ऋक्
ऋग्वेदः १०.८७.१९
ऋषिः पायुः
देवता अग्नी रक्षोहा
छन्दः त्रिष्टुप्
स॒नाद् अ॑ग्ने मृणसि यातु॒धाना॒न्
न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः ।
अनु॑ दह स॒हमू॑रान् क्र॒व्यादो॒
मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥
पदपाठः
स॒नात् । अ॒ग्ने॒ । मृ॒ण॒सि॒ । या॒तु॒ऽधाना॑न् । न । त्वा॒ । रक्षां॑सि । पृत॑नासु । जि॒ग्युः॒ ।
अनु॑ । द॒ह॒ । स॒हऽमू॑रान् । क्र॒व्य॒ऽअदः॑ । मा । ते॒ । हे॒त्याः । मु॒क्ष॒त॒ । दैव्या॑याः ॥
साम
(रामानुजार्यः 1974 )
(गोपालार्यः 2015 )
आ([])हा । वो,([])ऒहा ।। द्वि: ।।
सा([])नादग्नाइ । मृ([])णासि । या([])तू, धानाअम् ।
न([])त्वा, रक्षां,,सी([])इ प्रीता । ना([])सू, जग्यू: ।
अनु([])दअहा । सा([])हामू । रान् ,([])कायादाः ।
आ([])हा । वो,([])ऒहा ।। द्वि: ।।
मा([])ताइहॆ, ऎत्या: । मु([])क्षाता ।
दा([])अअइ । वी([])इ, याअ, याङङाह ॥