ इति । [म्ध् ८.२९६–९८]
एषाम् आहत्य युक्ताणाम् –
पयः पिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।
उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥ [म्ध् ११.१३२]
इति द्रष्टव्यम् । तत्र बुद्धिपूर्वे पयःपानम् अध्वगमनं वा द्रष्टव्यम् । अबुद्धिपूर्वे तु स्नानं सूक्तं जपश् चेति । दक्षिणाचोदनावत् । वत्सानां हनने ऽपि तारतम्यं द्रष्टव्यम् । नराणाम् उक्तं वर्णादिभेदेन । वराहाणाम् अपि वक्ष्यति “वराहे घृतघटः” [ग्ध् २२.२६] इति । अत्रैतद् अपि द्रष्टव्यम् । यत् तु मूत्रपुरीषप्राशने चान्द्रायणम् उक्तम्, तत्राप्य् एतेषां सर्वेषां ग्रहणं चान्द्रायणम् अपि बुद्धिपूर्वे द्रष्टव्यम् । तत्र भक्षणे तप्तकृच्छम् उक्तम् । यत्राप्य् उच्छिष्टभक्षणे ब्रह्मसुवर्चलापानम् उक्तम् अत्र सर्वत्राप्य् एषां सर्वेषां ग्रहणम् इति । अत्र चान्द्रायणं मनुष्यमूत्रपुरीषप्राशने पृथग् उक्त्वा तद्वर्जितानां द्रष्टव्यम् । तत्रापि मूत्रग्रहणे रेतसो ऽपि ग्रहणम्, मनुष्यमूत्रपुरीषप्राशने प्रायश्चित्तोपदेशेनास्यापि समानोपदेशात् ।
भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या तु त्र्यहं क्षिपेत् ।
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतो विण्मूत्रम् एव च ॥ इति । [म्ध् ४.२२२]
अयम् अपि वक्ष्यति “मूत्रपुरीषरेतसां च प्राशने” [म्ध् २३.४] इति । बुद्धिपूर्वे चान्द्रायणं द्रष्टव्यम् । अबुद्धिपूर्वे तु सान्तपनम्, यथाह लोकाक्षिः ।
वराहाणां खरोष्ट्राणां कपीनां च तथैव च ।
प्राश्य मूत्रपुरीषाणि चरेत् सान्तपनं द्विजः ॥ इति ।
अत्राप्य् एषां सर्वेषां ग्रहणम् इति । तप्तकृच्छ्रविधानम् अपि बुद्धिपूर्वक एव । तत्र पुनः संस्कारश् च द्रष्टव्यः । तथायं वक्ष्यति पुनःसंस्कारसहितं तप्तकृच्छ्रम् अधिकृत्य “श्वापदोष्ट्रखराणां चाङ्गस्य” [ग्ध् २३.५] इति । अबुद्धिपूर्वे तु वसिष्ठोक्तं द्रष्टव्यम्- “श्वकुक्कुटग्रामसूकरकङ्कगृध्रभासवायसपारावतमानुषोलूकानां मांसादने सप्तरात्रम् अभोजनं निष्पुरीषीभावः पुनःसंस्कारश् च” [वध् २३.३०] इति । एवं चात्राभिहितानां च तत्रान्तर्भावो द्रष्टव्यः । यत्र तु ब्रह्मसुवर्चलापानं विहितं तत्रापि नरोच्छिष्टं वर्जयित्वा । यथाह उशना-
ब्राह्मणोच्छिष्टभोजने प्राणायामशतं कुर्यात् क्षत्रियोच्छिष्टभोजने प्राणायामसहस्रं वैश्योच्छिष्टभोजने प्राणायामदशसाहस्रं मतिपूर्वं चेत् प्राजापत्यम् अतिकृच्छ्रं कृच्छ्रातिकृच्छं च । शूद्रोच्छिष्टभोजने सप्तरात्रं यवागूपानं मतिपूर्वं चेत् पराकम् । एवं द्विजातेर् द्विजात्युच्छिष्टभोजने शूद्राणां च ब्राह्मणोच्छिष्टानाम् अपां पाने षोडशप्राणायामान् धारयेत् क्षत्रियाणां त्रिंशत् वैश्यानां चत्वारिंशत् शूद्राणां कुशवारिपानं त्र्यहम्, बुद्धिपूर्वं चेत् त्र्यहं चतुरहं पञ्चाहं सप्ताहं च क्रमेण पञ्चगव्यपानं च क्रमेण । अन्त्यजानाम् उच्चिष्टभोजने बुद्धिपूर्वे महासान्तपनम्, अबुद्धिपूर्वे चान्द्रायणम् । इति ।
मनुनापि किञ्चिद् उक्तम् ।
शूद्रोच्छिष्टा अपः पीत्वा कुशवारि पिबेत् त्र्यहम् ॥ [म्ध् ११.१४८]
अभोज्यानां च भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टम् एव च ।
जग्ध्वा मांसम् अभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥ [म्ध् ११.१५२] इति ।
सुवर्चलापानम् अप्य् अबुद्धिपूर्वे अविशेषाद् एकरात्रम् एव । बुद्धिपूर्वे तु सान्तपनम् । यथाह जातूकर्णिः ।
जम्बूककाकमार्जारश्वगोधानां गवाम् अपि ।
मत्योच्छिष्टं द्विजो भुक्त्वा कृच्छ्रं सान्तपनं चरेत् ॥ इति ।
अत्र कवषोक्तम् अपि द्रष्टव्यम् ।
विप्रार्धं क्षत्रियस्य स्याद् वैश्यानां च तदर्धकम् ।
तदर्धम् एव शूद्राणां प्रायश्चित्तं विदुर् बुधाः ॥ इति ।
इदं सर्वत्र द्रष्टव्यम् । हिंसाग्रहणम् अधिकारसिद्धम् अपि क्रियते हिंसायाम् एव न तु स्पृष्टस्यापीति ॥ २२.२१ ॥
अस्थन्वतां सहस्रं हत्वा ॥ २२.२२ ॥
अन्येषाम् अस्थिमतां सहस्रवधे शूद्रहत्याप्रायश्चित्तं भवति ॥ २२.२२ ॥
अनस्थिमताम् अनडुद्भारे च ॥ २२.२३ ॥
अनस्थिमतां क्रिम्यादीनाम् अनडुद्भारमात्रे हते एतच् छूद्रहत्याप्रायश्चित्तम् । अत्र बुद्धिपूर्वे शूद्रहत्याप्रायश्चित्तम्, नेतरत्रैतद् इति द्रष्टव्यम् । एवं सर्वत्रातिदेशे द्रष्टव्यम् ॥ २२.२३ ॥
अपि वास्थन्वताम् एकैकस्मिन् किञ्चित् किञ्चिद् दद्यात्
॥ २२.२४ ॥
अथ न वा सहस्रपूरणम् अनदुद्भारपूरणं वा अनुरुध्यते, किं तु अनन्तरम् एकैकस्मिन् किञ्चित् किञ्चित् काकणिकामात्रं दद्यात् । वाशब्दात् जपादि वा कुर्यात् । अपिशब्दाद् अनस्थिमताम् अपि । तथाह मनुः ।
किञ्चिद् एव तु विप्राय दद्याद् अस्थिमतां वधे ।
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ इति । [म्ध् ११.१४१]
तत्रास्थिमतां बुद्धिपूर्वहनने काकणिकावरमात्रं देयम्, अबुद्धिपूर्वे तु षट् प्राणायामाः । अनस्थिमतां बुद्धिपूर्वे प्राणायामत्रयम्, अबुद्धिपूर्वे त्व् एक एव प्राणायामो द्रष्टव्यः । तथाह कण्वः ।
हनने ऽस्थिमतां दद्यात् मत्या काकणिकां नरः ।
अबुद्ध्या तु ततस् तेषां प्राणायामान् षड् आचरेत् ॥
प्राणायामत्रयं कुर्यात् अनस्थ्नां हनने मतौ ।
अबुद्ध्यैकं ततः कुर्याद् इति धर्मविदो विदुः ॥
इति ॥ २२.२४ ॥
षण्डे पलालभारः सीसमाषश् च ॥ २२.२५ ॥
षण्डे तृतीयाप्रकृतौ, न तु क्लीबे, तस्य तु श्रोत्रियत्वेन प्राप्तौ सत्यां श्राद्धे प्रतिषेधात् ससंस्कारसम्बन्धित्वाच् च । तस्मिन् हते तस्य जातिविशेषो नास्ति – पलालभारो गवां सीसमाषो ब्राह्मणाय । असमासनिर्देशाद् व्यस्तम्, चकारात् समत्वं च । तत्राबुद्धिपूर्वे व्यस्तं बुद्धिपूर्वे समस्तम् इति ॥ २२.२५ ॥
वराहे घृतघटः ॥ २२.२६ ॥
सूकरे हते घृतपूर्णो घटो ब्राह्मणाय देयः । अस्य तूक्तो विषयः ॥ २२.२६ ॥
सर्पे लोहदण्डः ॥ २२.२७ ॥
लोहशब्देन कार्ष्णायसम् उच्यते । यथाह मनुः ।
अभ्रीं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः । इति । [म्ध् ११.१३३]
बुद्धिपूर्वे इदम्, अबुद्धिपूर्वे तु माषमात्रं देयम्, “सर्पं हत्वा माषमात्रं दयात्” इत्य् औशनसवचनाट् ॥ २२.२७ ॥
ब्रह्मबन्ध्वां चलनायां जीलः ॥ २२.२८ ॥
चलना व्यभिचारिणी । क्षत्रियादेर् मनुनोक्तं द्रष्टव्यम्, यथाह ।
जीलकार्मुकबस्तावीन् पृथग् दद्याद् विशुद्धये ।
चतुर्णाम् अपि वर्णानां नारीर् हत्वानवस्थिताः ॥ इति । [म्ध् ११.१३८]
जीलो दृतिः । चलनम् अपि गूढत्वेन बहुपुरुषसेवित्वम् । यथाह प्रजापतिः ।
अभिगच्छति या नारी बहुभिः पुरुषैर् मिथः ।
व्यभिचारिणीति सा ज्ञेया प्रत्यक्षं गणिकेति च ॥ इति ।
एवं च पुरुषत्रयसंसर्गाद् अर्वाक् पूर्वोक्तं हननप्रायश्चित्तम् एव द्रष्टव्यम्, तत ऊर्ध्वम् इदम् इति । पुरुषत्रयसंसर्गाद् अर्वाग् अपि पूर्वोक्ताद् अर्धम् अर्धं परिकल्प्यम् । यथाह कण्वः ।
वृत्तस्थायाः स्त्रियाः सर्वं प्रायश्चित्तं विधीयते ।
प्रतिपूरुषं प्रवृत्ताया अर्धहीनं भवेत् तु तत् ॥ इति ।
इदं बुद्धिपूर्वे । अबुद्धिपूर्वे तु व्याघ्रोक्तं द्रष्टव्यम् ।
व्यभिचारिण्याः पापार्धं वेश्यानां गमने भवेत् ।
चतुर्णाम् अपि वर्णानां नारी हत्वानवस्थिताम् ॥
शङ्खशुक्त्यजम् एषांश् च क्रमाद् दयाद् विशुद्धये ॥
इति ॥ २२.२८ ॥
वैशिके न किञ्चित् ॥ २२.२९ ॥
वैश्यकर्मणा जीवन्त्यां हतायां न किञ्चिद् अपि कर्तव्यम् । इदम् अबुद्धिपूर्वे । बुद्धिपूर्वे तु व्यभिचारिण्यां यद् उक्तं तदर्धं द्रष्टव्यम्,
व्यभिचारिण्याः पापार्धं वेश्यानां गमने भवेत् ।
चतुर्णाम् अपि वर्णानाम् एष धर्मः सनातनः ॥
इति प्रजापतिधर्मलिङ्गात् । यद् वा – वेश्यासु क्रियत इति वैशिकं तत् ब्रह्मबन्ध्वा सह कृते प्रकाशम् आचरन्त्या मैथुने आचरिते इत्य् अर्थः । न किञ्चित् परस्त्रीगमनप्रायश्चित्तं कर्तव्यम् इत्य् अर्थः । एवं च गूढम् आचरन्त्या सह कृते किञ्चित् प्रायश्चित्तम् अस्तीति गम्यते । तद् अपि हिंसावत् परिकल्प्यम् । अत्र परदारगमनप्रायश्चित्तप्रतिषेधाद् अन्यद् अस्त्य् एवेत्य् अवगम्यते । तथाह शङ्खः ।
पशुवेश्यागमने प्राजापत्यं चरेत् द्विजः । इति ।
तद् अपि सकृद्गमने, अभ्यासे तु संवर्तोक्तं द्रष्टव्यम् । यथाह ।
पशुवेश्याभिगमने प्राजापत्यं समाचरेत् ।
गोगमे तु नरः कुर्यात् कृच्छ्रं चान्द्रायणोत्तरम् ॥ इति ।
तस्याम् अत्यन्ताभ्यासे मनुनोक्तम् उपपातकप्रायश्चित्तं द्रष्टव्यम् । यथाह ।
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् । इति । [म्ध् ११.६६]
तस्यां प्रसूतस्य कण्वोक्तं द्रष्टव्यम् । यथाह ।
प्रसूतो यस् तु वेश्यायां भैक्षभुङ् नियतेन्द्रियः ।
शतसाहस्रम् अभ्यस्य सावित्रीम् एति शुद्धताम् ॥ इति ।
ब्रह्मबन्ध्वा सह वैशिकाचरणे यद् उक्तं तद् एव क्षत्रबन्ध्वादिभिर् अपि वैशिकाचरणे द्रष्टव्यम् । तथाह कवषः ।
ब्रह्मक्षत्रियविट्शूद्रबन्धुभिर् वैशिके कृते ।
प्राजापत्यं चरेद् विद्वान् अभ्यासे कृच्छ्रम् एव तु ॥ इति ।
क्षत्रियादीनाम् अर्धम् अर्धं परिकल्प्यम् ।
अत्र केचिद् व्याचक्षते – ब्राह्मण्याः शूद्रसम्पर्के पातित्यम् उक्तम्- “भ्रूणहनि हीनवर्णसेवायां च स्त्री पतति” [ग्ध् २१.९] इति । तस्मात् या ब्राह्मणी शूद्रवर्णसम्बन्धा भवति तया सहान्येषां सम्बन्धं कुर्वतां पतितागमनप्रायश्चित्तम् एव कर्तव्यम् इति ।
तद् अयुक्तम्,
चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ [म्ध् ११.१७५]
इति लिङ्गात् । ततश् च मत्या शूद्रादिसम्पर्के ऽपि ब्राह्मण्यादीनां शूद्रादिसाम्यम् अमत्या च तद्धीनत्वम् अवगम्यत इति । एवम् अपि यच् छूद्रया अव्यभिचारिण्या मैथुनाचरणे प्रायश्चित्तं तद् एव ब्राह्मण्यां शूद्रसम्बन्धायाम् अपि प्रसज्येतेति चेत् – अत्रोच्यते, साम्यवचनान् न भवतीति । तस्माद् उक्तम् एव प्रायश्चित्तम् इति ।
अन्ये व्याचक्षते – अबुद्धिपूर्वं शूद्रादिसम्पर्कं या करोति तया गमने पातकप्रायश्चित्तम्, बुद्धिपूर्वे तु शूद्राभिगमनप्रायश्चित्तम्, “ज्ञानात् साम्यं तु गच्छति” [म्ध् ११.१७५] इति वचनाद् इति ।
तद् अप्य् अयुक्तम् । अत्रापि बुद्धिपूर्वकृताद् अबुद्धिपूर्वकृतस्य गुरुत्वप्राप्तौ तद् अपि “सङ्कल्पेन भूयः” [आप्ध्१.२९.३] इत्यादिभिर् विरुध्येतेति । एवं च सति “चण्डालान्त्यस्त्रियो गत्वा” [म्ध् ११.१७५] इत्य् अस्याप्य् अयम् एवार्थो वेदितव्यः । चण्डालादिभिर् अबुद्धिपूर्वसम्पर्के पतितो भवति द्विजातिकर्मभिर् नाधिक्रियत इत्य् अर्थः, न तु ब्रह्महत्यादिपापम् इति । तद् उक्तम् “द्विजातिर् कर्मभ्यो हानिः पतनम्” [ग्ध् २१.४] इति । न जातेर् अपगमः, तस्मात् प्रायश्चित्तम् अस्तीति । बुद्धिपूर्वे तु जातेर् अप्य् अपगमो भवति तस्मात् प्रायश्चित्तं नास्तीति । “पतत्य् अज्ञानतः” [म्ध् ११.१७५] इत्य् अनेन द्विजातिकर्मानधिकृत इत्य् उक्तं न ब्रह्महत्यादिपापम् । साम्यवचनाच् च येन सम्पर्कं करोति बुद्धिपूर्वं तेन साम्यं गच्छति न प्रायश्चित्तेनाधिक्रियत इति, साम्यद्वारेण प्रायश्चित्ताभाव इति । ब्राह्मण्यादीनां शूद्रसम्बन्धे बुद्धिपूर्वे ऽपि प्रजाताया एव तत् साम्यं द्रष्टव्यम्, अप्रजातायाः शुद्धिप्रतिपादनात् ।
ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ [वध् २१.१२]
इति शूद्रेण सङ्गताया अप्रजातायाः शुद्धिप्रतिपादनाद् अधोजातिसङ्गताया अशुचितव्ं द्रष्टव्यम् । ब्राह्मणक्षत्रियविशाम् इत्य् उक्तत्वात् शूद्रस्त्रियाः प्रजाताया अपि शुद्धिः । अन्यच् च –
प्रजातायां प्रतिपुरुषम् अर्धहीनं भवेत् तु तत् ।
इत्य् अत्र ब्राह्मण्यां क्षत्रियसम्पर्के अर्धं तदर्धं वैश्यसम्बन्धे तदर्धं शूद्रसम्बन्ध इत्य् एवं परिकल्प्यम् । “मद्यपस्त्रीनिषेवणम्” [म्ध् ११.६६] इत्य् अत्र चोद्यते – ब्राह्मण्या मद्यपाया गमने पतितागमनप्रायश्चित्तं भवितुम् अर्हति, नोपपातकप्रायश्चित्तं मद्यपानेन हि पतिता भवतीति ।
अत्रोच्यते – पातित्यं शूद्रतुल्यत्वं न ब्रह्महत्यासमत्वम्, यथाह मनुः ।
यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ।
तस्य व्यपैति तद् ब्रह्म शूद्रत्वं च निगच्छति ॥ इति । [म्ध् ११.९७]
अतः शूद्रतुल्यत्वाद् उक्तम् एव प्रायश्चित्तं न पतितागमनप्रायश्चित्तम् इति । तथात्रापि चोक्तम्- “आर्यानार्ययोर् व्यतिक्षेपे कर्मणः साम्यम्” [ग्ध् १०.६६] इति । व्यतिक्षेपस् तु शूद्रस्याप्रतिषिद्धं मद्यपानं ब्राह्मणादीनां तु प्रतिषिद्धम् । तत्र शूद्रे मद्यपानवर्जिते ब्राह्मणादौ च मद्यपानप्रसक्ते सति तस्माद् धेतोः साम्यं च । एवं च मद्यपो ब्राह्मणादिस् तद्वर्जितशूद्रतुल्य इत्य् अवगन्तव्यः । यद्य् अपि शूद्रतुल्यः तथाप्य् अस्पृश्य इत्य् अवगन्तव्यः, “पतितचण्डाल” [ग्ध् १४.२९] इत्य् अत्र पतितग्रहणेन गृह्यमाणत्वात् । तद्वर्जितानाꣳ ग्रहणम् इति चेत्, न, स्मृत्यन्तरसामर्थ्यात् । तथाह कण्वः ।
ब्रह्महा मद्यपः स्तेनो गुरुतल्पग एव च ।
अस्पृश्याः पतिता ह्य् एते तैश् चावचरितः समः ॥
॥ २२.२९ ॥
तल्पान्नधनलाभवधेषु पृथग् वर्षाणि ॥ २२.३० ॥
लाभवधशब्दः प्रत्येकम् अभिसम्बध्यते, तल्पलाभवधे धनलाभवध इत्यादि । तल्पशब्देन शयनवाचिना भार्योच्यते । तद्धेतुत्वाल् लक्षणया कन्याया अत्र ग्रहणम् । अन्नं कृतम् अकृतं वा । धनं सुवर्णगवादि । लाभः प्राप्तिः । वधो विघ्नकरणम् । एतद् उक्तं भवति – कन्यान्नधनेषु लभ्यमानेषु विघ्नं प्रतिषेधं कृत्वा संवत्सरं ब्रह्मचर्यं पृथक् पृथक् कर्तव्यम् इति । बुद्धिपूर्व इदम् । अबुद्धिपूर्वे तु उशनसोक्तं द्रष्टव्यम्- “कन्यान्नधनविघ्ने प्राजापत्यम्” इति । ब्राह्मणलाभविघ्नं इदम् । क्षत्रियादिष्व् अधर्मधर्मं परिकल्प्यम् ॥ २२.३० ॥
द्वे परदारे ॥ २२.३१ ॥
परदारगमने द्वे वर्षे प्राकृतब्रह्मचर्यम् । ब्राह्मणीगमने गर्भोत्पत्ताव् इदं द्रष्टव्यम् । गर्भोत्पत्तेः प्राक् कृच्छ्रचान्द्रायणे । यथाह व्याघ्रः ।
ब्राह्मणो ब्राह्मणीं गच्छेद् अकामां यदि कामतः ।
कृच्छ्रचान्द्रायणे कुर्याद् अर्धम् एव प्रमादतः ॥
अर्धम् एव सकामायां तप्तकृच्छ्रं सकृद् गतौ ।
अर्धम् अर्धं नृपादीनां दारेषु ब्राह्मणश् चरेत् ॥
एतद् व्रतं चरेत् सार्धं श्रोत्रियस्य परिग्रहे ।
अश्रोत्रियश् चेत् द्विगुणं गुप्तायाम् अर्धम् एव च ॥ इति ।
क्षत्रियस्य दारे गर्भोत्पत्तौ “द्वे परदारे” [ग्ध् २२.३१] इत्य् अस्यार्धं द्रष्टव्यम्, “अर्धम् अर्धं नृपादीनाम्” इति लिङ्गात् । वैश्यदारे मनुनोक्तम् उपपातकप्रायश्चित्तं द्रष्टव्यम्, “एतद् एव व्रतं कुर्युः” [म्ध् ११.११७] इत्यादि । शूद्रस्य दारे अतिकृच्छ्रम्, कण्ववचनात् ।
शूद्रदारान् गतो विप्रो ह्य् अतिकृच्छ्रं समाचरेत् ।
चान्द्रायणं विशो राज्ञः समं तु ब्रह्मणि व्रतम् ॥ इति ।
यदि ब्राह्मणेनैव चातुर्वर्ण्यप्रसूताः क्रमेण निर्विष्टाः तदानीं ब्राह्मणस्य ब्राह्मणीगमने यद् उक्तं तद् एव पादहीनं क्षत्रियादिगमने द्रष्टव्यम्, व्याघ्रवचनात्-
विप्रेणैव विनिर्विष्टाश् चातुर्वर्ण्यप्रसूतकाः ।
क्रमेण पादतो हीनं व्रतं तासु गतश् चरेत् ॥ इति ।
अयम् एव न्यायः क्षत्रियादिष्व् अपि द्रष्टव्यः । ब्राह्मणभार्यां शूद्रां ब्राह्मणो गत्वा प्राजापत्यं कुर्यात्, वसिष्ठवचनात्- “ब्राह्मणश् चेद् अप्रेक्षापूर्वकं ब्राह्मणदारान् अधिगच्छेन् निवृत्तधर्मकर्मणः कृच्छ्रो ऽनिवृत्तधर्मकर्मणो ऽतिकृच्छ्रः” [वध् २१.१६] इति । इदम् अबुद्धिपूर्वे सकृद्गमने । बुद्धिपूर्वे तु द्विगुणम्, “अर्धम् एव प्रमादतः” इति लिङ्गात् । अभ्यासे तु पादहीनन्यायो द्रष्टव्यः । ब्राह्मणस्य क्षत्रियादिभार्यागमने यद् उक्तं तद् एव क्षत्रियादीनां स्वजातिभार्यागमने ऽपि द्रष्टव्यम् । कुतः?
विप्रो नृपस्य भार्यायां यत् करोति समागमे ।
तद् एव क्षत्रियश् चापि कुर्यात् तत्रैव सङ्गतः ॥
इति प्रजापतिधर्मलिङ्गात् ॥ २२.३१ ॥
त्रीणि श्रोत्रियस्य ॥ २२.३२ ॥
गर्भोत्पत्ताव् एवास्यां समागमे । गर्भोत्पत्तेः प्राग् अप्य् उक्तम्-
एतद् व्रतं चरेत् सार्धं श्रोत्रियस्य परिग्रहे । इति । [व्याघ्र उन्देर् २२.३१]
गर्भोत्पत्तेर् ऊर्ध्वम् एतद् एव आ प्रजाया द्रष्टव्यम् । बहुशो ऽभ्यासे समानप्रायश्चित्तत्वम् अयुक्तम् इति चेत्, अत्रोच्यते – स्त्रीणां गर्भोत्पत्तेः प्राक् बहुशो ऽभ्यासे ऽपि समानत्वं दृश्यते,
ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः । [वध् २१.१२]
इत्य् अत्र । तद्वद् अत्रापि न दोष इति । तथा कवषवचनम् अपि ।
गर्भोत्पत्तौ यद् उक्तं तत् तद् एवामरणाच् चरेत् ।
ब्राह्मणः क्षत्रियश् चापि वैश्यश् शूद्रस् तथैव च ॥ इति ।
जपादिभिर् वा प्रतिपूरणं कर्तव्यम् । तद् उक्तं च मानवे ।
यस्मिन् कर्मण्य् अस्य कृते मनसः स्याद् अलाघवम् । [म्ध् ११.२३३]
इत्यादि । तत्रैकस्यां दुष्टः कृतप्रायश्चित्तः संवत्सरे ऽतीते पुनर् अपि तस्याम् एव यदि दुष्टो भवति तदा पूर्वप्रायश्चित्तात् द्विगुणं तेन कर्तव्यम् । कुतः?
संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । [म्ध् ८.३७३]
इति दण्डदर्शनात् । संवत्सरप्रभृति तस्य तावद् एवेति द्रष्टव्यम् । संवत्सराद् अर्वाक् प्रथमे मासि द्वादशगुणितस्यैव मासान् मासि [मासानुमासि?] भागकल्पनेति भाष्यकारेण व्याक्यातम् [=भारुचि] । प्रतिमासं त्रैमासिकं पूरणं कल्प्यम् । कृतप्रायश्चित्तस्यैवेदम्, अभिशस्तस्य दुष्टस्येति पदद्वयोपादानात् । अकृतप्रायश्चित्तस्य तु जपादिभिर् एव पूरणम् । तत्रात्यन्तश्रोत्रियब्राह्मणस्य भार्यां प्रजावतीं पतिव्रतां बलाद् अवष्टभ्य कृतस्याचतुर्थाद् उपगमनात् प्राक् पातित्यं द्रष्टव्यम्, आपस्तम्बवचनात्- “सवर्णायाम् अन्यपूर्वायां सकृत् सन्निपाते पादः पततीत्य् उपदिशन्ति । एवम् अभ्यासे पादः पादः। चतुर्थे सर्वम्” [आप्ध् २.२७.११–१३] इति ॥ २२.३२ ॥
द्रव्यलाभे चोत्सर्गः ॥ २२.३३ ॥
यदि च परस्त्रीतो द्रव्यं लब्धं तस्योत्सर्गः कार्यः । त्यागश् च विना प्रतिग्रहधर्मेण परित्यागः । चशब्दाद् यद् अन्नाद्य् उपभुक्तं तद् अपि प्रतिपादयेत् ॥ २२.३३ ॥
यथास्थानं वा गमयेत् ॥ २२.३४ ॥
स्वामिन एव वा भक्तादिकं केनचिद् व्याजेन प्रतिपादयेद् इत्य् अर्थः ॥ २२.३४ ॥
प्रतिषिद्धमन्त्रयोगे सहस्रवाकश् चेत् ॥ २२.३५ ॥
प्रतिषिद्धस्याप्रशस्तद्विजातेः मन्त्रयोगः याजनाध्यापनक्रिया, तस्मिन् कृते संवत्सरं प्राकृतं ब्रह्मचर्यम् । अज्ञानाद् इदम्, इतरत्र पतितत्वं स्याद् इति । यदि चासौ मन्त्रयोगः सहस्रवाकः स्यात् । वाकशब्देन पदम् उच्यते । सहस्रशब्दो ऽपि बहुत्ववचनः । अतो यदि महान्तं ग्रन्थम् अभ्यस्यतीत्य् अर्थः । एवं चाल्पे पूर्वोक्तसहिताध्ययनं द्रष्टव्यम् । पतितविषयम् इदम् । उपपातकिविषये तु वसिष्ठोक्तं द्रष्टव्यम् ।
पतितचण्डालशवश्रावणे त्रिरात्रं वाग्यता अनश्नन्त आसीरन् सहस्रपरमं वा तद् अभ्यस्यन्तः पूता भवन्तीति विज्ञायत इत्य् एतेनैव गर्हिताध्यापकयाजका व्याख्याता दक्षिणात्यागाच् च पूता भवन्तीति विज्ञायते ॥ इति । [वध् २३.३४–३६]
अत्राप्य् अज्ञानात् त्रिरात्रं वाग्यतैर् अनश्नद्भिर् भवितव्यं सहस्रवाकाद् अर्वाक् । ऊर्ध्वं तु यावद् अध्यापितं तावतः सहस्रपरमो जपो हविष्याशिनो द्रष्टव्यः । ज्ञानविषये तु सहस्रवाकाद् ऊर्ध्वम् उपपातकिता द्रष्टव्या । तद् उक्तं च “तन्मन्त्रकृत्” इति । ततो ऽर्वाक् सहस्रत्रयजपो द्रष्टव्यः, “प्रतिषिद्धकृतम् अनुवाकं सहस्रत्रयम् अभ्यसेत्” इत्य् औशनसवचनात् ।
अन्ये तु मन्त्रयोगं सहाध्ययनं सहयाजनं वाचक्षते, ततश् च प्रतिषिद्धेन सहैकत्राध्ययनं सहयाजनं च कृत्वा प्राकृतं ब्रह्मचर्यम् इति ।
अत्रापि पूर्वोक्तविषयभेदेन तद् एव प्रायश्चित्तं द्रष्टव्यम्, सहाध्ययनयाजनयोस् तुल्यत्वाद् इति ॥ २२.३५ ॥
अग्न्युत्सादिनिराकृत्युपपातकेषु चैवम् ॥ २२.३६ ॥
यस्य देशोपप्लवादिना श्रौताग्नीनां बहुकालं वियोगो भवति सो ऽग्न्युत्सादी । निराकृतिर् उक्तः । नासौ उपपातकत्वेन गृह्यते, दुर्वालाद् ऊर्ध्वम् अभिहितत्वात् । उत्सृष्टाग्निस् त्व् अन्य एव व्याख्यातः श्रौतानाम् एव नास्तिक्येन परित्यक्तेति । अत्रैवं विषयविभागो द्रष्टव्यः – यो नास्तिक्येन कर्माणि परित्यजति, देशोपप्लवादिना वा बहुकालं गच्छति, तस्य संवत्सरं प्राकृतं ब्रह्मचर्यम्, अल्पकाले तु प्राजापत्यम् । यथाह वसिष्ठः- “यो ऽग्नीन् अपविध्येत् कृच्छ्रं द्वादशरात्रं चरित्वा पुनर् आधानं कारयेत्” [वध् १.२३] इति । य आलस्यादिना नास्तिक्यदेशोपप्लवाद्यन्तरेणापि परित्यजति तस्य चान्द्रायणं द्रष्टव्यम्, यथाह मनुः ।
अग्निहोत्र्य् अपविध्याग्नीन् ब्राह्मणः कामकारतः ।
चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ॥ इति । [म्ध् ११.४१]
मासम् अपविद्धस्येदम्, तस्माद् उत्तरं कृच्छ्रोत्तरं द्रष्टव्यम्,
अग्निहोत्र्य् अपविध्याग्नीन् मासाद् ऊर्ध्वं तु कामतः ।
कृच्छ्रं चान्द्रायणं चैव कुर्याद् एवाविचारयन् ॥
इति वचनात् । मासाद् अर्वाग् अपि चान्द्रायणम् एव, “विस्पष्टार्थं वा मासग्रहणम्” इति भाष्यकारेणोक्तत्वात् । सर्वत्र पुनराधानम् अतीतकालहोमश् च द्रष्टव्यः । तथा च जातुकर्णिः ।
अतीतकालं जुहुयाद् अग्नौ विप्राय वा व्ययम् ।
नष्टे ऽग्नौ विधिवद् दद्यात् कृत्वाधानं पुनर् द्विजः ॥ इति ।
इदं वाक्यं श्रौते स्मार्ते च द्रष्टव्यम् । एवं च बहुकालातिक्रमणे प्रायश्चित्तस्य गौरवं सम्पद्यत इति नात्र जपादिपूरणं कर्तव्यम् । स्मार्तस्य तु पुनर् आधानम् अतीतकालहोमश् चैव, न प्रायश्चित्तान्तरम् अस्ति । नास्तिक्ये तु प्राजापत्यं द्रष्टव्यम् । तथाह व्याघ्रः ।
यो ऽग्नींस् त्यजति नास्तिक्यात् प्राजापत्यं चरेद् द्विजः ।
अन्यत्र पुनराधानं दानम् एव तथैव च ॥ इति ।
निराकृतेर् अन्ये ये चापाङ्क्तत्वेन अभिहिता उपपातकवर्जितास् तेषां मनुनोक्तं च द्रष्टव्यम् ।
षष्ठान्नकालता मासं संहिताजप एव च ।
होमाश् च शालका नित्यम् अपाङ्क्तानां विशोधनम् ॥ इति । [म्ध् ११.२००]
उपपातकेष्व् इति बहुवचनं स्मृत्यन्तरोक्तानाम् उपलक्षणार्थम् । यथाह मनुः ।
गोवधो ऽयाज्यसंयाज्यपारदार्यात्मविक्रयाः ।
गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥
परिवित्तता चानुजेन परिवेदनम् एव च ।
तयोर् दानं कन्यायास् तयोर् एव च याजनम् ॥
कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् ।
तटाकारामदाराणाम् अपत्यस्य च विक्रयः ॥
व्रात्यता बानधवत्यागो भृताध्यापनम् एव च ।
भृताच् चाध्ययनादानम् अपण्यानां च विक्रयः ॥
सर्वाकरेष्व् अधीकारो महायन्त्रप्रवर्तनम् ।
हिंसौषधीनां स्त्र्याजीवो ऽभिचारो मूलकर्म च ॥
इन्धनार्थम् अशुष्काणां द्रुमाणाम् अवपातनम् ।
आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥
अनाहिताग्निता स्तैन्यम् ऋणानां चानपक्रिया ।
असच्छास्त्राधिगमनं कौशीलव्यस्य च क्रिया ॥
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् ।
स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥ इति । [म्ध् ११.५९–६५]
अत्र केषाञ्चिद् आहत्य प्रायश्चित्तं स्मृत्यन्तरे श्रूयते । यथाह वसिष्ठः-
परिवित्तः कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत तां चैवोपयच्छेत् । अथ परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्वा पुनर् निविशेत तां चैवोपयच्छेत् । अग्रेदिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत तां चैवोपयच्छेत् । दिधिषूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्वा पुनर् निविशेत् । [वध् २०.७–१०]
इत्यादि । गोवधे अत्राप्य् उक्तम्, अयाज्यसंयाजने ऽप्य् उक्तं पारदार्ये ऽप्य् उक्तं स्वाध्यायाग्नेः परित्यागे ऽप्य् उक्तम् । कन्यादूषणे च वसिष्ठ आह- “गुर्वीसखीं गुरुसखीम् अपपात्रां पतितां च गत्वा कृच्छ्राब्दपादं चरेत्” [वध् २०.१६] इति । एतद् अकामकृते द्रष्टव्यम् । बुद्धिपूर्वे तु,
गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु ।
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्व् अन्त्यजासु च ॥ [म्ध् ११.१७०]
इति मनुनोक्तं गुरुतल्पव्रतं द्रष्टव्यम् । यद्य् अपि सामान्येनोक्तम्, तथापि जातिविशेषात् प्रायश्चित्तविशेषो द्रष्टव्यः- “ब्राह्मणकन्यायां सर्वं क्षत्रियकन्यायाम् अर्धम्” इत्यादि । व्रात्यतायां च वसिष्ठोक्तम् उदाहृतम्- “पतितसावित्रीक उद्दालकव्रतं चरेत्” [वध् ११.७६] इत्यादि । मनुर् अप्य् आह ।
येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्य् उपनाययेत् ॥ इति । [म्ध् ११.१९१]
तत्र बहुकालातिक्रम उद्दालकव्रतम्, मध्यमे कृच्छ्रत्रयम्, स्वल्पकालातिक्रमे व्रात्यस्तोमयाग इति द्रष्टव्यम् । भृतकाध्यापनम् “वेदविप्लावकम्” [ग्ध् २०.१] इत्य् उक्तम् । बहुशः कृते पातित्यं तत्र त्यागश् चोक्तः “त्यजेत् पितरम्” [ग्ध् २०.१] इत्यादि । अन्यत्र मनुर् आह ।
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।
संवत्सरं यवाहारस् तत् पापम् अपसेधति ॥ इति । [म्ध् ११.१९८]
अभिचारस्यापि मनुर् आह ।
व्रात्यानां याजनं कृत्वा परेषाम् अन्त्यकर्म च ।
अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति ॥ इति । [म्ध् ११.१९७]
द्विजातिवधे इदम् । शूद्रादिवधे तु “शूद्रम् अभिचार्य प्राजापत्यं चरेत्” इति पैठीनसिवचनात् । निन्दितान्नादने तु वक्ष्यति- “अभोज्यभोजने निष्पुरीषीभावः” [ग्ध् २३.२३] इत्यादि । तत्र बुद्धिपूर्वाभ्यासे सुरापानसमत्वम् । यथाह मनुः ।
निन्दितानाद्ययोर् जग्धिः सुरापानसमानि षट् । इति । [म्ध् ११.५६]
एवं चाबुद्धिपूर्वाभ्यासे उपपातकं वेदितव्यम् । एवं येषाम् उपपातकानाम् आहत्य विधानं नास्ति तेषाम् इदं संवत्सरं प्राकृतं ब्रह्मचर्यं द्रष्टव्यम् । अभ्यासविषयं चेदम् । इतरत्र मनुनोक्तम् ।
एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः ।
अवकीर्णिवर्जं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ॥ इति । [म्ध् ११.११७]
तत्राप्य् अबुद्धिपूर्वे चान्द्रायनम् इतरत्र गोवधप्रायश्चित्तं द्रष्टव्यम् । चकाराद् एवातिदेशे सिद्धे एवङ्कारकरणं समस्तातिदेशार्थम् । ततश् च “द्रव्यलाभे चोत्सर्गः” [ग्ध् २२.३३] इत्यादि द्रष्टव्यम् ॥ २२.३६ ॥
स्त्री चातिचारिणी गुप्ता पिण्डं तु लभेत ॥ २२.३७ ॥
स्त्री च एतद् एव प्रायश्चित्तं कुर्यात् । अतिचारिणी व्यभिचारिणी । शूद्रव्यभिचार उक्तत्वात् द्विजातिव्यभिचार इदम् । बुद्धिपूर्वे सकृद्गमने चेद्, अन्यत्र “यत् पुंसः परदारेषु” [म्ध् ११.१७६] इत्य् उक्तत्वात्, समानजातिव्यभिचार इदम् । ब्राह्मण्याः क्षत्रियव्यभिचारे तु वसिष्ठोक्तं द्रष्टव्यम्- “व्यवाये तु संवत्सरं घृतपटं धारयेत् । गोमयगर्ते कुशप्रस्तरे वा शयीतोर्ध्वं संवत्सराद् अप्सु निमग्नायाः सावित्र्यष्टसहस्रेण शिरोभिर् जुहुयात् पूता भवति” [वध् २१.८] इति । वैश्यगमने त्व् औशनसं द्रष्टव्यम्- “व्यभिचारिणी कृच्छ्राब्दं चरेत्” इति । उत्तमाभिगमने च नीचायाम् अर्धम् अर्धं परिकल्प्यम् । तथा सम्भाषणे च श्रूयते-
मनसा भर्तुर् अतिचारे त्रिरात्रं यावकं क्षीरोदनं वा भुञ्जानाधःशयीतोर्ध्वं त्रिरात्राद् अप्सु निमग्नायाः सावित्र्यष्टशतेन शिरोभिर् जुहुयात् पूता भवतीति विज्ञायते । वाक्सम्बन्ध एतद् एव मासं चरित्वोर्ध्वं मासाद् अप्सु निमग्नायाः सावित्र्याश् चतुर्भिर् अष्टशतैः शिरोभिर् जुहुयात् । [वध् २१.६–७] इति ।
इदम् अपि सकृद्भाषणे । अभ्यासे तु मनुनोक्तम्, पुनःशब्दश्रवणात् । यथाह ।
सा चेत् पुनः सम्प्रदुष्येत् सदृशेनोपयन्त्रिता ।
कृच्छ्रं चान्द्रायणं चैव तद् अस्याः पावनं स्मृतम् ॥ इति । [म्ध् ११.१७७]
हीनसम्भाषणे तद्द्विगुणम्, उत्तमसम्भाषणे अर्धं द्रष्टव्यम् । एवं व्यभिचारिणी या न शुद्धा सा गुप्ता रक्ष्यमाणा पिण्डं प्राणधारणमात्रम् अन्नं लभेत । तुशब्दात् कौपीनाच्छादनार्थं वासश् च लभेत ॥ २२.३७ ॥
अमानुषीषु गोवर्जं स्त्रीकृते कूश्माण्डैर् घृतहोमो घृतहोमः ॥ २२.३८ ॥
गोवर्जितास्व् अमानुषीषु वडवाद्यासु स्त्रीकृते मैथुने आचरिते कूश्माण्डैः “यद् देवा देवहेडनम्” इत्यादिभिर् घृतेन होमः कर्तव्यः अभ्यासाद् धोमावृत्तिर् द्रष्टव्या ॥ २२.३८ ॥
इति मस्करीये गौतमभाष्ये द्वाविंशो ऽध्यायः
त्रयोविंशो ऽध्यायः
अधुना क्रमप्राप्तं सुरापानप्रायश्चित्तम् आह ।
सुरापस्य ब्राह्मणस्योष्णाम् आसिञ्चेयुः सुराम् आस्ये मृतः शुध्येत् ॥ २३.१ ॥
सुराशब्देनात्र त्रिप्रकारा सुरा गृह्यते, ब्राह्मणग्रहणात्, तं प्रति त्रिप्रकारायाश् च प्रतिषिद्धत्वात् । यथाह मनुः ।
गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका न पातव्या तथा सर्वा द्विजोत्तमैः ॥ इति । [म्ध् ११.९४]
“अमत्या पाने” [ग्ध् २३.२] इति वक्ष्यमाणत्वान् मतिपूर्व इदम् इति चावगम्यते । क्षत्रियवैश्ययोर् अपि पैष्टीपन इदम् एव प्रायश्चित्तं द्रष्टव्यम्, तयोस् तस्या एव प्रतिषिद्धत्वात् । यथाह मनुः ।
सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते ।
तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न पिबेत् सुराम् ॥ इति । [म्ध् ११.९३]
तथा ।
सुरां पीत्वा द्विजो मोहाद् अग्निवर्णां सुरां पिबेत् ।
तया स काये निर्दग्धे मुच्यते किल्बिषाट् ततः ॥ इति । [म्ध् ११.९०]
प्रायश्चित्तविधाने द्विजग्रहणात् । यस्य या प्रतिषिध्यते तस्य तत्पाने बुद्धिपूर्वे तस्या एवाग्निवर्णायाः पानम् एव प्रायश्चित्तम् इत्य् अवगम्यते । अत्रापि ब्राह्मणस्य गौडीमाध्व्योर् बुद्धिपूर्वाभ्यासे त्रयाणां पैष्ट्या बुद्धिपूर्वे सकृत्पाने चेदं द्रष्टव्यम् । कुतः? गौडीमध्व्योः मतिपूर्वे सकृत्पाने प्रायश्चित्तान्तरदर्शनात् । यथाह वसिष्ठः- “मद्यपाने त्व् असुरायाः सुरायाश् चाज्ञाने कृच्छ्रातिकृच्छौ घृतप्राशनं पुनःसंस्कारश् च” [वध् २०.१९] इति । अत्र “सुरायाश् चाज्ञाने” इत्य् उक्तत्वान् मद्यपानस्य मतिपूर्वत्वम् अवगम्यते । अतिकृच्छ्रं चात्र तप्तकृच्छ्रम्, स्मृत्यन्तरदर्शनात्, “मद्यं पीत्वा कृच्छ्रं तप्तकृच्छ्रं वातिष्ठेत्” इति पैठीनसिवचनात् । उष्णाम् अग्निवर्णाम् इति द्रष्टव्यम्, “मृतः शुध्येत्” इत्यारम्भात् । आसिञ्चेयुः आभिमुख्येनोपदिशेयुर् इत्य् अर्थः । हेतुकर्तुर् व्यपदेशः न साक्षात् कर्तुः, पानस्य कर्ता स्वयम् एवेति । यथाह आपस्तम्बः- “सुरापो ऽग्निवर्णां सुरां पिबेत्” [आप्ध् १.२५.३] इति । आसिञ्चेयुर् इति बहुवचनम् उपदेष्टॄणां बहुत्वसूचनार्थम् । तथाह मनुः ।
ते यां वेदविदो ब्रूहुस् त्रयो ऽप्य् एनःसु निष्कृतिम् ।
सा तेषां पावनाय स्यात् पवित्रा विदुषां हि वाक् ॥ इति । [म्ध् ११.८५]
शङ्खो ऽप्य् आह ।
पर्षदानुमतः सम्यग् एनो विख्याप्य तत्त्वतः ।
यद् ब्रूयुस् तद्विधानज्ञास् तच्छुद्धिकरम् उत्तमम् ॥ इति ।
आस्ये मुखे, मृतः शुद्ध्येत् मरणाद् एव पूतो भवति । “सुराम् अस्ये” इत्य् अत्र सुराशब्दो गोमूत्रादीनाम् अप्य् उपलक्षणार्थः । यथाह मनुः ।
गोमूत्रम् अग्निवर्णं वा पिबेद् उदकम् एव वा ।
पयो घृतं वामरणात् गोशकृद्रसम् एव वा ॥ इति । [म्ध् ११.९१]
जातिवचनत्वात् ब्राह्मणशब्दस्य ब्राह्मण्या अपि सुरापान एतद् एव प्रायश्चित्तम् । यथा शङ्खः स्त्रिय एवाधिकृत्याह- “सुरालशुनपलाण्डुगृञ्जनमांसादीन्य् अभक्ष्याणि वर्जयेद् आहारमयं शरीरं तन्मयत्वाद् वा सङ्कीर्त्यते” इत्यादि । तथा वसिष्ठो ऽपि-
पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृतिर् न विधीयते ॥ इति । [वध् २१.१५]
तथा तत्रैव- “या ब्राह्मणी सुरापा न तां देवाः पतिलोकं नयन्ति इह वै सा भ्रमति क्षीणपुण्याप्सु जलूका भवति शुक्तिका वा” [वध् २१.११] इति ।
अन्ये तु देशान्तराचारदर्शनाट्,
पूर्वं स्त्रियः सुरैर् भुक्ताः सोमगन्धर्मवह्निभिः ।
गच्छन्ति मानुषान् पश्चात् तस्मान् निष्कल्मषाः स्त्रियः ॥
तासां सोमो ऽददच् छौचं गन्धर्वः शिक्षितां गिरम् ।
अग्निश् च सर्वभक्ष्यत्वं तस्मान् निष्कल्मषाः स्त्रियः ॥ [वध् २८.५–६]
इति वसिष्ठस्मृतिदर्शनाच् च ब्राह्मण्याः नैतत् प्रायश्चित्तम् इच्छन्ति ।
तत्र देशव्यवस्थया व्यवस्थितविकल्पो द्रष्टव्यः ॥ २३.१ ॥
अमत्या पाने पयो घृतम् उदकं वायुं प्रतित्र्यहं तप्तानि स कृच्छ्रः ॥ २३.२ ॥
अमत्या अज्ञानेन गौडीमाध्व्योः, पानाधिकारे पुनः पानग्रहणात् । तथा च मनुः ।
अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति ।
मतिपूर्वम् अनिदेश्यं प्राणान्तिकम् इति स्थितिः ॥ इति । [म्ध् ११.१४६]
अत्रापि “तप्तकृच्छ्रसहितेन संस्कारेण” [भारुचि] इति भाष्यकारेण व्याख्यातम् । एवं च पैष्ट्या अमत्या सकृत्पाने ब्राह्मणस्य द्रष्टव्यम् । यथाह मनुः ।
कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि ।
सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥ [म्ध् ११.९२]
क्षत्रियवैश्ययोस् तु यथोदाहृतं वसिष्ठोक्तं द्रष्टव्यम् “सुरायाश् चाज्ञाने” [वध् २०.१९] इत्यादि । तस्या बुद्धिपूर्वाभ्यासे ऽपि त्रयाणां मरणान्तिकम् एव प्रायश्चित्तं द्रष्टव्यम् । यथाह वसिष्ठः ।
अभ्यासे तु सुरायास् ताम् अग्निवर्णां पिबेद् द्विजः । इति । [वध् २०.२२]
अत्र तुशब्दो विशेषवाची । द्विजातीनां पैष्ट्या अबुद्धिपूर्वाभ्यासे ऽतिविशेषतो ऽग्निवर्णायाः तस्याः पानं कर्तव्यम्, ब्राह्मणस्य गौडीमाध्व्योश् चाबुद्धिपूर्वाभ्यासे अग्निवर्णायास् तस्याः पाने मरणाद् एव शुद्धिः । तथाह व्याघ्रः ।
मत्या मद्यम् अमत्या वा पुनः पीत्वा द्विजोत्तमः ।
ततो ऽग्निवर्णां तत् पीत्वा मृतः शुध्येत् स किल्बिषात् ॥ इति ।
क्षत्रियवैश्ययोस् तु गौडीमाध्व्योर् अप्रतिषेधः । तथाह व्यासः ।
उभौ मध्वासवक्षीबौ उभौ चन्दनचर्चितौ ।
एकपर्यङ्कशयनौ दृष्टौ मे केशवार्जुनौ ॥ इति ।
ततश् चामतिपूर्वे गौडीमाध्व्योर् ब्राह्मणस्य सकृत्पाने क्षीरादीनां त्र्यहं त्र्यहं कर्तव्यम् । पयआदीनां विसमासकरणं क्रमनिवृत्त्यर्थम् । तथाह वसिष्ठः ।
“त्र्यहम् उष्णाः पिबेद् आपः त्र्यहम् उष्णं पिबेत् पयः ।
त्र्यहम् उष्णं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥
इति तप्तकृच्छ्रः” [वध् २१.२१] इति उदकघृतपयसाम् एवोष्णत्वम्, सम्भवात् न वायोः । “स कृच्छ्रः” इति कृच्छ्रविधेः उपसङ्ग्रहार्थः । “तिष्ठेद् अहनि रात्राव् आसीत” [ग्ध् २६.६] इत्यादि
॥ २३.२ ॥
ततो ऽस्य संस्कारः ॥ २३.३ ॥
तत इति कृच्छ्रानन्तरम् एव संस्कार इति । अस्यग्रहणं विस्पष्टार्थं यस्य पानं तस्येति । तद् अपि पैष्ट्या बुद्धिपूर्वे सकृत्पाने क्षत्रियवैश्ययोर् अपि संस्कारप्रापणार्थं ब्राह्मणाधिकारात् तयोर् निवृत्तिर् मा भूद् इति । उत्तरार्थं वा मूत्रादिप्राशने ब्राह्मणस्यैव पुनःसंस्कार इति । संस्कार उपनयनमात्रं न तु वेदव्रतधारणादि । पुनःसंस्कारस्वरूपं स्मृत्यन्तराद् अवगन्तव्यम् । यथाह मनुः ।
वपनं मेखला दण्डो भैक्षचर्या व्रतानि च ।
एतानि तु निवर्तन्ते पुनःसंस्कारकर्मणि ॥ [म्ध् ११.१५१]
इति ॥ २३.३ ॥
मूत्रपुरीषरेतसां च प्राशने ॥ २३.४ ॥
मूत्रादीनां च प्राशने एतद् एव प्रायश्चित्तम् । चकारः पुनःसंस्कारानुकर्षणार्थः । इदं बुद्धिपूर्वे । कुतः? मनुवचनात्-
भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या तु त्र्यहं क्षपेत् ।
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रम् एव च ॥ इति । [म्ध् ४.२२२]
अत्र कृच्छ्रशब्देन तप्तकृच्छ्रो ऽभिहितः इति भाष्यकारेणोक्तत्वात् [भारुचि], उत्तरत्रान्येषाम् अभक्ष्याणां प्रायश्चित्तोपदेशान् मानुषाणां मूत्रादिप्राश्न इत्य् अवगन्तव्यम् । अबुद्धिपूर्वे च,
भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या तु त्र्यहं क्षपेत् । [म्ध् ४.२२२]
इत्य् अनेनैव त्र्यहो वेदितव्यः, बुद्धिपूर्वे ऽतुल्यप्रायश्चित्तदर्शनात् । यथाह कण्वः ।
रेतोमूत्रपुरीषाणां प्राशने ऽमतिपूर्वके ।
नाश्नीयात् तु त्र्यहं मत्या तप्तकृच्छ्रं चरेद् द्विजः ॥ इति ।
अमतिविषये ऽपि पुनःसंस्कारो द्रष्टव्यः । यथाह मनुः ।
अज्ञानात् प्राश्य विण्मूत्रं सुरासंसृष्टम् एव च ।
पुनःसंस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ इति । [म्ध् ११.१५०]
केचिद् एतद् एव प्रायश्चित्तम् इच्छन्ति, तद् अपि सकृत्प्राशने द्रष्टव्यम् । एवं च यत्र मूत्रपुरीषप्राशने प्रायश्चित्तम् उक्तम् “काकखरोष्टृआणां च” इत्यादौ, तत्र मनुष्यवर्जितस्य द्रष्टव्यम् ॥ २३.४ ॥
श्वापदोष्ट्रखराणां चाङ्गस्य ॥ २३.५ ॥
प्राशन इत्य् अनुवर्तते । श्वापदाः श्वेव पदाः श्वापदाः श्वसदृशपदाः सृगालादयः । उष्ट्रखरौ प्रसिद्धौ । तेषाम् अङ्गस्य मांसचर्मादेर् भक्षण एतद् एव प्रायश्चित्तम् । श्वसदृशपादानां विधानाद् एव शुनो ऽप्य् अर्थसिद्धम्, चशब्दान् मनुष्याणां च ॥ २३.५। ॥
ग्राम्यकुक्कुटसूकरयोश् च ॥ २३.६ ॥
अङ्गप्राश्न एतद् एव प्रायश्चित्तम् । पृथग्योगः “पूर्वैश् च दष्टस्य” [ग्ध् २३.८] इत्य् अत्रैतयोर् वर्जनार्थम् । अस्मिन् बुद्धिपूर्वादौ पूर्वम् एवोक्तम् । चकारः पुनःसंस्कारानुकर्षणार्थः ॥ २३.६ ॥
**गन्धाघ्राणे सुरापस्य प्राणायामा घृतप्राशनं च **
॥ २३.७ ॥
सुरापस्याविशेषितत्वात् सर्वस्य । गन्धाघ्राणे सुरागन्धाघ्राणे, न तु शरीरगन्धाघ्राणे । तत्रापि नान्यावस्थितसुरागन्धाघ्राणे, सुरागन्धाघ्रान इति वक्तव्ये सुरापस्येति निर्देशात् । ततश् चान्यावस्थितसुरागन्धाघ्राणे जातिब्रंशकरत्वं द्रष्टव्यम् । यथाह मनुः ।
ब्राह्मणस्य रुजः कृत्वा घ्रातिर् अघ्रेयमद्ययोः ।
जैह्म्यं पुंसि च मैथुन्यं जातिभंशकरं स्मृतम् ॥ इति । [म्ध् ११.६७]
तथा प्रायश्चित्तम् अपि ।
जातभंशकरं कर्म कृत्वान्यतरद् इच्छया ।
चरेत् सान्तपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥ इति । [म्ध् ११.१२४]
यस्य यत् प्रतिषिद्धं तस्य तद् गन्धघ्राण इति च द्रष्टव्यम्, अविशेषितत्वात् । द्विजातीनां सामान्यम् एव जातिभ्रंशकरप्रायश्चित्तं द्रष्टव्यम् । ब्राह्मणस्यार्धं क्षत्रियस्य इत्य् अस्यानुप्रवेशो ऽत्र नास्ति, स्मृत्यन्तरदर्शनात् । यथाह कण्वः ।
ब्राह्मणः क्षत्रियो वापि वैश्यश् चापि तथैव च ।
सुराया गन्धम् आघ्राय चरेत् सान्तपनव्रतम् ॥ इति ।
प्राणायामास् त्रयो द्रष्टव्याः, तावता बहुवचनस्य कृतार्थत्वात् । घृतप्राशनं कायाप्लवनमात्रम्, तत् कृत्वा भोक्तव्यम् उपवासविध्यभवात् । विसमासचकारौ व्यस्तसमस्तकल्पनार्थौ । अतो ब्राह्मणस्य समस्तं क्षत्रियस्य तु प्राणायामाः वैश्यस्य घृतप्राशनम् इति । तत्रापि – ब्राह्मणस्याहिताग्नेर् विशेषो द्रष्टव्यः । यथाह मनुः ।
ब्राह्मणस् तु सुरापस्य गन्धम् आघ्राय सोमपः ।
प्राणान् अप्सु त्रिर् आयम्य घृतं प्राश्य विशुध्यति ॥ इति । [म्ध् ११.१४९]
क्षत्रियादेर् विशेषाभावो वचनाभावात् ॥ २३.७ ॥
पूर्वैश् च दष्टस्य ॥ २३.८ ॥
पूर्वः श्वापदादिभिः समानुषैर् दष्टस्य एतद् एव प्रायश्चित्तम् । चशब्दात् ग्राम्यैश् च क्रव्यादिभिः । तथाह मनुः ।
श्वसृगालखरैर् दष्टो ग्राम्यैः क्रव्यादिभिर् एव च ।
नराश्वोष्ट्रैर् वराहैश् च प्राणायामेन शुध्यति ॥ इति । [म्ध् ११.१९९]
अत्राप्य् एवंविषयो द्रष्टव्यः । एतैर् दष्टस्य ब्राह्मणस्य वसिष्ठोक्तं द्रष्टव्यम् ।
ब्राह्मणस् तु शुना दष्टो नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ इति । [वध् २३.३१]
श्वग्रहणस्यैतेषाम् अप्य् उपलक्षणत्वात् क्षत्रियस्येदं प्राणायामत्रयं द्रष्टव्यम् । वैश्यस्य मनुनोक्त एकः प्राणायामो द्रष्टव्यः, प्राणायामेनेत्य् एकवचननिर्देशात् । शूद्रस्य तु न दोषः । स्त्रियाश् च सचेलस्नानं द्रष्टव्यम् । तथाह जातुकर्णिः ।
ब्राह्मणी क्षत्रिया वैश्या शुना च श्वापदैर् अपि ।
दष्टा सचेलम् आप्लुत्य शुध्यन्ति तु न संशयः ॥
इति ॥ २३.८ ॥
तप्ते लोहशयने गुरुतल्पगः शयीत ॥ २३.९ ॥
तप्ते अग्निवर्णे आयसे गुरुभार्यागामी स्वपयात् ॥ २३.९ ॥
सूर्मिं वाश्लिष्येज् ज्वलन्तीम् ॥ २३.१० ॥
सूर्मिं लोहमयीं स्त्रीप्रकृतिम् अन्तःसुषिराम् । अन्तःसुषिरकाष्ठाम् इत्य् अपरे । तां ज्वलन्तीम् आश्लिष्येत् उपगूहेत् ॥ २३.१० ॥
लिङ्गं वा सवृषणम् उत्कृत्याञ्जलाव् आधाय दक्षिणाप्रतीचीं व्रजेद् अजिह्मम् आ शरीरनिपातात् । मृतः शुध्येत् ॥ २३.११ ॥
लिङ्गं पुरुषव्यञ्जनं बीजसहितं समूलम् उत्कृत्य हस्तद्वये स्थापयित्वा नैरृटीं दिशं व्रजेद् अजिह्मं कूपाद्यपरिहरन् । आ शरीरनिपातात् आ विनाशात् । मृतः शुध्येत् । अयं च सर्वशेषः, मरणान्तिकत्वात् । एवं च तेषां विकल्पे सिद्धे वाग्रहणं व्यवस्थार्थम् । ततश् च तयोर् इच्छातः संयोगे प्रथमम्, तया प्रोत्साहितस्य द्वितीयम्, पुरुषेण स्वेन प्रोत्साहितायां तृतीयम् इति । एतद् अपि ब्राह्मणस्य ब्राह्मणीगमने बुद्धिपूर्वे सकृद्गमने । अबुद्धिपूर्वे सकृद्गमने तु मनुनोक्तं द्रष्टव्यम् ।
खट्वाङ्गी चीरवासा वा श्मश्रुलो निर्जने वने ।
प्राजापत्यं चरेत् कृच्छ्रम् अब्दम् एकं समाहितः ॥ इति । [म्ध् ११.१०५]
तद् अप्य् उभयोर् इच्छातः संयोगे । तया प्रोत्साहितस्य स्वेन प्रोत्साहितायाम् औशनसम् इति द्रष्टव्यम्- “गुरुतल्पगामी संवत्सरं ब्रह्महत्याव्रतं षण्मासं तप्तकृच्छ्रं वा” इति । एवं ब्राह्मणीगमने ब्राह्मणस्य बुद्धिपूर्वे सकृद्गमने अबुद्धिपूर्वे ऽभ्यासे मरनान्तिकम् एव । क्षत्रियागमने व्याघ्रोक्तं द्रष्टव्यम् ।
कृच्छ्रं चैवातिकृच्छ्रं च तथा कृच्छ्रातिकृच्छ्रकम् ।
चरेन् मासत्रयं विप्रः क्षत्रियागमने गुरोः ॥ इति ।
तत्रापि बुद्धिपूर्वे सकृद्गमने उभयोर् इच्छातः प्रवृत्ताव् अतिकृच्छ्रः । तया प्रोत्साहितस्य कृच्छ्रः, स्वेन प्रोत्साहितायां कृच्छ्रातिकृच्छ्रः तत्रापि बुद्धिपूर्वे अभ्यासे मरणान्तिकम् एव । यथाह कवषः ।
मत्या गत्वा गुरोर् भार्यां पुनः क्षत्रसुतां द्विजः ।
वृषणावर्जितं लिङ्गम् उत्कृत्य च मृतः शुचिः ॥ इति ।
अबुद्धिपूर्वे सकृद्गमने कण्वोक्तं द्रष्टव्यम् ।
चान्द्रायणं तप्तकृच्छ्रम् अतिकृच्छ्रं तथैव च ।
सकृद् गत्वा गुरोर् भार्याम् अज्ञानात् क्षत्रियां द्विजः ॥ इति ।
तत्राप्य् उभयेच्छातः प्रवृत्तौ तप्तकृच्छ्रः, तया प्रोत्साहिते अतिकृच्छ्रः, स्वेन प्रोत्साहितायां चान्द्रायणम् इति । अभ्यासे तु –
गुरोः क्षत्रसुतां भार्यां पुनर् गत्वा त्व् अकामतः ।
वृषणमात्रम् उत्कृत्य शुध्येज् जीवन् मृतश् च सः ॥
इति जातूकर्ण्युक्तं द्रष्टव्यम् । वैश्यागमने बुद्धिपूर्वे सकृद्गमने कवष आह ।
तप्तकृच्छ्रं पराकं च तथा सान्तपनं गुरोः ।
भार्यां वैश्यां सकृद् गत्वा बुद्ध्या मासं चरेद् द्विजः ॥ इति ।
तत्राप्य् उभयेच्छातः प्रवृत्तौ तप्तकृच्छः, तया प्रोत्साहितस्य सान्तपनम्, स्वेन प्रोत्साहितायां पराकः । अभ्यासे लिङ्गस्याग्रच्छेदः कर्तव्यः । यथाह लोकाक्षिः ।
गुरोर् वैश्यां पुनर् गत्वा गत्वा चापि पुनः पुनः ।
लिङ्गाग्रं छेदयित्वा तु ततः शुध्येत् स किल्बिषात् ॥ इति ।
अस्माद् एव ज्ञापकाद् अभ्यासे यद् उक्तं गुरुतल्पप्रायश्चित्तं तद् एव बहुशो ऽभ्यासे ऽपि द्रष्टव्यम् । अबुद्धिपूर्वे सकृद्गमने प्रजापतिर् आह ।
पञ्चरात्रं तु नाश्नीयात् सप्ताष्टौ वा तथैव च ।
वैश्यां भार्यां गुरोर् गत्वा सकृद् अज्ञानतो द्विजः ॥ इति ।
तत्राप्य् उभयेच्छातः प्रवृत्तौ सप्तरात्रम्, तया प्रोत्साहितस्य पञ्चरात्रम्, स्वेन प्रोसाहितायाम् अष्टरात्रम् इति । अभ्यासे त्व् आ मरणात् ब्रह्मचर्यरक्षणम् । तथाह हारीतः ।
अभ्यस्य विप्रो वैश्यायां गुरोर् अज्ञानमोहितः ।
सषडङ्गं ब्रह्मचर्यं स चरेद् यावद् आयुषम् ॥ इति ।
शूद्रागमने बुद्धिपूर्वे जाबालिर् आह ।
अतिकृच्छ्रं तप्तकृच्छ्रं पराकं च तथैव च ।
गुरोः शूद्रां सकृद् गत्वा बुद्ध्या विप्रश् चरेद् ततः ॥ इति ।
अत्राप्य् उभयेच्छातः प्रवृत्तौ तप्तकृच्छ्रः, तया प्रोत्साहितस्यातिकृच्छ्रः, आत्मना प्रोत्साहितायां पराक इति द्रष्टव्यम् । अभ्यासे तु द्वादशवर्षं ब्रह्मचर्यरक्षणं कर्तव्यम् । यथाह उपमन्युः ।
पुनः शूद्रां गुरोर् गत्वा बुद्ध्या विप्रः समाहितः ।
ब्रह्मचर्यम् अदुष्टात्मा स चरेद् द्वादश समाः ॥ इति ।
अज्ञाने दीर्घतपा आह ।
प्राजापत्यं सान्तपनं सप्तरात्रोपवासकम् ।
गुरोः शूद्रां सकृद् गत्वा चरेद् विप्रः समाहितः ॥ इति ।
अत्राप्य् उभयेच्छातः प्रवृत्तौ सान्तपनम्, तया प्रोत्साहितस्य प्राजापत्यम्, स्वेन प्रोत्साहितायां सप्तरात्रम् उपवास इति । अभ्यासे तु मनुनोक्तं द्रष्टव्यम् ।
चान्द्रायणं वा त्रीन् मासान् अभ्यसेन् नियतेन्द्रियः ।
हविष्येण यवाग्वापि गुरुतल्पाघनुत्तये ॥ इति । [म्ध् ११.१०६]
साधारणस्त्रीणां गुरुतल्पदोषो नास्ति, व्याघ्रवचनात् ।
जात्युक्तं परदार्यं च कन्यादूषणम् एव च ।
साधारणस्त्रियां नास्ति गुरुतल्पत्वम् एव च ॥ इति ।
आचार्यव्यतिरिक्ताः पित्रादयो गुरवः, “आचार्यपुत्रशिष्यभार्यासु चैवम्” [वध् २०.१५] इत्य् अतिदेशाद् आचार्यादीनां भार्यासु वसिष्ठेन ॥ २३.११ ॥
सखीसयोनिसगोत्राशिष्यभार्यासु स्नुषायां गवि च तल्पसमः ॥ २३.१२ ॥
सखी मित्रम्, सयोनिः भगिनी, सगोत्रा एकार्षेया । एतासु शिष्यभार्यायां पुत्रभार्यायां च मैथुनं आचरिते गुरुतल्पतुल्यं निष्क्रयणम् । विसमासः सख्यादिभार्योपसङ्ग्रहार्थः । तथाह मनुः ।
गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा सयोनिषु ।
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्व् अन्त्यजासु च ॥ इति । [म्ध् ११.१७०]
चशब्द आश्रितादिभार्योपसङ्ग्रहार्थः । तथाह व्याघ्रः ।
आश्रितस्यापि विदुष आहिताग्नेश् च योगिनः ।
आचार्यस्य च राज्ञश् च भार्यां प्रव्रजितां तथा ॥
धात्रीं पुत्रीं च पौत्रीं च सखीं मातुस् तथैव च ।
पितुः सखीं तथा गत्वा गुरुतल्पवतं चरेत् ॥
इति ॥ २३.१२ ॥
अवकर इत्य् एके ॥ २३.१३ ॥
एके त्व् अवकीर्णिव्रतं कर्तव्यम् इति मन्यन्ते न तु गुरुतल्पव्रतम् इति । इतिकरणः सन्देहव्यावृत्त्यर्थः । यद्य् एवम् उच्यते69 अवकर एक इति ततो ऽवकीर्णिनो ऽपि गुरुतल्पसमो दोष इत्य् आशङ्का स्याद् इति । सो ऽयं विकल्पो ऽभिसन्ध्यपेक्षया द्रष्टव्यः । अभिसन्धौ गुरुतल्पसमः, अनभिसन्धौ त्व् अवकीर्णिव्रतम् इति । एवं चात्र पारदार्यनिमित्तं कृच्छ्रं कृत्वा पुनर् अवकीर्णिव्रतम् इति द्रष्टव्यम् । तथाह जातूकर्णिः ।
आचार्यादेस् तु भार्यासु गुरुतल्पव्रतं चरेत् ।
अवकीर्णिव्रतं चैव ततः कुर्यात् समाहितः ॥ इति ।
गुरुतल्पसमे ऽपि पारदार्याद् अधिकं गुरुतल्पाद् धीनं कल्प्यम् । तद् अपि परदारप्रायश्चित्तम् एव चान्द्रायणाद् अधिकं द्रष्टव्यम् । चान्द्रायणस्य च वर्णक्रमेण पादहीनकल्पना कर्तव्या । तथा च प्रजापतिः ।
आचार्यादेश् तु भार्यासु चरेच् चान्द्रायणव्रतम् ।
क्रमेण पादशो हीनं वर्णानाम् इति च स्थितिः ॥ इति ।
अवकीर्णिप्रायश्चित्तम् अपि रहस्योक्तम् “तद् आहुः कतिधावकीर्णी” [ग्ध् २५.१] इत्यादि वक्ष्यति । तथा च प्रजापतिः-
आचार्यादेस् तु भार्यासु गमने पारदार्यं परिसमाप्यावकीर्णी वर्णक्रमेण मासं पक्षं दशाहं सप्ताहं पञ्चाहम् इत्य् अग्नाव् आज्येन जुहुयात्, “कामावकीर्णो ऽस्मि काम कमाय स्वाहा, कामाभिद्रुग्धो ऽस्म्य् अभिद्रुग्धो ऽस्मि काम कामाय स्वाहा” इति द्वाभ्याम् । एतं होमं श्रोत्रियभार्यागमने द्विगुणं कुर्याद् इच्छन्त्यां गमने अर्धम् इत्य् उपदिशन्ति ॥ इति ।
सर्वत्र समीकरणविषये सर्वप्रायश्चित्तम् एव द्रष्टव्यम् इति यद् उक्तं तद् अन्यप्रायश्चित्तानुलब्धौ द्रष्टव्यम् ॥ २३.१३ ॥
_अत्र निहीनवर्णगमने स्त्रियाः पातित्यम् उक्तम् । तस्याः सामान्यतः पतितप्रायश्चित्ते _
प्राप्त आह ॥
श्वभिः खादयेद् राजा निहीनवर्णगमने स्त्रियम् प्रकाशम् ॥ २३.१४ ॥
निहीनवर्णो व्याख्यातः “भ्रूणहनि हीनवर्णसेवायां च” [ग्ध् २१.९] इत्य् अत्र । तद्गमने तां श्वभिः खादयेद् राजा प्रकाशं जनसमक्षम् । तथाह मनुः ।
भर्तारं लङ्घयेद् या तु जातिस्त्रीगुणदर्पिता ।
तां श्वभिः खादयेद् राजा संस्थाने बहुसंस्थिते ॥ इति । [म्ध् ८.३७१]
अबुद्धिपूर्वे अयं राजदण्डः, बुद्धिपूर्वे वसिष्ठोक्तं द्रष्टव्यम् ।
शूद्रो ब्राह्मणीम् उपगच्छेत् वीरणैर् वेष्टयित्वा शूद्रम् अग्नौ प्रास्येत्, ब्राह्मण्या शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां कृष्णखरम् आरोप्य महापथम् अनुसंव्राजयेत्, पूता भवतीति विज्ञायते । वैश्यश् चेत् ब्राह्मणीम् उपगच्छेल् लोहितदर्भैर् वेष्टयित्वा वैश्यम् अग्नौ प्रास्येत्, ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां गौरखरम् आरोप्य महापथम् अनुसंव्राजयेत् पूता भवतीति विज्ञायते । राजन्यश् चेत् ब्राह्मणीम् उपगच्छेच् छरपत्रैर् वेष्टयित्वा राजन्यम् अग्नौ प्रास्येत् ब्राह्मन्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां श्वेतखरम् आरोप्य महापथम् अनुसंव्राजयेत् पूता भवतीति विज्ञायते । एवं वैश्यो राजन्यायां शूद्रश् च राजन्यवैश्ययोः ॥ इति । [वध् २१.१–५]
निहीनवर्णगमन इत्य् उक्तत्वात् क्षत्रियवैश्याभ्यां बुद्धिपूर्वगमने ब्राह्मण्याः कल्प्यम् । यथाह मनुः ।
जघन्यं सेवमानां तु संयतां वासयेद् गृहे ।
उत्तमां सेवमानस् तु जघन्यो वधम् अर्हति ॥ इति । [म्ध् ८.३६६]
अयम् एव क्षत्रियावैश्यागमने ऽपि द्रष्टव्यः, सामान्येनोक्तत्वात् । एवं च निहीनवर्ण इत्य् अयम् अपि दण्डो द्विजातिस्त्रीणां सामान्यः, सामान्येनोक्तत्वाद् एव । अनुलोमसम्पर्के तु व्याघ्र आह ।
वर्णानाम् अनुलोमानां परस्परसमागमे ।
व्युत्क्रमेण ततो राजा खादयेद् वानरैः स्त्रियम् ॥
सृगालैर् बुद्धिपूर्वम् चेत् पुरुषो वधम् अर्हति ।
अयम् एवानुलोमानां स्वजातिव्युत्क्रमेष्व् अपि ॥ इति ।
प्रतिलोमसमागमे बुद्धिपूर्वे चाबुद्धिपूर्वे च मनुनोक्तं द्रष्टव्यम् ।
प्रतिलोमे वधः पुंसो स्त्रीणां नासादिकर्तनम् । इति ।
ननु च:
एतद् एव विधिं कुर्याद् योषित्सु पतितास्व् अपि । [म्ध् ११.१८८]
इति,
यत् पुंसः परदारेषु यच् चैनां चारयेद् व्रतम् । [म्ध् ११.१७६]
इति च सिद्धे अयं दण्डविधिर् अनर्थक इति ।
अत्रोच्यते । या स्वयम् एव राजानं गच्छति तस्या दण्ड एव, यया तु बलाद् आनीयते तस्या दण्डश् च प्रायश्चित्तं च, या स्वयम् अपि न गच्छति न बलाद् नानीयते तस्याः प्रायश्चित्तम् एवेति । अयम् एव न्यायः सर्वत्र दण्डप्रायश्चित्तयोर् द्रष्टव्यः । अत्र प्रतिलोमानां स्वजातिव्युत्क्रमे “प्रतिलोमस् तु धर्महीनः” [ग्ध् ४.२५] इति प्रायश्चित्ताभावाद् अन्येषां सङ्करदोषपरिहारार्थं दण्डः कल्प्यः । एवं च,
प्रतिलोमे वधः पुंसां स्त्रीणां नासादिकर्तनम् ।
इति तेषाम् अपि द्रष्टव्यम् । तथा पातकोपपातकविषये ऽपि ब्राह्मण्या अनुलोमानन्तरजस्य यो दण्ड उक्तः तस्यार्थं द्रष्टव्यम्, तथैकान्तरद्व्यन्तरयोश् च । कुतः?
चण्डालस्य समीपे तु नाध्येतव्यं कदाचन ।
तथा पारशवस्यापि चण्डालार्धो हिस् स स्मृतः ॥
इति व्याघ्रधर्मलिङ्गात् ॥ २३.१४ ॥
पुमांसं घातयेत् ॥ २३.१५ ॥
प्रकाशम् इत्य् अनुवर्तते । घातनप्रकारश् च वसिष्ठोक्तो द्रष्टव्यः । उदाहृतश् च विशेषात् । बुद्धिपूर्वे ऽबुद्धिपूर्वे सकृद्गमने अभ्यासे च विशेषवचनान्तराभावाच् च सर्वत्र हननम् एव द्रष्टव्यम् । एवं वर्णानाम् अनुलोमानां प्रतिलोमानां च स्ववर्गव्युत्क्रमे परस्परव्युत्क्रमे च हननम् एव द्रष्टव्यम् । तथा च स्मृत्यन्तरवाक्यानि चोदाहृतानि । एवं च स्त्रीणाम् अपि सकृद्गमने ऽभ्यासे च पूर्वोक्त एव दण्ड इति द्रष्टव्यम् ॥ २३.१५ ॥
यथोक्तं वा ॥ २३.१६ ॥
लिङ्गोद्धार इत्यादि यथोक्तं वा शूद्रस्य द्रष्टव्यम् । तत्र सच्छूद्रस्य यथोक्तम् इतरस्येदम् इति द्रष्टव्यम् ॥ २३.१६ ॥
गर्दभेनावकीर्णी निरृतिं चतुष्पथे यजेत ॥ २३.१७ ॥
अवकीर्णी विप्लुतब्रह्मचर्यो ब्रह्मचारी । यथाह जातुकर्णिः ।
खण्डितं व्रतिना रेतो येन स्यात् ब्रह्मचारिणा ।
क्षरणात् कामतः प्राहुर् अवकीर्णीति तं बुधाः ॥ इति ।
यत्र त्व् अन्यत् प्रायश्चित्तं नास्ति पुत्रिकाकरणादौ तत्रेदं प्रायश्चित्तं द्रष्टव्यम् । एवं चान्यत्र कन्यागमनादिप्रायश्चित्तेन सह प्रायश्चित्तद्वयसिद्धिः । गर्दभेन खरेण काणेनावकीर्णी निरृतिदैवत्येन चतुष्पथे अरण्य एव, न सर्वत्र लौकिके ऽग्नौ । यथाह वसिष्ठः- “ब्रह्मचारी चेत् स्त्रियम् उपेयात् अरण्ये चतुष्पथे लौकिके ऽग्नौ रक्षोदैवतं गर्दभं पशुम् आलभेत, नैरृतं वा चरुं निर्वपेत्” [वध् २३.१–२] इति । तत्राश्रोत्रियस्य गर्दभः, श्रोत्रियस्य चरुर् इति द्रष्टव्यम् । स्थालीपाकविधानेन यजेत जुहुयात् । रात्राव् एव न दिवा । यथाह मनुः ।
अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।
स्थालीपाकविधानेन यजेत निरृतिं निशि ॥ इति । [म्ध् ११.११८]
अत्रायं होमविधिर् वेदितव्यः – आ प्रधानयागात् स्थालीपाकविधानेन होमं कृत्वा वसिष्ठोक्तैर् मन्त्रैः पशुमांसैर् होतव्यम्, तत्र “तस्य जुहुयात्” [वध् २३.३] इत्य् उक्तत्वात् । तत्राहुतयः – “कामाय स्वाहा कामकामाय स्वाहा निरृत्यै स्वाहा रक्षोदेवताभ्यः स्वाहा” [वध् २३.३] इत्य् चतस्रः । वपाहोमत्वात् स्विष्टकृन् नास्ति “स्विष्टकृद् अन्यत्र वपाहोमाज्यहोमाभ्याम्” इति जैमिनिगृह्ये प्रतिपादितत्वात् । एवं हविषा हुत्वा पुनः सर्पिषा वाय्वादीनां “सं मा सिञ्चन्तु” इत्य् अनेन मन्त्रेण होतव्यम् । यथाह मनुः ।
हुत्वाग्नौ विधिवद् धोमान् अन्ततश् च सम् इत्य् ऋचा ।
वाय्विन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाहुतीः ॥ इति । [म्ध् ११.११९]
एवम् हुत्वा पुनर् अपि स्थालीपाकविधानेन होमशेषं निनयेद् इति । अभ्यासविशेषाद् धोमावृत्तिर् द्रष्टव्या । यथाह कण्वः ।
प्रथमदिवसे रात्राव् अवकीर्णी गर्दभेन तु ।
यजेद् एवं यथाभ्यासं सो ऽब्देनैकेन शुध्यति ॥ इति ।
एवं चाभ्यासे होमावृत्तिर् एव न कालावृत्तिर् इति ॥ २३.१७ ॥
तस्याजिनम् ऊर्ध्ववालं परिधाय लोहितपात्रः सप्त गृहान् भैक्षं चरेत् कर्माचक्षाणः ॥ २३.१८ ॥
तस्य गर्दभस्याजिनं चर्म । अधिकारेणैव सिद्धे तस्य ग्रहणं येन गर्दभेन यागः तस्यैव चर्म नान्यस्येति नियमार्थम् । तद् अपि साङ्गम् ऊर्ध्ववालं बहिर्लोम, तद् उपरि वसित्वा । लोहितपात्रः ताम्रमयपात्रः रक्तवर्णपात्रो वा । प्रतिदिनं सप्तैव गृहान् भैक्षं चरेत् कर्माचक्षाणः “अवकीर्णिने भिक्षां देहि” इति, एवम् “अवकीर्ण्य् अस्मि” इति कीर्तयन् । एवं च भैक्षाचरणकाल एव चर्मणः परिधानं न होमकाले ऽपि । तथा च मनुर् अपि होमाद् ऊर्ध्वम् एव वक्ष्यति ।
एतस्मिन्न् एनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारं चरेत् भैक्षं स्वकर्म परिकीर्तयन् ॥ इति । [म्ध् ११.१२२]
भोजनम् अप्य् एककालम् एव । यथाह मनुः ।
तेभ्यो लब्धेन भैक्षेण वर्तयन्न् एककालिकम् ।
उपस्पृशन् त्रिषवणम् अब्देनैकेन शुध्यति ॥ [म्ध् ११.१२३] इति ॥ २३.१८ ॥
संवत्सरेण शुध्येत् ॥ २३.१९ ॥
एवम् आचरन् संवत्सरेण पूतो भवति । अविशेषाद् द्विजातीनाम् इदं द्रष्टव्यम् । तथा च मनुना द्विजातिग्रहं कृतम् ।
कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ।
अतिक्रमं व्रतस्याहुर् धर्मज्ञा ब्रह्मवादिनः ॥ इति । [म्ध् ११.१२०]
एवं च ब्राह्मणस्यार्धं क्षत्रियस्येत्य् अयं न्यायो ऽत्र नावतरति । यथाह शाण्डिल्यो ऽपि ।
अवकीर्णी द्विजो राजा वैश्यश् चापि खरेण तु ।
इष्ट्वा भैक्षाशनो नित्यं शुध्यत्य् अब्दात् समाहितः ॥ इति ।
अत्र स्त्रियम् अन्तरेण प्रयत्नोत्सर्गे ऽपि होममात्रं द्रष्टव्यम् । यथाह वसिष्ठः- “एतद् एव रेतसः प्रयत्नोत्सर्गे ऽपि” [वध् २३.४] इति । तथा पुरुषमैथुने ऽपि । तथाह काश्यपः ।
पुंसि मैथुनम् आसेव्य यत्नोत्सर्गे कृते तथा ।
ब्रह्मचारी तथाभ्यासात् स्नात्वाथ हिविषा यजेत् ॥ इति ।
वानप्रस्थादीनां चायम् एव कृच्छ्राधिको द्रष्टव्यः । यथाह वसिष्ठः- “वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्, भिक्षुर् वानप्रस्थवत् सोमवृद्धिवर्जम्” इति । द्वादशरात्रग्रहणम् अत्र पराकत्रयोपसङ्ग्रहणार्थम् । यथाह शाण्डिल्यः ।
वानप्रस्थो यतिश् चैव खण्डने सति कामतः ।
पराकत्रयसंयुक्तम् अवकीर्णिव्रतं चरेत् ॥ इति ।
चरितप्रायश्चित्तयोर् अपि संसर्गो न कर्तव्यः, यथाह कौशिकः ।
नैष्ठिकानां वनस्थानां यतीनां चावकीर्णिनाम् ।
शुद्धानाम् अपि लोके ऽस्मिन् प्रत्यापत्तिर् न विद्यते ॥ इति ।
यतीनां वनस्थानां च प्रयत्नोत्सर्गे कण्वोक्तं द्रष्टव्यम् ।
यत्नोत्सर्गं गृही कृत्वा वारुणीभिर् उपस्पृशेत् ।
वानप्रस्थो यतिश् चैव चरेद् चान्द्रायणव्रतम् ॥
गृह्यमन्त्रैस् त्रिर् आचामेत् भूर् भुवः स्वर् इति त्रिभिः ।
यतिर् वनस्थश् च जपेत् पुनर् माम् इति षोडश ॥ इति ।
इदम् अपि स्वप्नाद् अन्यत्र । स्वप्ने ऽपि काश्यप आह ।
सूर्यस्य त्रीन् नमस्कारान् स्वप्ने कृत्वा गृही चरेत् ।
यतिश् चैव वनस्थश् च त्रिः कुर्याद् अघमर्षणम् ॥ इति ।
गृहस्थस्य पुरुषमैथुने मनुनोक्तं द्रष्टव्यम् ।
मैथुनं तु समासेव्य पुंसि योषिति वा पुनः ।
गोयाने ऽप्सु दिवा चैव सचेलस्नानम् आचरेत् ॥ इति ।
एवं च जातिभ्रंशकरप्रायश्चित्तम् अस्माद् अन्यत्र द्रष्टव्यम् । योषिति स्वभार्यायाम् एव, ऋतौ गमने च । तथाह अङ्गिराः ।
ऋतौ तु गर्भशङ्कित्वात् स्नानं मिथुनिनः स्मृतम् ।
अनृतौ तु यदा गच्छेच् छौचं मूत्रपुरीषवत् ॥ इति ।
दिवा मैथुने वारुणीभिश् च अपमार्जनं कर्तव्यम् । यथाह वृद्धवसिष्ठः ।
अष्टम्यां च चतुर्दश्यां कृत्वा पर्वणि मैथुनम् ।
सचेलः स्नात्वा दिवा च वारुणीभिश् च मार्जयेत् ॥
शावाशौचे तथा श्राद्धे चरेच् चान्द्रायणव्रतम् ।
सङ्क्रान्त्याम् उपरागे च तप्तकृच्छ्रं समाचरेत् ॥ इति ।
पुरुषमैथुने वानप्रस्थपरिव्राजकयोः कण्वोक्तं द्रष्टव्यम् ।
पुंसि मैथुनम् आसेव्य वानप्रस्थो यतिस् तथा ।
कृच्छ्रं चान्द्रायणं चैव कृत्वा शुध्येत् स किल्बिषात् ॥
इति ॥ २३.१९ ॥
अलम् अतिप्रसङ्गेन । अधुना प्रस्तुतम् आरभ्यते ।
रेतःस्कन्दने ऽभये ऽरोगे ऽस्वप्ने ऽग्नीन्धनभैक्षचरणानि सप्तरात्रम् अकृत्वा आज्यहोमः समिधोर् वा रेतस्याभ्याम् ॥ २३.२० ॥
अबुद्धिपूर्वविषय इदम्, बुद्धिपूर्वे पूर्वम् उक्तत्वात् । रेतःस्कन्दे रेतसः क्षरणे सति, अभये अरोगे अस्वप्ने, अग्नीन्धनभैक्षचरणानि अनातुरः सप्तरात्रम् अकृत्वा । तथा च मनुः- “अकृत्वा भैक्षचरणम्” [म्ध् २.१८७] इत्यादि । आज्यसमिधोर् वा होमो रेतस्याभ्याम् ऋग्भ्याम्, “पुनर् माम् ऐतु, पुनर् मनः” इत्य् आभ्याम् । समिदाज्ययोः सम्भवतो विकल्पः । स्वप्ने तु क्षरणे मनुनोक्तं द्रष्टव्यम् ।
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्लम् अकामतः ।
स्नात्वार्कम् अर्चयित्वा त्रिः पुनर् माम् इत्य् ऋचं जपेत् ॥ इति । [म्ध् २.१८१]
भयरोगनिमित्ताभ्याम् अपि क्षरणे इदम् एव द्रष्टव्यम्,
भये रोगे तथा स्वप्ने सिक्त्वा शुक्लम् अकामतः ।
आदित्यम् अर्चयित्वा तु पुनर् माम् इत्य् ऋचं जपेत् ॥
इति प्रजापतिधर्मलिङ्गात् । एवं च वानप्रस्थपरिव्राजकयोश् च यद् उक्तं स्वप्ने रेतःसेके तद् एव भयरोगे ऽपि द्रष्टव्यम् । नैष्ठिकस्य यद् उक्तं ब्रह्मचारिणस् तद् एव द्विगुणं द्रष्टव्यम् । यथाह हारीतः ।
उपकुर्वाणस् तु यत् कुर्यात् कामतो ऽकामतो ऽपि वा ।
तद् एव द्विगुणं कुर्याद् ब्रह्मचारी च नैष्ठिकः ॥ इति ।
अन्ये तु व्याचक्षते – रेतःस्कन्दने स्वप्ने भयरोगौ वर्जयित्वेति, तेषां मनुनोक्तेन तुल्यविकल्पो द्रष्टव्यः । स्वप्नाद् अन्यत्रापि प्रायश्चित्तं मृग्यम् ॥ २३.२० ॥
सूर्याभ्युदितो ब्रह्मचारी तिष्ठेद् अहर् अभुञ्जानो ऽभ्यस्तमितश् च रात्रिं जपन् सावित्रीम् ॥ २३.२१ ॥
सूर्याभ्युदितः यस्य शयानस्य सूर्य उदेतीत्य् अर्थः । ब्रह्मचारिग्रहणम् अधिकारलब्धम् अपि क्रियते गृहस्थादेर् अन्यत् प्रायश्चित्तम् इति, तेषाम् अपि “उत्तरेषां चैतद् अविरोधि” [ग्ध् ३.१०] इति प्राप्तिर् मा भूद् इति । गृहस्थस्य तावद् आपस्तम्भोक्तम् एकीयं मतं द्रष्टव्यम्- “आ तमितोः प्राणम् आयच्छेद् इत्य् एके” [आप्ध् २.१२.१५] इति । यतिवनस्थयोश् च ब्रह्मकूर्चसहित उपवासः । यथाह वृद्धवसिष्ठः ।
वनस्थश् च यतिश् चैव सूर्येणाभ्युदितौ यदि ।
ब्रह्मकूर्चाशिनौ भूत्वा जपेतां प्रणवं त्व् अहः ॥ इति ।
ब्रह्मकूर्चविधानम् अपि स्मृत्यन्तराद् अवगन्तव्यम् । यथाह प्रजापतिः ।
पालाशं पद्मपत्रं वा ताम्रं वापि हिरण्मयम् ।
गृहीत्वासादयित्वा च ततः कर्म समारभेत् ॥
गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
शुक्रम् असि तेजो ऽसीत्य् आज्यं देवस्य त्वेति कुशोदकम् ।
चतुर्दश्याम् उपोष्याथ पौर्णमास्यां समाचरेत् ॥
गोमयाद् द्विगुणं मूत्रं सर्पिर् दद्याच् चतुर्गुणम् ।
क्षीरम् अष्टगुणं देयं दधि पञ्चगुणं तथा ॥
स्थापयित्वाथ दर्भेषु पालाशैः पत्रकैर् अथ ।
तत् समुद्धृत्य होतव्यं देवताभ्यो यथाक्रमम् ॥
अग्नये चैव सोमाय सवित्रे च तथैव च ।
प्रणवेन तथा हुत्वा स्विष्टकृच् च तथैव च ॥
एवं हुत्वा ततः शेषं पापं ध्यात्वा समाहितः ।
आलोड्य प्रणवेनैव निर्मन्थ्य प्रणवेन तु ॥
उद्धृत्य प्रणवेनैव पिबेच् च प्रणवेन तु ।
एतद् ब्रह्मकृतं कूर्चं मासि मासि चरन् द्विजः ॥
सर्वपापविमुक्तात्मा स्वर्गलोकं स गच्छति ।
यद्य् अप्य् अस्थिगतं पापं देहे तिष्ठति देहिनाम् ।
ब्रह्मकूर्चो दहेत् सर्वं प्रदीप्ताग्निर् इवेन्धनम् ॥ इति ।
तिष्ठेद् अहर् अहर् अभुञ्जानः निराहारो ऽहनि तिष्ठेत्, रात्रौ तु भोक्तव्यम् । एवम् अभ्यस्तम् इतः यस्य सन्ध्याम् उपासीनस्य सतो रविर् अस्तम् एति असाव् अपि रात्रौ नाश्नीयात् । अभ्यासनं द्रष्टव्यम्, “तिष्ठेद् अहनि रात्राव् आसीत” [ग्ध् २६.६] इति लिङ्गात् । उभयत्र जपन् सावित्रीम् । तथाह मनुः ।
तं चेद् अभ्युदियात् सूर्यः शयानं कामकारतः ।
निम्रोचेद् वाप्य् अविज्ञानाज् जपंस् तूपवसेद् दिनम् ॥ इति । [म्ध् २.२२०]
बुद्धिपूर्वे अबुद्धिपूर्वे च इदम् एव, “निम्रोचेद् वाप्य् अविज्ञानात्” इति लिङ्गात् । अत्र सचेलस्नानं द्रष्टव्यम्, “सूर्याभ्युदितनिम्रुक्तः सचेलस्नानः सावित्रीं सवनानुगतां जपेत्” इति शङ्खवचनात् । अत्राप्य् “अभये अरोगे” इति चानुवर्तते तत्रादोषख्यापनार्थम् । तथाह जाबालिः- “अभयरोगस्थः सूर्याभ्युदितः प्रायश्चित्तीयो भवति” इति । अत्र ब्राह्मणस्यार्धं क्षत्रियस्येत्य् एतद् द्रष्टव्यम् ॥ २३.२१ ॥
अशुचिं दृष्ट्वादित्यम् ईक्षेत प्राणायामं कृत्वा ॥ २३.२२ ॥
अशुचिः चण्डालादिः, तं दृष्ट्वा एकं प्राणायामं कृत्वा आदित्यं पश्येत् । प्रकरणात् ब्रह्मचारिणो नियमकाल इदम् । नैष्ठिकादीनां मनुनोक्तं द्रष्टव्यम् ।
आचम्य प्रयतो नित्यं जपेद् असुचिदर्शने ।
सौर्यान् मन्त्रान् यथोत्साहं पावमानीश् च शक्तितः ॥ इति । [म्ध् ५.८६]
गृहस्थस्य प्रणवो द्रष्टव्यः, “अशुचिदर्शने द्विजः प्रणवं जपेत्” इति जाबालिगृह्यदर्शनात् । सर्वेषां नियमकालाद् अन्यत्रादित्यदर्शनमात्रम् एव, “अशुचिदर्शन आदितयदर्शनं ब्राह्मणदर्शनं वा गवाम् अग्नेर् वा” इत्य् औशनसवचनात् । जाबालिगृह्ये द्विजग्रहणाच् च द्विजातीनाम् इदं सामान्यम्, शूद्रस्य न विधिः न प्रतिषेधः ॥ २३.२२ ॥
अभोज्यभोजने निष्पुरीषीभावः ॥ २३.२३ ॥
अभोज्यानां लशुनादीनां भोजने छर्दनेन विरेचनेन वा निष्पुरीषीभावः कर्तव्यः । तथाह मनुः ।
अभोज्यम् अन्नं नात्तव्यम् आत्मनः शुद्धिम् इच्छता ।
अज्ञातभुक्तम् उद्गार्यं शोध्यं वाप्य् आशु शोधनैः ॥ इति । [म्ध् ११.१६०]
जीर्णत्वात् कालातिक्रमे छर्दनविरेचनासम्भवे स्मृत्यन्तरोक्तं द्रष्टव्यम् । यथाह प्रजापतिः ।
अभोज्यभोजनं कृत्वा दद्याद् विप्राय तद्व्ययम् ।
आर्द्रवासा दिनं तिष्ठेद् यद् वा दद्याद् गवाह्निकम् ॥ इति ।
परिग्रहदुष्टभोजन इदम्, विप्राय तद्व्ययं दद्याद् यथाभ्यस्तं तदसम्भवे गवाह्निकं वा दद्यात्, तस्याप्य् असम्भवे हविष्यं सकृत् भुक्त्वा जलार्द्रवासास् तिष्ठेद् यावन्ति दिनान्य् अभ्यस्तानि तावन्त्य् अहोरात्राणीति तत्र क्रमः । कालाश्रयस्वभावदुष्टानां व्याघ्रोक्तं द्रष्टव्यम् ।
अभोज्यभोजनं कृत्वा नक्तभोजनम् आचरेत् ।
अक्षारलवणं वापि भूञ्जीयाच् च दिने दिने ॥
कपिलायास् तु दुग्धाया धारोष्णं गोः पयः पिबेत् ।
एष व्याघ्रकृतः कृच्छ्रः श्वपाकम् अपि शोधयेत् ॥ इति ।
अत्रापि कालदुष्टभोजने नक्तभोजनम्, आश्रयदुष्टभोजने अक्षारलवणान्नभोजनम् । स्वभावदुष्टभोजने कपिलाक्षीरपानम् इति । दिने दिने इति सर्वशेषः । यावन्ति दिनानि भुक्तानि तावन्ति दिनानीत्य् अर्थः । तत्रापि सकृद्भोजने पूर्वश्लोकोक्तानां मध्ये व्ययदानादीनां तावन्मात्रस्यैव दानं द्रष्टव्यम् । आर्द्रवासस्तापि दिनमात्रम् एवेति । नक्तभोजनश्लोके ऽपि सकृद्भोजने सम्पूर्णाहारता द्विर्भोजने अर्धाहारतेति । क्षत्रियवैश्ययोस् त्व् अभक्ष्यभक्षणे अर्धस्यार्धार्धस्य च प्रवेशे कवषोक्तो न्यायः । एवं च सति व्ययदानश्लोकोक्तानाम् अर्धम् अर्धं परिकल्प्यम् । नक्तभोजनश्लोके रसद्रव्यरहितं ब्राह्मणस्य, किञ्चिद्रसद्रव्यसहितं क्षत्रियस्य, तद्बहुलं वैश्यस्येति द्रष्टव्यम् । क्षीरपानश्लोके ऽपि क्षत्रियस्य द्विः पानम्, वैश्यस्य त्रिः पानम् इति । एवं चतुर्विधस्य अभक्ष्यस्याज्ञानभोजने छर्दनविरेचनव्ययदानानि कृत्वा वक्ष्यमानम् “त्रिरात्रावरम् अभोजनम्” [ग्ध् २३.२४] इत्यादिप्रायश्चित्तं द्रष्टव्यम् । बुद्धिपूर्वे व्ययदानादि कृत्वा प्रायश्चित्तं कर्तव्यम्, व्ययदानादिश्लोके विशेषाभावात् । छर्दनविरेचनविषये “ज्ञातं दग्धम्” इत्य् उक्तत्वाच् चेति
॥ २३.२३ ॥
अधुना प्रायश्चित्तम् आह ।
** त्रिरात्रावरम् अभोजनम् ॥ २३.२४ ॥**
“प्राक् पञ्चनखेभ्यः” [ग्ध् २३.२७] इत्य् अनेनाश्रयपरिग्रहणकालदुष्टानां वक्ष्यमाणत्वात् स्वभावदुष्टानाम् इदं वेदितव्यम् । तत्र लशुनादीनां पशूनां च “सप्तरात्रं वा, स्वयं शीर्णानि” [ग्ध् २३.२५–२६] इति द्वाभ्यां सूत्राभ्यां वक्ष्यमाणत्वात्, तेभ्यो ऽन्येषाम् इदम् इति चावगन्तव्यम् । तत्रापि बुद्धिपूर्वे सकृद्भोजन इदम्, अबुद्धिपूर्वे सकृद्भोजने मनुनोक्तं द्रष्टव्यम्- “शेषेषूपवसेद् अहः” [म्ध् ५.२०] इति । अत्रापि बकादीनां पक्षिणां बुद्धिपूर्वे सकृद्भोजने स्मृत्यन्तरोक्तं द्रष्टव्यम् । यथाह शङ्खः- “बकबलाकचक्रवाकहंसप्लवखञ्जरीटकारण्डववटहारचटकगृहकपोतशुक-शारिककिरकसारसटिट्टिभोलूककपोतरक्तपादजालपादचाषभासमद्गुभञ्जिशिंशुमार-नक्रमकरतिमितिमिङ्गिलवल्मीकलभिसमांसभक्षणे द्वादशरात्रम् अनाहारः पिबेद् वा गोमूत्रयावकम्” इति । अबुद्धिपूर्वे उशना आह- “बलाकप्लवहंसकारण्डवचक्रवाक-खञ्जरीटगृहकपोतवटहारवीटकरक्तपादोलूकशुकसारसटिट्टिभभासमद्गुमहाटिट्टिभ-चाषभासजालपादनक्रकुलिकविकृतमत्स्यक्रव्यादादीनां मांसभक्षणे पञ्चगव्यं पिबेत् त्रिरात्रम्” । अवगूरणात् सर्वाल्पत्वम् अतश् च त्रिरात्रं पञ्चरात्रं वेति सामर्थ्यापेक्षया द्रष्टव्यम् ॥ २३.२४ ॥
सप्तरात्रं वा ॥ २३.२५ ॥
लशुनादिविषयम् इदम् । यथाह मनुः ।
छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥
अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ॥ इति । [म्ध् ५.१९]
एवं च सान्तपने न विकल्पो द्रष्टव्यः । अबुद्धिपूर्वे सान्तपनं सप्तरात्रोपवासश् च
॥ २३.२५ ॥
**स्वयं शीर्णान्य् उपयुञ्जानः फलान्य् अनतिक्रामन् **
॥ २३.२६ ॥
वाशब्दो ऽधिक्रियते । शुध्येद् इत्य् अस्याध्याहारः । फलानि स्वयं शीर्णानि काकादिभिर् अपाटितानि । स्थावरहिंसाप्रतिषेधार्थं स्वयंशीर्णग्रहणम् । तान्य् उपयुञ्जानः अनतिक्रामन् गुणदोषपरीक्षाम् अकुर्वन्न् इत्य् अभिप्रायः । क्षुत्प्रमापणम् इदम् । इयम् अवस्था यावता कालेन सम्पद्यते तावता शुध्यतीत्य् अर्थः । अभक्ष्याणाम् एकशफादीनां पशूनं भक्षणे अबुद्धिपूर्वे मनुनोक्तं चान्द्रायणं द्रष्टव्यम् ।
जग्ध्वा तु शुष्कमांसानि भौमानि कवकानि च ।
अज्ञातं चैव सूनास्थम् एतद् एव व्रतं चरेत् ॥ इति । [म्ध् ११.१५५]
बुद्धिपूर्वे तप्तकृच्छ्रसहितं चान्द्रायणं द्रष्टव्यम् । तथाह शाण्डिल्यः ।
अभक्ष्यभक्षणे विप्रः पशूनां बुद्धिपूर्वकम् ।
तप्तकृच्छ्रेण सहितं चरेच् चान्द्रायणव्रतम् ॥
इति ॥ २३.२६ ॥
प्राक् पञ्चनखेभ्यः छर्दनं घृतप्राशनं च
॥ २३.२७ ॥
पञ्चनखेभ्यः प्राग् यद् अभोज्यम् उक्तं तद् अभ्यवहारे छर्दनं घृतप्राशनम् च प्रायश्चित्तम्, न पूर्ववत् प्रायश्चित्तान्तरम् अपि । निष्पुरीषीभाव इत्य् अनेनैव सिद्धे आरम्भसामर्थ्याच् चशब्दात् क्वचिद् उपवासश् च । असमासो दोषापेक्षया व्यस्तसमस्तक्रियार्थः । तत्र प्राग् अभिशस्तादिभ्यो घृतप्राशनमात्रम् । घृतप्राशने चान्याहारप्रतिषेधः । तत्प्राशनं च यावता कायाप्लवमात्रं भवति । प्राग् अपाङ्क्त्यादिभ्यश् छर्दनघृतप्राशने, प्राग् गोक्षीरादेर् एकरात्रोपवासः, प्राक् पञ्चनखेभ्यश् छर्दनमात्रम् इत्य् एवं कल्प्यम् । अपञ्चनखानां तूक्तम् “श्वापदोष्ट्रखराणां चाङ्गस्य” [ग्ध् २३.५] इति । अबुद्धिपूर्वे सकृद्भोजन इदम् । बुद्धिपूर्वे मनुनोक्तं तप्तकृच्छ्रं द्रष्टव्यम् ।
भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या तु त्र्यहं क्षपेत् ।
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रम् एव वा ॥ इति । [म्ध् ४.२२२]
अत्र अबुद्धिपूर्वे छर्दनासम्भवे त्र्यहोपवासो द्रष्टव्यः । एतेषाम् उक्तानां चतुर्विधानां बुद्धिपूर्वाभ्यासे पशुलशुनादिवर्जितानां प्रतिलोमपतितसूतकशावान्नवर्जितानां च मनुनोक्तं द्रष्टव्यम् । यथाह ।
अभोज्यानां तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टम् एव च ।
जग्ध्वा मांसम् अभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥ इति । [म्ध् ११.१५२]
अङ्गिरसोक्तं वा ।
अभक्ष्याणाम् अपेयानाम् अलेह्यानाम् च भक्षणे ।
रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ॥
पद्मोदुम्बरबिल्वानां कुशाश्वत्थपलाशयोः ।
एतेषाम् उदकं पीत्वा सप्तरात्रेण शुध्यति ॥
इत्य् अभक्ष्यभक्षणप्रायश्चित्तम् । शक्तस्य कृच्छ्रो द्रष्टव्यः । यथाह वसिष्ठः- “श्व-काकावलीढशूद्रोच्छिष्टभोजनेष्व् अतिकृच्छ्रः, कृच्छ्र इतरेषु” [वध् १४.३३] इति । लशुनादीनाम् अभ्यासे मनुनोक्तं यतिचान्द्रायणम् द्रष्टव्यम् ।
यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥ इति । [म्ध् ५.२०]
पशूनाम् अभ्यासे चान्द्रायणत्रयं द्रष्टव्यम् । यथाह प्रजापतिः ।
चान्द्रायणत्रयं कुर्याद् अभक्ष्यपशुभक्षणे ।
एकम् एव सकृत् कृत्वा चरेद् आह प्रजापतिः ॥ इति ।
पतितो द्विप्रकारः – पतितो महापतित इति । महापतितो महापातकी । यथाह मनुः ।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
महान्ति पातकान्य् आहुः संयोगं चैव तैः सह ॥ इति । [म्ध् ११.५३]
एतेभ्यो ऽन्यः पतितः, तस्य पातित्यं द्विजातिकर्मभ्यो हानिः । तत्र पतित अभोज्यान्नमध्ये परिगणितः, अस्पृश्यत्वाद् एवेतरस्य सिद्धत्वात् । एवं च पतितो ऽस्पृश्यो न भवति । यथाह उशना- “पतितोपपातकाव् अभोज्यान्नौ महापातको ऽस्पृश्यश् च” इति । एवं च महापतकिन अभोज्यान्नमध्ये परिगणितत्वात् प्रायश्चित्तान्तरं द्रष्टव्यम् । तत्र प्रतिलोममहापातकिनोर् अकामतः सकृद्भोजने अतिकृच्छ्रो द्रष्टव्यः । यथाह हारीतः ।
यद् अन्नं प्रतिलोमस्य शूद्रजस्योत्तमस्त्रियाः ।
महापातकिनश् चैव यद् अन्नं स्त्रीकृतघ्नयोः ॥
आरूढपतितस्यैव सगोत्राभर्तुर् एव च ।
पाषण्डम् आश्रितानां च यतेश् चैव तथैव च ॥
अतिकृच्छ्रं चरेद् भुक्त्वा प्रमादाद् ब्राह्मणः सकृत् ।
मत्या चान्द्रायणं कुर्याद् आमं चेद् अर्धम् एव च ॥
अभोजने तदर्धं च त्रिगुणं सहभोजने ।
चतुर्गुणं तदुच्छिष्टे पानीये ऽर्धार्धम् एव च ॥ इति ।
एवं चामं चेद् अर्धम् एवेत्यादि सर्वत्र द्रष्टव्यम् । अमत्याभ्यासे ऽपि तथैव श्रूयते ।
कृच्छ्राब्दपादम् उच्छिष्टम् अभ्यासे ऽज्ञानभोजने ।
मत्याभ्यासे तथा कुर्यात् त्रिंशत् कृच्छ्रं द्विजोत्तमः ॥ इति ।
तत्र चण्डालादीनां मत्याभ्यासे तत्साम्यम् एव द्रष्टव्यम् । यथाह मनुः- “चण्डालान्त्यस्त्रियो गत्वा” [म्ध् ११.१७५] इत्यादि । महापातकविषये ऽप्य् आपस्तम्बोक्तं द्रष्टव्यम्-
अधोनाभ्य् उपरिजान्व् आच्छाद्य त्रिषवणम् उपस्पृशन् अक्षारलवणं भुञ्जानो द्वादश वर्षाणि नागारं प्रविशेत् । अथ सिद्धिर् अथ सम्प्रयोगः स्याद् आर्यैर् एतद् एवान्येषाम् अपि पतनीयानाम् । इति । [आप्ध् १.२८.११–१४]
प्रतिलोमानुलोमविषये सर्वत्र प्रायश्चित्तं कल्प्यम् । प्रतिलोमानां शूद्रप्रभवानाम् अनुलोमानां शूद्रायां द्विजात्युत्पन्नानां च शूद्रान्नभोजनवद् द्रष्टव्यम् । यथाह शाण्डिल्यः ।
शूद्रस्य शूद्रजस्यैव व्युत्क्रमात् तत्स्त्रियाम् अपि ।
उत्पन्नस्य द्विजातीनां समम् अन्नम् अकल्पयन् ॥ इति ।
शूद्रान्नभोजने तु प्रजापतिर् आह ।
ब्राह्मणस्यैव शूद्रान्नम् अभोज्यं परिकीर्तितम् ।
सकृद् भुक्त्वा तद् अज्ञानात् ब्रह्मकूर्चं सकृत् पिबेत् ॥
अभ्यासे तु तद् अभ्यस्येद् आमम् अन्नम् अगर्हितम् ।
मत्या त्रिरात्रं कुर्वीत कृच्छ्रम् अभ्यासकृच् चरेत् ॥ इति ।
सूतकशावान्नभोजने ऽपि स्मृत्यन्तरोक्तं द्रष्टव्यम् । यथाह गर्गः ।
शावे च सूतके चैव मत्या भुक्त्वैन्दवं चरेत् ।
मत्याभ्यासे ततः कुर्यात् कृच्छ्रं चान्द्रायनोत्तरम् ॥
त्र्यहं त्व् अकामतः कुर्याद् अभ्यासे कृच्छ्रम् एव च ॥ इति ।
एतद् अपि ब्राह्मणस्य ब्राह्मणाशौचे । क्षत्रियादीनाम् आशौचे ऽपि तत्रिवोक्तम् ।
द्विगुणं त्रिगुणं चैव चतुर्गुणम् अथापि च ।
क्षत्रविट्शूद्रजातीनाम् आशौचे परिकीर्तितम् ॥ इति ।
तत्र ब्राह्मणस्य ब्राह्मणाशौचे यत् प्रायश्चित्तम् उक्तं तद् एव क्षत्रियादीनाम् अपि द्रष्टव्यम् । द्विगुणत्रिगुणक्रमेणाधिकं हीनजातिषु द्रष्टव्यम् । उत्तमजातिषु तत्क्रमेणैव हीनम् । तथा तत्रैवाभिहितम् ।
समानजातिषु सर्वेषां विप्रवन् निष्क्रयः स्मृतः ।
क्रमाद् वृद्धं क्रमाद् धीनं हीनजात्युत्तमेष्व् अपि ॥ इति ।
सर्वत्राशौचोत्तरकालम् एव प्रायश्चित्तं द्रष्टव्यम्,
यद्य् अन्नम् अत्ति तेषां यः स दशाहेन शुध्यति । [म्ध् ५.१०२]
इति लिङ्गात् । तत्र नियोगाद् भुक्तस्य वसिष्ठोक्तं द्रष्टव्यम् ।
आशौचे यस् तु शूद्रस्य सूतके चापि भुक्तवान् ।
क्रिमिभिर् भूत्वा स्वदेहान्ते तां विष्ठाम् उपजीवति ॥
अनिर्दशाहे च शवे नियोगात् भुक्तवान् द्विजः ।
स गच्छेन् नरकं घोरं तिर्यग्योनिषु जायते ॥ इति । [वध् ४.३१–३२]
“द्वादश मासान् द्वादशार्धमासान् वा अनश्नन् संहिताध्ययनम् अधीयानः पूतो भवतीति विज्ञायते” [वध् ४.३३] इति । तत्रैवं कल्प्यम् – शूद्राशौचे भुक्तस्य द्वादश मासान् वैश्यस्य दश मासान्, क्षत्रियस्याष्टौ, ब्राह्मणस्य द्वादशार्धमासान् इति । एवं लशुनादीनां पृथग् उपलब्धत्वात् तद्वर्जितानाम् एव मनुनोक्तं सप्तरात्रं यवागूपानं द्रष्टव्यम् । उपपातकमध्ये पाठो ऽपि तद्वद् असंव्यवहारार्थं न प्रायश्चित्तप्रवेशार्थम् अवकीर्ण्यादिवत् शान्त्युदकप्रवेशार्थं वा । बुद्धिपूर्वाभ्यासे सुरापानसमं प्रायश्चित्तं द्रष्टव्यम्,
गर्हितान्नाद्ययोर् जग्धिः सुरापानसमानि षट् । [म्ध् ११.५६]
इति मनुवचनात् । तद् अपि चान्द्रायणद्वयम् । यथाह गर्गः ।
अभक्ष्याणाम् अभोज्यानां कामतो भोजने कृते ।
चान्द्रायणद्वयं कुर्यात् सुरापानसमं हि तत् ॥ इति ।
भोजयितुर् द्विगुणं द्रष्टव्यम्, “भोजयितुर् द्विगुनं दण्डः” इति कात्यायनेनोक्तत्वात्
॥ २३.२७ ॥
अलम् अतिवाचालतया । प्रस्तुतं व्याख्यास्यामः ।
आक्रोशानृतहिंसासु त्रिरात्रपरमं तपः ॥ २३.२८ ॥
आक्रोशे अत्यन्तपातकोपपातकयुक्ताद् अन्यत्र । अनृतं साक्षिप्रतिश्रुत्यादानादौ । हिंसायां स्थावराणाम्, जङ्गमानाम् उक्तत्वात् । त्रिरात्रपरमं सर्वं बहुरात्रम् इति यावत् । अत एकरात्रं द्विरात्रं त्रिरात्रम् इति कल्प्यम् । तपो ब्रह्मचर्याद्य् उक्तम् । तत् प्रायश्चित्तम् । तत्र ब्राह्मणाक्रोशे त्रिरात्रम्, क्षत्रियाक्रोशे द्विरात्रम्, वैश्याक्रोश एकरात्रम्, शूद्राकोशे ऽहर् इति । एवम् आक्रोशविषये द्रष्टव्यम् । अनृते ऽपि ब्राह्मणाद्यर्थे क्रमाद् द्रष्टव्यम् । हिंसायां च फलवृक्षे द्विरात्रम्, उपजीव्यच्छायावृक्षे एकरात्रम्, एवमादीनाम् अहर्मात्रम् इति । इदम् अपि प्रयोजनान्तरेण स्वाम्यनुज्ञया विना कृतस्येति ।
अन्ये व्याचक्षते – आक्रोशे ध्वनिमात्रेणाभिशस्तेन केनचित् सम्मुखम् । सम्मुखाभिशस्ते तु वसिष्ठोक्तं द्रष्टव्यम्- “ब्राह्मणम् अनृतेनाभिशस्य” इत्यादि । तत्र पातकध्वनौ त्रिरात्रं पातकसमे द्विरात्रम् उपपातक एकरात्रम् अन्यत्राहर्मात्रम् इति । हिंसाशब्देन च हिंसायां कृतव्यवसायिन उच्यन्ते । तथा च वसिष्ठः ।
जीवन्न् आत्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत् त्रिरात्रं चोपवसेन् नित्यं स्निग्धेन वाससा प्राणान् आत्मनि संयम्य त्रिः पठेद् अघमर्षणम् इति । अपि चैतेन कल्पेन गायत्रीं परिवर्तयेद् अपि वाग्निम् उपसमाधाय कूश्माण्डैर् जुहुयात् घृतम् ॥
इति । [वध् २३.१९–२१]
तत्र ब्राह्मणादीनां शस्त्रादिना व्रणादि कृत्वा जीवतः कृच्छ्रं बुद्धिमात्रे त्रिरातोपवासः, क्षत्रियस्य व्रणादि कृत्वा जीवतः जलार्द्रवाससः त्रिरात्रम् अघमर्षणपाठो गायत्रीजपो वा बुद्धिमात्रे त्रिरात्रं तपोमात्रम्, वैश्यस्य व्रणादि कृत्वा जीवतो जलार्द्रवासस्ः हविष्यं भुक्त्वा नित्यं त्रिस् त्रिः कूश्माण्डैर् होमः बुद्धिपूर्वे त्रिरात्रं तपोमात्रम् इदम्, शूद्रस्य व्रणादि कृत्वा जीवत अहोरात्रं बुद्धिमात्रे ऽहर्मात्रम् इत्य् एवं कल्प्यम् । अनृतशब्दार्थ एषाम् अपि ।
अपरे व्याचक्षते – आक्रोशशब्देन दण्डपारुष्यम् उच्यत इति ।
तद् अयुक्तम्, ब्राह्मणस्य तावत् ब्राह्मणदण्डपारुष्यम् उक्तं प्रायश्चित्तम्- “अभिक्रुद्धावगूरणम्” [ग्ध् २१.२०] इत्यादि । तेनैव ब्राह्मणस्यार्धं क्षत्रियस्येत्य् अनेनैव सर्वेषां कल्पयितुं शक्यम् । अतो वाक्पारुष्यविषय एवेदम् । तत्रापि श्रोत्रियस्याश्रोत्रियाक्रोश इदम् । अश्रोत्रियस्य श्रोत्रियाक्रोशे तु “शतं क्षत्रियो ब्राह्मणाक्रोशे” [ग्ध् १२.८] इत्यादि दण्डानुरूपं परिकल्प्यम् । क्षत्रियादीनां स्वजात्याक्रोशे ऽपि दण्डानुरूपं कल्प्यम् । दण्डस् तु मनुनोक्तः ।
असवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे ।
पदेष्व् अवचनीयेषु तद् एव द्विगुणं भवेत् ॥ इति । [म्ध् ८.२६९]
एवं श्रोत्रियस्यापि प्रायश्चित्तानुरूपो दण्डः परिकल्प्यः । यत्र प्रायश्चित्तम् एव विधीयते दण्डो नोक्तः तत्र दण्डपरिकल्पना । यत्र तु दण्ड एवोक्तो न प्रायश्चित्तं तत्र प्रायश्चित्तपरिकल्पना कर्तव्येति । एवं चावचनीयपदेष्व् अपि प्रायश्चित्तं सिद्धम् । अवचनीयम् अपि कुष्ठादिभिर् बहुभिर् अजातैर् अभिशंसनम्, न पातकोपपातकविषयम्, तत्र प्रायश्चित्तस्य गुरुत्वदर्शनात् । अनृतदोषप्रायश्चित्तम् अप्य् आहिताग्नेर् अर्थविषय इदम् । तथाह प्रजापतिः ।
अनृते सोमपः कुर्यात् त्रिरात्रं परमं तपः ।
पूर्णाहुतिं वा जुहुयात् सप्ततेति घृतेन स्वाहा ॥ इति ।
अनाहिताग्नेर् अर्थविषये “वाङ्मनसोर् अपचारे व्याहृतयः पञ्च” [ग्ध् २५.१२] इति यद् वक्ष्यति तद् द्रष्टव्यम् । तद् रहस्यम् इति चेत्, न, “प्रायश्चित्तम् अविशेषात्” [ग्ध् २५.९] इत्य् उक्तत्वात् रहस्ये प्रकाशे न भवतीति । अनर्थविषये दक्षिणश्रवणस्पर्शनम् । यथाह व्याघ्रः ।
अनृतोक्तौ ष्ठीवने च दन्तस्पर्शे क्षुते तथा ।
पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥ इति ।
साक्षिभावे त्व् अनृतेनोक्ताव् आहिताग्नीनाम् अन्येषां च पातकसमत्वम् एव । यद् उक्तं “कौटसाक्ष्यम्” [ग्ध् २१.१०] इत्यादि । प्रतिश्रुत्यानृतोक्तौ हारीत आह ।
प्रतिश्रुत्यानृतं ब्रूयान् मिथ्या सत्यम् अथापि वा ।
स तप्तकृच्छसहितं चरेच् चान्द्रायणं व्रतम् ॥ इति ।
ब्रह्मचारिणो ऽपि विशेषो द्रष्टव्यः । यथाह गर्गः ।
त्रिरात्रम् एकरात्रं वा ब्रह्मचार्य् अनृते चरेत् ।
मधुमांसाशने कृच्छ्रं शवनिर्हरणे तथा ॥ इति ।
तत्रार्थविषये त्रिरात्रम्, इतरत्रैकरात्रम् । मांसस्याभक्ष्यस्य भक्षणे तु तप्तपूर्वम् इदं कर्तव्यम् । अवकीर्णिप्रायश्चित्तवत् अबुद्धिपूर्वविषयं चेत्, बुद्धिपूर्वविषये तु पुनःसंस्कारश् च । तथाह प्रजापतिः ।
मांसं भुक्त्वा ब्रह्मचारी पुनःसंस्कारम् आचरेत् ।
अभ्यासे त्व् ऐन्दवं चैव नैष्ठिको द्विगुणं चरेत् ॥
वनस्थः त्रिगुणं कुर्याद् यतिः कुर्या चतुर्गुणम् ।
मांसाशने ऽनृतोक्तौ च शवनिर्हरणे तथा ॥ इति ।
शवनिर्हरणं तु ब्रह्मचारिण उपाध्यायादिवर्जितानाम् । यथाह मनुः ।
आचार्यं स्वम् उपाध्यायं पितरं मातरं गुरुम् ।
निर्हृत्य तु व्रती प्रेतं न व्रतेन वियुज्यते ॥ इति । [म्ध् ५.९१]
तत्र स्वशब्दः प्रत्येकम् अभिसम्बध्यत इत्य् उक्तम् । ततः स्वम् आचार्यम् एव, नाचार्यस्याचार्यम्, एवं सर्वत्र,
गुरोर् गुरौ सन्निहिते गुरुवद् वृत्तिर् इष्यते । [म्ध् २.२०५]
इत्य् एवं मा भूद् इति । ततश् च तन्निर्हरणे व्रतवियोगो भवत्य् एवेति । तत्र कृच्छ्रं कृत्वा पुनःसंस्कार इति द्रष्टव्यम् । आचार्यादौ व्रतवियोगाभावाद् एवाशौचस्याप्य् अभावः सिद्धः, “शावम् आशौचं दशरात्रम् अनृत्विग्दीक्षितब्रह्मचारिणां सपिण्डानाम्” [ग्ध् १४.१] इत्य् उक्तत्वात् । दशाहाद् अर्वाग् अपि पिण्डनिर्वापणकाले अशुचिर् भवति । तथा शाण्डिल्यः ।
ब्रह्मचारी यदा कुर्यात् पिण्डनिर्हरणं पितुः ।
तावत् कलम् अशुचं स्यात् ततः स्नात्वा विशुध्यति ॥ इति ।
अस्नात्वा भोजने प्रजापत्युक्तं द्रष्टव्यम् ।
अस्नात्वैव यदा भुङ्क्ते पिण्डं दत्वा पितुर् व्रती ।
स्पृष्ट्वा शवम् उदक्यां वा चण्डालं सूतिकां तथा ॥
अकामतस् त्रिरात्रं स्यात् बुद्ध्या सान्तपनं चरेत् ॥ इति ।
गृहस्थादीनां च सूतिकादिस्पर्शने भोजने स्मृत्यन्तरोक्तं द्रष्टव्यम् । यथाह व्याघ्रः ।
अस्पृश्यस्पर्शनं कृत्वा यदा भुङ्क्ते गृहाश्रमि ।
अकामतस् त्रिरात्रं स्यात् षड्रात्रं कामतश् चरेत् ॥
यतिश् चैव वनस्थश् च कुर्यातां तौ तद् एव तु ॥ इति ।
यत्र तु ब्रह्मचार्यादीनां विशेषो नास्ति तत्र सर्वेषां समानम् एव द्रष्टव्यम् । यथाह उशना ।
चण्डालश्वपचौ स्पृष्ट्वा विण्मूत्रोच्छिष्टम् एव च ।
त्रिरात्रेण विशुद्धिः स्यात् भुक्त्वोच्चिष्टं षड् आचरेत् ॥ इति ।
तथा व्याघ्रो ऽपि ।
चण्डालोदक्यासंस्पृष्टौ स्नानम् एव समाचरेत् ।
तेनोच्छिष्टेन संस्पृष्टः त्रिरात्रं तु समाचरेत् ॥ इति ।
तथा यमो ऽपि ।
चण्डालोदकभाण्डेषु यः पिबेत् तृषितो जलम् ।
तत्क्षणात् क्षिपते यस् तु प्राजापत्यं समाचरेत् ॥
यदि न क्षिपेत् तोयं शरीरे यस्य जीर्यते ।
प्राजापत्यं न दातव्यं कृच्छ्रं सान्तपनं चरेत् ॥ इति ।
तथा व्यासो ऽपि ।
चण्डालभाण्डसंस्पृष्टं पिबेत् तोयम् अकामतः ।
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥
ततः स्नात्वा तथा कुर्यात् कामात् सान्तपनं चरेत् ।
तेषां तटाके कूपे च तथैवोक्तं मनीषिभिः ॥ इति ।
तथा व्याघ्रो ऽपि ।
विण्मूत्रोच्छिष्टकूपस्था अपः प्राश्य द्विजातयः ।
त्रिरात्रेणैव शुध्यन्ति कुम्भे सान्तपनं स्मृतम् ॥ इति ।
तथा शातातपो ऽपि ।
मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचम् आत्मनः ।
मोहाद् भुक्त्वा त्रिरात्रं तु बुद्ध्या सान्तपनं चरेत् ॥ इति ।
तथा वृद्धवसिष्ठो ऽपि ।
एकपङ्क्तिगतो भुङ्क्ते न स्पृशेद् इतरं यदि ।
भस्मना कृतमर्यादस् तस्य पङ्क्तिर् न दुष्यति ॥ इति ।
तथा शङ्खः- “अन्तरुदकमूत्रपुरीषकरणे सचेलस्नानं महाव्याहृतिहोमश् च” इति । तथा तत्रैवापरम् अपि “रेतोमूत्रपुरीषाण्य् उदके कृत्वा त्रिरात्रोपोषित इदम् आपः प्रवहत इति जपेत्” इति । तत्रैव “दुःस्वप्नारिष्टदर्शने घृतं हिरण्यं दद्यात्” इति । एवम् अन्यान्य् अपि स्मृत्यन्तराणि द्रष्टव्यानि ॥ २३.२८ ॥
सत्यवाक् चेद् वारुणीमानवीभिर् होमः ॥ २३.२९ ॥
यदि तु सत्यवाक्येनावरुष्टो भवति सत्येनाक्रोशति वा । एवं च पूर्वम् असत्येनेति गम्यते । ततो वारुणीमानवीभिः प्रजापतिदेवताभिश् च आज्येन, पूर्वोक्तं वा त्रिरात्रं होमः कार्यः । अविशेषात् सकृद् एव होमः । वारुणीभिस् तिसृभिस् तथा मानवीभिश् च । बहुवचनप्रयोगाद् विकल्पिताभिः समुच्चिताभिश् च । तत्र श्रोत्रियाक्रोशे अश्रोत्रियस्य समुच्चिताभिः विपरीते विकल्पिताभिर् इति द्रष्टव्यम् ॥ २३.२९ ॥
विवाहमैथुननर्मार्तसंयोगेष्व् अदोषम् एके ऽनृतम्
॥ २३.३० ॥
विवाहकाले कन्यागतेषु वरगतेषु वा अवलक्षणेषु शोभनकथने नानृतकथनदोष इत्य् अभिप्रायः । मैथुने गोत्रस्खलनादौ । नर्म परिहासः । आर्तेन दुःखितेन च संयोगे यत् तद् दुःखशमनायोच्यते, एतेषु निमित्तेषु अनृताभिधाने प्रायश्चित्ताभावो दोषाभावाद् इत्य् एके मन्यन्ते । गौतमस् त्व् एतेष्व् अपि दोषो ऽस्तीति मन्यते । तत्र नियमस्थस्य गौतमाभिप्रायो द्रष्टव्यः, इतरस्यैकीयं मतम् इति ॥ २३.३० ॥
न तु खलु गुर्वर्थेषु ॥ २३.३१ ॥
गुरुप्रयोजनेष्व् अविवाहादिष्व् अप्य् अनृतं न वदेत् । खल्व् इति निपातो ऽवधारणार्थः । न कदाचिद् अप्य् एकीय्मतेनापि । तुशब्दो विशेषार्थः । मातुलादिगुर्वर्थेष्व् अपि न वदेत् विशेषतः आचार्यार्थेष्व् इति ॥ २३.३१ ॥
किं पुनः तत्र कारणम्? इदम् एव ।
सप्त पूरुषान् इतश् च परतश् च हन्ति मनसापि गुरोर् अनृतं वदन्न् अल्पेष्व् अप्य् अर्थेषु ॥ २३.३२ ॥
सप्त आगामिनः पुत्रादीन् इतः परतश् चातीतान् अपि पित्रादीन् हन्ति पीडयति पापेन योजयति । मनसापि गुर्वर्थम् अनृतं चिन्तयन्न् अपि, किम् उ वक्तव्यं वदन्न् इत्य् अर्थः । अल्पकेष्व् अपि प्रयोजनेषु, किम् उत महत्सु ॥ २३.३२ ॥
अन्तावसायिनीगमने कृच्छ्राब्दः ॥ २३.३३ ॥
अन्तावसायिनी व्याख्याता “यश् चान्तावसायिभिः सह संविशेत्” [ग्ध् २०.१] इति यत्र । तस्यां मैथुन आचरिते सकृद्गमने कृच्छ्राब्दः । संवतस्रं प्राजापत्यविधिनावस्थानम् इत्य् अर्थः ॥ २३.३३ ॥
अमत्या द्वादशरात्रः ॥ २३.३४ ॥
एवं च पूर्वं बुद्धिपूर्व इत्य् अवगम्यते । कृच्छ्र इति वक्तव्ये द्वादशरात्रग्रहणं पराकोपसङ्ग्रहार्थम् । तथाह अङ्गिराः ।
अन्त्यजानां तु गमने भोजने च प्रमापणे ।
पराकेण विशुद्धिः स्यात् भगवान् अङ्गिरो ऽब्रवीत् ॥ इति ।
इदम् अपि रेतःसेकात् प्राग् एवोपरतस्य । कुतः? “रेतः सिक्त्वा स्वयोनिषु” [म्ध् ११.१७०], इति पूर्वकालक्रियास्मरणात् । तस्मात् प्रायश्चित्तलाघवम् अवगम्यत इति । एवं च कुमारीगमनादाव् अप्य् अर्धदण्डप्रायश्चित्तं द्रष्टव्यम् । गमने तु निर्वृत्ते वसिष्ठोक्तं द्रष्टव्यम्- “द्वादशरात्रम् अब्भक्षो द्वादशरात्रम् उपवसेत् । अश्वमेधावभृतं वा गच्छेत् । एतेनैव चण्डालीव्यवायो व्याख्यातः” [वध् २३.३८, ४०–४१] इति । बुद्धिपूर्वे ऽभ्यासे गुरुतल्पप्रायश्चित्तं द्रष्टव्यम् । तत्रापि समशब्दोपादानात् मनुनोक्तं द्रष्टव्यम्- “सहस्रं त्व् अन्त्यजां स्त्रियम्” [म्ध् ८.३८५] इति दण्डविधानात् सहस्रदण्डतुल्यत्वाच् चान्द्रायणत्रयं द्रष्टव्यम् । तत्राबुद्धिपूर्वे द्वितीयगमने यावत् प्रायश्चित्तं तावद् एवागर्भोत्पत्तेः द्रष्टव्यम्, नाधिककल्पनास्ति । कुतः?
संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः ।
व्रात्यया सह संवासे चण्डाल्या तावद् एव च ॥ [म्ध् ८.३७३]
इति लिङ्गात् । कूश्माण्डहोमो वा द्रष्टव्यः । यथाह प्रजापतिः ।
सर्वस्त्रीणां च संयोगो गमने च द्विजोत्तमः ।
प्रायश्चित्ताद् असन्तुष्टः कूश्माण्डैर् जुहुयाद् घृतम् ॥ इति ।
गर्भोत्पत्तौ सत्यां प्रायश्चित्ताभावः । यथाह शाण्डिल्यः ।
अन्त्यस्त्रीषु प्रसूतस्य द्विजस्यानिच्छयापि च ।
निष्कृतिर् नोच्यते तस्य जात्या चण्डाल एव सः ॥ इति ।
बुद्धिपूर्वे ऽभ्यासे च प्रायश्चित्ताभावः ।
चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ [म्ध् ११.१७५]
इति मनुवचनात् । अत्रान्नभोजने यद् उक्तं प्रायश्चित्तं तदर्धं प्रतिग्रहे ऽपि कल्प्यम् । कुतः?
पक्वाद् अपक्वम् अर्धं स्याद् यद् अन्यत् भक्षणागतम् ।
तस्माद् अर्धम् इदं प्रोक्तं यद् अन्यद् द्रव्यम् उच्यते ॥
इति व्याघ्रवचनात् ॥ २३.३४ ॥
उदक्यागमने त्रिरात्रस् त्रिरात्रः ॥ २३.३५ ॥
स्त्रिया रजस्वलाया गमने त्रिरात्रम् अभोजनम् । गमनाधिकारे पुनर् गमनग्रहणं स्वदाराद् अन्यत्र तदधिकप्रवेशार्थम् । स्वदारे चास्यैव प्रवेशार्थम् । तत्रैव प्रतिपत्तव्यम् – अबुद्धिपूर्वे तु सकृद्गमने शातातपोक्तं द्रष्टव्यम्- “अनुदकमूत्रपुरीषग्रहणे श्वकाकस्पर्शने सचेलस्नानं महाव्याहृतिहोमश् च रजस्वलागमने चैतद् एवम्” इति । अबुद्धिपूर्वे ऽभ्यासे च वसिष्ठोक्तं द्रष्टव्यम्- “रजस्वलागमने शुक्लं वृषभं दद्यात् कृष्णलिङ्गम्” इति । बुद्धिपूर्वे तु सकृद्गमन इदम् । अभ्यासे तु मनुनोक्तं द्रष्टव्यम् ।
अमानुषीषु गोवर्जम् उदक्यायाम् अयोनिषु ।
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ इति । [म्ध् ११.१७३]
अत्र क्षत्रियायां द्विगुणं वैश्यायां त्रिगुणम् इति द्रष्टव्यम् । तथा ब्राह्मणस्यार्धं क्षत्रियस्येत्यादि वेदितव्यम् । गमनं प्रति कूश्माण्डहोमश् च द्रष्टव्यः । द्विरुक्तिर् अध्यायपरिसमाप्त्यर्था ॥ २३.३५ ॥
इति मस्करीये गौतमभाष्ये त्रयोविंशो ऽध्यायः
चतुर्विंशो ऽध्यायः
आविष्कृतैनसां प्रायश्चित्तम् उक्तम् । अनाविष्कृतैनसां तु प्रायश्चित्तं वक्तव्यम् इत्य् अत आह ।
रहस्यं प्रायश्चित्तम् अविख्यातदोषस्य ॥ २४.१ ॥
रहस्यम् अप्रकाशं कर्तव्यं यथान्यैर् न ज्ञायते । प्रायश्चित्तग्रहणम् अल्पेनापि महतः पापस्य निष्कृतिर् भवतीत्य् एवमर्थम् । अविख्यातदोषस्य लोकेनाविज्ञातैनसः । येनान्तरेण यत् कर्तुं न शक्यते तस्माद् अन्यैर् अविज्ञातैनस इत्य् अर्थः । पारदार्यपतितसम्प्रयोगादौ न केवलं कर्तुर् एव विज्ञानम्, असम्भवात् । कथं पुनर् अप्रकाशे पापे ऽल्पदोषत्वम्, न पुनर् विषभक्षणादिवद् एकरूपतेति । नात्रोपपत्तिर् अन्वेष्टव्या, वचनगम्यत्वात्, मतिपूर्वामतिपूर्वभेद इव । अथ वा अवश्यकर्तव्यत्वाद् इदम् उच्यते । यो हि प्रकाशं पापं करोति स उभयलोके निरपेक्षः प्रवर्तते, तस्य बहुतरः सङ्कल्पो भवति, ततश् च दोषभूयस्त्वम्, अन्येषां प्रवृत्तौ हेतुभावं च प्रतिपद्यते गतानुगतिको हि प्रायशो लोक इति । ततश् च प्रकाशे लोकनिन्दानिवृत्तिः प्रायश्चित्तं च कर्तव्ये इतरत्र तु पापक्षपणमात्रम् एवेति
॥ २४.१ ॥
चतुरृचं तरत्समन्दीत्य् अप्सु जपेद् अप्रतिग्राह्यं प्रतिजिघृक्षन् प्रतिगृह्य वा ॥ २४.२ ॥
“तरत् स मन्दि धावति” इत्य् एताश् चतस्र ऋचो ऽघमर्षणरूपेणाप्सु जपेत्, अन्यथा अन्यैर् ज्ञायत इति । त्रिरात्रं जपो द्रष्टव्यः । तथाह मनुः ।
प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ।
जपंस् तरत्समधीयं पूयते मानवस् त्र्यहात् ॥ इति । [म्ध् ११.२५३]
हविष्यभोजने च द्रष्टव्यम् – अप्रतिग्राह्यस्य जातिकर्मदुष्टस्य यद् द्रव्यं तत् प्रतिजिघृक्षन् प्रतिग्रहीतुम् इच्छन् । एवं च ब्रुवन्न् एतद् दर्शयति कामकारकृते ऽपि पापे रहस्यम् अस्ति इच्छामात्रे ऽप्य् अप्रतिग्राह्यस्य दोषो ऽस्तीति । “प्रतिषिद्धं वाङ्मनसोर् अपचारे” [ग्ध् २५.१२] इति यद् वक्ष्यति तस्माद् अन्यत्र द्रष्टव्यम् । प्रतिगृह्य वा एतद् एव कुर्यात् । वाशब्दाद् अभोज्यं भुक्त्वा च । तत्र यदा पूर्वम् अप्रतिग्राह्यो ऽयम् इति न जानाति तदा प्रतिगृह्य जपेत्, इतरत्र पूर्वम् इति द्रष्टव्यम् । अत्राभोज्यभोजने मूत्रादिवर्जितस्य द्रष्टव्यम्, तत्र शङ्खेनोक्तत्वात्- “रेतोमूत्रपुरीषप्राशने ओङ्कारेणाभिमन्त्र्यापः पिबेत्” इति । यत्र जपविशेषो नोक्तः तत्रैकादशावरो द्रष्टव्यः । तत्र बुद्धिपूर्वाबुद्धिपूर्वभेदे एतावान् विशेषः – ऽबुद्धिपूर्वं कृतो मयापचारस् तस्येदं प्रायश्चित्तं भवेद्ऽ इत्य् एवं सङ्कल्प्य कर्तव्यम्, तावता च गुरुर् भवतीति । तथाह आपस्तम्बः- “यः प्रमत्तो हन्ति प्राप्तं दोषफलं सह सङ्कल्पेन भूयः” [आप्ध् १.२९.२–३] इति । अबुद्धिपूर्वे तु सङ्कल्पेन विना प्रायश्चित्तमात्रम् एव कर्तव्यम् इति । तथा वसिष्ठो ऽपि पापस्य ध्यानेन प्रायश्चित्तस्य गौरवं दर्शयति- “मनसा पापं ध्यात्वोम्पूर्वा व्याहृतीर् अघमर्षणं वा पठेत् त्रिः” [वध् २३.२३] इति । ततश् च बुद्धिपूर्वाबुद्धिपूर्वभेदेन प्रायश्चित्तकल्पना । अभ्यासे ऽपि तद् एवाभ्यसेत्,
जपादिपूरणं कुर्यात् ख्यातदोषो द्विजोत्तमः ।
रहः कृतस्य पापस्य तत् तद् एवाभ्यसेत् तथा ॥
इति प्रजापतिवचनात् ॥ २४.२ ॥
अभोज्यं बुभुक्षमाणः पृथिवीम् आवपेत् ॥ २४.३ ॥
अभोज्यं चतुर्विधं पूर्वोक्तम्70 । तद् बुभुक्षमाणो भोक्तुम् इच्छन् । आपत्प्रदर्शनार्थः बुभुक्षमाण इत्य् अस्योपन्यासः । ततश् च तदुपभोगम् अन्तरेण यदि जीवनं न सम्भवतीति द्रष्टव्यम् । पृथिवीम् आवपेत् प्रक्षिपेत् ।
अपरे तु “पृथिव्याम् आवपेद्” इति पठन्ति । व्याचक्षते च पृथिव्यां प्रक्षिपेद् इति ।
तद् अयुक्तम्, एवं सत्य् अन्यैर्71 विज्ञायत इति ॥ २४.३ ॥
ऋत्वन्तरारमण उदकोपस्पर्शनाच् छुद्दिम् एके
॥ २४.४ ॥
एकेशब्दसम्बन्धार्था द्वितीया । ऋतुमध्ये आरमणे उअद्क्यागमन इत्य् अर्थः । उदकोपस्पर्शनात् सचेलस्नानाच् छुद्धिम् एक आहुः । गौतमस् तु सचेलं स्नात्वा अब्लिङ्गाभिर् वारुणीभिश् चापामार्जनम् अपीच्छति । तथा च वक्ष्यति- “अनार्जवपैशुन” [ग्ध् २५.१०] इत्यादि । आरमण इत्य् उक्तत्वात् स्वदारविषयम् इदम् । परदारेष्व् एतदधिकं परदारप्रायश्चित्तं द्र्ष्टव्यम् । तद् अपि वक्ष्यति- “तद् आहुः कतिधावकीर्णी प्रविशति” [ग्ध् २५.१] इत्यादि ॥ २४.४ ॥
एके ऽस्त्रीषु ॥ २४.५ ॥
एके अस्त्रीषु वडवाद्यासु गोवर्जं मैथुनम् आसेव्य एतद् एवोदकोपस्पर्शनम् इच्छन्ति । गौतमस् तु वक्ष्यति- “अनार्जव” [ग्ध् २५.१०] इत्यादौ । गवि मनुनोक्तं द्रष्टव्यम् ।
त्र्यहं तूपवसेद् युक्तस् त्रिर् अह्नो ऽभ्युपयन्न् अपः ।
मुच्यते पातकैः सर्वैः त्रिर् जपित्वाघमरणम् ॥ इति । [म्ध् ११.२५९]
एके वर्णयन्ति – स्त्रीषु व्यभिचारिणीष्व् एतद् एव प्रायश्चित्तम् इति ।
तद् अयुक्तम्,
न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा ।
नापो मूत्रपुरीषेण नाग्निर् दहनकर्मणा ॥ [वध् २८.१]
इति वसिष्ठेनोक्तत्वात् । एवं चापदि वेदकर्मणा दुष्टस्य विप्रस्याप्य् अदोषो द्रष्टव्यः ॥ २४.५ ॥
रहस्ये ब्राह्मणवध इदानीम् आह ।
पयोव्रतो वा दशरात्रं घृतेन द्वितीयम् अद्भिस् तृतीयम् ॥ २४.६ ॥
पयोव्रतः क्षीराहारः । एवं प्रथमदशरात्रम्, द्वितीयं घृतेन, तृतीयम् अद्भिर् वर्तेत । वाशब्दाद् एतत् त्रिंशद्रात्रं हविष्यभोजनो वा । शक्तितो विकल्पो द्रष्टव्यः ॥ २४.६ ॥
तस्य गुणविधानम् आह ।
दिवादिष्व् एकभक्तिको जलक्लिन्नवासाः ॥ २४.७ ॥
दिवादिषु पूर्वाह्णेषु एकभक्तिकः सायम् अभुञ्जान इत्य् अर्थः । बहुवचनात् त्रिषु दशरात्रेषु पयोव्रतपक्ष इदम् । ततश् च हविष्यभोजने द्विर्भोजनम् अविरुद्धम् । जलक्लिन्नवासाः आर्द्रवासाश् च स्यात् । इदम् अपि “तद्व्रत एव” [ग्ध् २४.१२] इत्यादौ न भवतीति द्रष्टव्यम्, प्रकाशो मा भूद् इति ॥ २४.७ ॥
लोमानि नखानि त्वचं मांसं शोणितं स्नाय्व् अस्थि मज्जानम् इति होमा आत्मनो मुखे मृत्योर् आस्ये जुहोमीत्यन्तः सर्वेषाम् ॥ २४.८ ॥
लोमादयो मन्त्राः । कथम् अवगम्यते? नायं द्रव्योपदेशः, इतिकरणान्तोपदेशात्, अन्तः सर्वेषाम् इत्य् अनुषङ्गारम्भात्, होमग्रहणाच् च । ततश् चैतैर् मन्त्रैर् आज्यहोमम् अग्नौ कुर्यात् । आत्मनो मुख इत्य् अनुषङ्गः सर्वेषां लोमादीनाम् । “लोमान्य् आत्मनो मुखे मृत्योर् आस्ये जुहोमि” इत्यादिप्रयोगः ॥ २४.८ ॥
प्रायश्चित्तं भ्रूणहत्यायाः ॥ २४.९ ॥
एतद् यथोक्तं प्रायश्चित्तं भ्रूणहत्यायाः । प्रायश्चित्ताधिकारे पुनः प्रायश्चित्तग्रहणम् अदृष्टार्थम् एवैतत् न तु दृष्टार्थम् अपीति । भ्रूणघ इति पुरुषनिर्देशे कर्तव्ये पापनिर्देशः सकृत् क्रियायाम् एवैतद् इति ज्ञापनार्थम् । अभ्यासे तु गुरुतरं कल्प्यम्, यन् मनुनोक्तम् ।
एनसां स्थूलसूक्ष्माणां चिकीर्षन्न् अपनोदनम् ।
अवेत्य् ऋचं जपेद् अब्दं यत् किञ्चेदम् इतीति च ॥ [म्ध् ११.२५२] ॥ २४.९ ॥
अथान्यद्, उक्तो नियमः ॥ २४.१० ॥
अथान्यत् प्रायश्चित्तं वक्ष्यते । पूर्वं वैकल्पिकम् । पूर्वप्रायश्चित्तात् भ्रूणहत्यायाः अन्यद् इति । उक्तो नियमः “पयोव्रतो वा” [ग्ध् २४.६] इत्यादि । विशेषास् तु विधीयन्ते ॥ २४.१० ॥
अग्ने त्वं पारयेति महाव्याहृतिभिर् जुहुयात् कूश्माण्डैश् चाज्यम् ॥ २४.११ ॥
“अग्ने त्वं पारय” [र्व् १.१८९.२] इत्यादिना मन्त्रेण महाव्याहृतिभिश् च भूराद्यैः कूश्माण्डैश् च “यद् देव देवहेडनम्” [ग्ध् २७.७] इत्यादिभिश् चान्वहं क्रमेण सकृद् आज्यं जुहुयात् । आज्यग्रहणं सिंहावलोकितन्यायेन पूर्वत्राप्य् अधिकर्तव्यम् । यत्र यत्र द्रव्यानुद्देशस् तत्र तत्र सर्वत्रेति केचित् । चकारात् प्रणवेन च ॥ २४.११ ॥
तद्व्रत एव वा ब्रह्महत्यासुरापानस्तेयगुरुतल्पेषु प्राणायामैस् तान्तो ऽघमर्षणं जपेत् समम् अश्वमेधावभृथेन ॥ २४.१२ ॥
तेनैव चोक्तेन “पयोव्रतो वा” [ग्ध् २४.६] इत्यादिना ब्रह्महत्यादिचतुर्षु पापेषु प्रायश्चित्तं कुर्यात् । स्तेयं चात्र सुवर्णस्तेयं ब्रह्महत्यासुरापानगुरुतल्पसाहचर्यात् । प्राणायामैस् तान्तः खिन्नः अघमर्षणम् “ऋतं च सत्यं च” इत्यादि जपेत् । समं तुल्यम् एतद् अश्वमेधावभृतेन । सुरापानादिष्व् अश्वमेधावभृतस्नानं शुद्धिहेतुर् इत्य् एतद् अनेन दर्शयति । दण्डापूपिकयाशव्मेधो ऽपि द्रष्टव्यः । यथाह मनुः ।
यथाश्वमेधः क्रतुराट् सर्वपापप्रणोदनः ।
तथाघमर्षणं सूक्तं सर्वपापप्रणाशनम् ॥ [म्ध् ११.२६०]
इति ॥ २४.१२ ॥
सावित्रीं वा सहस्रकृत्व आवर्तयेत् पुनीते हैवात्मानम्
॥ २४.१३ ॥
अधिकारात् तद्व्रत एवैतेष्व् एव पापेषु मासं सावित्रीं बहुकृत्वो ऽभ्यसन् शीघ्रं शुद्धिम् आप्नोति । हेति निपातः वैदिकार्थत्वप्रदर्शनार्थः । एवेत्य् अवधारणार्थः । वेत्य् एतद् वचनम् अन्येष्व् अपि पापेषु सावित्र्यभ्यासः शुद्धिहेतुर् इति प्रदर्शनार्थम् । तथाह वसिष्ठः ।
सहस्रपरमां देवीं शतमध्यां दशावराम् ।
शुद्धिकामः प्रयुञ्जीत सर्वपापेष्व् अवस्थितः ॥ इति । [वध् २६.१५]
अवधारणं पावनतमत्वप्रदर्शनार्थं द्रष्टव्यम् । यथाह व्याघ्रः ।
न सावित्रीसमं जप्यं न व्याहृतिसमं हुतम् ।
नान्नतोयसमं दानं न चाहिंसासमं तपः ॥
इति ॥ २४.१३ ॥
अन्तर्जले वाघमर्षणं त्रिर् आवर्तयन् सर्वपापेभ्यो मुच्यते मुच्यते ॥ २४.१४ ॥
तद्व्रत एवोदकस्यान्तस् त्रिंशद्रात्रम् अघमर्षणं त्रिर् अभ्यसन् सर्वस्मात् पापात् ज्ञानाज्ञानकृतात् मुच्यते शुध्यतीत्य् अर्थः ॥ २४.१४ ॥
इति मस्करीये गौतमभाष्ये चतुर्विंशो ऽध्यायः
पञ्चविंशो ऽध्यायः
उक्तानि महापातकेषु रहस्यानि । अथेदानीम् उपपातकेषु वक्तव्यानि । तत्रावकीर्णिनः उपपातकित्वात् प्रायश्चित्तस्यान्यत्रातिदेशाच् च तस्य पूर्वम् उच्यते । तत्र निन्दातिशययज्ञापनार्था श्रुतिर् उपन्यस्यते ।
तद् आहुः कतिधावकीर्णी प्रविशतीति ॥ २५.१ ॥
तद्दोषगुरुत्वम् अस्य पश्यन्तो विशिष्टा आहुः – कथिधा कतिप्रकारम् । अवकीर्णिशब्दो ह्य् अविप्लुतस्य वाचकः, रक्तस्येति यावत् । तेन क्वास्य प्राणादि गच्छतीत्य् अभिप्रायः ॥ २५.१ ॥
एवं संशयम् उत्पाद्य स्वयम् एवाह ।
मरुतः प्राणेनेन्द्रं72** बलेन बृहस्पतिं ब्रह्मवर्चसेनाग्निम् एवेतरेण सर्वेणेति ॥ २५.२ ॥**
मरुतो वायून् प्राणेन पञ्चवृत्तिना प्रविशति, इन्द्रं बलेन उत्साहशक्त्या, बृहस्पतिम् अधीतश्रुत्यादिजनितेन तेजसा, अग्निम् इतरेण । एवकारान् नान्यं मनआदि । सर्वग्रहणाच् चक्षुःश्रोत्रादिना । अविप्लतो रिक्तो ऽल्पायुर् निरुत्साहो ब्रह्मवर्चसहीनश् चक्षुरादिहीनश् च सम्पद्यते । सेयम् उद्वेगजननार्थं प्रायश्चित्तप्रसङ्गार्थं वा श्रुतिर् उदाहृता ॥ २५.२ ॥
इदानीं प्रायश्चित्तम् आह ।
सो ऽमावास्यायां निश्य् अग्निम् उपसमाधाय प्रायश्चित्ताज्याहुतीर् जुहोति ॥ २५.३ ॥
अवकीर्णीति प्रस्तुतत्वात् स इत्य् अनर्थक इति चेत्, रहसि खण्डितस्यैव परामर्शार्थः, अन्यथा श्रुत्युदाहरणात् सर्वेषां ब्रह्मचारिणाम् इदं प्रायश्चित्तम् इत्य् आशङ्का स्याद् इति । अमावास्यायां कृष्णपर्वणि निशि अर्धरात्र इति द्रष्टव्यम्, अन्यथा प्रकाशः स्याद् इति । अग्निम् उपसमाधाय कस्मिंश्चित् काष्ठे मथित्वेत्य् अर्थः । इतरथा जुहोतिवचनाद् एवाग्नेः सिद्धत्वाद् अवचनीयम् एवैतत् स्यात् । प्रायश्चित्तग्रहणं व्यतिक्रमानन्तरं प्रायश्चित्तानुष्ठानज्ञापनार्थम्, स्मृत्यन्तरोक्तस्य वा
सावित्रीं च जपेन् नित्यं पवित्राणि च शक्तितः । [म्ध् ११.२२५]
इत्येवमादेः सामान्यस्य प्रायश्चित्तविधेः प्रापणार्थम् । आज्यग्रहणं च नियमार्थम् । तथा च गृह्यस्मृतिः- “चतस्र आज्यप्रकृतयो भवन्त्य् ऊधस्यं वा बाह्यं दधि पयो वा” इत्य् आहुतिग्रहणम् अवहितेन होमार्थम् ॥ २५.३ ॥
कामावकीर्णो ऽस्म्य् अवकीर्णो ऽस्मि काम कामाय स्वाहा । कामाभिदुग्धो ऽस्म्य् अभिदुग्धो ऽस्मि काम कामाय स्वाहेति ॥ २५.४ ॥
सकलः मन्त्रपाठः प्रत्यक्षश्रुतौ तथोपलभ्यमानत्वात् ॥ २५.४ ॥
समिधम् आधायानुपर्युक्ष्य यज्ञवास्तु कृत्वोपोत्थाय सं मा सिञ्चन्त्व् इत्य् एतया त्रिर् उपतिष्ठेत् ॥ २५.५ ॥
मन्त्रद्वयहोमान्त एकां समिधं तूष्णीम् एव हुत्वा ततः पर्युक्ष्य “अदिते ऽन्वमंस्थाः” इत्य् एवमादिभिः । ततो यज्ञवास्तु कृत्वा तत् छन्दोगानां गृह्ये परिभाषितम् । तत्रागिसमीपे पश्चाद् उत्थाय “सं मा सिञ्चन्तु” इत्य् एतया प्रकृतम् अग्निं त्रिर् उपतिष्ठेत् ॥ २५.५ ॥
अग्न्युपस्थानस्तुत्यर्थं वैदिकार्थवादम् आह ।
**त्रयो वा इमे लोका एषां लोकानाम् अभिजित्या अभिक्रान्त्या **
इति ॥ २५.६ ॥
त्रयो लोका इमे भूर्भुवःस्वर्लोकाख्याः । तेषाम् अभिजितिः अप्रच्यवनम् अभिक्रान्तिस् तत्रैवोत्पत्तिः । अभिजित्या अभिक्रान्त्या इति च ब्रुवन् अकृतप्रायश्चित्तस्य अवकीर्णिनस् त्रिष्व् अपि लोकेष्व् अनवकाशं दर्शय्ति । वैशब्दो ऽनर्थकः, “अनर्थकानि वैदिकाक्षराणी” इत्य् उक्तत्वात् । “इमे लोकाः” इति प्रत्यक्षेण निर्देश आदरार्थः ॥ २५.६ ॥
एतद् एवैकेषां कर्माधिकृत्य यो पूत इव स्यात् स इत्थं जुहुयाद् इत्थम् अनुमन्त्रयेत ॥ २५.७ ॥
एतद् एव कर्माधिकृत्य कृत्वेत्य् अर्थः । एकेषां मतेन यो पूत इव स्यात् । अधिकाराद् रहस्यप्रायश्चित्ते ऽपि कृते यो पूतम् इवात्मानं मन्येत स एतम् एव जुहुयात् एवम् एवाग्निम् उपतिष्ठेत ॥ २५.७ ॥
वरो दक्षिणेति ॥ २५.८ ॥
अन्ते कर्मणो देयः, स्वयङ्कर्तृकत्वाद् अन्यस्मै ब्राह्मणाय देया । गौरवान् महापातकविषयं द्रष्टव्यम् । गौतमस्य तु तस्यैव प्रायश्चित्तस्यावर्तनम् ॥ २५.८ ॥
प्रायश्चित्तम् अविशेषात् ॥ २५.९ ॥
उपपातकिनां सर्वेषां सामान्यम् उक्तम् एव प्रायश्चित्तम् । केचिद् उपरितनसूत्रशेषत्वेन व्याचक्षते – प्रायश्चित्तं वक्ष्यमाणम् अविशेषाद् रहस्ये प्रकाशे चेति । तत्र प्रकाशे विहितानां शेषत्वेन वर्णनीयम्, रहस्ये तु स्वातन्त्र्यरूपेण । प्रायश्चित्तग्रहणम् अल्पे ऽपि नानादरः कार्य इति ॥ २५.९ ॥
अनार्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु शूद्रायां च रेतः सिक्त्वायोनौ च दोषवति कर्मण्य् अभिसन्धिपूर्वे ऽप्य् अब्लिङ्गाभिर् अप उपस्पृशेद् वारुणीभिः ॥ २५.१० ॥
अनार्जवम् अनृजुत्वं मानसं कर्म शाठ्यं वा । पैशुनं परपरिवादः वाचिकम् । प्रतिषिद्धाचारो नियमलोपः कायिकम् । अनाद्यस्यानेकविधस्योपभोगः अनाद्यस्य प्राशनम् । शूद्रायां च रेतः सिक्त्वा मैथुनं समासेव्य । पृथगुपदेशः परिगृहीतायाम् अपीत्य् एवमर्थः । अस्योपपातकप्रायश्चित्तम् एव यद्य् अपि भवति, तथाप्य् आहत्योपदेशाद् इदम् एवेति द्रष्टव्यम् । एवं सामान्यविशेषभावम् आलोच्य सर्वत्र व्यवस्था कर्तव्या । चशब्दो रजस्वलायाम् उपसङ्ग्रहार्थः । अयोनौ च आस्यादौ । चशब्दात् प्रयत्नोत्सर्गे च । दोषवति च कर्मणि परपीडाहेतौ कर्मणि कृते । चशब्दाद् विहिताकरणे च । अभिसन्धिपूर्वे ऽपि तादर्थ्येनोपकल्पिते ऽपीत्य् अर्थः । अनाद्यप्राशनादि यद्य् अपि प्रतिषिद्धसेवनम्, तथापि यत्नतो वर्जनार्थस् तेषां पृथगुपदेशः, प्रायश्चित्तगौरवार्थो वा । ततश् च बहुभिर् मार्जनं द्रष्टव्यम् । दोषवत् कर्म स्तेयम् इत्य् एके । तत्र सुवर्णस्तेयाद् अन्यद् इति द्रष्टव्यम्, तस्य “ब्रह्महत्यासुरापान” [ग्ध् २४.१२] इत्य् उक्तत्वात् । हिंसेत्य् अपरे । तत्रापि पातकोपपातकं वर्जयित्वेति द्रष्टव्यम्, तयोर् उक्तत्वात् । अभिसन्धिपूर्वे ऽपीत्य् अपिशब्दो ऽभ्यासे ऽपीति केचिद् व्याचक्षते । तद् अयुक्तम्, प्रत्यभ्यासं प्रायश्चित्तावृत्तेर् उक्तत्वात् । अनभिसन्धिपूर्वे ऽपीत्य् एवमर्थं तत्र लघुत्वं मा भूद् इति । अब्लिङ्गाभिः अब्देवताभिर् आपोहिष्ठेत्यादिकाभिः । बहुवचनात् त्र्यवराभिः । वारुणीभिः वरुणदेवताभिः “इमं मे वरुण” इत्येवमादिभिः । पूर्वं स्नात्वापो मूर्ध्नि निक्षिपेत् । विसमासनिर्देशो विकल्पार्थः । ततश् चाब्लिङ्गाभिर् वारुणीभिर् वेति द्रष्टव्यम् ॥ २५.१० ॥
अन्यैर् वा पवित्रैः ॥ २५.११ ॥
अन्यैर् अघमर्षणादिभिर् वा पवित्राणाम् एव ग्रहणं यथा स्याद् इति पवित्रग्रहणम् । सम्भवतो विकल्पः ॥ २५.११ ॥
**प्रतिषिद्धवाङ्मनसोर् अपचारे व्याहृतयः पञ्च **
॥ २५.१२ ॥
प्रतिषिद्धापचारे वाङ्मनसोर् अपचारे च त्रयाणां पूर्वप्रायश्चित्तम् । विशेषार्थम् इदम् – व्याहृतयो भूराद्याः पुरुषसत्यान्ताः पञ्च अब्लिङ्गाभिर् मार्जनानन्तरम् आदित्योपस्थानरूपेणैकादशवारम् उदाहर्तव्याः ॥ २५.१२ ॥
सर्वास्व् अपो वाचामेद् अहश् च मादित्यश् च पुनात्व् इति सायम् ॥ २५.१३ ॥
सर्वासु क्रियासु अनार्जवादिकर्मस्व् इत्य् अर्थः । सर्वासु व्याहृतिषु प्रत्येकम् आचमनम् इति केचित् । तद् अयुक्तम्, सर्वाभिर् इति प्रसङ्गात् । अनन्तराणां त्रयाणाम् एव मा भूद् इति सर्वग्रहणम् । अब्ग्रहणं क्षारादिनिवृत्त्यर्थम् । एवं सायं प्रातर् अभिमन्त्र्य प्रतिपापम् आचामेत् । सम्भवतो विकल्पः ॥ २५.१३ ॥
अष्टौ वा समिध आदध्याद् देवकृतस्येति हुत्वैव सर्वस्माद् एनसो मुच्यते मुच्यते ॥ २५.१४ ॥
अष्टौ वा समिध आदध्यात् “देवकृतस्यैनसो ऽवयजनम् असि स्वाहा । मनुष्यकृतस्यैनसो ऽवयजनम् असि स्वाहा । पितृकृतस्यैनसो ऽवयजनम् असि स्वाहा । आत्मकृतस्यैनसो ऽवयजनम् असि स्वाहा । अन्यकृतस्यैनसो ऽवयजनम् असि स्वाहा । यद् दिव च नक्तं चैनश् चकृम तस्यावयजनम् असि स्वाहा । एनस एनसो ऽवयजनम् असि स्वाहा” इत्य् एतैर् मन्त्रैर् हुत्वैव अन्यद् अकृत्वेत्य् अर्थः । अस्य प्राधान्यख्यापनार्थ एवकारः । ततश् च सम्भवे इदम् एव कर्तव्यम् । सर्वस्माद् एनसः न केवलम् अनार्जवादिभ्यः, किं तु अयाज्ययाजनादिभ्यो ऽप्य् एनसः पापान् मुच्यते ॥ २५.१४ ॥
इति मस्करीये गौतमभाष्ये पञ्चविंशो ऽध्यायः
षड्विंशो ऽध्यायः
उक्तं कृच्छ्रातिकृच्छ्रौ चान्द्रायणम् इति सर्वप्रायश्चित्तम् इति । अत्र कृच्छ्रस्वरूपनिरूपणार्थम् इदम् आह ।
अथातः कृच्छ्रान् व्याख्यास्यामः ॥ २६.१ ॥
अथशब्दो मङ्गलार्थः पूर्वस्याशुभसङ्कीर्तनस्य व्यवच्छेदार्थः । एवं चैते धर्मार्था अपि भवन्ति । तथाह शङ्खः- “शक्तितः शरीरं शोधयेद् यमनियममन्त्रव्रतादिभिः” इति । व्रतशब्देन चात्र कृच्छ्राण्य् अभिधीयन्त इति । अतःशब्दो हेतौ यत एवैते मङ्गलार्था अपि भवन्ति ततो व्याख्यास्याम इति । कृच्छ्रग्रहणं सञ्ज्ञार्थम् । अन्वर्थसञ्ज्ञा चेयम्, कृच्छ्राद् दुःखात् पापान् मोचयतीति ॥ २६.१ ॥
हविष्यान् प्रातराशान् भुक्त्वा तिस्रो रात्रीर् नाश्नीयात् ॥ २६.२ ॥
हविष्यान् शुद्धान् व्रीह्यादिभिर् निष्पन्नान् घृतादिसंयुक्तान् क्षारलवणवर्जितान् प्रातराशान् ग्रासान् । आशान् इति नातिसौहित्यं दर्शयति । त्र्यहम् अभ्यवहृत्य तत्रैव तिस्रो रात्रीर् नाश्नीयात् ।
ननु च सायम्प्रातर् भोजनप्राप्तौ सत्यां प्रातरशनवचनाद् एव रात्रिभोजनप्रतिषेधः सिद्धः ।
उच्यते – हविष्यान् इति विशेषारम्भात् प्रातर्हविष्यभोजनं सायं यथाप्राप्तभोजनम् इत्य् आशङ्का स्याद् इति रात्रौ यथाप्राप्तस्यापि प्रतिषेधार्थं वचनम् ॥ २६.२ ॥
अथापरं त्र्यहं नक्तं भुञ्जीत ॥ २६.३ ॥
अथानन्तरम् अपरम् अपि त्र्यहम् । अपरग्रहणाच् च पूर्वम् अपि त्र्यहसिद्धिः । प्राकृतं हविष्यान्नं नक्तम् एव भुञ्जीत पूर्ववत् ॥ २६.३ ॥
अथापरं त्र्यहं न कञ्चन याचेत ॥ २६.४ ॥
अथेत्य् अधिकारार्थम् । सकृद्भोजनस्यायाचितलभ्यस्य न कालविशेषः । अपरग्रहणं पूर्वत्र्यहसादृश्योपपादनार्थम् । ततश् च हविष्यत्वं नातिसौहित्यं चात्रापि द्रष्टव्यम् । न कञ्चन ज्ञातिम् अपि प्रार्थयेत् । एवं च अयाचितलब्धस्याप्रतिषेधः ।
केचिद् ब्रुवते – भोजने लभ्यमाने यदि ब्रूयाद् अहविष्यं न भोक्ष्य इति ततो ऽर्थाद् धविष्यभोजनम् इति याच्ञा कृता भवतीत्य् अतो ऽत्र हविष्यभोजननियमो नास्तीति ।
अन्ये त्व् आहुः – प्रतिग्रहो ऽनेन प्रतिषिध्यते याज्ञाया अस्वीकृतस्वीकरणविषयत्वान् न हविष्यभोजनप्रतिषेध इति । एवं चात्मीयस्याप्रतिषेधः । न याचेतेति सिद्धे न कञ्चनेत्य् आरम्भसामर्थ्यात् परिचारकादिविषयापि याच्ञा न कर्तव्या ॥ २६.४ ॥
अथापरं त्र्यहम् उपवसेत् ॥ २६.५ ॥
अथशब्द उक्तार्थः । अनन्तरं त्र्यहं निराहारः स्यात् । इहापरग्रहणं प्रकारान्तरेणापि त्र्यहप्रयोगप्रापणार्थम् । यथाह वसिष्ठः ।
अहः प्रातर् अहर् नक्तम् अहर् एकम् अयाचितम् ।
अहः पराकं तत्रैव एवं चतुरहौ परौ ॥
अनुग्रहार्थं विप्राणां मनुर् धर्मभृतां वरः ।
बालवृद्धातुराणां च शिशुकृच्छ्रम् उवाच ह ॥ इति । [वध् २३.४३]
उपवासं कर्तुम् अशक्तस्य भारद्वाजोक्तं द्रष्टव्यम् ।
प्राजापत्यं चरन् विप्रो यद्य् अशक्तो दिने दिने ।
विप्रान् पञ्चावरान् शुद्धान् भोजयेत् सम्यग् अर्चितान् ॥
इति ॥ २६.५ ॥
इदानीं गुणविधिम् आह ।
तिष्ठेद् अहनि रात्राव् आसीत क्षिप्रकामः ॥ २६.६ ॥
भोजनाद्यविरुद्धेषु कालेषु अहनि तिष्ठेत्, रात्राव् आसीत । एवं च निद्राया अवश्यभावित्वाद् आसीन एव निद्रां सेवेतेति द्रष्टव्यम् । दिव रात्रौ च क्षिप्रकामश् च स्यात् । काम आस्था । सर्वधानुभवम् उत्पन्नम् अपि नाशयेद् इत्य् अर्थः । अथ वा सर्वप्रयत्नेन शीघ्रं शुद्धः स्याम् इति सततं सञ्जातमतिः स्यात् ।
केचिद् व्याचक्षते – शीघ्रं शुद्धिकामः तिष्ठेद् अहनि रात्राव् आसीत, शनैः शक्तितः शुद्धिं करोमीति यस्य मतिः स्यात् तस्यानियम इति । एवं च गुणबाहुल्यात् प्रायश्चित्तगुरुत्वम् अनुमीयते । तथा च प्राजापत्यद्वयस्थान इदं गौतमोक्तम् इतिकर्तव्यतासहितं प्राजापत्यं द्रष्टव्यम् । प्राजापत्यस्थानमात्रे इतिकर्तव्यतारहितम् । यथाह वसिष्ठः- “त्र्यहं प्रातस् तथा सायम् अयाचित्ं पराक इति कृच्छ्रः” [वध् २४.२] इति ।
अन्ये ब्रुवते – येषां मन्त्राधिकारो नास्ति स्त्रीशूद्रादीनां तेषां मन्त्ररहितं वसिष्ठाद्युक्तेन मार्गेण द्रष्टव्यम् । येषां तदधिकारो ऽस्ति तेषाम् इदम् इति ।
अपरे “अक्षिप्रकामः” इति पठन्ति, व्याचक्षते च – अक्षिप्रकाम एवं प्राजापत्यं कुर्यात् क्षिप्रकामस् तु वसिष्ठोक्तं कुर्याद् इति । तथा चाह ।
अथ चेत् त्वरते कर्तुं दिवसं मारुताशनः ।
रात्रौ स्थितो जले व्युष्टः प्राजापत्येन तत्समम् ॥
सावित्र्यष्टसहस्रं तु जप्यं कृत्वोत्थिते रवौ ।
मुच्यते पातकैः सर्वैर् यदि न भ्रूणहा भवेत् ॥ [वध् २७.१७–१८]
॥ २६.६ ॥
सत्यं वदेत् ॥ २६.७ ॥
सत्यं यथाभूतं वदेत् । विवाहादिष्व् अप्य् एकेषां पक्षम् आश्रित्य अनृतं न वक्तव्यम् इत्य् अभिप्रायः । एवं च सत्यवचनेनापि पापक्षपणं भवतीत्य् अवगम्यते ॥ २६.७ ॥
अनार्यैर् न सम्भाषेत ॥ २६.८ ॥
अनार्या द्विजातिभ्यो ऽन्ये वर्णाः । वर्णापशदाश् च । बहुवचनात् स्त्रीपुन्नपुंसकैश् च ॥ २६.८ ॥
रौरवयोधाजये नित्यं प्रयुञ्जीत ॥ २६.९ ॥
रौरवयोधाजये सामनी “पुनानः सोम धारय” इत्य् अस्याम् ऋचि गीयेते । नित्यम् इत्य् अस्य सर्वत्रानुषङ्गो द्रष्टव्यः “तिष्ठेद् अहनि” [ग्ध् २६.६] इत्यादौ, जपेद् इति वक्तव्ये प्रयुञ्जीतेति वचनात् । स्वाध्यायरूपेण नित्यशब्दाद् अनुसन्धेयम् इत्य् एके । पुनः पुनर् बहुश इत्य् अन्ये ॥ २६.९ ॥
अनुसवनम् उदकोपस्पर्शनम् आपोहिष्ठेति तिसृभिः पवित्रवतीभिर् मार्जयीत हिरण्यवर्णाः शुचय इत्य् अष्टाभिः ॥ २६.१० ॥
अनुसवनं पूर्वाह्णमध्याह्नापराह्णेषु उदकोपस्पर्शनं स्नानम् उपशब्दप्रयोगात् । आपोहिष्ठेत्यादिभिस् तिसृभिः पवित्रवतीभिः “पवित्रं ते विततम्” इत्यादिभिश् चतसृभिर् एव, अनुक्तसङ्ख्यात्वात् त्रित्वं विना बहुवचनस्याकृतार्थत्वाच् च । “हिरण्यवर्णाः शुचयः” इत्य् अष्टाभिश् च मार्जयीत सलिलम् अभिमन्त्र्य मूर्धनि प्रक्षिपेत् । अन्ये करणविभक्तिनिर्देशाद् एभिर् एव स्नानम् इति वर्णयन्ति । मार्जनशब्दस्य मध्योपदेशाद् अन्यैश् च पवित्रैः ॥ २६.१० ॥
अथोदकतर्पणम् ॥ २६.११ ॥
अथ अनन्तरम्, अनुसवनप्रापणार्थं तस्योपादानम् । एवं च नैमित्तिकेष्व् अपि स्नानेषूदकतर्पणम् अस्तित्य् अवगम्यते । तथाह भृगुः ।
नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानम् उच्यते ।
तर्पणं त्रिविधस्यास्याप्य् एषा एव विधिः सदा ॥ इति ।
उदकोपस्पर्शनम् इति यत्र उदकाधिकारे पुनर् उदकग्रहणम् उदकस्थस्यापि तर्पणप्रापणार्थम् । तथा च स्मृत्यन्तरे विरुद्धम् अभिधाय पुनः समर्थितम् । यथा ।
नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना ।
नोपतिष्ठति तत् तोयं यद् भूम्यां न प्रदीयते ॥
तथा ।
उदके नोदकं कुर्यात् पितृभ्यस् तु कदाचन ।
उत्तीर्य तु शुचौ देशे कुर्याद् उदकतर्पणम् ॥
इत्य् अभिधायोक्तम् ।
आपो देवगणाः सर्वे आप पितृगणाः स्मृताः ।
तस्माद् अप्सु जलं देयं पितॄणां दत्तम् अक्षयम् ॥
तथा ।
देवातानां पितॄणां च जले दद्याज् जलाञ्जलिम् ।
असंस्कृतप्रमीतानां स्थले दद्याज् जलाञ्जलिम् ॥
इति ॥ २६.११ ॥
तत् पुनः केभ्यः कथं वेत्य् अत आह ।
नमो हमाय मोहमाय मंहमाय धून्वते तापसाय पुनर्वसवे नमः । नमो मौञ्ज्यायोर्म्याय वसुविन्दाय सर्वविन्दाय नमः । नमः पाराय सुपाराय महापाराय पारदाय पारयिष्णवे नमः । नमो रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वायेशानायोग्राय वज्रिणे घृणिने कर्पर्दिने नमः । नमः सूर्यायादित्याय नमः । नमो नीलग्रीवाय शितिकण्ठाय नमः । नमः कृष्णाय पिङ्गलाय नमः । नमो ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्वरेतसे नमः । नमः सत्याय पावकाय पावकवर्णाय कामाय कामरूपिणे नमः । नमो दीप्ताय दीप्तरूपिणे नमः । नमस् तीक्ष्णाय तीक्ष्णरूपिणे नमः । नमः सौम्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमः । नमश् चन्द्रललाटाय कृत्तिवाससे नम इति ॥ २६.१२ ॥
नायम् एको मन्त्रः, एता एवाज्याहुतय इति बहुवचननिर्देशात् । किं तर्हि त्रयोदशैते मन्त्रा नमस्कारादयो नमस्कारान्ताश् च द्रष्टव्याः, श्रुतौ तथैव पाठ्दर्शनात् । ततश् चैतैर् नमस्कारान्तैर् मन्तैर् उदकतर्पणं कर्तव्यम् ।
अन्ये पुनर् आहुः – सम्प्रदानविभक्त्यन्ताः षट्पञ्चाशद् एते मन्त्रा इति ।
अपरे नमस्कारादय एव न नमस्कारान्तास् तथापाठदर्शनाद् इत्य् आहुः ॥
॥ २६.१२ ॥
एतद् एवादित्योपस्थानम् ॥ २६.१३ ॥
एतद् एव यजुः आदित्योपस्थानम् ।
ननु च उपस्थानशब्दस्य क्रियावचनत्वाद् यजुषा सह सामानाधिकरण्यानुपपत्तिः, अत एव वक्तव्यम् एतैर् एवादित्योपस्थानम् इति ।
नैष दोषः – उपतिष्ठते ऽनेनेत्य् उपस्थानम् इत्य् एवं यजुर् एवाभिधीयत इत्य् अदोषः । ततश् चादित्योपस्थानम् इत्य् अर्थात् क्रियाचोदनेति । एवशब्द उदकतर्पणे ऽप्य् अयम् एव मन्त्र इति सूचनार्थः । इतरथा एतद् आदित्योपस्थानम् इत्य् उक्ते उदकतर्पणं गृह्योक्तेन मन्त्रेण प्रसज्येतेति । एवं च नित्याद् अधिकम् इदं द्रष्टव्यम्, यथासमाम्नायप्रयोगार्थो वा । एवं चोदकतर्पणाद्य् अन्यथेत्य् अवगम्यते । रौद्रेण मन्त्रेणादित्यस्तुतिर् अयुक्तेति चेत्, नैष दोषः । न हि वचनस्यातिभार इत्य् अतिभाराभावाद् रुद्रांशत्वाच् चादित्यस्य । तथा पुराण उक्तम्- “क्षितिजलपवनहुताशनयजमानाकाशसोमसूर्याख्या मूर्तयो भगवतः शर्वस्याष्टौ” इति । एतद् एव विरुद्धम्, तत्रैवादित्यो विष्णुर् इति दर्शनाद् इति चेत्, द्वयोर् अभेदत्वाद् अदोषः । तथा च भगवद्गीतासु “रुद्राणां शङ्करश् चास्मि” [भ्ग् १०.२३] इति । तर्पणानन्तरम् उपदेशात् त्रिर् आदित्योपस्थानम् अनुसवनं द्रष्टव्यम् ।
अन्ये व्याचक्षते – “अथोदकतर्पणम् आदित्योपस्थानं च” इति वक्तव्ये पृथग्योगकरणात् प्रत्यहं सकृद् एवादित्योपस्थानम् इति ।
अपरे प्रायश्चित्ताद् अन्यत्रापि प्रवेशार्थं पृथग्योगकरणम् इति । वचनवद् एकवचनत्वाद् उक्तबहुत्वे ऽपि न विरोधः ॥ २६.१३ ॥
एता एवाज्याहुतयः ॥ २६.१४ ॥
आज्याहुतयश् चेति वक्तव्ये एता एवेत्य् अभिधानम् आहुतिबहुत्वप्रतिषेधार्थम् । अतस् त्रयोदशैता आज्याहुतयो द्रष्टव्याः । पूर्ववत् समाम्नायप्रयोगार्थ एवशब्दः । ततश् च नमस्कारादयो मन्त्राः स्वाहाकारान्ताश् च द्रष्टव्याः । कुतः? आहुतिग्रहणसामर्थ्यात् । यद्य् अपि पुंलिङ्गा मन्त्राः, तथाप्य् आहुतिसामानाधिकरण्याद् एता इति स्त्रीलिङ्गनिर्देशः ।
केचिद् व्याचक्षते – एताः सम्प्रदानविभक्तयः षट्पञ्चाशद् आज्याहुतय इति, सम्प्रदानविभक्तिपरामर्शार्थः स्त्रीलिङ्गनिदेश इति । एतद् अपि सकृत् सकृद् आदित्योपस्थानवद् अनुसवनं द्रष्टव्यम्, आनन्तर्यानभिधानात् । एवं द्वादशरात्रं वर्तेत ॥ २६.१४ ॥
द्वादशरात्रस्यान्ते चरुं श्रपयित्वैताभ्यो देवताभ्यो जुहुयात् ॥ २६.१५ ॥
द्वादशरात्रस्यान्ते, न प्रतिदिनम् । त्रयोदशे वाहनि, षष्ठीनिर्देशात् । चरुणा जुहुयाद् इत्य् एव सिद्धे श्रपयित्वाग्रहणम् उत्पूय श्रपणम् अभिधार्यावरोपणम् इत्य् एवमर्थम् । जुहुयाद् इति होमविध्यर्थम् । अत्र स्वगृह्योक्तेन स्थालीपाकविधानेन द्रष्टव्यम् । “एताभ्यो देवताभ्यः” इति न वक्तव्यम्, वक्ष्यमाणत्वाद् एव सिद्धम् इति चेत्, ध्यानपूर्वार्थ उपदेश इत्य् अदोषः
॥ २६.१५ ॥
ता आह ।
अग्नये स्वाहा सोमाय स्वाहाग्नीषोमाभ्याम् इन्द्राग्निभ्याम् इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतये ऽग्नये स्विष्टकृत इति ॥ २६.१६ ॥
द्विःस्वाहाकारपाठः सर्वत्रानुषङ्गार्थः । इतिकरणः प्रकारावरोधार्थः । अत इन्द्रायेत्य् एवमादौ न पुरुहूतायेत्य् एवमादि योज्यम् । किं तु तद् एवेति ॥ २६.१६ ॥
ततो ब्राह्मणतर्पणम् ॥ २६.१७ ॥
होमानन्तरं नापरस्मिन् दिवसे, शक्तितो ब्राह्मणतर्पणं कर्तव्यम् । तत्रापि त्र्यवरान् भोजयेद् इति द्रष्टव्यम् ॥ २६.१७ ॥
एतेनैवातिकृच्छ्रो व्याख्यातः ॥ २६.१८ ॥
एतेनैव प्राजापत्यविधिना अतिकृच्छ्रो ऽप्य् अतिशयपीडोत्पादको व्याख्यातः । कृच्छ्रान् इति बहुवचनाद् एवैतत् सिद्धम् इति चेत्, उच्यते – अग्निष्टोमवत् प्रथमस्य प्रकृतित्वख्यापनार्थम् अभिधानम् इति । ततः सान्तपनादाव् अपि “तिष्ठेद् अहनि” [ग्ध् २६.६] इत्याद्यविरोधकल्पना कर्तव्या । तत्स्वरूपं तु स्मृत्यन्तराद् अवगन्तव्यम् । तथाह बोधायनः ।
यतात्मनो ऽप्रमत्तस्य द्वादशाहम् अभोजनम् ।
पराको नाम कृच्छ्रो ऽयं सर्वपापप्रणाशनः ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश् च कृच्छ्रं सान्तपनं स्मृतम् ॥
गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा ।
पञ्चरात्रं तदाहारः पञ्चगव्येन शुध्यति ॥
गोमूत्रादिभिर् अभ्यस्तम् एकैकं त्रित्रिसप्तकम् ।
महासान्तपनं कृच्छ्रं वदन्ति ब्रह्मवादिनः ॥
कणपिण्याकतक्राणि तथा चामानिलाशनः ।
एकत्रिपञ्चसप्ताहं पापघ्नो ऽयं तुलापुमान् ॥
यावकः सप्तरात्रेण वृजिनं हन्ति देहिनाम् ।
सप्तरात्रोपवासो वा दृष्टम् एतन् मनीषिभिः ॥
पौषभाद्रपदज्येष्ठा आर्द्राकाशातपाश्रयाः ।
त्रीन् शुक्लान् मुच्यते पापात् पतनीयाद् ऋते द्विजः ॥
अमावास्यां निराहारः पौर्णमास्यां तिलाशनः ।
शुक्लकृष्णकृतात् पापान् मुच्यते ऽब्दस्य पर्वभिः ॥
बैक्षाहारो ऽग्निहोत्रिभ्यो मासेनैकेन शुध्यति ।
यायावरवनस्थेभ्यो दशभिः सप्तभिर् दिनैः ॥
एकाहं धनिनो ऽन्नेन दिनेनैकेन शुध्यति ।
कापोतवृत्तिनिष्ठस्य पीत्वापः शुध्यते द्विजः ॥
ऋग्यजुःसामवेदानां वेदस्यान्यतमस्य वा ।
पारायणं त्रिर् अभ्यस्यानश्नन् पापात् प्रमुच्यते ॥
यो ऽन्नदः सत्यवादी च सर्वभूतेष्व् अहिंसकः ।
पूर्वोक्तमन्त्रशुद्धिभ्यः सर्वेभ्यः सो ऽतिरिच्यते ॥
त्रिमधुच्छन्दसो रुद्रा गयत्रि प्रणवान्विता ।
सप्तव्याहृतयश् चैषां जपः पापप्रणाशनः ॥
मृगारेष्टिः पवित्रेष्टिः पावमान्यो ऽपि चेष्टयः ।
एताः पापप्रणाशिन्यो वैश्वानर्या समन्विताः ॥
इदं चैवापरं गुह्यम् उच्यमानं निबोधत ।
मुच्यते सर्वपापेभ्यो महद्भिः पातकैर् विना ॥
पवित्रैर् मार्जनं कुर्वन् रुद्रैकादशिनीं जपन् ।
व्याहृतीभिर् घृतैर् जुह्वन् प्रयच्छन् हेमगोतिलान् ॥
प्राश्नीयाद् यावकं पक्वं गोमूत्रैश् च शकृद्रसैः ।
सदधिक्षीरसर्पिष्यं मुच्यते सो ऽंहसः क्षणात् ॥
प्रसूतो यश् च शूद्रायां येनागम्या च लङ्घिता ।
सप्तरात्रात् प्रमुच्येते विधिनैतेन ताव् उभौ ॥
रेतोमूत्रपुरीषाणां प्राशने ऽभोज्यभोजने ।
पर्याधानेज्ययोर् एतत् परिवित्तेश् च भेषजम् ॥
अपातकानि कर्माणि कृत्वेह च बहून्य् अपि ।
मुच्यते सर्वपापेभ्यो इत्य् एतद् वचनं सताम् ॥
मन्त्रमार्गप्रमाणं च विधानं समुदाहृतम् ।
भरद्वाजादयो येन ब्रह्मणः सात्मतां गताः ॥
प्रसन्नहृदयो विप्रः पयोदध्याश्य् कर्मणा ।
कामांस् तांस् तान् अवाप्नोति ये ये कामा हृदि स्थिताः ॥
निर्वृत्तिः सर्वपापेभ्यः प्रवृत्तः पुण्यकर्मणि ।
भो विप्रास् तस्य सिध्यन्ति विना यत्नैर् अपि क्रियाः ॥
ब्राह्मणा ऋजवस् तस्माद् यद् यद् इच्छन्ति चेतसा ।
तत् तद् आसादयन्त्य् आशु संशुद्धा ऋजुकर्मिणः ॥
एवम् एतानि यन्त्राणि तावत् कार्याणि धीमता ।
कालेन यावतापैति विग्रहाशुद्धिर् आत्मनः ॥
एभिर् यन्त्रैर् विशुद्धात्मा त्रिरात्रोपोषितः शुचिः ।
तद् आरभेत येनर्द्धिं कर्मणां प्राप्तुम् इच्छन्ति ॥
क्षापवित्रं सहस्राक्षः मृगारो ऽंहोमुचौ गणौ ।
पावमान्यश् च कूश्माण्ड्यः वैश्वानर्य ऋचश् च याः ॥
घृतौदनेन ता जुह्वन् सप्ताहं सवनत्रयम् ।
मौनवृत्तिर् हविष्याशी निगृहीतेन्द्रियक्रियः ॥
सिंहे म इत्य् अपां पूर्णे पात्रे ऽवेक्ष्य चतुष्पथे ।
मुच्यते सर्वपापेभ्यो महतः पातकाद् अपि ॥
वृद्धत्वे यौवने बाल्ये यः कृतः पापसञ्चयः ।
पूर्वजन्मसु वा जातस् तस्माद् अपि विमुच्यते ॥
भोजयित्वा द्विजान् अन्ते पायसेन ससर्पिषा ।
गोभूमितिलहेमानि भुक्तवद्भ्यः प्रदापयेत् ॥ [च्फ़्। ब्ध् ४.५.१५–७.९]
इत्येवमादि । अलम् अतिप्रसङ्गेन । प्रस्तुतम् अभिधीयते ॥ २६.१८ ॥
यस् त्व् अस्य विशेषः स उच्यते ।
यावत् सकृद् आददीत तावद् अश्नीयात् ॥ २६.१९ ॥
यावन्मात्रं हविष्यम् एकेन पाणिना सकृद् आदातुं शक्नुयात् तावन्मात्रं तेष्व् एवाहःसु अश्नीयात् । ग्रासमात्रचोदनैषा । तथाह मनुः ।
एकैकं ग्रासम् अश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेद् अन्त्यम् अतिकृच्छ्रः स उच्यते ॥ इति । [म्ध् ११.२१३]
अब्भक्षस् तृतीयः, स कृच्छ्रातिकृच्छ्रः । पूर्वत्र य एव भोजनकाल उक्तः, तत्रैव केवलम् उदकं पिबेत् । स एवंरूपस् तृतीयः कृच्छ्रातिकृच्छ्रो भवति । तृतीयग्रहणं द्वितीयं तृतीयम् इति केवलोक्ताव् अपि तत्प्रतिपत्त्यर्थम् । तथा च वक्ष्यति- “प्रथमं चरित्वा” [ग्ध् २६.२०] इत्यादि । अद्भिस् तृतीय इति वक्तव्ये भक्षग्रहणम् अपाम् अप्य् अन्नकार्यकरणप्रदर्शनार्थम् । ततश् चोपदिष्टकालव्यतिरेकेण उदकपानाभावः । सञ्ज्ञाकरणं व्यवहारार्थम् ॥ २६.१९ ।
इदानीम्73_ एतेषां फलम् आह ।_
प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति
॥ २६.२० ॥
प्रथमं प्राजापत्यं चरित्वा शुचिर् अपगतविहिताकरणनिमित्तदोषः पूतः प्रतिषिद्धाचरणजनिताधर्मक्षयश् च, कर्मण्यः काम्यनित्यकर्मयोग्यश् च भवति सम्पद्यते ।
ननु च इदम् अनर्थकम्, प्रायश्चित्तविधानाद् एवैतस्य सिद्धत्वात्, कुर्याद् इत्य् अत्र पापक्षपणहेतुत्वस्य प्रतिपादितत्वात् । तत्रापि प्रथमाद् इत्य् एव सिद्धत्वाच् चरित्वाग्रहणम् अप्य् अनर्थकम् । तथा च शुचिः पूत इत्य् अनेनाधर्मावान्तरभेदकथनं मन्दफलम्, पूत इत्य् एतावतैवोभसिद्धेः । तथा कर्मण्य इत्य् एतद् अपि । यदि तावद् अपेताधर्मत्वेन कर्माधिकाराभ्प्रायः ततो ऽर्थसिद्धत्वाद् अवचनीयम् । अथ विशिष्टतरफलप्राप्त्यभिप्रायः, तद् अप्य् अयुक्तम् । यस्य कर्मणो यत् फलं तद् एव, न फलातिशयो भवतीति ।
अत्रोच्यते – देहान्तरकृतोभयविधाधर्मक्षपणसाधनत्वज्ञापनार्थो ऽयम् आरम्भः । चरित्वाग्रहणं सकृत्प्रयोगेण भवतीति ज्ञापनार्थम्, उपरिष्टात् “यद् अन्यन् महापातकेभ्यः” [ग्ध् २६.२१] इत्य् अभिधानात्, प्रतिषिद्धसेवन एव प्रायशः प्रायश्चित्तविधानात् । पूतशब्देन च प्रतिषिद्धविषय एवाशङ्का स्याद् इति शुचिग्रहणम् । तस्य च ज्ञातस्येति द्रष्टव्यम्, अज्ञातस्य वेदोदितानाम् इत्य् उक्तत्वात् ।
नन्व् एतद् अपि सर्वप्रायश्चित्ताभिधानात् सिद्धम्, तस्य बुद्धिपूर्वाबुद्धिपूर्वकृतानां सामान्यत्वात् ।
उच्यते – निर्दिष्टविषयम् इदम् । अनिर्दिष्तविषयं तद् इति । एवं प्रतिषिद्धविषये ऽपि द्रष्टव्यम् । कर्मण्य इत्य् एतद् अप्य् अधर्मसम्बन्धे सति कर्मफलप्रतिबन्धो भवतीत्य् अस्यार्थस्य ज्ञापनार्थम् ॥ २६.२० ॥
द्वितीयं चरित्वा यद् अन्यन् महापातकेभ्यः पापं कुरुते तस्मात् प्रमुच्यते ॥ २६.२१ ॥
अतिकृच्छ्रं चरित्वा महापातकव्यतिरिक्तपापनिर्मुक्तो भवतीति । एवं च पूर्वेण यमनियमलोपपापक्षयः क्रियते, अनेन तूपपातककृतपापक्षपणम् इति पूर्वसहितस्य च सर्वप्रायश्चित्तवचनान् महापातकम् अप्य् अनभिसन्धिकृतं क्षपयतीति द्रष्टव्यम् ॥ २६.२१ ॥
तृतीयं चरित्वा सर्वम् एनो व्यपोहति ॥ २६.२२ ॥
कृच्छ्रातिकृच्छ्रं चरित्वा महापातकम् अप्य् अनभिसन्धिकृतं विनाशयति । कुतः? अस्य पूर्वयोस् तुल्यत्वात्, चान्द्रायणसहितस्य सर्वप्रायश्चित्तस्य अभिसन्धिकृतस्य महापातकस्य विनाशहेतुत्वाच् च । एवं च पूर्वयोः स्थान इदम् अपि कर्तव्यम् । द्वितीयम् इत्याद्य् अपि तद्विषयं द्रष्टव्यम् । सर्वप्रायश्चित्ते सर्वसमुच्चयो मा भूद् इत्य् उपदेशः ॥ २६.२२ ॥
अथैतांस् त्रीन् कृच्छ्रांश् चरित्वा सर्वेषु वेदेषु स्नातो भवति सर्वैर् देवैर् ज्ञातो भवति यश् चैवं वेद यश् चैवं वेद ॥ २६.२३ ॥
अथ अनन्तरम् अप्य् अव्यवहितान् एतांस् त्रीन् एव न तप्तकृच्छ्रादीन् । कृच्छ्रान् इति पीडातिशयेनानुष्ठानार्थम् । एवं चार्द्रवस्त्रादीन्य् अपि द्रष्टव्यानि । तथा जपहोमादीन्य् अपि । सर्वान् वेदान् अधीत्य स्नातस्य यत् फलं तत्तुल्यफलसम्बन्धो भवतीत्य् अभिप्रायेणोक्तं सर्वेष्व् इत्यादि । सर्वैर् देवैर् ज्ञातो भवति तल्लोकगमनसमर्थ इत्य् अर्थः । यश् चैवं वेद यश् च कृच्छ्रस्वरूपेतिकर्तव्यताफलं विजानाति । चकारः पूर्वेण समुच्चयार्थः । ज्ञात्वा कृतस्य पूर्वोक्तं फलं न कर्ममात्रेण ज्ञानमात्रेण वेति । एवं च प्रत्येकम् अपि फलम् आनुरूप्येण द्रष्टव्यम् ।
केचित् प्रत्येकम् अपीच्छन्ति ।
तद् अयुक्तम्, अनुष्ठानाद् एव पापक्षपणं न ज्ञानमारद् इति । तथा च मनुः ।
फलं कतकवृक्षस्य यद्य् अप्य् अम्बुप्रसादकम् ।
न नामग्रहणाद् एव तस्य वारि प्रसीदति ॥ [म्ध् ६.६७] ॥ २६.२३ ॥
इति मस्करीये गौतमभाष्ये षड्विंशो ऽध्यायः
सप्तविंशो ऽध्यायः
उक्तं कृच्छातिकृच्छ्रौ चान्द्रायणम् इति । तत्र कृच्छ्रातिकृच्छ्रविधिर् उक्तः । अधुना चान्द्रायणविधिविवक्षयाह ।
अथातश् चान्द्रायणम् ॥ २७.१ ॥
व्याख्यास्यामः इति शेषः । अथशब्दो ऽधिकारार्थः । कृच्छ्रातिकृच्छ्रफलस्य तत्तुल्यत्वाद् अनन्तरोक्तं न भवतीति । अथःशब्दो हेतौ, यत एतत् फलसंयुक्तम् इति । चान्द्रायणम् इति सञ्ज्ञा । अन्वर्थत्वात् चन्द्रगतिवशात् भवतीति । जात्याम् एकवचनम् । एवं च स्मृत्यन्तरोक्तस्य यतिचान्द्रायणादेः सर्वप्रायश्चित्तत्वं ज्ञापयति । तथाह मनुः ।
अष्टाव् अष्टौ समश्नीयात् पिण्डान् माध्यन्दिने स्थिते ।
नियतात्मा हविष्यस्य यतिचान्द्रायणम् चरेत् ॥
चतुरः प्रातर् अश्नीयाद् द्विजः पिण्डान् कृताह्निकः ।
चतुरो ऽस्तमिते सूर्ये शिशुचान्द्रायणं चरेत् ॥
यथा कथञ्चित् पिण्डानां तिस्रो ऽशीतिः समाहितः ।
मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥
इत्यादि ॥ २७.१ ॥
तस्योक्तो विधिः कृच्छ्रे ॥ २७.२ ॥
तस्य सर्वप्रकारस्य, तच्छब्दोपादानात् । उक्तो विधिः इतिकर्तव्यता । कृच्छ्रे प्रथमे “तिष्ठेद् अहनि” [ग्ध् २६.६] इत्यादि ॥ २७.२ ॥
यस् त्व् इह विशेषः स उच्यते ।
वपनं व्रतं चेत् ॥ २७.३ ॥
वपनं केशाद्यपनयनं कर्तव्यं व्रतं चेत् । प्रायश्चित्तार्थम् अस्यैतद् भवति चेत् । व्रतशब्देन स्मृत्यन्तरे प्रायश्चित्तम् उक्तम् इति । यथाह मनुः ।
एतैर् द्विजातयः शोध्या व्रतैर् आविष्कृतैनसः ॥ इति । [म्ध् ११.२२६]
एवं च यद्य् अदृष्टार्थं तदानीं वपनम् अन्तरेणापि तद् भवतीति ज्ञापितम् ।
अन्ये तु ब्रह्मचारिव्रतम् आहुः, “चतुरो व्रतिनो ऽपि” [म्ध् ११.१२१] इत्यादौ तथा दर्शनात् । अस्मिन् पक्षे गृहस्थस्य तदन्तरेणापि भवति । अयं न्यायः कृच्छ्रादाव् अपि द्रष्टव्यः
॥ २७.३ ॥
स्वरूपाभिधानार्थम् आह ।
श्वोभूतां पौर्णमासीम् उपवसेत् ॥ २७.४ ॥
उपवासो भक्तत्यागः । तं चतुर्दश्यां कुर्याद् इत्य् अर्थः ॥ २७.४ ॥
आ प्यायस्व सं ते पयांसि नवो नव इति चैताभिस् तर्पणम् आज्यहोमो हविषश् चानुमन्त्रणम् ॥ २७.५ ॥
“आ प्यायस्व समेतु ते सं ते पयांसि समुयन्तु वाजाः, नवो नवो भवति जायमानः” इत्य् एताभिस् तिसृभिर् उदकतर्पणं घृतेन च होमो हविषश् च वक्ष्यमाणस्यानुमन्त्रणं कर्तव्यम् ।
तत्रैक आहुः – अङ्गभूयस्त्वे फलभूयस्त्वाभ्युपगमात् कृच्छ्रविध्यतिदेशाच् च कृच्छ्रे रौद्रेण यजुषा य उदकतर्पणादय उपदिष्टाः तैः सह समुच्चीयन्त इति ।
तद् अयुक्तम् । “अतिदेशप्राप्तं हि प्रत्यक्षश्रुतेन निवर्त्यते” इति न्यायान् निवृत्तिर् एव न्याय्येति । अथ किम् एताभिः यथासङ्ख्येनैकैकं कर्तव्यम्, उत समुच्चिताभिः सर्वम् ।
अन्य आहुः – आज्यहोम इत्य् एकवचननिर्देशाद् एकैकं कुर्यात्, समुच्चये हि मन्त्रबहुत्वात् कर्मबहुत्वम् इति होमपृथक्त्वे च बहुवचनं प्रसज्येतेति ॥ २७.५ ॥
उपस्थानं च चन्द्रमसः ॥ २७.६ ॥
चशब्दाद् एताभिर् एव कर्तव्यम् । यद्य् असौ न दृश्यते तदा आदित्यस्य कार्यम्, “सुषुम्नः सूर्यरश्मिः” इति मन्त्रलिङ्गदर्शनात् । अत्र भिन्नार्थत्वात्74 कृच्छ्रविध्यतिदेशप्राप्तम् आदित्योपस्थानं निवर्तते ॥ २७.६ ॥
यद् देवा देवहेडनम् इति च चतसृभिर् जुहुयात् ॥ २७.७ ॥
“यद् देवा देवहेडनम्” इति ऋग्भिः । अनादेशाद् आज्यं जुहुयात् । स्त्रीलिङ्गसङ्ख्यानिर्देश ऋगर्थः, यजूंष्य् अप्य् एवमादीनि यजुर्वेदे पठ्यन्त इति तन्निवृत्त्यर्थम् । अतः पूर्वेण सहिताः पञ्चाज्याहुतयः सप्त वा ॥ २७.७ ॥
देवकृतस्येति चान्ते समिद्भिः ॥ २७.८ ॥
“देवकृतस्य” इत्यादय उक्ताः [ग्ध् २५.१४] । तैर् मन्त्रैर् अष्टौ समिद्धोमान् कुर्यात् । अन्ते चान्द्रायणसमाप्तौ । चशब्दाद् आदौ च ॥ २७.८ ॥
ॐ भूर् भुवः स्वर् तपः सत्यं यशः श्रीर् ऊर्गिड् औजस् तेजः पुरुषो धर्मः शिव इत्य् एतैर् ग्रासानुमन्त्रणम् ॥ २७.९ ॥
प्रणवादयः पञ्चदशैते मन्त्राः । तेषाम् एकैकेनानुपूर्व्या ग्रासानुमन्त्रणं कर्तव्यम् । पूर्वं हविषो ऽनुमन्त्रणम् उक्तम् । यदा चान्त्यः पिण्डो व्यावर्तते तदान्त्यमन्त्रो ऽपीति मन्त्रान्तो द्रष्टव्यः ॥ २७.९ ॥
**प्रतिमन्त्रं मनसा नमः स्वाहेति वा सर्वान् **
॥ २७.१० ॥
मन्त्रं मन्त्रं प्रति नमस्कारं स्वाहाकारं वान्ते कृत्वा सर्वान् ग्रासान् मनसानुमन्त्रयेत् । इच्छातो विकल्पः सर्वग्रहणाद् विभक्तानाम् अनुमन्त्रणम्, न पुनर् अविभक्तानाम् । अनुमन्त्रणमन्त्राश् चैते न भक्षणमन्त्राः । अतो ऽन्नम् एवम् अभिमन्त्र्य भुञ्जीत ॥ २७.१० ॥
ग्रासप्रमाणम् आस्याविकारेण ॥ २७.११ ॥
यावता ग्रासेन मुखं न विक्रियते, नातिविवृतम् इत्य् अर्थः, तावद् एव प्रमाणं स्यात् ॥ २७.११ ॥
चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूल-फलोदकानि हवींष्य् उत्तरोत्तरं प्रशस्तानि ॥ २७.१२ ॥
द्वादशैतानि द्रव्याणि । एतेषां हविर्द्रव्याणां यद् यद् उत्तरं तत् तत् पूर्वस्मात् पूर्वस्मात् प्रशस्ततरम्, पीडातिशयहेतुत्वात् । चरुर् हविष्यं स्वयं श्रपयितव्यम् । भैक्षं यस्योपपद्यते ब्रह्मचार्यानीतं वा । शेषाणि प्रसिद्धानि । हविर्ग्रहणं हविष इव संस्कारार्थम् । ततो लवणगुडादिवर्जनसिद्धिः । तत्र द्रव्याणां पुटिकया ग्रासकल्पना, तत्र “गुरुषु गुरूणि” [ग्ध् १९.१९] इत्य् अनेन न्यायेन कल्पना कर्तव्या ॥ २७.१२ ॥
पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वैकापचयेनापरपक्षम् अश्नीयात् ॥ २७.१३ ॥
चतुर्दश्याम् उपवासं कृत्वा एतेषाम् अन्यतमस्य हविषः पञ्चदश्यां पञ्चदशग्रासान् अशित्वा ततः प्रतिपदम् आरभ्य एकैकाह्न्य् आ कृष्णपक्षम् अश्नीयात् । अपरपक्षग्रहणं व्याप्त्यर्थम् । सकलं पक्षम् अनेन प्रकारेण व्याप्नुयात्, न त्व् अनियमेन सङ्ख्यां पूरयेद् इति । सकृद्भोजनार्थं वा गम्यमानस्य पुनर्वचनम् ॥ २७.१३ ॥
अमावास्यायाम् उपोष्य एकोच्चयेन पूर्वपक्षम् ॥ २७.१४ ॥
ततो ऽमावास्यायाम् उपवासं कृत्वा प्रतिपत्प्रभृत्य् एकैकस्योच्चयेन वृद्ध्या शुक्लपक्षम् अश्नीयात् । तथा पौर्णमास्यां पञ्चदश ग्रासा भवन्ति । मध्यतनुत्वात् पिपीलिकामध्यम् इदम्
॥ २७.१४ ॥
विपरीतम् एकेषाम् ॥ २७.१५ ॥
एकेषाम् आचार्याणां मतेन विपरीतम् इदम् एव भवति । चतुर्दश्याम् उपवासं कृत्वामावास्यायाम् एकं पिण्डम् अश्नीयात् । ततः प्रतिपदम् आरभ्यैकैकवृद्ध्या शुक्लपक्षम् अश्नीयात् । तथा च चतुर्दश्यां पञ्चदश भवन्ति । ततः पौर्णमास्याम् उपवासः । प्रतिपदि पञ्चदश ग्रासाः । तत एकैकाह्न्य् आ कृष्णपक्षम् अश्नीयाद् इति।
अन्ये त्व् अन्यथा विपरीतम् आचक्षते – पौर्णमास्याम् उपोष्य प्रतिपदम् आरभैकैकापचयेनापरपक्षम् अश्नीयात्, ततो ऽमावास्याप्रभृत्य् एकैकोच्चयेन पूर्वपक्षम् अश्नीयाद् इति । मध्यपृथुत्वाद् यवमध्यम् इदम् । तस्मात् पूर्वोक्तो ऽयं च पिपीलिकामध्यः
॥ २७.१५ ॥
एष चान्द्रायणो मासः ॥ २७.१६ ॥
चन्द्रो येन ह्रासवृद्धिभ्याम् अनुगम्यते तच् चान्द्रायणम् । तत्सहचरितो ऽपि मासः चान्द्रायण इत्य् उच्यते ॥ २७.१६ ॥
एतम् आप्त्वा विपापो विपाप्मा सर्वम् एनो हन्ति ॥ २७.१७ ॥
एतम् एवंविधं चान्द्रायणम् आप्त्वा विपापः विहिताकरणनिमित्तस्यैनसः क्षयेण । विपाप्मा प्रतिषिद्धाचरणनिमित्तकिल्बिषविनाशात् । अन्यद् अपि देहान्तरगतम् अपि सर्वप्रकारम् एनो हन्ति । एवं च विहिताकरणे च कुष्ठाद्युपघाते सति चान्द्रायनं कर्तव्यम् इति सूचितं भवति
॥ २७.१७ ॥
द्वितीयम् आप्त्वा दश पूर्वान् दशापरान् आत्मानं चैकविंशं पङ्क्तिं च पुनाति ॥ २७.१८ ॥
निगदव्याख्यानं सूत्रम् ॥ २७.१८ ॥
संवत्सरं त्व् आप्त्वा चन्द्रमसः सलोकताम् आप्नोत्य् आप्नोति ॥ २७.१९ ॥
तुशब्दो ऽव्यवहितार्थः । सलोकतां सालोक्यं गच्छति ॥ २७.१९ ॥
इति मस्करीये गौतमभाष्ये सप्तविंशो ऽध्यायः
अष्टाविंशो ऽध्यायः
इदानीं “स्वामी रिक्थक्रय-” [ग्ध् १०.३८] इति, “रिक्थभाज ऋणम्” [ग्ध् १२.३७] इति च सूचितं दायविभागम् आह ।
ऊर्ध्वं पितुः पुत्रा रिक्थं भजेरन् ॥ २८.१ ॥
ननु कस्माद् इतरवत् प्रायश्चित्तात् प्राग् अनभिधानम् ।
तत्रैक आहुः – यदि पुत्रा पितरं बलाद् विभागाय प्रवर्तयन्ति, पिता वा पुत्राणां कर्माधिकारे सति यथाप्राप्तं विभागं न करोति, ततो ऽनयोः प्रायश्चित्तं नास्तीत्य् एवमर्थम् इति ।
न पुनर् एतद् विचारणीयं येन न क्वचिद् अपि व्यतिक्रमे प्रायश्चित्ताभाव इष्यते । अतः प्रायश्चित्तगौरवार्थम् एवम् अभिधानम् ।
सूत्रम् इदानीं विव्रियते — ऊर्ध्वं जीवनात् पितुः प्रेते तस्मिन्न् इत्य् अर्थः । एकशेषश् च द्रष्टव्यः, “पिता मात्रा” इति । तथाह मनुः ।
ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः सह ।
भजेरन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ॥ इति । [म्ध् ९.१०४]
पितृशब्दस्य सम्बन्धिशब्दत्वात् पुत्रग्रहणं गम्यमानम् अपि क्रियते । पुरुषाणाम् एव विभाग इत्य् एवमर्थम् । तथा च स्त्रीणां तावत् तैत्तिरीयकश्रुतौ श्रूयते- “तस्मात् स्त्रियो निरिन्द्रिया अदायादीः” [तैत्स् ६.५.८.१०] इति । तथा नपुंसकानां वसिष्ठ आह- “अनंशास् त्व् आश्रमान्तरगताः क्लीबोन्मत्तपतिताश् च” [वध् १७.५२] इति । “जीवति वेच्छति” [ग्ध् २८.२] इति वचनाद् ऊर्ध्वम् इति गम्यमानम् अपि अभिधीयते । एकोद्दिष्टादिसंस्कारकरणाद् ऊर्ध्वम् इति प्रतिपादनार्थम् । रिक्थं पैतृकं द्रव्यं कृष्यादिलब्धं रूढ्या ।
“विभजेरन्” । अत्र विचार्यते – स्वत्वे सति विभागः, उत विभागे सति स्वत्वम्?
अत्र केचिद् आहुः विभागे सतीति ।
तद् अयुक्तम्, सर्वेषां विभागप्राप्तेः । वचनात् पुत्राणाम् एव नियम्य इति चेत्, “अनीशास् ते जीवतोः” [म्ध् ९.१०४] इति लिङ्गात् । कुतः? ऊर्ध्वं पितुश् च मातुश् चेति नियमाद् एव प्रागविभागे सिद्धे – पुनर् ईशत्वमात्रप्रतिषेधात् स्वत्वास्तित्वं ज्ञापयति । इतरथा अनर्थकः प्रतिषेधः प्राप्त्यभावात् । तस्मात् स्वत्वे सत्य् एव विभागः । एवं तर्हि जातपुत्रस्य पुत्रसङ्क्रमितत्वात् परस्वादानं प्राप्नोतीति चेत्, जातिवद् उभयत्र वर्तत इत्य् अदोषः । ईशत्वप्रतिषेधात् तु पुत्राणां दानाभावो ऽर्थसिद्धः ॥ २८.१ ॥
निवृत्ते रजसि मातुर् जीवति वेच्छति ॥ २८.२ ॥
उपरतरजस्कायां वा मातरि जीवत्य् अपि पितरि तदनुज्ञया विभागः, इच्छा च पितुः न पुत्राणाम्, जीवतीति सामानाधिकरण्यात् । सो ऽयं विभागः पुत्राणां कर्माधिकारापेक्षया द्रष्टव्यः
॥ २८.२ ॥
सर्वं वा पूर्वजस्येतरान् बिभृयात् पितृवत् ॥ २८.३ ॥
ज्येष्ठ एव वा सर्वं धनम् आदाय इतरान् यवीयसो भ्रातॄन् बिभृयात् पोषयेत् न विभागं कुर्याद् इत्य् अर्थः । पितृवत् यथा पिता बिभर्ति । अयम् अपि यवीयसां कर्मानुष्ठानसामर्थ्याभावे ज्येष्ठवृत्तित्वे सति द्रष्टव्यः ॥ २८.४ ॥
विभागे तु धर्मवृद्धिः ॥ २८.४ ॥
तुशब्दो हेत्वर्थः । यस्मात् प्रत्येकम् अतिथिदानादिकर्मानुष्ठानेन धर्मवृद्धिस् तस्माद् विभाग एव युक्ततर इति । अर्भकावस्थायाम् अपि भिन्नबुद्धित्वे सति विभागः कर्तव्य इत्य् एवमर्थ उपदेशः । वृद्धिवचनाच् चांशप्रदातुर् अपि धर्मो ऽस्त्य् एवेति ज्ञापयति ॥ २८.४ ॥
अधुना कथं पुनः संविभाज्य इत्य् आह ।
विंशतिभागो ज्येष्ठस्य मिथुनम् उभयतोदद्युक्तो रथो गोवृशः ॥ २८.५ ॥
सर्वस्मात् पितृधनाद् विंशतितमो भागो ज्येष्ठस्य । मिथुनं गोमिथुनं प्रसिद्धम् । उभयतोदतः अश्वाश्वतरगर्दभाः, तेषां यथासम्भवम् अन्यतमाभ्यां युक्तो रथः । गोवृषः प्रसिद्धः । अयम् उद्धारः सति सम्भवे ज्येष्ठस्य ॥ २८.५ ॥
काणखोरकूटवण्टा मध्यमस्यानेकाश् चेत् ॥ २८.६ ॥
काणः प्रसिद्धः । खोरो वृद्धः । खोट इति पाठे तु पादविकलः । कूटः शृङ्गविकलः । वण्टो विलोपितवालधिः । अविशेषितत्वात् गवाश्वादीनाम् अपि सर्वेषां यथासम्भवो द्रष्टव्यः । मध्यमस्यायम् उद्धारः, ते च यदि बहवो भवन्ति । इतरेषाम् अपि सन्तीत्य् अर्थः ॥ २८.६ ॥
अविर् धान्यायसी गृहम् अनोयुक्तं चतुष्पदां चैकैकं यवीयसः ॥ २८.७ ॥
अविः प्रसिद्धः । एकवचनाद् एकम्, धान्यं व्रीह्यादि । अयो लोहः । आनुरूप्येण धान्यायसोः कल्पनार्थं द्विवचनम् । एवं च न सर्वं गृह्णीयात् । गृहम् एकं शकटयुक्तं चतुष्पदां च गवादीनाम् एकैकं पृथक् पृथग् आनुरूप्येण यवीयसः कनिष्ठा गृह्णीयुः । अयं कनिष्ठोद्धारः ॥ २८.७ ॥
समधेतरत् सर्वम् ॥ २८.८ ॥
एवम् उद्धृतोद्धारशिष्टं समं विभक्तव्यम् ।
ननु च विभागे समधैव सर्वस्मिन् प्राप्ते वचनाद् उद्धार उक्ते शेषं समधैव प्राप्नोतीति नार्थो ऽनेन सूत्रेण ।
नैष दोषः, यदि हि पिता विभागं करोति तदोद्धारप्रतिषेधार्थम् इदम् इति ।
अन्ये तु पितुर् उद्धारप्रतिषेधार्थम् इदम् इति ब्रुवते । अयं च प्रकारो ज्येष्ठे कनिष्ठे च गुणवति द्रष्टव्यः ॥ २८.८ ॥
द्व्यंशी वा पूर्वजस्य ॥ २८.९ ॥
द्वाव् अंशौ द्व्यंशम्, तद् अस्य विद्यत इति द्व्यंशी, भागद्वयं ज्येष्ठस्योद्धार इत्य् अर्थः
॥ २८.९ ॥
एकैकम् इतरेषाम् ॥ २८.१० ॥
अयं विभागो यदि ज्येष्ठ एव गुणवान् अन्ये निर्गुणाः तदा द्रष्टव्यः ॥ २८.१० ॥
एकैकं वा धनरूपं काम्यं पूर्वः पूर्वो लभेत
॥ २८.११ ॥
एकैकं वार्थजातम् अभिप्रेतं ज्येष्ठानुक्रमेण गृह्णीयुः । तत्राभिप्रेतार्थविशेषग्रहणम् एवोद्धारः । अयम् अपि सर्वे गुणवन्तश् चेद् द्रष्टव्यः ॥ २८.११ ॥
किं च ।
दशतं पशूनाम् ॥ २८.१२ ॥
धनरूपम् इत्य् अनेन काम्यस्यैकस्य पशोर् ग्रहणे प्राप्ते सङ्ख्यानियमेन ग्रहणार्थम् इदं पशूनां दश ग्राह्या इति ॥ २८.१२ ॥
तत्रापि ।
नैकशफद्विपदानाम् ॥ २८.१३ ॥
अश्वादीनां स्त्र्यादीनां च न दश दश ग्राह्या इत्य् अर्थः । यदि सर्वे निर्गुणास् तदानीं समम् एव विभागो द्रष्टव्यः । अत्र विशेषानुपादानात्, स्मृत्यन्तरे च द्विरुक्तेः पूर्वस्य तत्प्रयोजनत्वात् । यथाह वसिष्ठः- “अथ भ्रातॄणां दायविभागः” [वध् १७.४०] इति । यदा केचित् गुणवन्तः केचिन् निर्गुणास् तदा ज्येष्ठो दशमम् उद्धारं गृहीत्वा अन्यत् समं विभजेत् । यथाह उशना- “ज्येष्ठस्य दशमोद्धारः कनिष्ठस्याभिप्रेतो भागः” इति । अस्मिन् देशे अयम् एव विभागो द्रष्टव्यः, समाचारात् ॥ २८.१३ ॥
समानजातीयानाम् एकमातृकाणां विभाग उक्तः । अधुना समानजातीयत्वे ऽप्य् अनेकमातृकाणां वक्तुम् आह ।
ऋषभो ऽधिको ज्येष्ठस्य ॥ २८.१४ ॥
कनीयस्याः पुत्रस्य ज्येष्ठस्य ऋषभ उद्धारः । समम् अन्यत् ॥ २८.१४ ॥
ऋषभषोडशा ज्यैष्ठिनेयस्य ॥ २८.१५ ॥
ज्येष्ठायां जातो ज्यैष्ठिनेयः । तस्य पञ्चदश गावः, वृषभश् चैक उद्धारः । समम् इतरत्
॥ २८.१५ ॥
समधा वाज्यैष्ठिनेयेन यवीयसः ॥ २८.१६ ॥
सम एवायं विभागो भवति । अज्यैष्ठिनेयेन कनिष्ठायां जातेन ज्येष्ठेन सह यवीयसः ज्येष्ठायाः पुत्रस्य कनीयसः । एकस्य मातृतो ज्यैष्ठ्यम् अन्यस्य जन्मतः । अयम्75 अपि गुणवद्विषयो द्रष्टव्यः ॥ २८.१६ ॥
प्रतिमातृ वा स्ववर्गे भागविशेषः ॥ २८.१७ ॥
यदा तु बह्व्यः समानजातीया असमानापत्याश् च जाया भवति, तदा पुत्राश्रयस्य विभागस्य दुष्करत्वान् मातृत एव विभज्यते । स्वे स्वे वर्गे भागविशेषो ऽपि द्रष्टव्यः । स उक्तो “विंशतिभागो ज्येष्ठस्य” [ग्ध् २४.५] इत्यादिना ॥ २८.१७ ॥
पुत्रवतस् तावद् एव, अपुत्रवतस् तु ।
पितोत्सृजेत् पुत्रिकाम् अनपत्यो ऽग्निं प्रजापतिं चेष्ट्वास्मदर्थम् अपत्यम् इति संवाद्य ॥ २८.१८ ॥
पिता न तु मातापि । उत्सृजेत् अर्पयेत् न तु दद्यात् शास्त्रेण पुत्रत्वात्,
पाणिग्राहणिका मन्त्रा कन्यास्व् एव प्रतिष्ठिताः । [म्ध् ८.२२६]
इति चोक्तत्वात् । पुत्रिकां दुहितरम् । अनपत्यः अविद्यमानपुत्रः । आग्नेयीं प्राजापत्यां चेष्टिं कृत्वा अनाहिताग्निश् चेत् स्थालीपाकविधानेन आहुतिद्वयं हुत्वेति द्रष्टव्यम् । ततो दानकाले ऽस्मदर्थम् अपत्यं यद् अस्यां भविष्यतीत्य् एवं वरेण सह संवादं कृत्वा । तत एव प्रतिपादितायां यः पुत्रः स मातामहस्य पुत्रो भवति, नोत्पादयितुर् इत्य् अभिप्रायः ॥ २८.१८ ॥
अभिसन्धिमात्रात् पुत्रिकेत्य् एकेषाम् ॥ २८.१९ ॥
यदा तु पूर्वस्य विधेः करणासम्भवः दानात् पूर्वं वरणादिना सङ्कल्पम् एव करोति – यद् अस्याम् अपत्यं भविष्यति तन् ममेति । अनेनैव पुत्रत्वं भवतीत्य् एके मन्यन्ते । सम्भवापेक्षो विकल्पो द्रष्टव्यः ॥ २८.१९ ॥
तत्संशयान् नोपयच्छेद् अभ्रातृकाम् ॥ २८.२० ॥
तदाशङ्कया न गृह्णीयात् कस्यचिद् अप्य् अनपत्यस्य सर्वा दुहितरः । कुतः? ताम् इति वक्तव्ये अभ्रातृकाम् इत्य् आरम्भात् ॥ २९.२० ॥
यस्य तु पुत्रिकापि न सम्भवति तस्य –
पिण्डगोत्रर्षिसम्बन्धा रिक्थं भजेरन् ॥ २८.२१ ॥
पिण्डसम्बन्धाः सपिण्डाः, तदभावे गोत्रसम्बन्धाः सगोत्राः, तदभावे ऋषिसम्बन्धाः समानार्षेयाः । एवम् आसन्नस्याभावे विप्रकृष्टस् तद्द्रव्यभाग् इति ॥ २८.२१ ॥
स्त्री चानपत्यस्य ॥ २८.२२ ॥
पुत्रिकापुत्रस्याप्य् अभाव एतत् । कुतः? “पुत्रिकाम् अनपत्यः” [ग्ध् २८.१८] इत्य् अनपत्याधिकारे पुनर् अनपत्यग्रहणात् । ते यदैव पिण्डादिसम्बन्धा रिकतं भजेरन् तदा स्त्र्य् अपि भागं लभेत । चशब्दाद् आचार्यः शिष्यश् च, सामर्थ्यात् सर्वाभावे । तद् आह वसिष्ठः- “तदभावे ऋत्विगाचार्यौ” इति ॥ २८.२२ ॥
बीजं वा लिप्सेत ॥ २८.२३ ॥
यद् वा – सपिण्डादिभ्यो बीजम् इच्छेद् अपत्यम् उत्पादयेद् इत्य् अर्थः । इच्छातो विकल्पः नियोगतो वा ॥ २८.२३ ॥
देवरवत्याम् अन्यजातम् अभागम् ॥ २८.२४ ॥
विद्यमानदेवरायाम् अन्येनोत्पादितम् अपत्यम् अभागार्हम्, कामजत्वात् । क्षेत्रजापवादो ऽयम्
॥ २८.२४ ॥
**स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च **
॥ २८.२५ ॥
स्त्रीधनं षट्प्रकारम् । यथाह मनुः ।
अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि ।
मातृभ्रातृपितृप्रापं षड्विधं स्त्रीधनं स्मृतम् ॥ इति । [म्ध् ९.१९४]
यच् चान्यत् तया कर्मणोपात्तं तत् तस्यां मृतायां तस्या एव दुहितॄणाम् अदत्तानाम् अनपत्यानां च भवति ।
अन्य आहुः – अप्रतिष्ठितानां पुत्राणाम् अकृतविवाहानाम् इति ।
अपरे निःस्वानाम् इति ।
चशब्दात् भर्तुश् च । अत्र अदत्तानां दुहितॄणाम् अभावे पुत्रा निःस्वा गृह्णीयुः, तदभावे अकृतविवाहाः, तदभावे अनपत्याः स्त्रियः, सर्वेषाम् अभावे भर्तेति क्रमो द्रष्टव्यः ॥ २८.२५ ॥
भगिनीशुल्कं सोदर्याणाम् ऊर्ध्वं मातुः ॥ २८.२६ ॥
भगिनीप्रदाननिमित्तं यद् द्रव्यं लब्धम् आर्षासुरविवाहयोः तत् सोदर्याणाम् ऊर्ध्वं मातुः, तस्यां मृतायाम् इत्य् अर्थः । एवं च पितुर् अभावे मातैव तस्येष्ट इत्य् उक्तं भवति
॥ २८.२ ॥
पूर्वं चैके ॥ २८.२७ ॥
प्राग् अपि मातृमरणात् भगिनीशुल्कं सोदर्याणां भवतीत्य् एके मन्यन्ते । तस्या वृत्तापेक्षया विकल्पो द्रष्टव्यः । अथ वा पूर्वम् एव यद् उक्तम् “स्त्रीधनं दुहितॄणाम्” [ग्ध् २८.२५] इति, तच् चोर्ध्वम् एव मातुर् न जीवन्त्याम् इत्य् एके मन्यन्ते । उक्तो विषयः ॥ २८.२७ ॥
असंसृष्टिविभागः प्रेतानां ज्येष्ठस्य ॥ २८.२८ ॥
असंसृष्टिनो विभक्ताः सन्तः पृथक् पृथक् यदा भ्रातरो व्यवहरन्ति तेषां यः प्रैति तस्य अनपत्यस्य । कुतः? अनपत्याधिकारात् । यो भागः सः स्वस्वज्येष्ठस्यैव भवति न सर्वेषां, स पितृसम इति । द्वैमातृकाणां समानजातीयानाम् असमानजातीयानाम् अभिन्नमातृकाणां च यो भागः सः स्वस्ववर्गज्येष्ठस्यैव भवति ॥ २८.२८ ॥
संसृष्टिनि प्रेते संसृष्टी रिक्थभाक् ॥ २८.२९ ॥
यस् तु विभक्तो ऽपि पुनः कार्यवशात् संसृज्यते स एव तद्भागभाग् भवति । पुनः प्रेतग्रहणं सोदर्यार्थम् अन्येषां यथाप्राप्तम् एवेति ॥ २८.२९ ॥
विभक्तजः पित्र्यम् एव ॥ २८.३० ॥
“निवृत्ते रजसि मातुः” [ग्ध् २८.२] इत्य् अनेन पुत्राणां विभज्य पुनः दारक्रियया यदि पश्चात् पुत्रो जायते स पित्र्यम् एव लभेत । एवं जीवद्विभागपक्षे पितुर् अप्य् अंशभाक्त्वम् अर्थसिद्धम् । तदापि “द्वौ भागौ पितुः” इति स्मृत्यन्तराद् द्वौ भागौ पितुर् द्रष्टव्यौ ॥ २८.३० ॥
स्वयम् आर्जितम् अवैद्येभ्यो वैद्यः कामं न दद्यात्
॥ २८.३१ ॥
यत् तु पितुर् द्रव्यम् अनुपघ्नता स्वयम् उपात्तं भवति, वैद्यग्रहणाद् वा प्रतिग्रहादिना, तद् इतरेभ्यः कामम् इच्छातो न दद्यात् । यथाह मनुः ।
अनुपघ्नन् पितुर् द्रव्यं श्रमेण यद् उपार्जयेत् ।
स्वयम् ईहितलब्दं तन् नाकामो दतुम् अर्हति ॥
विद्याधनं तु यद् यस्य तत् तस्यैव धनं भवेत् ॥ [म्ध् ९.२०६, २०८]
इत्यादि ॥ २८.३१ ॥
अवैद्याः समं विभजेरन् ॥ २८.३२ ॥
यत् तु मूर्खाः कृष्यादिनोपार्जयेयुः तत् समम् एव विभजेयुः । तथा चाह ।
अवैद्यानां तु सर्वेषाम् ईहातश् चेद् धनं भवेत् ।
समस् तत्र विभागः स्याद् अपित्र्य इति धारणा ॥ इति । [म्ध् ९.२०५]
अर्थसिद्धम् अपि चैतद् उच्यते नियमार्थम् । ततश् च वैद्य असमम् अपि न ददाति अवैद्योपात्तं चेत् वैद्यो ऽपि समम् एवेति ॥ २८.३२ ॥
“पुत्रा रिक्थं भजेरन्” [ग्ध् २८.१] इत्य् अभिधानाद् औरसेष्व् एव सम्प्रदायो मा भूद् इत्य् अत आह ।
पुत्रा औरसक्षेत्रजदत्तकृत्त्रिमगूढोत्पन्नापविद्धा रिक्थभाजः ॥ २८.३३ ॥
औरसः स्वस्य भार्यायां स्वयम् उत्पाद्यते । तथाह मनुः76 ।
स्वक्षेत्रे संस्कृतायां तु स्वयम् उत्पादयेत् तु यम् ।
तम् औरसं विजानीयात् पुत्रं प्रथमकल्पितम् ॥ इति । [म्ध् ९.१६६]
क्षेत्रजो यो नियोगद्वारेणोत्पाद्यते । यथाह मनुः ।
यस् तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा ।
स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥ इति । [म्ध् ९.१६७]
दत्तो यः प्रतिग्रहेनान्यतो लब्धः । यथाह मनुः-
माता पिता वा दद्यातां यम् अद्भिः पुत्रम् आपदि ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥ इति । [म्ध् ९.१६८]
कृत्रिमो यः क्रियते त्वं मम पुत्र इति । यथाह मनुः ।
सदृशं तु प्रकुयाद् यं गुणदोषविवर्जितम् ।
पुत्रं पुत्रगुणैर् युक्तं स विज्ञेयस् तु कृत्रिमः ॥ इति । [म्ध् ९.१६९]
गूढोत्पन्नो निगूढम् उत्पादितः । यत्र बीजी न ज्ञायते सो ऽयं बीजिन अविज्ञानान् मातृजातीयः । एवं सहोढकानीनाव् अपि ।
उत्पद्यते गृहे यस्य न विज्ञायेत कस्य सः ।
स गृहे गूढ उत्पन्नः तस्य स्याद् यस्य तल्पजः ॥ इति । [म्ध् ९.१७०]
अपविद्धो यः परित्यक्तो ऽन्येन गृह्यते विज्ञानेन । यथाह ।
मातापितृभ्याम् उत्सृष्टं तयोर् अन्यतरेण वा ।
यं पुत्रं प्रतिगृह्णीयाद् अपविद्धः स उच्यते ॥ इति । [म्ध् ९.१७१]
एते रिक्थभाजः ॥ २८.३३ ॥
कानीनसहोढपौनर्भवपुत्रिकापुत्रस्वयन्दत्त-क्रीताः गोत्रभाजः ॥ २८.३४ ॥
कानीनः कन्यायाम् उत्पन्नः, यश् च ताम् उद्वहते तस्यासौ भवति । तथाह ।
पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः ।
कानीनं तं वदेन् नाम्ना वोढुः कन्यासमुद्भवम् ॥ इति । [म्ध् ९। १७२]
सहोढः सगर्भायाम् ऊढायाम् उत्पद्यते । यथाह मनुः ।
या गर्भिणी संस्क्रियते जाताज्ञातापि वा सती ।
वोढुः स गर्भो भवति स सहोढ इहोच्यते ॥ इति । [म्ध् ९.१७३]
पौनर्भवो व्यभिचारिणीपुत्रः । यस् तां पुनः संस्कृत्य तस्यां पुत्रम् उत्पादयति, तस्यासौ भवति । यथाह मनुः ।
या पत्या सम्परित्यक्ता विधवा स्वेच्छयापि वा ।
उत्पादयेत् पुनर् भूत्वा स पौनर्भव उच्यते ॥
सा चेद् अक्षतयोनिः स्यात् गतप्रत्यागतापि वा ।
पौनर्भवेन भर्त्रा सा पुनः संस्कारम् अर्हति ॥ इति । [म्ध् ९.१७५–७६]
पुत्रिकापुत्रः पूर्वोक्तः । स्वयन्दत्तो यः स्वयम् एवात्मानं प्रतिपादयति । तथाह ।
मातापितृविहीनो यः त्यक्तो वा स्याद् अकारणात् ।
आत्मानं स्पर्शयेद् यस्मै स्वयन्दत्तस् तु स स्मृतः ॥ इति । [म्ध् ९.१७७]
क्रीतः धनेन स्वीकृतः । यथाह मनुः ।
क्रीणीयाद् यस् त्व् अपत्यार्थं मातापित्रोर् यम् अन्तिकात् ।
स क्रीतकः सुतस् तस्य सदृशो ऽसदृशो ऽपि वा ॥ इति । [म्ध् ९.१७४]
एते गोत्रभाजः उदकदानादिना पुत्रार्थं कुर्वन्तीत्य् अर्थः । एवं चैते न रिक्थभाजः, पूर्वे तु रिक्थभाजो गोत्रभाजश् च । कुत एतत्? औरसेन सहाभिधानात् स्मृत्यन्तराच् च ।
औरसः क्षेत्रजश् चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नो ऽपविद्धश् च दायादा बान्धवाश् च षट् ॥ इति । [म्ध् ९.१५९]
बान्धवा गोत्रभाज इत्य् अर्थः । पुत्रत्वाद् एव गोत्रभाक्त्वे प्राप्ते तद्वचनम् इह रिक्थभाक्त्वप्रतिषेधार्थम् । औरसादिसद्भावे च तेषां रिक्थभाक्त्वप्रतिषेधाद् औरसादिसद्भावे चैते ग्रासाच्छादनमात्रम् अर्हन्ति पुत्रत्वाद् इतरेषाम् । यथाह ।
सर्वेषाम् अपि तु न्याय्यं दातुं शक्त्या मनीषिणा ।
ग्रासाच्छादनम् अत्यन्तं पतितो ह्य् अददद् भवेत् ॥ इति । [म्ध् ९.२०२]
तदभावे तु भवत्य् एव रिक्थभाक्त्वम्, पुत्रप्रतिनिधित्वात् । यथाह ।
क्षेत्रजादीन् सुतान् एतान् एकादश यथोदितान् ।
पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः ॥ इति । [म्ध् ९.१८०]
प्रतिनिधिश् च मुख्यद्रव्याभावे समग्रफल एव भवति, सोमाभावे पूतीकवत् । पुत्रिकापुत्रस्येहाभिधानं गोत्रभाक्त्वप्रापणार्थम् । रिक्थभाक्त्वं त्व् औरससद्भावे ऽपि भवत्य् एव । यथाह मनुः ।
पुत्रिकायां कृतायां तु यदि पुत्रो ऽनुजायते ।
समस् तत्र विभागः स्यात् ज्येष्ठता नास्ति हि स्त्रियाः ॥ इति । [म्ध् ९.१३४]
शूद्रापुत्रस्येहानभिधानम् अनौरसत्वाद् अरिक्थभाक्त्वाद् वा । तथाह ।
ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् ।
यद् एवास्य पिता दिद्यात् तद् एवास्य धनं भवेत् ॥ [म्ध् ९.१५५] ॥ २८.३४ ॥
चतुर्थांशिनो वौरसाद्यभावे ॥ २८.३५ ॥
षण्णाम् औरसाद्यानाम् अभावे कानीनादयश् चतुर्थांशभाजः, समस्तभाजो व, वाशब्दात् । तथाह शङ्खः- “उपार्जितं ज्येष्ठाय तदभावे क्षेत्रजपुत्रिकापुत्रयोस् तयोर् अप्य् अभावे त्रयाणाम् इतरेषां तेषाम् अप्य् अभावे षड्भ्यः” इति ।
अन्ये तु “औरसाद्यभावे” इत्य् एतद् उत्तरसूत्रार्थम् आहुः । ततश् च कानीनादयश् चतुर्भागार्हा जीवनमात्रसम्बन्धिनो वेति ॥ २८.३५ ॥
सवर्णापुत्राणां विभाग उक्तः । असवर्णासुतानां तु विशेषम् आह ।
ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसम्पन्नस् तुल्यभाक् ॥ २८.३६ ॥
ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसम्पन्नश् च यः स ब्राह्मणीपुत्रेण यवीयसा तुल्यभाक् ॥ २८.३६ ॥
ज्येष्ठांशहीनम् अन्यत् ॥ २८.३७ ॥
ज्येष्ठांशो य उद्धारः पूर्वोक्तो “विंशतिभागो ज्येष्ठस्य” [ग्ध् २८.५]इत्यादिना तद्विरहितम् अन्यद् द्रव्यं समं लभेत, उद्धारो न भवतीत्य् अर्थः । यद्य् अपि द्रव्यपरो निर्देशः, तथापि ज्येष्ठांशप्रतिषेधमात्रम् एवात्र विवक्षितम्, आरम्भसामर्थ्यात् । अन्यथा हि “गुणसम्पन्नो ज्येष्ठभाक्” इत्य् एवं वक्तव्यम् आसीद् इति गुणहीनः नासौ तुल्यभाक् । तत्र मनूक्तं द्रष्टव्यम् ।
चतुरो ऽंशान् हरेद् विप्रस् त्रीन् अंशान् क्षत्रियासुतः ।
वैश्यापुत्रो हरेद् द्व्यंशम् अंशं शूद्रासुतो हरेत् ॥ इति । [म्ध् ९.१५३]
शूद्रापुत्रस्य प्रतिषेध उक्त इति चेत्, उच्यते – क्षतयोन्याम् उत्पन्नस्य प्रतिषेधः । अक्षतयोन्याम् उत्पन्नस्य अंशभाक्त्वम् इति । पौनर्भवादिद्वारेण क्षतयोन्याम् अपि सम्भवत्य् एवेति । येषाम् औरसाद्यभाव इति शेषः । ते औरसाद्यभावे तुल्यभाक्त्वम् अस्य व्याचक्षते । तेषु सत्सु स्मृत्यन्तरोक्तं द्रष्टव्यम् । तथाह वसिष्ठः- “त्र्यंशं ब्राह्मण्याः पुत्रो हरेत् द्व्यंशं राजन्यायाः पुत्रः समम् इतरे भजेरन्” [वध् १७.४८–५०] इति । वृत्तापेक्षया विषयविकल्पो द्रष्टव्यः ॥ २८.३७ ॥
**राजन्यावैश्यापुत्रसमवाये यथा स ब्राह्मणीपुत्रेण **
॥ २८.३८ ॥
यदा वैश्यापुत्रो गुणसम्पन्नो ज्येष्ठः, क्षत्रियासुतो यवीयान्, ब्राह्मणीसुतस् तु नस्त्य् एव, तदा यथा स ब्राह्मणीपुत्रेण क्षत्रियापुत्रस् तुल्यभाक् एवं क्षत्रियापुत्रेण वैश्यापुत्रस् तुल्यभाक् ज्येष्ठाꣳशहीनः । एवं च क्षत्रियापुत्रस्य ज्येष्ठस्य अस्मिन् विषये ज्येष्ठांशो ऽस्तीति ज्ञापितं भवति ॥ २८.३८ ॥
क्षत्रियाच् चेत् ॥ २८.३९ ॥
वैश्यापुत्रो ज्येष्ठो गुणसम्पन्नस् तुल्यभाग् इति वर्तते । क्षत्रियाद् अपि वैश्यापुत्रो ज्येष्ठश् चेत् क्षत्रियापुत्रेण यवीयसा तुल्यभाग् भवतीत्य् अर्थः । एवं वैश्याच् छूद्रापुत्रस्य द्रष्टव्यम् इत्य् एके । तद् अयुक्तं मनुनोक्तत्वात् ॥ २८.३९ ॥
शूद्रापुत्रो ऽप्य् अनपत्यस्य शुश्रूषुश् चेल् लभेत वृत्तिमूलम् अन्तेवासिविधिना ॥ २८.४० ॥
अविद्यमानद्विजातिपुत्रस्य ब्राह्मणस्यापि शूद्रयोन्याम् उत्पन्नः यावता कृष्यादिकर्मानुष्ठानसमर्थो भवति तावन्मात्रं लभेत स यदि शिष्यवच् छुश्रूषापरो भवति । भ्रातरं तद्भार्यां च गुरुम् इवानुवर्तेतेत्य् अर्थः, अन्तेवादिविधेः शुश्रूषाविशेषणत्वात् । चतुर्थभागे तदपत्ये वृत्तीत्यादि, कुतः? क्षतयोन्या ग्रहणाद् इति चेत्, गर्हार्थापिशब्दहेतोर् अस्यांशभाक्त्वं च ॥ २८.४० ॥
**सर्वर्णापुत्रो ऽप्य् अन्यायवृत्तो न लभेतैकेषाम् **
॥ २८.४१ ॥
समानवर्णापुतो ऽपि, अपिशब्दाज् ज्येष्ठो ऽपि दुर्वृत्तः पतत इति यावत् । न लभेत इत्य् एके मन्यन्ते । तथाह वसिष्ठः- “अनंशास् त्व् आश्रमान्तरगताः क्लीबोन्मत्तपतिताश् च” [वध् १७.५२–५३] इति । लभेतेत्य् आचार्यः । शक्यविनेयत्वापेक्षया विकल्पः ॥ २८.४१ ॥
श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन्
॥ २८.४२ ॥
श्रोत्रियाः त्रैविद्यवृद्धाः, न तु छन्दोगमात्राध्यायिनः । तथाह मनुः- “त्रैविद्याः शुचयो दान्ताः” [म्ध् ९.१८८] इत्यादि । अनपत्यस्य अविद्यमानपुत्रस्य धनभाज इत्य् अर्थः । राज्ञानुज्ञाता रिक्थं भजेरन्, उत्तरत्र राजग्रहणात् ॥ २८.४२ ॥
राजेतरेषाम् ॥ २८.४३ ॥
क्षत्रियादीनां राजैव हरेत् सर्वाभावे ॥ २८.४३ ॥
जडक्लीबौ भर्तव्यौ ॥ २८.४४ ॥
जडः उपहतमनाः । क्लीबः तृतीयाप्रकृतिः । एताव् अशनाच्छादनेन भर्तव्यौ । मूकादीनाम् अप्य् उपलक्षणम् इदम् । तथाह मनुः ।
अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥ [म्ध् ९.२०१] इति ॥ २८.४४ ॥
अपत्यं जडस्य भागार्हम् ॥ २८.४५ ॥
जडस्य य अपत्यं तद् भागयोग्यं भवति । अर्हग्रहणाद् यदि योग्यं भवति, न तु जडापत्यतयैव । जडापत्यम् इति वक्तव्ये विसमासः क्लीबादीनां क्षेत्रजापत्यप्रापणर्थः । तथाह मनुः ।
यद्य् अर्थिता तु दारैः स्यात् क्लीबादीनां कथञ्चन ।
तेषाम् उत्पन्नतन्तूनाम् अपत्यं भागम् अर्हति ॥ इति । [म्ध् ९.२०३]
अस्माद् एव लिङ्गात् तेषां यथासम्भवं संस्कारानुमानम् । अन्यथा सावित्रीपतितत्वे सति तदपत्यस्यात्ययोग्यत्वम् एवेति । कृतप्रायश्चित्तस्य वा द्रष्टव्यम् । एवं च यत् पूर्वम् अपि पतितस्याप्य् अनुज्ञातं तद् अपि कृतप्रायश्चित्तस्य द्रष्टव्यम् । एवं ब्रुवन्न् एतत् ज्ञापयति – विभागोत्तरकालम् अपि तद् अपत्यस्य भागो दातव्य इति ॥ २८.४५ ॥
शूद्रापुत्रवत् प्रतिलोमासु ॥ २८.४६ ॥
प्रतिलोमासु स्त्रीषु जातानाम् अपि शुश्रूषूणां शूद्रापुत्रवत् वृत्तिमूलं दातव्यम् इत्य् अर्थः । तत्र चण्डालादीनां शुश्रूषासम्भवात् हीनतरं देयम् इति द्रष्टव्यम् । एवं प्रतिलोमानाम् अप्य् अयम् एव धर्म इति द्रष्टव्यम् ॥ २८.४६ ॥
उदकयोगक्षेमकृतान्न्नेष्व् अविभागः ॥ २८.४७ ॥
उदकं कूपादिकम् । योगः इष्टम्, क्षेमः पूर्तम् । तथाह लोकाक्षिः ।
क्षेमं पूर्तं योगम् इष्टम् इत्य् आहुस् तत्त्वदर्शिनः ।
अविभाज्ये तु ते प्रोक्ते शयनं त्व् अन्नम् एव च ॥ इति ।
कृतान्ने उत्सवार्थम् उपकल्पिते । कृतग्रहणात् तण्डुलादौ न दोषः । एतेषु विभागो नास्ति । तत्र शयनवत् तण्डुलादीन्य् एकस्यैव दातव्यानीति केचित् । ज्येष्ठस्य कनिष्ठस्य वेच्छन्ति । अन्यानि समुदाय एव स्थाप्यानीति द्रष्टव्यम् ॥ २८.४७ ॥
स्त्रीषु च संयुक्तासु ॥ २८.४८ ॥
याश् च स्त्रियो मैथुनोपभोगार्थेन परिगृहीताः परलोकवीतभयैः पितृभिः । ननु च दोषाभावः कस्मान् न गृह्यत इति चेत्, “प्रतिलोमे वधः पुंसाम्” [ग्ध् २८.४६] इत्य् अनेन प्रायश्चित्तश्रवणात् । तासु च पुत्रैर् न विभागः । तासां वृद्धानाम् अशनाच्छादनं दातव्यम्, अन्याभिर् गन्तव्यम् इत्य् अभिप्रायः । चकाराद् अन्यद् अप्य् एकत्वाद् अशक्यम् । यथाह मनुः ।
वस्त्रं पत्रम् अलङ्कारं कृतान्नम् उदकं स्त्रियः ।
योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ [म्ध् ९.२१९]
इति ॥ २८.४८ ॥
अनाज्ञाते दशावरैः शिष्टैर् ऊहवद्भिर् अलुब्दैः प्रशस्तं कार्यम् ॥ २८.४९ ॥
आज्ञातं ज्ञातं तद्विपरीतम् अनाज्ञातम्, तस्मिन् यथावद् अनवगते वा सन्दिग्धे वा दशावरैः सर्वाल्पैर् इत्य् अर्थः । शिष्टैर् अवगतवेदार्थैः । तथाह मनुः ।
धर्मेणाधिगतो यैस् तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ इति । [म्ध् १२.१०९]
ऊहवद्भिर् ऊहापोहसमर्थैः मीमांसादिशास्त्रकृतबुद्धिभिर् इत्य् अर्थः । अलुब्धैः वीततृष्णैः प्रशस्तं स्तुतम्, इदम् अत्र युक्तम् इति । तत् कार्यम् अनुष्ठेयम् । तत्सन्निधाने कर्तव्यम् इत्य् अभिप्रायः ॥ २८.४९ ॥
चत्वारश् चतुर्णां पारगा वेदानां प्रागुत्तमाः त्रय आश्रमिणः पृथग् धर्मविदस् त्रय एतान् दशावरान् परिषद् इत्य् आचक्षते ॥ २८.५० ॥
ब्राह्मणा एव, धर्मप्रवचने तेषाम् एवाधिकारात् । तथाह वसिष्ठः- “ब्राह्मणो धर्मान् प्रब्रूयात्” [वध् १.४०] इति । चत्वारः, नैकश् चतुर्वेदो ऽपि । चतुर्णां वेदानां पारगाः सरहस्यम् अध्येतारः वेदानां साङ्गानाम् । उत्तमाः प्राक् त्रय आश्रमिणः तृतीयाध्याय उक्ताः । ब्राह्मणग्रहणं मा भूद् इत्य् आश्रमग्रहणम् । एते ऽपि वेदार्थज्ञा एव परिगृह्यन्ते, अज्ञानाम् अनधिकारात् । स्वधर्मानुष्ठानापेक्षया त्व् एवम् उक्तम् । पृथग्धर्मशास्त्रज्ञाः त्रयः, नैकः सर्वधर्मज्ञो ऽपि । ते च वेदवित्त्वे सत्य् आश्रमित्वे च तात्पर्यम् अङ्गीकृत्य पृथग् उच्यन्ते । एतान् दशावरान् परिषद् इति शिष्टा आचक्षते । एतद् अपि स्मृत्यन्तरेण सहैकवाक्यत्वार्थम् । तद् अप्य् एषाम् असम्भवे त्र्यवरादीनाम् उपसङ्ग्रहार्थम् । तथा च मनुः ।
दशावरा वा परिषद् यं धर्मं परिकल्पयेत् ।
त्र्यवरा वापि वृत्तस्थाः तं धर्मं न विचालयेत् ॥ इति । [म्ध् १२.११०]
तथा वसिष्ठो ऽप्य् आह ।
चत्वारो वा त्रयो वापि यं ब्रूयुर् वेदपारगाः ।
स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ॥ इति । [वध् ३.७]
तत्र बहुत्वासम्भवे स्वल्पं ग्राह्यम् इति द्रष्टव्यम् ॥ २८.५० ॥
असम्भवे त्व् एतेषां श्रोत्रियो वेदविच् छिष्टो विप्रतिपत्तौ यद् आह ॥ २८.५१ ॥
तत् कार्यम् इति शेषः । तुशब्दो ऽवधारणे । असम्भव एव एतेषाम्, न यथासम्भवं कतिपयानाम् अप्य् असम्भव इति । अश्रोत्रियो वेत्य् अभावविकल्पेन वाशब्देनैव सिद्धौ एवम् उपदेशः पूर्वोक्तानां सर्वेषाम् असम्भवे, न दशावरासम्भवमात्र इति । श्रोत्रियः समस्तवेदपारगः, न स्मृत्यन्तरोक्तमन्त्रब्राह्मणाध्यायी बहुपाठस्याभीष्टत्वात् । परिच्छेदे वेदवित् तदर्थज्ञः । विनापि च ग्रन्थप्रकर्षेण तदर्थज्ञानस्य दर्शनाच् छ्रोत्रियग्रहणम् । शिष्टः स्वधर्मावस्थितः । विप्रतिपत्तौ अभिप्रायभेदे एको ऽपि प्रमाणम्
॥ २८.५१ ॥
अत्र कारणम् आह ।
यतो यमप्रभवौ भूतानाम् ॥ २८.५२ ॥
यस्माद् वेदात्, यमप्रभवौ, यमशब्देन संसारनिवृत्तिर् उच्यते, प्रभवशब्देन तस्यैव प्रवृत्तिः, उभयसाधनस्य च वेदाद् अधिगमः । तेन वेदः77 प्रमाणम् विप्रतिपत्तौ । यथाह मनुः ।
चातुर्वर्ण्यं त्रयो लोकाश् चत्वारश् चाश्रमाः पृथक् ।
भूतं भव्यं भविष्यच् च सर्वं वेदात् प्रसिद्धिम् ऐत् ॥ [म्ध् १२.९७]
आदौ च यमग्रहणं संसारनिवृत्तिः परमपुरुषार्थ इति ज्ञापनार्थम् ॥ २८.५२ ॥
किं च ।
हिंसानुग्रहयोगेषु ॥ २८.५३ ॥
वेद एव प्रमाणम् इति वाक्यशेषः । हिंसासम्बन्धे — एते पश्वादयो यज्ञे हिंस्या इत्य् अत्र, अनुग्रहयोगे — सर्वे ब्राह्मणादयो ऽनुग्राह्या इत्य् अत्रापि वेद एव प्रमाणम् । तद्द्वारेण च वेदविद् इत्य् अभिप्रायः ॥ २८.५४ ॥
साम्प्रथं धर्मविधः फलम् आह ।
धर्मिनां विशेषेण स्वर्गं लोकं धर्मविद् आप्नोति ज्ञानाभिनिवेशाभ्याम् ॥ २८.५४ ॥
धर्मी78 केवलधर्मी । विशेषेण आ प्रलयाद् इत्य् अभ्य्प्रायः । धर्मवित् ज्ञात्वानुष्ठायी । कुतः? ज्ञानग्रहणात् । अभिनिवेशः तदनुष्ठानम् । तथा च वसिष्ठः- “धार्मिकः” [वध्] इत्यादि ॥ २८.५४ ॥
इति धर्मो धर्मः ॥ २८.५५ ॥
“वेदो धर्ममूलम्” (ग्ध् १.१) इत्य् आरभ्य एतत्पर्त्यन्तं धर्मसञ्ज्ञा गौतमस्येति वाक्यशेषः ॥ २८.५५ ॥
इति पुराणमस्करीये गौतमभाष्ये अष्टाविंशो ऽध्यायः
समाप्तं चेदं गौतमीयं निबन्धनं
मस्करीयं भाष्यम्
-
थिस् लिने मिस्सिन्ग् इन् म्य्सोरे। ↩︎
-
वेद मित्र- वाहटस्य ↩︎
-
म्य्सोरे- वाभिसम्बन्धः ↩︎
-
वेद मित्र- पूर्व ↩︎
-
वेद मित्र- धर्मसिद्धिर् इति ↩︎
-
वेद मित्र ओमित्स् “इति” ↩︎
-
वेद मित्र- -वर्णनाच् ↩︎
-
वेद मित्र- उत्तरोत्तरकालम् ↩︎
-
वेद मित्र- अभिधानवत् ↩︎
-
वेद मित्र- इति विसमासः ↩︎
-
वेद मित्र ओमित्स् “इति” ↩︎
-
वेद मित्र- दृष्टार्थे ↩︎
-
म्य्सोरे ओमित्स्- माञ्जिष्ठं ↩︎
-
वेद मित्र- अश्वत्थ- ↩︎
-
म्य्सोरे रेअद्स् थे प्लुरल् अत् अल्ल् थ्रेए प्लचेस्- मूर्धप्रमणा, ललाटप्रमाणाः, नासप्रमाणा ↩︎
-
एदितिओन्स् रेअद्- विनयनावतिष्ठेत ↩︎
-
अत् ६.४ थे रेअदिन्ग् इस् “सन्निधाने”। ↩︎
-
म्य्सोरे रेअद्स्- वाक्यार्थघटनार्थं ↩︎
-
म्य्सोरे ओमित्स्- तत्रापि ↩︎
-
वेद मित्र- त्यागो युक्तः ↩︎
-
वेद मित्र अद्द्स्- उक्तः ↩︎
-
म्य्सोरे ओमित्स्- विहितस्य ↩︎
-
वेद मित्र- ब्रह्मचारी प्रकरणे ↩︎
-
वेद मित्र अद्द्स्- इत्य् अर्थः ↩︎
-
बोथ् एदितिओन्स् रेअद्- आचार्यः, बुत् थे चोम्मेन्तर्य् उसेस् थे प्लुरल्स् ↩︎
-
म्य्सोरे ओमित्स् “इति” ↩︎
-
म्य्सोरे ओमित्स्- एके तु ↩︎
-
वेद मित्र अद्द्स्- अयं नियमः ↩︎
-
वेद मित्र हस् अ क़ुइते दिफ़्फ़ेरेन्त् रेअदिन्ग् ओफ़् थिस् सेन्तेन्चे- ततः श्रेयसोर् आत्मापेक्षया अतुल्यतुल्यानि द्रष्टव्यम् । ↩︎
-
वेद मित्र ओमित्स्- अतिथिलक्षणम् आह ↩︎
-
म्य्सोरे ओमित्स्- स्थाने ↩︎
-
वेद मित्र अद्द्स् ऽइतिऽ। ↩︎
-
ऽतिलानाम्ऽ ओमित्तेद् इन् म्य्सोरे एदितिओन्। ↩︎
-
वेद मित्र रेअद्स्- मनुः च वसिष्ठह् ↩︎
-
म्य्सोरे एद्। ओमित्स् ऽस्यात्ऽ। ↩︎
-
म्य्सोरे- “इमस्योपादानं”; वेद मित्र “एतस्योपादानं” ↩︎
-
वेद मित्र- प्राणवधभयेषु ↩︎
-
वरिअन्त्- अशुचिदर्शनेच्छा । ↩︎
-
म्य्सोरे ओमित्स्- यद् । ↩︎
-
म्य्सोरे ओमित्स्- आलोचितकार्यारम्भको वा । ↩︎
-
म्य्सोरे ओमित्स्- “केचित्” । ↩︎
-
मस्करिन् प्रेसुप्पोसेस् थे रेअदिन्ग्- स्वदारे वृत्तिः । ↩︎
-
वेद मित्र- प्रब्रूयुः ↩︎
-
वेद मित्र- च परितोषे ↩︎
-
म्य्सोरे ओमित्स् “इदं” । ↩︎
-
वेद मित्र ओमित्स् “कर्म” ↩︎
-
वेद मित्र- “शुभ्रैर्” ↩︎
-
म्य्सोरे ओमित्स्- तथा च ॥ । द्विगुणं भवेत् ↩︎
-
म्य्सोरे ओमित्स् “अथ वा” ↩︎
-
वेद मित्र ओमित्स्- इत्यादि ↩︎
-
वेद मित्र- “क्षेत्रशब्दः” ↩︎
-
म्य्सोरे ओमित्स् “अस्य शुल्कम्” ↩︎
-
वेद मित्र ओमित्स्- “वा एवं च” ↩︎
-
वेद मित्र अद्द्स्- “च” ↩︎
-
वेद मित्र अद्द्स्- “भवति” ↩︎
-
वेद मित्र- यस्य ↩︎
-
वेद मित्र- “यदि” ↩︎
-
वेद मित्र- “वादिप्रतिवादिनं” ↩︎
-
म्य्सोरे- “तद्” ↩︎
-
वेद मित्र अद्द्स्- “च” ↩︎
-
वेद मित्र- अत्ययकर्मणा ↩︎
-
म्य्सोरे ओमित्स्- “द्रष्टव्यम्” ↩︎
-
वेद मित्र ओमित्स्- “प्रतिसंवत्सरे … कर्तव्यम्” ↩︎
-
म्य्सोरे ओमित्स्- “मनुः” ↩︎
-
वेद मित्र- “अनिष्टचारी” ↩︎
-
म्य्सोरे ओमित्स् “यथाह मनुः” ↩︎
-
वेद मित्र- एवं यथोक्तं ↩︎
-
वेद मित्र- बुद्धिपूर्वे च हनने ↩︎
-
वेद मित्र- उच्येत ↩︎
-
वेद मित्र- प्रोक्तम् ↩︎
-
वेद मित्र- अन्यं ↩︎
-
म्य्सोरे, वेद मित्र- प्राणेनेन्द्रियं; थे चोम्मेन्तर्य् च्लेअर्ल्य् प्रेसुप्पोसेस् “इन्द्रम्”। ↩︎
-
वेद मित्र ओमित्स् “इदानीम्”। ↩︎
-
म्य्सोरे- अत्राभिन्नार्थत्वात् ↩︎
-
वेद मित्र- “इत्य् अयम्” फ़् ↩︎
-
म्य्सोरे ओमित्स् “मनुः” हेरे अन्द् इन् थे फ़ोल्लोwइन्ग् चिअतिओन्स्। ↩︎
-
वेद मित्र- वेदाः ↩︎
-
वेद मित्र- धर्मी _अद्द्स् _तु ↩︎