ऋक्
ऋग्वेदः ९.१११.१
ऋषिः अनानतः पारुच्छेपिः
देवता पवमानः सोमः
छन्दः अत्यष्टिः
सायणो अत्र, अत्र।
संहिता
अ॒या(=अनया) रु॒चा हरि॑ण्या(=हरिद्वर्णया) पुना॒नो विश्वा॒ द्वेषां॑सि तरति - स्व॒युग्व॑भिः॒(=स्वयं युक्तैः [रश्मिभिः]) सूरो॒(=सूर्यो) न स्व॒युग्व॑भिः(आदरार्थं द्विरुक्तिः) ।
धारा॑ सु॒तस्य॑/ पृष्ठस्य(=धारकस्य) रोचते पुना॒नो अ॑रु॒षो(=आरोचमानो) हरिः॑ ।
विश्वा॒ यद् रू॒पा (नक्षत्राणि) प॑रि॒यात्य् ऋक्व॑भिः(=स्तुतिमद्भिः) स॒प्तास्ये॑भि॒र्(=रसहरणशीलास्यैः) ऋक्व॑भिः(=तेजोभिः) ॥
पदपाठः
अ॒या । रु॒चा । हरि॑ण्या । पु॒ना॒नः । विश्वा॑ । द्वेषां॑सि । त॒र॒ति॒ । स्व॒युग्व॑ऽभिः । सूरः॑ । न । स्व॒युग्व॑ऽभिः ।
धारा॑ । सु॒तस्य॑/ पृष्ठस्य । रो॒च॒ते॒ । पु॒ना॒नः । अ॒रु॒षः । हरिः॑ ।
विश्वा॑ । यत् । रू॒पा । प॒रि॒ऽयाति॑ । ऋक्व॑ऽभिः । स॒प्तऽआ॑स्येभिः । ऋक्व॑ऽभिः ॥
साम
नित्यवत्सम्।
ए([])आ,या।
रू([])चा, हिरण्या, पुनानो,
विश्वा, द्वेषां,सि तरति, स्व(स)यू([])उ,ग्वाभाइः । इ([])डा।
सू([])रो,ओ, न स्व(स)यू,ऊ ऊ, ग्वाभिः।
धा([]),रा। प्र([])ष्ठस्य रो,ऒ,चाताइ। इ([])डा।
धा([]),रा। प्र([])ष्ठस्य रो([]),ऒ,चाताइ।
अ([])धा।धा([]),रा।
प्र([])ष्ठस्य रो([]),ऒ,चाताइ। इ([])डा।
पु([])ना,नो, अर्षो,ओओ, हाअरीः।
वि([])श्वा यद्रूपा, पर्यासिया,अ।क्वा([])भीः।
स([])प्तास्ये,भिरा,आहो।क्वा([])भि,राआउवाअ।
इ([])ट्इडाअअ॥७॥