स्रोतो ऽत्र ।
सामवेदस्य विभूतिमत्त्वम् ।
श्रीमता भगवता वासुदेवेन श्रीमद्भगवद्गीतायां विभूति-वर्णन-प्रसंगे ‘वेदानां सामवेदोऽस्मि ’ ( भ. गीता. १०२२) इत्य् उक्तम् । दर्शितं च तत्र यद् वेदानां मध्ये सामवेदो भगवद्-विभूतिर् इति । महाभारते ऽप्य् अनुशासन-पर्वणि ( १४।३१७) ‘सामवेदश् च वेदानां, यजुषां शतरुद्रियं ’ इति सामवेद-प्रशंसोपलभ्यते । यत् तु भगवद्गीतायां ‘प्रणवः सर्ववेदेषु’ (गीता. ७८) तथानुगीतायां ‘ओंकारः सर्ववेदानां ’ ( म. अश्व. ४४।६) इति ओंकारस्य सर्ववेदश्रेष्ठत्त्वं प्रतिपाद्यते, न तत् पूर्वोक्त-वचन-विरोधि, ओंकारस्योद्गीथ-पर्याय-वाचित्वाद्, उद्गीथस्य च साम-वेद-सार-भूतत्वात् । तथोक्तं छान्दोग्ये- ‘साम्न उद्गीथो रसः’ (छा. १-१..२) इति । को नाम सामवेदे ऽस्मिन् विशेषोऽस्ति, येन तस्य भगवद्-विभूति-रूपत्वम् इतर-वेदाऽसाधारणं सिध्येत् ? उच्यते -
यद् यद् विभूतिमत् सत्त्वं
श्रीमदूर्जितम् एव वा ।
तत् तद् एवावगच्छ त्वं
मम तेजोऽंश-सम्भवम्
( भ.गी. १०४१)
इत्य् उक्तं विभूति-लक्षणम् । तद् यथा, यत्र यत्र विशेषेण भूतिमत्त्वं, श्रीमत्त्वं, समूर्जितत्वं च दृश्येत, तत्र तत्र भगवत्-तेजोऽंश-संभूतिर् अनुमातुं शक्येति । एवम् एवात्र सामवेदे शब्द-ब्रह्मणो विशेषेण भूतिमत्त्वं गान-रूपत्त्वात् सामवेदस्य श्रिया युक्तत्त्वं च तान-संयोगान् मन्त्र-पर्वणां समूर्जितत्त्वं चानुसंधानाद् विकार-विश्लेषण-विकर्षणा-ऽभ्यास-विराम-स्तोभानां सुतरां समनुभूयते । यथा छन्दो वाक्य-प्रयोगेषु, काव्यं छन्दस्सु, गानं काव्येषु, तान-संलापनं च गानेषु विशिष्यते; तथैव वेदाः सर्वेषु वाङ्मयेषु, सामवेदोऽखिलेषु वेदेषु, गानं च सामसु विशिष्यते । उक्तं च यथा ‘वाच ऋग् रसः, ऋचः साम रसः, साम्न उद्गीथो रसः ‘।+++(5)+++ ( छो. उप१।१।२) इति । अत एवैतस्य सामवेदस्य विभूतिमत्त्वं युक्तम् एवोक्तम् । तथैव- ‘सामवेद एव पुष्पम् ।’ (छां. उ. ३।३।१) यथा वृक्षस्य पुष्पम् एव रमणीयं रूपं सौन्दर्यातिशयात् , तथैव सामवेदोऽपि वेद-वृक्षस्य पुष्पम् एव तस्यापूर्व-गानमयत्वात् । एतेनास्य विभूतिमत्त्वम् अपि सिद्ध्यति ।
को नाम सामवेदः ?
अत्र पृच्छ्यते को नाम सामवेद इति । किं नाम मन्त्रात्मक एवं सामवेद, आहोस्विद् गानरूप एवेति । छान्दोग्योपनिषदि ‘या ऋक तत् साम’( छो. उ. १३३४) इत्युक्त्वा प्रदर्शितं यहचामेव संग्रहः सामवेद इति । ऋचि अध्यूढं साम’ ( छां. उ. १-६-१) इति वचनमपि तदेव द्रढयति । अत्र चैवमुच्यते ऋगाश्रितमेव भवति साम, नान्याश्रितमिति । ऋक्सानोर्दम्पतित्वमपि वर्णितमथर्ववेदे बृहदारण्यकोपनिषदि च, यथाअमोऽहमस्मि सा त्वं, सामाहमस्म्यक्त्वं, धौरहं पृथिवी त्वं,। ताविह संभवाव, प्रजामाजनयावहै। (अथर्व० १४।२।७१, ऐतरेय, ब्रा० ८।२७, ७० उ०६।४।२०) १ (सा, भू.)
अहं अमसंज्ञकः पतिरूपोऽस्मि, त्वं च ऋग्-रूपा पत्नीति । साम्नो निर्वचनम् अपि तदेव दर्शयति यथा-‘सा च अमश्चेति तत्साम्नः सामत्वं ।’ (बृ. उ. १-३.२२ ) सा नाम ऋक्, तया सह संबद्धः अमो नाम स्वरः षड्जर्षभादितानरूपो यत्र वर्तते, तत् सामेति । अनेन साम्नो विशेषत्त्वं तस्य गानरूपत्वात् सूच्यते। ऋग्यजुस्थर्ववेदाः केवलं मन्त्रमयाः, न तथा सामवेदः, स तु ऋगाश्रयभूतोऽपि प्राधान्येन गानमय एवेति । तथा चोक्तम् ‘गीतिषु सामाख्या ’ ( जै. सू. २।१।३६) इति सामसंज्ञा मन्त्राणां गीतिष्वेव भवति, न केवलेषु मन्त्रेषु, न वा केवलेषु गानेषु इत्येवमाह जैमिनिः । ’ का साम्नो गतिरिति ? स्वर इति होवाच।’ इति छान्दोग्योपनिषदि (१९८४) शालावत्यदास्भ्यसंवादे गदितम् । ‘तस्य हैतस्य साम्नो यः स्वं वेद, भवति हास्य स्वं, तस्य स्वर एव स्वम् ।’ (बृ. उ. १।३।२५) इति वचनमपि तदेव कथयति, यत् साम्नः स्वर एव स्वं निज रूपमिति । एषां सामस्वराणां मण्डलं नारदो व्याकरोति
सप्तस्वराः त्रयो ग्रामाः
मूर्छनास् त्वेकविंशतिः ।
ताना एकोनपंचाशत्
इत्य् एतत् स्वरमण्डलम् ॥ (नारदीयशिक्षायाम् )
सामस्वराणां निर्णयो नारदीयशिक्षायां सामविधानब्राह्मणे चैवं दृश्यते -
यः सामगानां प्रथमः
स वेणोर् मध्यमः स्वरः ।
यो द्वितीयः स गांधारः,
तृतीयस् त्व् ऋषभः स्मृतः ।
चतुर्थः षड्ज इत्याहुः
पंचमो धैवतो भवेत् ।
षष्टो निषादो निशेयः,
सप्तमः पंचमः स्मृतः ॥
(नारदीयशिक्षायाम् )
अत्र धैवतनिषादयोः स्थानव्युत्क्रमो दृश्यते स नारद-शिक्षायाम् उक्तोऽपि चिन्त्य एव ।+++(5)+++ अस्तु । एते सामस्वराः सामाङ्कानुसारेणैवं भवन्ति -
-
अतिक्रुष्टः पंचमः । प।
-
१ प्रथमः (वेणोः ) । मध्यमः। म।
-
२ द्वितीयः गांधारः। ग।
-
३ तृतीयः ऋषभः। रे।
-
४ चतुर्थः षड्जः । सा।
-
५ पंचमः (मन्द्रः) निषादः । नि।
-
६ षष्ठः (अतिस्वार्यः) धैवतः । ध ।
-
७ सप्तमः पंचमः । प।
-
( क्रुष्टः ) तद् योसौ क्रुष्टतम इव साम्नः स्वरस् तं देवा उपजीवन्ति ।। प।
-
१ योऽवरेषां प्रथमस् तं मनुष्या उपजीवन्ति । म ।
-
२ यो द्वितीयस् तं गन्धर्वाप्सरसः उपजीवन्ति । ग।
-
३ यस् तृतीयस् तं पशवः ( वृषभः ऋषभः ) उपजीवन्ति ।रे।
-
४ यश् चतुर्थस् तं पितरो ये चाण्डेषु शेरते । सा ।
-
५ या पंचमस् तम् असुर-रक्षांसि (निषादः) उपजीवन्ति । नि।
-
अन्त्यः । योऽन्त्यस् तमोषधयो वनस्पतयश्चान्यज् जगत् ( सामविधान ब्राह्मणे ) । ध।
सामगानस्यैतत्खलु स्वरमंडलं, यस्मिन् साम गीयत उद्गातृभिः । अथ विकार-विश्लेषण-विकर्षणा-ऽभ्यास-विराम-स्तोभाख्याः षट् सामविकारा भवन्ति । त एते-
- १. विकारो यथा ’ अग्ने’ इत्यस्य ’ ओग्नायि’ इति,
- २. विश्लेषणं यथा ‘वीतये’ इस्यस्य ‘वोयि तोयारयि ’ इति,
- ३. विकर्षणं यथा ‘ये’ इत्यस्य ’ या २३ यि ’ इति,
- ४. अभ्यास इति पुनः पुनरुच्चारो यथा ‘तोयायि । तोयायि ’ इति,
- ५. विरामो यथा ‘गृणानो हव्यदातये’ इत्यस्य ‘गृणानोह । व्यदातये ’ इति । ’ गृणानोह’ इत्यसय पदान्तत्वाभावे ऽपि गानसौकर्यार्थं शब्दमध्य एव विरामाद् अस्य विराम-संज्ञा भवति ।
- ६. स्तोम ऋग्-विलक्षणो वर्णो, यथा ’ औहोवा । हाउ।’ इत्यादिः।
एतैः षट्सामविकारैः संवर्धितं साम उक्तपूर्व स्वरमण्डले गीयते । अत एवोच्यते सामवेदो गानमयो, न तु केवलं मन्त्रमय इति। को नामात्र सामवेदः, य एष इदानीं पाठकानां पुरस्तात् पुस्तक-रूपेणावस्थाप्यते सोऽथवा गानात्मकः कश्चिदन्यः ? उच्यते, य एतेन ग्रन्थ-रूपेण प्रस्तूयते, स केवलं ऋचां सङ्ग्रह-भूतो मन्त्र-मय एव, नैष गानमयः । अस्मिन् ग्रन्थे न विद्यत एकमपि गानम् । सामगानस्य योनि-मन्त्रा एते । एतान् मन्त्रान् आश्रित्यैव पूज्यपादैर् अनेकैर् ऋषिभिः सहस्रशः प्रदर्शितान्य् अनेकविधानि गानानि, तानि तु तेषाम् ऋषीणां नामभिर् एवेदानीं पर्यन्तं व्यवह्रियन्ते, यथा ‘गोतमस्य पर्क, कश्यपस्य बाहिर्षम् ’ इत्यादीनि । तानि तु सर्वाण्येव यथाक्रमं ग्रामारण्योहोह्येषु प्रकरणेषु सस्वरम् एव मुद्रापयिष्यन्ते । तान्य् एव सामानीत्य् उच्यन्ते । तानि तु मन्त्रेभ्यः पृथक्तराण्येव, यथा -
ऋग्वेदमन्त्रः।
अग्न॒ आ या॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये ।
नि होता॑ सत्सि ब॒र्हिषि॑ ॥ (श ६।१६।१०)
सामवेदमन्त्रः ( सामयोनिः)
अ꣢ग्न꣣ आ꣡ या꣢हि वी꣣त꣡ये꣢ गृणा꣣नो꣢ ह꣣व्य꣡दा꣢तये। नि꣡ होता꣢꣯ सत्सि ब꣣र्हि꣡षि꣢ ॥ 01:0001 ॥ (ऋ. ६।१६।१० )
अस्य गानानि।
(१) गोतमस्य पर्कम् ।
ओ꣤ग्नाइ॥ आ꣢꣯या꣯हीऽ३। वो꣡इतोयाऽ᳒२᳒इ। तो꣡याऽ᳒२᳒इ। गृ꣡णा꣯नो꣢꣯ह। व्यदा꣡तोयाऽ᳒२᳒इ। तो꣡याऽ᳒२᳒इ॥ ना꣡इहो꣢꣯ता꣡साऽ२३॥ त्सा꣡ऽ२᳐इबा꣣ऽ२३४औ꣥꣯हो꣯वा॥ ही꣣ऽ२३४षी꣥॥(२) कश्यपस्थ बाहिषम्
अ꣤ग्न꣥आ꣤꣯या꣥꣯हिवी꣤॥ त꣡याइ। गृणा꣯नो꣯हव्यदा꣯ताऽ२३या꣢इ। नि꣡हो꣯ता꣯ सत्सि꣢ ब꣡र्हाऽ२३इषी꣢॥ ब꣡र्हाऽ२᳐इषा꣣ऽ२३४औ꣥꣯हो꣯वा॥ ब꣢र्ही᳐ऽ३षी꣡ऽ२३꣡४꣡५꣡॥(३) गोतमस्य पर्कम्।
अ꣤ग्न꣥आ꣤꣯या꣥꣯हि। वा꣤ऽ५इतया꣤इ॥ गृ꣡णा꣯नो꣯हव्यदा꣢ऽ१ता꣢ऽ३ये꣢॥ निहो᳐ता꣣ऽ२३४सा꣥॥ त्सा꣡ऽ२३इबा꣢ऽ३। हा꣡ऽ२३४इषो꣥ऽ६हा꣥इ॥
अत्र प्रथमा ऋक्, सैव सामवेदे गानोपबृंहणार्थं सङ्गृहीता। अत्र साममन्त्रे स्थिता अङ्काः अदात्तानुदात्त-स्वरितानां बोधका एव, नैते गानस्वराः। यत्र ऋग्वेदेऽनुदात्तचिह्नम् अधोरेखया दर्शितं, तद् एव सामवेदे ‘३’ इत्येवं त्रिसंज्ञकेनाङ्केन चिह्नितम्, तथैव च ऋग्-वेदे अनुदात्तात् पर उदात्तस् तस्य नैव किश्चिदपि चिह्न, स तु ‘१’ इत्येकसंज्ञकेनैवाङ्केन प्रदर्श्यते सामवेदे। ऋग्वेदे तृतीयस्य स्वरितस्य ऊर्ध्व-रेखैव चिह्नं, तत्तु सामवेदे ‘२’ इति द्विसंज्ञकेनान प्रदर्श्यते । यथा
अग्न॒ आ या॑हि वी॒तये॑
अ꣢ग्न꣣ आ꣡ या꣢हि वी꣣त꣡ये꣢
उअ उ स्वप्र अउस्व
(उ) उदात्तः, ( अ ) अनुदात्तः, ( स्व ) स्वरितः, (प्र) प्रचयः, (स ) मनतरः इति स्वराः । प्रचयस्य चिह्नं नास्ति । सन्नतर-रूपोऽन्तिमोऽनुदात्तो ऽनुदात्तवद् अधो-रेखयैव प्रदश्यते । तौ प्रचय-सन्नतरौ तु स्वरितम् एव यथाक्रमम् अनुगच्छतः यत्र भवतः ।
एवं उभयोर् ऋक्सामयोः स्वर-चिह्न-प्रदर्शन-पद्धति-भेदेऽपि न तत्रोदात्तादि-स्वर-भेदोऽस्ति । ‘या ऋक तद् एव साम’ इति छान्दोग्यवचनम् अत्रैव सुतरां संगच्छते । नैते सामाङ्का गानार्थं समभिप्रयुक्ताः, किन्तु उदात्तानुदात्त-स्वरित दर्शनार्थम् एव सामाक्षराणाम् उपरि लिखिता भवन्तीति विज्ञेयम् ।
सामगानं तु इतोऽप्य् अन्यद् एव । अस्माद् एव एकस्माद् ऋङ्-मन्त्रात् ‘गौतमस्य द्वे, कश्यपस्यैकम्’ एवं सामत्रयं संपद्यते, तत् साम-गान-ग्रन्थेषु प्रसिद्धम् । तद् एतत् सामगानं तानालाप-संलाप-स्तोभ-युक्तत्वात् सप्त-स्वर-संयुक्तत्वाच् च गान-संज्ञां लभते । एतद् एव साम यद् ‘ऋच्य् अध्यूढं साम गीयत ’ इत्युक्तपूर्वम् । अत एवोच्यते एष सामवेदः साम-गानानां योनि-भूनानां मन्त्राणां केवलं संग्रह एव, स ‘साम-योनि-मन्त्र-संहिता’ इति वक्तव्ये ‘साम-वेद-संहिता’ इनि संक्षेपेणोच्यते ।
पौरुषेयत्वम्
सामवेदस्य पौरुषेयापौरुषेयवादे तु योनिमन्त्राणामपौरुषेयत्वं, सामगानानां तु पौरुषेयत्वं कैश्चित्कल्प्यते । वस्तुतस्तु योनिमन्त्राणां तदुत्पन्नसाम्नां चापौरुषेयत्वमेव प्रतिपाद्यते मीमांसकैः । “उत्तरर्चग्रन्थगततृच आद्यायाम् ऋचि समुत्पन्नं योनि-मन्त्र-गानं पूर्वार्चिकम् अन्नवद् अपौरुषेयम् । उत्तरयोर्चोस् तु योनि-मन्त्र-समुत्पन्नस्य साम्न आवापः क्रियत इत्यतस् तादृशस्यर्ग्-द्वयस्य गानम् अप्यपौरुषेयम् एव ।” इति मीमांसकानां मतं विस्तरेण विवेचितं पूर्वमीमांसायाम् । सुज्ञैस् तत् सर्वम् अत्रानुसन्धेयम् ।
सामशाखाविचारः
‘सहसवर्त्मा सामवेद ’ इति यद् उक्तं भगवता पतञ्जलिना व्याकरणमहाभाष्ये तस्मात् केचनैवम् अनुमिमते, यत् सामवेदस्य सहस्रसंख्यकाः शाखाः सन्तीति । तत्तु न सम्यग् इव प्रतिभाति । वर्त्मशब्दस्य शाखार्थत्वाभावात् । ‘सहस्रवर्त्मा सामवेद’ इति वचनं सामगानं गानपद्धतिभेदेन सहस्रधा विभिद्यत इत्येव दर्शयति, न तु सामवेदस्य सहस्र शाखाः सन्तीति । यतो यथा वेदान्तराणां शाखानामानि यत्र-कुत्रापि दृश्यन्ते, तथा सामवेदस्य शाखासहस्रं न कुत्रापि निर्दिष्टम् उपलभ्यते । त्रयोदशैव तु नामानि साम-तर्पण-विधौ सन्ति, यथा
राणायन - शाट्यमुग्र्य - व्यास - भागुरि - औलुण्डी - गोल्गुलवि - भानुमानौपमन्यव - काराटि-मशक-गार्ग्य – वार्षगव्य - कुथुम – शालिहोत्र - जौमनि - त्रयोदशैते मे सामगाचार्याः स्वस्ति कुर्वन्तु तर्पिताः । ( सामतर्पणम् )
सत्स्व् अप्य् एतेषु त्रयोदशसु नामसु, दुर्भाग्य-वशाद् अधुना अन्याः शाखासंहिता नोपलभ्यन्ते, केवलं “राणायनीय, कौथुमी, जैमिनीय” इति शाखात्रयस्यैव संहिताः समुपलभ्यन्ते । यत् तु चरणव्यूहे सहस्रं शाखाः सामवेदस्येत्य् उक्तं, तत् तु वङ्गीय-पण्डितैः सत्यव्रत-सामश्रमिभिः पौराणिकम् इति मत्वा त्यक्तुम् अर्हम् इति प्रतिपादितम् एव । पुराणेषु कतिपयान्य् अन्यान्य् अपि सामशाखा-नामानि समुपलभ्यन्ते । तेषां सर्वेषां समन्वयः संशोधकैर् अवश्यं कर्तव्यम् इति । पूर्वोपदर्शित-महाभाष्य-वचनं चरणव्यूह-वचनं च प्रमाणीकृत्य सहस्र-शब्दस्यानेकार्थकत्वम् अवलम्ब्य यावन्ति शाखानामानि प्रमाण-ग्रन्थेषु समुपलभ्यन्ते, तेषां गणनया इतर-वेदापेक्षया प्रभूत-शाखात्वं सामवेदस्याभ्य् उपेतुं शक्यत इति केचित् ।+++(4)+++
सामस्वरप्रयोगः
ऋग्यजुः-सामाथर्ववेदानां पठनसमये प्रायशः स्वर-त्रयम् एव प्रयुज्यते, क्वचिद् दीर्घ-स्वरिते चतुर्थ-स्वरोऽपि श्रूयते, यथा -
अ॒ग्निमी॑ळे पु॒रोहि॑तं
अ꣣ग्नि꣡मी꣢डे पु꣣रो꣡हि꣢तं
अउस्वप्र अउस्वप्र
नीसारेरे नीसारेरे
रे- मी ईळे …हितं
सा- ग्नि..रो …
नी- अ..पु ..
अत्र निषाद-षड्ज-प्रभाणां स्वराणां श्रवणं भवति । अनुदात्तस्तु क्वचिद्धवतेऽपि श्रूयते, यथा ‘संधां कर्मणां’ इत्यत्र ‘वां’ इत्यनुदात्तो धैवतो भवति । एवं घेदपाठसमये स्वरत्रयमेव विशेषेण प्रयुज्यते । स्वरास्तु निम्नमध्यमोश्चभेदेन विभिन्नसवनेषु उच्चनीचा भवेयुः, परन्तु सर्वत्र स्वर-त्रयस्यैव श्रवणं भवतीत्यत्र ज्ञातव्यम् । तथा च
उदात्तः स्वरितश् चर्चि
प्रचयो निहतः स्वरः ।
तत्र तु स्वरितात् पूर्वम्
उदात्तः प्रथमः स्वरः ॥
स्वरितोऽन्य उदात्तश् च
प्रचयश् च द्वितीयगः ।
द्वितृतीय-स्वरः कम्पो
ऽनुदात्तस् तु तृतीयगः ॥
स्वरितः कम्पते तत्र
यत्रोदात्तः परो भवेत् ।
एकोदात्तात् परः स्वारः
प्रचयश् चोच्चवद् भवेत् ॥
सर्वेऽवशिष्टाः स्वरिताः
स्मर्यन्ते साम-शाखिना॥
इति वचनेनार्चिक-स्वराणां लक्षण-विधानाद् आर्चिकेषु ऋग्वेदवद् एव स्वरनिर्णयः ।
सामगाने तु सप्तानाम् अपि स्वराणां संप्रयोगो ऽवरोह-क्रमेण प्रायशः श्रूयते । एतद् एव सामगानस्यान्येभ्यो वेद-पाठेभ्यो वैशिष्ट्यम् । ‘यः सामगानां प्रथमः स वेणोर् मध्यमः स्वरः।’ इति नारदीयशिक्षायां कथितं, तेन सामगानस्योपरिस्थितैर् अङ्कैः सप्त स्वरा एवं प्रकटीभवन्ति, यथा - १ मध्यमः, २ गान्धारः, ३ ऋषभः, ४ षड्जः, ५ निषादः, ६ धैवतः, ७ पञ्चमः । सामगाने लिखितानाम् अङ्कानाम् एष एव स्वर-निर्णयः, यम् आश्रित्य सामगान-स्थितान् अङ्कांश्च दृष्ट्वा स्वरज्ञा असंशयं सामगानं कर्तुं शक्ष्यन्ति । सामगानेषु ये त्व् अनङ्किताः स्वरास् ते पूर्व-स्वराङ्केन समा इति बोद्धव्यम् ।+++(5)+++ परन्तु साम-योनि-मन्त्रेषु तु अनङ्कितान्य् अक्षराणि प्रचय-स्वराणि प्रायशो भवन्ति यथा
स꣣ह꣡स्र꣢शीर्षाः꣣ पु꣡रु꣢षः सहस्रा꣣क्षः꣢
इत्यत्र ‘शी-षः-स-ह’ इत्येतेषाम् अक्षराणां प्रचयः स्वरो बोद्धव्यः, एवम् एवान्यत्रापि ज्ञातव्यम् ।
तथा रकार-ककार-उकाराः, सामचिह्नेषु विशिष्यन्ते ।
एवम् अन्तिम उदात्तः ‘२’ इति द्विसंज्ञकेनाङ्केन लिङ्गे्यत, यथा- गि꣣रा꣢ (साम० ८); ऋञ्जसे गि꣣रा꣢ (साम० १२ ); दि꣣वि꣢ (साम० २०); र꣣यि꣢म् (साम० २२); बृ꣣ह꣢त् (साम० ९८); इति ।+++(5)+++
यदा तु द्वाव् उदात्तौ समागच्छेताम् तदा तत्रत्यः प्रथम एवोदात ‘१’ इत्य् एतेनैकसंज्ञकेनाङ्केन लिङ्ग्यते ऽन्यस् तु वर्तत अलिङ्गित एव, परं तस्मात्परः स्वरितो ‘२र’ इति रकारसहितेन द्वयङ्गेन प्रदर्श्यते ।+++(5)+++ यथा - द्वि꣣षो꣡ मर्त्य꣢꣯स्य ( साम० ०६), पु꣡ष्क꣢रा꣣द꣡ध्यथ꣢꣯र्वा꣣ ( साम० ०९), दे꣣वो꣡ ह्यसि꣢꣯ ( साम० १०), वा꣣यो꣡रनी꣢꣯के ( साम० १३); प्र꣢ति꣣ त्यं꣡ चारु꣢꣯ ( साम० १६ ) ’ इति ।
अनुदात्तात् परः स्वरितोऽपि ‘२र’ इत्य् एवं रकारसहितेन द्वयङ्कन चिह्नितो भवति, किंतु तथा पूर्वोऽनुदातः ‘३’ इति ककारसहितेन त्र्यङ्केन लिङ्ग्यते+++(5)+++ यथा - त꣣꣬न्वा꣢꣯ (साम० ५२); दे꣣꣬व्ये꣢꣯तु ( साम० ५६ ); ब꣢लं꣣꣬ न्यु꣢꣯ब्जवी꣣꣬र्य꣢꣯म् ( साम० ९५ ); दू꣣꣬ढ्य꣢꣯म् (साम० १११), (००१-०५४) ( साम० ४९० ); वाजं꣢꣯ वा꣣꣬ज्य꣢꣯क्रमीत् ( साम० ६५५ )। ’ इति ।
यदा तु द्वावुदात्तौ समागच्छेतां, ताभ्यां परतश् चानुदात्तो यदि स्यात्, तदा प्रथम एवोदात्त: ‘२उ’ इति उकारसहितेन द्व्याङ्कन लिङ्ग्यते ऽन्यस् त्व् अचिह्नित एव रक्ष्यते,+++(5)+++ यथा- ‘ऊ꣣त्या꣢꣫ वसो꣣ (साम० ४१ ); त्व꣢꣫मित्स꣣प्र꣡था꣢ ( साम० ४२ ); यो꣢꣫ विश्वा꣣ (साम० ४४ ) आ꣣दित्यं꣢꣫ विष्णु꣣ꣳ ( साम० ९१ ); वो꣢च꣣द्ब्र꣢꣫ह्मेति꣣ ( साम० ९४); स्वध्व꣣रं꣢꣫ जनं꣣ ( साम० ९६ ); पू꣣र्व्यं꣢꣫ वचो꣣ (साम० ९८ ); इति ।
इत्येवं सर्वेषां स्वरचिह्नानां यथास्थानं सुविन्यासो दृश्यते सामवेदे साम-गानेषु च ।
सामपाठभदाः
क्वचिदेते सामवेदमन्त्राः पदभेदेन , क्वचित् शब्दव्युत्क्रमेण, क्वचित् स्वर भेदेन, क्वचिद् अक्षर-भेदेन, क्वचिच् च पादव्युत्क्रमेण ऋग्वेद-पाठाद् भिन्ना इव दृश्यन्ते । अभ्यसनीयोऽयं ऋक्-साम-पाठ-भेद-विषयः । साङ्ख्यायनादिपु ऋग्वेदीय-शाखास्व् अन्यासु पाठ-भेद-भिन्ना एते मन्त्रा भवेयुर् इति यत् कैश्चिन् मन्यते, तदेव समीचीनम् इव प्रतिभाति । सर्वेऽपि पाठभेदा एवम् अन्त्रिप्य शाखान्तरषु द्रष्टव्याः इति ।
सामवेदे वालखिल्य-मन्त्रा अपि संगृहीताः सन्ति । अतो वालखिल्यमन्त्राणां शाकलके ऋग्वेदे संग्रहकरणाद् ऊर्ध्वम् एव सामवेदरचना संजाता इत्य् अनुमातुं शक्यते; अथवा यस्यां ऋक्शाखायां वालखिल्यमन्त्राः मूलतः सन्ति, तस्याः शाखासंहिताया एवैते साममन्त्राः संगृहीता भवेयुर् इति मतं समीचीन-तरम् । शाकलीये ऋग्वेदे ’ अथ वालखिल्यं, इति वालखिल्यम्’ इति परिधी-करणाद् अनुमीयते, यद् एते वालखिल्यमन्त्राः पूर्व ऋग्वेदीय-शाकल-संहितायां नासन्न् इति ।+++(5)+++ अन्यथा ’ अथ-इति ’ करणस्य न किञ्चिद् अपि संभाव्यते प्रयोजनान्तरम् । सामवेदे तु वालखिल्य-मन्त्राणां संग्रहाद् एवानुमीयते यद् एतद् ऋग्वेदे शाकलके वालखिल्य-सूक्तसंग्रहः सामवेदात् प्राचीन एवेति ।
“वेदानां सामवेदोऽस्मि ” इति भगवद्गीतावचन-बलेन भगवद्गीता-कालात् पूर्वम् एव सामवेदस्यास्येदृङ् माहात्म्यं विभूति-रूपत्वं च महापुरुषैः स्वीकृतम् इति प्रतिभाति । भगवद्वीताकालश् च वर्षाणां सहस्त्रद्वयाद् अर्वाचीनस् तु न कथम् अपि संभाव्यते । सामवेदस्य विभूतिमत्त्वस्वीकारायापि समुचितकालखण्डस्य व्यतिगमनम् आवश्यकमेव ।
ननु सन्त्यस्मिन् सामवेदे १०५ मन्त्राः (अथवा विहायारण्यकं महानाम्न्यार्चिकं च ७६ मन्त्राः ) ये समुपलभ्यमानायां ऋग्वेदस्य शाकलशाखायां नोपलभ्यन्ते, कथं कुतो वा तेषामस्सिन् सामवेद आगमः ? उच्यते, यद्य् अपि शाकलसंहितायाम् एतेषां मन्त्राणाम् अदर्शनं, तथापि सांख्यायन-संहितायां तेषां दर्शनं भवेद् इति यत् कैश्चित् तर्क्यते तद् युक्तियुक्तम् इति वयम् उत्पश्यामः ।
ऋग्वेदादिषु सामप्रशंसा
वेदमन्त्रेषु बहुविधा सामप्रशंसा श्रूयते, ऋग्वेदमन्त्रेषु शंसितं बहुशोऽङ्गिरसां साम, यथा
( देवाः) अङ्गिरसां सामभिः स्तूयमानाः । ( ऋ. १।१०७।२)
अङ्गिरसो न सामभिः (ऋ. १०१७८१५ ) इत्यादि ।
शकुनि-पक्षि-गानं सामगानम् इव प्रतिभातीत्य् उक्तम्–
उभौ वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति ॥
उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि ॥ (३० २।४३।१-२)
शकुनि-स्वर-वत् सामगाने स्वरप्रयोगो भवतीत्य् अनुमीयत एतस्मान् मन्त्रवर्णात् ।
यो जागर्ति, तम् एव विद्वांसं सामानि यन्ति, यस्तु निद्राति, स सामगाने न शक्यो भवितुं प्रवीण इति प्रदर्शयन्न् आह-
‘यो जागार तम् ऋचः कामयन्ते, यो जागार तम् उ सामानि यन्ति’। (ऋ० ५/४४।१४ )
इति।
तथा च सर्वे विद्वांस सामगायकम् एव प्रशंसन्तीति कथयति–
‘तमेव ऋषि तम् उ ब्रह्माणम् आहुर् यज्ञन्यं साम-गाम् उक्थशासम् ’ (ऋ. १०११०७।६ )
तथैव गीयमानं साम गायकम् अवतीति प्रदर्शयति
उपगासिषत् श्रवत् साम गयिमानम् (ऋ. ८1८१॥५)
यूयम् ऋषिम् अवथ साम-विप्रं (ऋ. ५/५/१४ )
सामविप्रं सामकुशलं सामगानप्रवीणं वा देवा अवन्तीति ।
तथा च शुद्धां देवतां शुद्धेनैव साम्ना स्तोता स्तोत्विति निदर्शयन्नाह
‘एतो विन्द्रं स्तवाम शुद्धं शुद्धेन लाम्ना ।’ (ऋ. ८1९५७ )
इन्द्राय साम गायत विप्राय बृहते बृहत्। (ऋ. १९४१, अथर्व. २०६२।५) बृहस्पतिः सामभिः ऋक्वो अर्चतु। (*. १०३६।५) अर्चन्त एके महि साम मन्वत (र. ८।२९।१०)
तथा चान्यापि सामप्रशंसा
आङ्गूष्यं शवसानाय साम। (ऋ. ११६२।२)
ऋतस्य साम व्रणयन्त देवाः। (ऋ. ११४७११)
गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् । (र. ११६४१२४, अथर्व. ९।१०।१२)
येन परः सानो विदुः। (ऋ० २।२३।१६)
स्वष्टाजनत् साम्नः साम्नः कविः। (ऋ. २।२३।१७)
साम कृण्वन् सामन्यो विपश्चित् क्रन्दन्नेति । (ऋ. ५।९६।२२)
परावतो न साम तद्यत्रा रणन्ति धीतयः। (ऋ. ९।१११।२) स हि द्युता विद्युता वेति साम (ऋ. १०.९९।२)
ईदृग्विधानि सामानि परस्मात् पुरुषाद् एव समुद्भूतानीत्य् उच्यते, यथा
तस्माद् यज्ञात् सर्वहुत
ऋचः सामानि जज्ञिरे। (१०९०९) इति ।
एवं विधा अनेके सामप्रशंसापरा मन्त्रा यथर्ग्वेदे तथैव यजर्वेदे ऽथर्ववेदे ऽपि दृश्यन्ते । यथा
… सामगेभिः आदित्येभिः ……। इष्टापूर्तम् अवतु नः ……। (अधर्व. २।१२।४)
ऋचं साम यजामहे याभ्यां कर्माणि कुर्वते । (अथर्व. ७५४१)
बृहतः परि सामानि । (अथर्व. ८।९।४)
षड् जाता भूता प्रथमजर्तस्य
षडु सामानि षडहं वहन्ति ।
षड् योगं सीरम् अनु सामसाम
षडाहुर् द्यावा-पृथिवीः षड् उर्वीः। (अथर्व. ८।९।१६)
सामानि यस्य लोमानि। (अथर्व. ९।६।२)
…… सपत्नह ऋक्-संशितः साम-तेजाः। (अथर्व. १०५।३०)
यत्र ऋषयः प्रथमजा
ऋचः साम यजुर् मही। (अथव. 101011४)
सामानि यस्य लोमानि …… स्कम्भ तं ब्रूहि कतमः स्विद् एव सः। ( अथर्ष. १०७।२०)
साम्ना ये साम संविदुर् अजस् तद् ददृशे क्व। ( अथव. १०१८४१)
………सामानि बिभ्रती। (अथर्व. १०।१०।१४)
ब्रह्मणा परिगृहीता साम्ना पर्यूढा। (अथर्व, ११।३।१५)
ऋक् साम यजुर् ऊच्छिष्ट
उद्गीथः प्रस्तुतं स्तुतम् ।
उच्छिष्टे स्वरः साम्नो
मेडिश्च तन्मयि। (अथवं. ११७१५)
ऋचः सामानि भेषजा ॥ (अथर्व. ११७॥२४ )
शरीरं ब्रह्म प्राविशद् ऋचः सामाथो यजुः । (अथर्व. ११३८।२३)
ऋचः सामानि छन्दांसि…… उच्छिष्टाज्जज्ञिरे सर्वे। (अथर्व. ११।७१२४)
ब्रह्माणो यस्याम् अर्चन्त्य् ऋग्भिः साम्ना यजुर्वेदः। (अर्थव. १२१११३८)
तमृचश् च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् । ( अथर्व. १५/६८)
ऋचां च वै स साम्नां च…… ब्रह्मणश् च प्रियं धाम भवति । (अथर्व, १५।६।९)
एतमन्त्रैर् असंशयं सूच्यते यद् अगथर्व-समये सामगानं समृद्धम् एवासीदिति । ऋग्-वेदे दृश्यन्त एतानि साम्नां नामानि वैरूपं, बृहत् , गौरिवीति, रैवतं, अर्कं, गायत्रं, श्लोकं, भद्रं, इत्यादीनि । एवम् एव वेदे ऽथर्वणेऽपि सामनामानि दृश्यन्ते ।
यजुर्वेदे रथन्तरं (वा. य. १०।१० ), बृहत् ( य. १०.११ ), वैरूपं ( य, १०/१२), वैराजं ( य. १०।१५), वैखानसं, वामदेव्यं, यज्ञायज्ञियं, ( य. १२।४ ), शाक्वरं, रैवतं ( य. १०१४ ), गायत्रं, गौरिवीतं, अभीवर्तं, क्रोशं, सव्यस्यर्धि, प्रजापतेर् हृदयं, श्लोकं, अनुश्लोकं, भद्रं, राजन् , अर्क्यं, इलान्दम् इत्यादीनि ।
ऐतरेये ब्राहाणेऽपि- बृहत्, रथन्तरं, वैरूपं, वैराजं, शाक्वरं, रैवतं, गायत्रं, श्यैतं, नौधसं, रौरवं, यौधाजयं, अग्निष्टोमीयं, भासं, विकर्णम् इत्यादीनि दृश्यन्ते ।
एतानि साम्नां वैशिष्ठ्य-बोधकानि नामानि सूचयन्ति, यद् ऋग्-वेद-समयेऽपि विविधानि सामगानान्य् आसन्न् इति । यजुर्वेदस्याथर्ववेदस्यैतरेयस्य ब्राह्मणस्य च समये तु यज्ञस्य समृद्धत्वात् साम-समृद्धिर् एवासीद् इति स्पष्टम् । ये तु साम-गानम् आधुनिकम् एवेति वदन्ति, तेषां निर्मूलम् एव तत् कथनम् इत्य् एतेन सिद्धयति ।
सामवेद-ग्रन्थाः
एतान् सामयोनि-मन्त्रान् आश्रित्य यानि गानानि ऋषिभी रचितानि, तेषां गानग्रंथाः
- (१)(ग्राम) गेयगानं, वा प्रकृति गानं, वा
- ( २) आरण्यक (गेय) गानं,
- (३ ) ऊहगानं,
- (४) ऊह्यगानं, रहस्यगानं वेति
प्रसिद्धाः । अनेक-विधानि तेषु पर्वाण्य् उपप्रकरणरूपाणि सन्ति । तेषां मध्ये गानसंख्या जैमिनीय शाखानुसारेण ३६८१ इति, कौथुमी राणायनीय-शाखयोर् गानानुसारेण २७२२ इति च भवति । यथा
| जैमिनीय -गानानि | कौथुमीय -गानानि | |
|---|---|---|
| ग्रामगेय -गानानि | १२३२ | ११९७ |
| आरण्यगेय -गानानि | २९१ | २९४ |
| उह -गानानि | १८०२ | १०२६ |
| उह्य -गानानि | ३५६ | २०५ |
| ३६८९ | २७२२ |
सर्वाण्येतानि गानानि सविस्तरेण गानग्रन्थेषु मुद्रापयिष्यन्तेऽस्माभिः । गानविषये यत्किञ्चिद् वक्तव्यं तत् सर्वं गानग्रन्थस्य भूमिकायाम् एव वक्ष्यामः ।
कौथुमीय-शाखापेक्षया १८२ संख्यया न्यूना मन्त्राः जैमिनीय-शाखायां वर्तन्ते । यथा
| जैमिनीयाः | कौथुमीयाः | |
|---|---|---|
| पूर्वाचिके | ५८७ | ५८५ |
| आरण्यके | ५९ | ५९ |
| उत्तरार्चिके | १०४१ | १२२५ |
| १६८७ | १८५९ | |
| महानाम्नी मन्त्राः | ६ | ६ |
| १६९३ | १८७५ |
परं जैमिनीयानां गानानि कौथुमेभ्यः सहस्राधिकानीति जैमिनीयानां विशेषः । जैमिनीय-शाखायाः मन्त्र-क्रम-पाठ-विशेषश् चात्र परिशिष्टे परिदर्शितः ।
सामब्राह्मणानि
- (१) ताण्ड्य-ब्राह्मणं (प्रौढ-ब्राह्मणं, पञ्चविंशबाह्मणं वा)
- (२) षड्विंश-ब्राह्मणं,
- (३) सामविधान-ब्राह्मणं,
- (४) आर्षेय-ब्राह्मणं,
- (५) देवताध्याय-ब्राह्मणं,
- (६) उपनिषद्-ब्राह्मणं (संहितोपनिषद्-ब्राह्मणं, मंत्रब्राह्मणं वा ),
- (७) वंशब्राह्मणम्,
इत्यादीनि ब्राह्मणानि ।
पञ्चविंशं ताण्ड्यब्राह्मणस्यैव षड्विंशोऽध्यायः । अत एव पूर्वो भागः पञ्चविंश-ब्राह्मणम् इत्य् उच्यते ऽपरं षड्विंशम् इति । पञ्चविंशं षड्विंशं ब्राह्मणं च छान्दोग्योपनिषच् च मिलित्वा ताण्ड्य-महा-ब्राह्मणं भवति ।+++(5)+++ षड्विंशेऽद्भुत-कथानां सद्भावात् तद् अद्भुत-ब्राह्मणम् इत्य् अप्य् उच्यते+++(5)+++, अन्यानि त्व् अनु-ब्राह्मणानीति कथ्यन्ते ।
जैमिनीयोपनिषद्-ब्राह्मणे केनोपनिषद् वर्तते । अतः जैमिनीय-शास्त्राया अपरं नाम तलवकार-शाखा इति भवेत् , यतस् तलवकारीया केनोपनिषद् इति प्रसिद्धैव ।
सामसूत्राणि तु
- ( १) मशक-कल्प-सूत्रं,
- (२) क्षुद्रसूक्तं,
- (३) लाट्यायन श्रौतसूत्रं,
- ( ४ ) गोभिलगृह्यसूत्रं,
- राणायणीय-शाखायाः
- द्राह्यायण-श्रौत-सूत्रं,
- खादिरगृह्यसूत्रं,
- पुष्पसूत्रं,
- इत्य् एवम् आदीनि सन्ति ।
पुष्पसूत्रं सामवेदस्य प्रातिशाख्यम् इति प्रसिदिः।
सर्वेऽप्येते ग्रन्था यथाकालं मुद्रापयिष्यन्ते ।+++(5)+++ एतेषाम् अध्ययनेन विना न सामवेदस्याध्ययनं साङ्गं भवितुम् अर्हतीति ।
अनुनासिक-निदर्शनम्
सामवेद-संहितामुद्रणं कैश्विद् अनुनासिक-चिह्नन-सहितम् अन्यैश् चानुनासिकचिह्न-रहितं कृतम् । यथा
- सामवेद-मन्त्रक्रमाङ्कम्, अनुनासिकचिह्न-रहितम्, अनुनासिकचिह्न-सहितम्, उत्तरवर्णः
- १५, स्तोमं रुद्राय, स्तोमꣳ रुद्राय, र
- २७, अपां रेतांसि, अपाꣳ रेताꣳसि, र स
- २७८, शतं शतं, शतꣳ शतं, श
- २८१ त्रिंशत्, त्रिꣳशत्, श
- ९८, ज्योतींषि, ज्योतीꣳषि, ष
- ८८१, ज्योतींष्यायवे, ज्योतीꣳष्यायवे, ष
- १९, धियं सचन्ते, धियꣳ सचन्ते, स
- ८७१ , आ वंसते, आ वꣳसते, स
- २, यज्ञानां होता, यज्ञानाꣳ होता, ह
- २, विश्वेषां हितः, विश्वेषाꣳ हितः, ह
एवमन्यत्रापि द्रष्टव्यम् । अनुनासिक-चिरहित-मुद्रणे प्रमुखाः पं भवभूति-भट्टाचार्याः, पं. नरेन्द्र-चन्द्र-वेदान्त-तीर्थाः कलकत्ता-निवासिनश् चैवमादयः । अनुनासिक-चिह्न-सहित-मुद्रणे प्रमुखा म० स्टिवेनसन, अन्ये योरोपीयाः, पं. सत्यव्रतसामश्रमिणः कलकत्ता-निवासिनश् चैवमादयः ।
लिखित-ग्रन्थेष्व् अपि द्विविधा ग्रन्थाः समुपलभ्यन्ते । एवं द्विविधायां संमत्याम् अस्मिन् सामवेदसंहितायां योनिमन्त्र-मुद्रण-समये ऽनुनासिकस्य ‘ꣳ’ रंगचिह्नं संप्रयोक्तव्यं न वेति विचारणीयम् । ‘या ऋक तत् साम’ इति छान्दोग्योपनिषद्-वचन-बलेन ऋङ्-मन्त्र एव सामयोनि-मन्त्र इति निश्चितमेष । ऋग्विलक्षणः साममन्त्रो नैव भवितुं शक्य इति सिद्धान्तः। ऋग्वेदे तु ‘य-रल-वेभ्योऽन्तस्थेभ्य उष्मभ्यश्च श-ष स-हेभ्यः पूर्वोऽनुस्वारो बिन्दु-रूपेणैव ‘वंसते ’ इतिवल् लिख्यते, न तु ‘वꣳसते’ इतिवद् रङ्ग-चिह्नन सहितः । अथर्व-वेदिनोऽपि ऋग्-वेदवद् एव लिखन्ति । सामयोनि-मन्त्रास् तु समुद्धता ऋग्वेदादेव अतस्ते समुल्लेखनीया ऋग्वेदवदेवेति विमृश्यास्माभिरत्रास्मिन्प्रन्थे सर्वत्रानुनासिक-चिह्न-रहितमेव कर्तव्यं, परं सामपाठिनां पद्धतिमनुसृत्य सर्वत्रानुनासिक-चिन्ह-सहितम् एव मुद्रणं कृतम् । ऋग्वेदे तु स्वरात् पूर्वोऽनुनासिको रङ्गचिह्नेनैव सर्वत्र प्रदर्श्यते, अतः सोऽस्माभिर् अत्रापि ऋग्वेदवद् एव संमुद्रितः यथा ‘महाँ इंदः’ इति, परं शषसहरेफ-पूर्वोऽनुनासिको बिन्दुरूपेणैव प्रदर्शित ऋग्-वेदवत् , यथा ‘स्तोमं रुद्राय ’ इत्यादिः।
सामगानानि तु योनि-मन्त्राश्रितान्य् अपि सर्वथा विकार-विश्लेषणादिभिः पृथक्-तराण्य् एवातस् तत्रत्यो रङ्गः ‘ꣳ’ इति चिह्ननैव सर्वत्र प्रदर्शयिष्यते ।
अनुस्वारपदे पूर्वे
विकारम् उपगच्छति ।
वेष्टितं बिन्दुु-मात्रं च
तल्लिखित्या प्रकीर्तितम् ॥रेफोष्मसु प्रत्ययेषु
निदर्शनम् अथोच्यते ।
चित्रं राधोंशुर् मदाय
हवींषितो धियं सचे।
व होतेति च पञ्चानां
निदर्शनम् इतीरितम् ।ऊष्माणस्तु यदान्येन
व्यञ्जनेन समन्विताः ।
स्थिताश् च प्रत्यये तेषां
वैकृतं तुल्यम् उच्यते ।
सोमँ श्रीणन्ति नॄँष् पाहि
सँस्थे त्वं ह्यङ्गदेति च ॥मात्रा द्विमानो ऽनुस्वारो
द्विमात्रान् मात्र एव च।
मात्रिकाद् अपि संयोगे
मात्रिकस् तु द्वि-रूपवत् ॥
“एतेन वचन-जातेन अनुनासिक-चिह्न-सहित-लेखनमेव सप्रमाणं भवति ।” इति रङ्गविधायकाः ब्रुवन्ति ।
रङ्गस्य व्याहरणम्
रङ्गचिह्नं लिखितेऽलिखितेऽपि वा, अनुनासिकस्य व्याहरणं कथं वा कर्तव्यम् इति मुख्यः प्रश्नोऽत्र वर्तते । अस्यास्य देशभेदेन विभिद्यते समभिन्याहरणम् । ‘गँ, गुँ, ग्वं, ग्वँ,’ इत्येवम् आदीनि क्रियन्तेऽस्योदीरणानि । एतान्य् असमीचीनान्य् एवेति प्रतिभाति, यतस् तत्र गकारस्य कण्ठ्यस्य, उकार-वकारयोर् ओष्ठ्य-योग-दने नास्ति प्रमाण-लेशोऽपि । अनुस्वारस्य नासिकैव स्थानम् , अनुनासिकस्य तु मुखनासिके ।+++(5)+++ एवं सति स्थानान्तरयोः कण्ठ्यौष्ठयोवर्णयोर् भाषणं नैव कथंचिद् अपि प्रमाणयितुं शक्यते । व्याहरण-शुद्धाशुद्धत्व-विनिर्णये स्थानविचार एव बलवत्तरं प्रमाणं भवति । तद् यथा
अनुस्वार-यमानां च
नासिकास्थानम् उच्यते ॥२२॥
यथा सौराष्ट्रिका नारी
तक्रँ इत्य् अभिभाषते ।
एवं रङ्गाः प्रयोक्तव्याः
खे अराँ इव खे दया ॥२६॥
रङ्गवर्णं प्रयुञ्जीरन्
नो ग्रसेत् पूर्वम् अक्षरम् ।
दीर्घस्वरं प्रयुजीयात्
पश्चान् नासिक्यम् आचरेत् ॥२७॥
हृदये चैक-मात्रस् तु
अर्धमात्रस्तु मूर्धनि ।
नासिकायां तथार्धं च
रङ्गस्यैव द्विमात्रता ॥२८॥
हृदयाद् उत्करे तिष्ठन्
कांस्येन समनुस्वरन् ।
मार्दवं च द्विमानं च
जघन्याँ इति निदर्शनम् ॥२९॥
(पाणिनीय-शिक्षा)
नासिकास्थानीयो ऽनुस्वारः स्पर्शषु य-व-लेषु च परेषु सत्सु पर-सवर्णताम् अभ्येति । ‘अनुस्वारस्य ययि परसवर्णः । वा पदान्तस्य ।’ (पा. आ. ८.५.५८-५९ ) अपदान्तस्यानुस्वारस्य नित्यं परसवर्णो भवति, पदान्तस्य तु वैकल्पिकः । यथा– ओङ्कारः, पञ्चागं, घण्टा, मन्त्रः, अम्बा । त्वं करोषि-त्वङ्करोषि, संयन्ता-सय्ँयन्ता, संवत्सरः सव्ँवत्सरः, यं लोक-यल्ँ लोक। परखवणे कृतेऽकृते वा, लिखितेऽलिखिते वा, व्याहरण त्व् एतेषां समानम् एव भवति, परवर्णानुयायित्वाद् अनुस्वारस्य ।
श-प-स-ह-रेफेषु परेषु सत्सु संपूर्णतयानुस्वारो नैव परसवर्णतां भजते, तदा तस्थानुनासिको भवति -
अनुस्वारस्य इत्य् आदेशः शपसह-रेफेषु (प्रतिज्ञापरिशिष्टसूत्रे ३१)
नश् चापदान्तस्य झलि (पा. अ. ८।३।२४ )
नस्य मस्य चापदान्तस्य झल्य् अनुस्वारः । ‘यशांसि, आक्रंस्यते’।
एवं अनुस्वारस्य रङ्गादेशो भवति वैकल्पिकः । ‘आतोऽटि नित्यं ’ (पा. सू.) इति सूत्रेण नित्यादेशेऽपि तैत्तिरीयाः ‘महां इन्द्रः’ इति, ऋग्वेदिनस् तु ‘महाँ इन्द्रः’ इति पठन्ति । अत एष आदेशो नित्योऽपि छन्दसि वैकल्पिक सञ्जातः। एवम् एव उष्म-पूर्वम् अनुस्वार ऋग्वेदिनो ऽनुस्वार बिंदुरूपं लिखन्ति, तम् एव वाजसनेयिनो ऽनुनासिक रङ्गचिह्नयुतं लिखन्ति एवम् एष वैकल्पिकः पाठो छन्दसि दृश्यते ।
यदा तु रङ्गो भवति तदा तस्यानुनासिकस्य व्याहरणं कथं कर्तव्यम् इति प्रश्नो ऽत्र व्यथयति संशोधकं, यतस् तस्य भिद्यते ऽनेकधा निगदगम् । ‘मुखनासिकावचनोऽनुनासिकः’ (पा. सू.) इत्याद भगवान् पाणिनिः । मुखसहित-नासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञो भवति, अस्यैव रङ्ग इति शिक्षायां, प्रातिशाख्ये च ‘रक्त, राग’ इति च संज्ञा भवन्ति ।+++(5)+++ स ह्रस्व-दीर्घ-गुरु-भेदैस् त्रिधा विभिद्यते ।
अनुनासिकोच्चारण-विषये यद् उक्तं पाणिनीयायां शिक्षायां तत् तु तत्वतो ऽनुसन्धेयम् अत्र । पूर्व-स्वरं दीर्घं प्रयुजीयात् , पश्चान्-नासिक्यं व्याहरणम् आचरेद् इति, अनुनासिको हृदय एकमात्रो ऽर्धमानो मूर्धनि, नासिकायां चार्धमात्रः, एवं रङ्गो द्विमात्रकः । यथा सौराष्ट्रिका नारी ‘तक्रँ’ इत्य् अभिभाषते, यथा च कांस्यस्य झङ्कारो भवति समभिघाताद् ऊर्ध्वं, तथैव मार्दव-पूर्वकं रङ्गम् अभिभाषेत। एवं रङ्गविषये पाणिनीयानुशासनम् । रङ्गचिन्हे लिखितेऽलिखितेऽपि तस्य व्याहरणं समानमेव भवति, यथा जिह्वामूलीयोपध्मानीयौ विसर्गौ चिह्नेन सहितौ लिखितौ चिह्नरहितौ वापि, तथापि द्वयोरपि तुल्यम् एव भवति समुच्चारणम् । यथा- ‘कः पदार्थः =कᳶ पदार्थः । रामः कः = रामᳵ कः । एवम् एवास्य रङ्गस्य चिह्न-रहितस्य सहितस्य वा तुल्यम् एव पाणिनीयानुशासनानुसारेण व्याहरणं भवतीति ज्ञातव्यम् ।
एवं सति, तस्य रङ्गस्य ‘ग्वँ, ग्वं, गुं, ’ इत्यादीनि मार्दवहीनानि कठोराणि स्थानव्यभिचार-दोष-दुष्टानि व्याहरणानि, सर्वथा त्याज्यान्य् एवेति । एवं शषसहरेफेषु परेषु सत्सु अनुनासिक-पूर्वं स्वरं दीर्घम् उच्चार्य नासिकायाम् एवानुनासिक गुञ्जयित्वा,+++(5)+++ तदूर्ध्वम् अग्रेवासिनं वर्णं प्रयुञ्जीयात्, यथा ’ वसते’ इत्यस्य ’ वा अंसते ’ इति । न तु ‘वग्वँसते ’ इति ।
यथा हिन्दी भाषायां ‘नहीं, कहाँ, ’ इति, मराठिभाषायामपि — ‘काँहीँ ’ इत्यादीनां व्याहरणानि मुख-सहित-नासिकायां भवन्ति, तथैव वेदेषु रङ्गस्योच्चारणं भवितुम् अर्हति । परतस् तु विद्वांस एव प्रमाणम् इत्य् अलं पल्लवितेन ।
परिचय-ग्रन्थाः
मुद्रित-ग्रन्थाः
सामवेदस्यास्य मुद्रणसमये ये ग्रन्था अवलोकितास्तेषां मध्ये प्रमुखा मुद्रितग्रन्था एते
- (१) लन्दनपूर्यां श्रीमता रेवरण्ड जे. स्तीवेन्सन ( Rev. J. Stevenson ) महोदयेन सम्पादितं, तच्च श्रीमता एच. एच. विलसन ( H. H. Wilson. M. A., F. R. S. ) महाशयानां निरीक्षणेन सन १८४३ स्रिष्टाब्दे मुद्रितं, सामवेदस्य पुस्तकम् । अस्मिन् ग्रन्थे आरण्यकं पर्व, महानाम्न्य्-आर्चिकं च नास्ति । नापि स्वरचिह्नानि प्रदर्शितानि । स्वरचिन्हाभावात् धारी-गणनात्र मुद्रितापि निष्प्रयोजनैव संजाता । अत्र मुद्रिता मन्त्रा अशुद्ध-पद-च्छेद-दोषेणान्यैश् च बहु-विधैर् मुद्रण-प्रमादैर् दोषपूर्णा एव सन्ति । वर्ष-शतात् पूर्वं लन्दननगरे मुद्रितम् इत्य् अर्थमेव ते सम्पादक-निरीक्षक-मुद्रकाः प्रशंसाम् अर्हन्ति । अत्रैक एव गुणो दृश्यते यन् मन्त्रा असंकीर्णतया पृथक् पृथक् मुद्रिताः । अन्ते परिशिष्टरूपेण बहवः पाठभेदा अपि संकलिताः सन्ति ।
- (२) शार्मण्यदेशे बर्लिननगरे सन १८४८ खिष्टाब्दे श्री. बेन्फे महाशयैः प्रकाशितं सामवेदस्य पुस्तकं, प्रायशः शुद्धं, स्वराङ्क-संयुतं, बहुभिः पाठभेदैः सहितं, महत्या पाठ-भेद-विचिकित्सात्मक्या भूमिकया युतं, संशोधन-कर्मणि संपादकस्य प्रवीणत्वम् असंशयं प्रकटयति । समस्तेषु मुद्रित-ग्रन्थेषु वर्तत एतद् एवादर्श-पुस्तकम् ।+++(5)+++ अत्र धारी-गणना मुद्रिता परिशिष्ट-विभागे, परं सा सदोषैवेति प्रतिभाति ।+++(4)+++
- (३) डा. डब्ल्यु. कलान्देन ब्रेस्लौ-नगरे सन १९०७ स्रिष्टाब्दे सामवेदस्य जैमिनीय-संहितायाः पुस्तकं रोमनाक्षरैर् मुद्रितम् । पाठभेद-सहितं विस्तृतया भूमिकया च शोभितम् अतीव शुद्धं पुस्तकं वर्तते ।+++(4)+++
- (४) कालिकातानगरे पूज्यपादैः सत्यव्रत-सामाश्रमिभिर् महता प्रयत्नेन संशोध्य, सायण-भाष्य-सहिता, सामवेदसंहिता, पदपाठेन सामगानादिभिः, सर्वैः स्तोभपाठैश् च संयुता ‘रायल एशियाटिक सोसायटी’ द्वारा मुद्राप्य प्रकाशिता ।
- (५) कालिकातानगरे सन १९३६ ख्रिष्टाब्दे श्री नरेन्द्र-चन्द्र वेदान्त-तीर्थैः एम्. ए. उपाधि-धारिभः सांख्य-तीर्थ-मीमांसा-तीर्थ- तत्त्व-रत्न-शास्त्रिभिः साम-वेद-संहिता सायण-भाष्य-भाष्यसार-पदपाठ-टिप्पण्य्-आदिभिः सहिता, श्रीभव-भूति-भट्टाचार्यैः विद्या-भूषणैः एम्. ए. इत्य् उपपद-धारिभिः संस्कृता प्रकाशिता च । एभिर् एव सामवेदस्य केवलं संहिता-पाठोऽपि पृथक्तया मुद्राप्य प्रकाशितः । अत्र सामवेदस्य पूर्वार्ध एव संगृहीतः ।
- (६ ) लवपुरे (लाहौरे ) श्रीमद्भिः पण्डितवरैः (डाक्टरेत्य्-उपपद-धारिभिः) आचार्य रघुवीर-शर्मभिः सुसंपाद्य प्रकाशिता जैमिनीया सामवेद-संहिता । एषा स्वर-चिह्न-रहिताऽस्ति ।
- (७) अजमीर-नगरे वैदिक-यन्त्रालयस्थैः पण्डितैर् मुद्रिता सामवेद-संहिता मूलमात्रैव ।
- (८) अजमीर-नगरे आर्य-साहित्य-मण्डलेन प्रकाशिता पण्डित-जय-देव-शर्मणा हिंदी-भाषायाम् अनूदिता सामवेद-संहिता। एतानि मुद्रितानि पुस्तकानि पाठ-भेद-निश्चयार्थं संप्रयुक्तानि ।
लिखित-ग्रन्थाः
लिखित ग्रन्थेषु आदर्शग्रन्था अतीव शुद्धा एते संमिलिता-
- (१) वटोदर-नगराद् आनीता श्रीमतां नरहरि-शंकर–भाइशंकर–शास्त्रिणां ग्रंथ-संग्रहात् संप्राप्ता साम-वेद-संहिता। एतत् पुस्तकं वैदिकानां सामपाठिनां पठन-पाठन-परम्परया शोधितम् अतीव शुद्धं शोभनाक्षरैश् च लिखितम् अस्ति ।
- (२) अष्टे-नगराद् आनीता श्री. शम्भुराव-गोविन्दराव-लिमये इत्येतेषां ग्रन्थ-संग्रहात् संप्राप्ता सामवेद-संहितातीव शुद्धा।
- (३) जुनागढात् प्राप्ता श्रीमतां जयन्ती-लाल-दयाराम-त्रिपाठिनां कौथुमी-शास्त्रीयानां संग्रहाद् आनीता परि-शुद्धा सामवेद-संहिता।
- (४) वरगुर-नगरे तंजावरप्रान्ते श्री. नागेश-राव-द्वारा ग्रन्थ-लिपिकायां मुद्रापितः संहिताग्रन्थो गान-ग्रन्थाश् च । सर्वे एते ग्रन्थाः कौथुमी-शाखाया दाक्षिणात्य-पाठ-प्रणालिकया मुदिताः शुद्धाः सन्ति ।
- (५) श्रीमतां लक्ष्मण-शंकर-द्रविडानां पुण्य-पत्तन-निवासिनां राणायणीय-शाखाध्यायिनां ग्रंथ-संग्रहाद् आनीता सामवेद-संहिताऽतीव शुद्धा सुपाठा सुपाठ्या च ।
एतान् ग्रन्थान् अवलोक्य साम-वेदस्यास्य कृतं मुद्रणम् ।
वेदादि-धर्मग्रन्थानां अल्पमूल्येन वितरणम्
आसीत् कच्छ-देशीय एकः श्रेष्ठी “नारायणजी पुरुषोत्तम”-नामा सत्यवाक्, उदारधीर् धर्मनिष्ठश् च । स आर्य-समाजस्य परमो भक्त आसीत् । आर्य-ग्रन्थानां वेदादि-ग्रन्थानां च प्रचारार्थं स यत्नवान् प्रचार-चिन्तन-परश् चाहर्निशम् आसीत् । यदा तस्य स्वर्गारोहणस्य समयः समागतः, तदा स्वकीया सर्व संपत् तेन आर्य-ग्रन्थानां प्रकाशनार्थं समर्पिता । एतेन धनेन “नारायणजी पुरुषोत्तम निधिः” निर्मितः ।
कञ्चित् कालात् पूर्व चतुर्णाम् अपि वेदानां विनामूल्येन प्रदानं वेदाभ्यासिनाम् अध्ययनार्थं कृतम् आसीद् अस्मान् निधेर् धनेन । तदनंतरं श्रीमताचार्येण मयाशंकरेण कृतः पूर्वमीमांसाया गुर्जर-भाषायाम् अनुवादो मुद्राप्य प्रकाशितो मीमांसाध्येतृभ्यो वितीर्यते विनामूल्येन, तद् अपि अस्य निधेर् धनेनैव क्रीयते।
अस्य निधेर् विश्वस्तैर् इदानीम् एव निश्चयः कृतः, यद् अस्य निधेः पञ्चसहस्त्र-रूप्यक-मितं धनं साम-वेद-प्रकाशनार्थं स्वाध्यायमण्डलाय देयम् । एतेन धनेन सामवेदस्य मुद्रणं भवतु, स च सामवेदो ऽल्पेनैव मूल्येन वेदाध्येतृभ्यः प्रदेयः। अस्मिन् प्रकाशन-कर्मणि या हानिर् भवेत् तस्या भारं निधि-विश्वस्ताः सहिष्यन्ति । सामवेद-प्रेमिभ्य एष वेद-ग्रंथोऽल्पेन मूल्येन प्राप्स्यतु इत्येष प्रशस्ततम उद्देशो विश्वस्तानां वर्तते । अन्येषाम् अपि वेदानाम् एवम् एव मुद्रण-व्यवस्थां चिकीर्षन्ति निधेर् विश्वस्ताः ।
वेदपाठकानां वेदाध्येतॄणां हितार्थं निधि-विश्वस्तानाम् एष निश्चयो वर्तते । सर्वजगन्नाथः परमेश्वरः आर्य-धर्म-ग्रन्थानाम् एवं प्रकाशनं कर्तुं विश्वस्तानां बलं संवर्धयतु, तथा च ’ कृण्वन्तो विश्वम् आर्यम् ’ इति वेदादेशस्य साफल्यार्थम् एष निधिः सदैव एवम् एव विविधानि आर्य-धर्म-ग्रंथानां प्रकाशन-कार्याणि करोतु इति आशासते विश्वस्ताः ।
पारडी, जि. सूरत
१६ । २। ५६
श्रीपाद दामोदर सातवळेकरः
माघ शु.५, सं. २०१२
अध्यक्षः- स्वाध्यायमण्डलस्य