२ (१२५३-१३४६)

01-1_1253 अक्रान्त्समुद्रः प्रथमे ...{Loading}...

अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ वि꣢꣫धर्म꣣न् ज꣡न꣢य꣣न्प्र꣡जा भु꣢꣯वनस्य꣣ गो꣢पाः। वृ꣡षा꣢ प꣣वि꣢त्रे꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ बृ꣣ह꣡त्सोमो꣢꣯ वावृधे स्वा꣣नो꣡ अद्रिः꣢꣯ ॥ 01-1:1253 ॥

विस्वर-मूलम् (VC)

अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य गोपाः । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥१२५३॥

01-2_1254 मत्सि वायुमिष्टये ...{Loading}...

म꣡त्सि꣢ वा꣣यु꣢मि꣣ष्ट꣢ये꣣ रा꣡ध꣢से नो꣣ म꣡त्सि꣢ मि꣣त्रा꣡वरु꣢꣯णा पू꣣य꣡मा꣢नः। म꣢त्सि꣣ श꣢र्धो꣣ मा꣡रु꣢तं꣣ म꣡त्सि꣢ दे꣣वा꣢꣫न्मत्सि꣣ द्या꣡वा꣢पृथि꣣वी꣡ दे꣢व सोम ॥ 01-2:1254 ॥

विस्वर-मूलम् (VC)

मत्सि वायुमिष्टये राधसे नो मत्सि मित्रावरुणा पूयमानः । मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥१२५४॥

01-3_1255 महत्तत्सोमो महिषश्चकारापाम् ...{Loading}...

म꣣ह꣡त्तत्सोमो꣢꣯ महि꣣ष꣡श्च꣢कारा꣣पां꣡ यद्गर्भोऽवृ꣢꣯णीत दे꣣वा꣢न्। अ꣡द꣢धा꣣दि꣢न्द्रे꣣ प꣡व꣢मान꣣ ओ꣡जोऽज꣢꣯नय꣣त्सू꣢र्ये꣣ ज्यो꣢ति꣣रि꣡न्दुः꣢ ॥ 01-3:1255 ॥ ॥1 (टै)॥ [धा. 28 । उ 1 । स्व. 8।]

मूलम् (VC)

म꣣ह꣡त्तत्सोमो꣢꣯ महि꣣ष꣡श्च꣢कारा꣣पां꣡ यद्गर्भोऽवृ꣢꣯णीत दे꣣वा꣢न् । अ꣡द꣢धा꣣दि꣢न्द्रे꣣ प꣡व꣢मान꣣ ओ꣡जोऽज꣢꣯नय꣣त्सू꣢र्ये꣣ ज्यो꣢ति꣣रि꣡न्दुः꣢ ॥१२५५॥

विस्वर-मूलम् (VC)

महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥१२५५॥

02-1_1256 एष देवो ...{Loading}...

ए꣣ष꣢ दे꣣वो꣡ अम꣢꣯र्त्यः पर्ण꣣वी꣡रि꣢व दीयते। अ꣣भि꣡ द्रोणा꣢꣯न्या꣣स꣡द꣢म् ॥ 02-1:1256 ॥

विस्वर-मूलम् (VC)

एष देवो अमर्त्यः पर्णवीरिव दीयते । अभि द्रोणान्यासदम् ॥१२५६॥

02-2_1257 एष विप्रैरभिष्टुतोऽपो ...{Loading}...

ए꣣ष꣡ विप्रै꣢꣯र꣣भि꣡ष्टु꣢तो꣣ऽपो꣢ दे꣣वो꣡ वि गा꣢꣯हते। द꣢ध꣣द्र꣡त्ना꣢नि दा꣣शु꣡षे꣢ ॥ 02-2:1257 ॥

मूलम् (VC)

ए꣣ष꣡ विप्रै꣢꣯र꣣भि꣡ष्टु꣢तो꣣ऽपो꣢ दे꣣वो꣡ वि गा꣢हते । द꣢ध꣣द्र꣡त्ना꣢नि दा꣣शु꣡षे꣢ ॥१२५७॥

विस्वर-मूलम् (VC)

एष विप्रैरभिष्टुतोऽपो देवो वि गाहते । दधद्रत्नानि दाशुषे ॥१२५७॥

02-3_1258 एष विश्वानि ...{Loading}...

ए꣣ष꣡ विश्वा꣢꣯नि꣣ वा꣢र्या꣣ शू꣢रो꣣ य꣡न्नि꣢व꣣ स꣡त्व꣢भिः। प꣡व꣢मानः सिषासति॥ 02-3:1258 ॥

विस्वर-मूलम् (VC)

एष विश्वानि वार्या शूरो यन्निव सत्वभिः । पवमानः सिषासति ॥१२५८॥

02-4_1259 एष देवो ...{Loading}...

ए꣣ष꣢ दे꣣वो꣡ र꣢थर्यति꣣ प꣡व꣢मानो दिशस्यति। आ꣣वि꣡ष्कृ꣢णोति वग्व꣣नु꣢म् ॥ 02-4:1259 ॥

विस्वर-मूलम् (VC)

एष देवो रथर्यति पवमानो दिशस्यति । आविष्कृणोति वग्वनुम् ॥१२५९॥

02-5_1260 एष देवो ...{Loading}...

ए꣣ष꣢ दे꣣वो꣡ वि꣢प꣣न्यु꣢भिः꣣ प꣡व꣢मान ऋता꣣यु꣡भिः꣢। ह꣢रि꣣र्वा꣡जा꣢य मृज्यते ॥ 02-5:1260 ॥

विस्वर-मूलम् (VC)

एष देवो विपन्युभिः पवमान ऋतायुभिः । हरिर्वाजाय मृज्यते ॥१२६०॥

02-6_1261 एष देवो ...{Loading}...

ए꣣ष꣢ दे꣣वो꣢ वि꣣पा꣢ कृ꣣तो꣢ऽति꣣ ह्व꣡रा꣢ꣳसि धावति। प꣡व꣢मानो꣣ अ꣡दा꣢भ्यः ॥ 02-6:1261 ॥

विस्वर-मूलम् (VC)

एष देवो विपा कृतोऽति ह्वराꣳसि धावति । पवमानो अदाभ्यः ॥१२६१॥

02-7_1262 एष दिवम् ...{Loading}...

ए꣣ष꣢꣫ दिवं꣣ वि꣡ धा꣢वति ति꣣रो꣡ रजा꣢꣯ꣳसि꣣ धा꣡र꣢या। प꣡व꣢मानः꣣ क꣡नि꣢क्रदत् ॥ 02-7:1262 ॥

विस्वर-मूलम् (VC)

एष दिवं वि धावति तिरो रजाꣳसि धारया । पवमानः कनिक्रदत् ॥१२६२॥

02-8_1263 एष दिवम् ...{Loading}...

ए꣣ष꣢꣫ दिवं꣣ व्या꣡स꣢रत्ति꣣रो꣢꣫ रजा꣣ꣳस्य꣡स्तृ꣢तः। प꣡व꣢मानः स्वध्व꣣रः꣢ ॥ 02-8:1263 ॥

विस्वर-मूलम् (VC)

एष दिवं व्यासरत्तिरो रजाꣳस्यस्तृतः । पवमानः स्वध्वरः ॥१२६३॥

02-9_1264 एष प्रत्नेन ...{Loading}...

ए꣣ष꣢ प्र꣣त्ने꣢न꣣ ज꣡न्म꣢ना दे꣣वो꣢ दे꣣वे꣡भ्यः꣢ सु꣣तः꣢। ह꣡रिः꣢ प꣣वि꣡त्रे꣢ अर्षति ॥ 02-9:1264 ॥

विस्वर-मूलम् (VC)

एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । हरिः पवित्रे अर्षति ॥१२६४॥

02-10_1265 एष उ ...{Loading}...

ए꣣ष꣢ उ꣣ स्य꣡ पु꣢रुव्र꣣तो꣡ ज꣢ज्ञा꣣नो꣢ ज꣣न꣢य꣣न्नि꣡षः꣢। धा꣡र꣢या पवते सु꣣तः꣢ ॥ 02-10:1265 ॥ ॥2 (दू)॥

मूलम् (VC)

ए꣣ष꣢ उ꣣ स्य꣡ पु꣢रुव्र꣣तो꣡ ज꣢ज्ञा꣣नो꣢ ज꣣न꣢य꣣न्नि꣡षः꣢ । धा꣡र꣢या पवते सु꣣तः꣢ ॥१२६५॥

विस्वर-मूलम् (VC)

एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः । धारया पवते सुतः ॥१२६५॥

03-1_1266 एष धिया ...{Loading}...

ए꣣ष꣢ धि꣣या꣢ या꣣त्य꣢ण्व्या꣣ शू꣢रो꣣ र꣡थे꣢भिरा꣣शु꣡भिः꣢। ग꣢च्छ꣣न्नि꣡न्द्र꣢स्य निष्कृ꣣त꣢म् ॥ 03-1:1266 ॥

विस्वर-मूलम् (VC)

एष धिया यात्यण्व्या शूरो रथेभिराशुभिः । गच्छन्निन्द्रस्य निष्कृतम् ॥१२६६॥

03-2_1267 एष पुरू ...{Loading}...

ए꣣ष꣢ पु꣣रू꣡ धि꣢यायते बृह꣣ते꣢ दे꣣व꣡ता꣢तये। य꣢त्रा꣣मृ꣡ता꣢स꣣ आ꣡श꣢त ॥ 03-2:1267 ॥

मूलम् (VC)

ए꣣ष꣢ पु꣣रु꣡ धि꣢यायते बृह꣣ते꣢ दे꣣व꣡ता꣢तये । य꣢त्रा꣣मृ꣡ता꣢स꣣ आ꣡श꣢त ॥१२६७॥

विस्वर-मूलम् (VC)

एष पुरु धियायते बृहते देवतातये । यत्रामृतास आशत ॥१२६७॥

03-3_1268 एतं मृजन्ति ...{Loading}...

ए꣣तं꣡ मृ꣢जन्ति꣣ म꣢र्ज्य꣣मु꣢प꣣ द्रो꣡णे꣢ष्वा꣣य꣡वः꣢। प्र꣣चक्राणं꣢ म꣣ही꣡रिषः꣢꣯ ॥ 03-3:1268 ॥

विस्वर-मूलम् (VC)

एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः । प्रचक्राणं महीरिषः ॥१२६८॥

03-4_1269 एष हितो ...{Loading}...

ए꣣ष꣢ हि꣣तो꣡ वि नी꣢꣯यते꣣ऽन्तः꣢ शु꣣न्ध्या꣡व꣢ता प꣣था꣢। य꣡दी꣢ तु꣣ञ्ज꣢न्ति꣣ भू꣡र्ण꣢यः ॥ 03-4:1269 ॥

विस्वर-मूलम् (VC)

एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा । यदी तुञ्जन्ति भूर्णयः ॥१२६९॥

03-5_1270 एष रुक्मिभिरीयते ...{Loading}...

ए꣣ष꣢ रु꣣क्मि꣡भि꣢रीयते वा꣣जी꣢ शु꣣भ्रे꣡भि꣢र꣣ꣳशु꣡भिः꣢। प꣢तिः꣣ सि꣡न्धू꣢नां꣣ भ꣡व꣢न् ॥ 03-5:1270 ॥

विस्वर-मूलम् (VC)

एष रुक्मिभिरीयते वाजी शुभ्रेभिरꣳशुभिः । पतिः सिन्धूनां भवन् ॥१२७०॥

03-6_1271 एष शृङ्गाणि ...{Loading}...

ए꣣ष꣡ शृङ्गा꣢꣯णि꣣ दो꣡धु꣢व꣣च्छि꣡शी꣢ते यू꣣थ्यो꣢क꣣ऽ. वृ꣡षा꣢। नृ꣣म्णा꣡ दधा꣢꣯न꣣ ओ꣡ज꣢सा ॥ 03-6:1271 ॥

मूलम् (VC)

ए꣣ष꣡ शृङ्गा꣢꣯णि꣣ दो꣡धु꣢व꣣च्छि꣡शी꣢ते यू꣣थ्यो꣣꣬३꣱वृ꣡षा꣢ । नृ꣣म्णा꣡ दधा꣢꣯न꣣ ओ꣡ज꣢सा ॥१२७१॥

विस्वर-मूलम् (VC)

एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो३वृषा । नृम्णा दधान ओजसा ॥१२७१॥

03-7_1272 एष वसूनि ...{Loading}...

ए꣣ष꣡ वसू꣢꣯नि पिब्द꣣नः꣡ परु꣢꣯षा꣣ ययि꣣वा꣡ꣳ अति꣢꣯। अ꣢व꣣ शा꣡दे꣢षु गच्छति ॥ 03-7:1272 ॥

विस्वर-मूलम् (VC)

एष वसूनि पिब्दनः परुषा ययिवाꣳ अति । अव शादेषु गच्छति ॥१२७२॥

03-8_1273 एतमु त्यम् ...{Loading}...

ए꣣त꣢मु꣣ त्यं꣢꣫ दश꣣ क्षि꣢पो꣣ ह꣡रि꣢ꣳ हिन्वन्ति꣣ या꣡त꣢वे। स्वा꣣युधं꣢ म꣣दि꣡न्त꣢मम् ॥ 03-8:1273 ॥ ॥3 (के)॥

मूलम् (VC)

ए꣣त꣢मु꣣ त्यं꣢꣫ दश꣣ क्षि꣢पो꣣ ह꣡रि꣢ꣳ हिन्वन्ति꣣ या꣡त꣢वे । स्वा꣣युधं꣢ म꣣दि꣡न्त꣢मम् ॥१२७३॥

विस्वर-मूलम् (VC)

एतमु त्यं दश क्षिपो हरिꣳ हिन्वन्ति यातवे । स्वायुधं मदिन्तमम् ॥१२७३॥

04-1_1274 एष उ ...{Loading}...

ए꣣ष꣢ उ꣣ स्य꣢꣫ वृषा꣣ र꣢꣫थोऽव्या꣣ वा꣡रे꣢भिरव्यत। ग꣢च्छ꣣न्वा꣡ज꣢ꣳ सह꣣स्रि꣡ण꣢म् ॥ 04-1:1274 ॥

मूलम् (VC)

ए꣣ष꣢ उ꣣ स्य꣢꣫ वृषा꣣ र꣢꣫थोऽव्या꣣ वारे꣡भि꣢रव्यत । ग꣢च्छ꣣न्वा꣡ज꣢ꣳ सह꣣स्रि꣡ण꣢म् ॥१२७४॥

विस्वर-मूलम् (VC)

एष उ स्य वृषा रथोऽव्या वारेभिरव्यत । गच्छन्वाजꣳ सहस्रिणम् ॥१२७४॥

04-2_1275 एतं त्रितस्य ...{Loading}...

ए꣣तं꣢ त्रि꣣त꣢स्य꣣ यो꣡ष꣢णो꣣ ह꣡रि꣢ꣳ हिन्व꣣न्त्य꣡द्रि꣢भिः। इ꣢न्दु꣣मि꣡न्द्रा꣢य पी꣣त꣡ये꣢ ॥ 04-2:1275 ॥

विस्वर-मूलम् (VC)

एतं त्रितस्य योषणो हरिꣳ हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥१२७५॥

04-3_1276 एष स्य ...{Loading}...

ए꣣ष꣡ स्य मानु꣢꣯षी꣣ष्वा꣢ श्ये꣣नो꣢꣫ न वि꣣क्षु꣡ सी꣢दति। ग꣡च्छं꣢ जा꣣रो꣢꣫ न योषि꣣त꣡म्꣢ ॥ 04-3:1276 ॥

मूलम् (VC)

ए꣣ष꣡ स्य मानु꣢꣯षी꣣ष्वा꣢ श्ये꣣नो꣢꣫ न वि꣣क्षु꣡ सी꣢दति । ग꣡च्छ꣢ञ्जा꣣रो꣢꣫ न यो꣣षि꣡त꣢म् ॥१२७६॥

विस्वर-मूलम् (VC)

एष स्य मानुषीष्वा श्येनो न विक्षु सीदति । गच्छञ्जारो न योषितम् ॥१२७६॥

04-4_1277 एष स्य ...{Loading}...

ए꣣ष꣢꣫ स्य मद्यो꣣ र꣡सोऽव꣢꣯ चष्टे दि꣣वः꣡ शिशुः꣢꣯। य꣢꣫ इन्दु꣣र्वा꣢र꣣मा꣡वि꣢शत् ॥ 04-4:1277 ॥

विस्वर-मूलम् (VC)

एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः । य इन्दुर्वारमाविशत् ॥१२७७॥

04-5_1278 एष स्य ...{Loading}...

ए꣣ष꣢꣫ स्य पी꣣त꣡ये꣢ सु꣣तो꣡ हरि꣢꣯रर्षति धर्ण꣣सिः꣢। क्र꣢न्द꣣न्यो꣡नि꣢म꣣भि꣢ प्रि꣣य꣢म् ॥ 04-5:1278 ॥

विस्वर-मूलम् (VC)

एष स्य पीतये सुतो हरिरर्षति धर्णसिः । क्रन्दन्योनिमभि प्रियम् ॥१२७८॥

04-6_1279 एतं त्यम् ...{Loading}...

ए꣣तं꣢꣫ त्यꣳ ह꣣रि꣢तो꣣ द꣡श꣢ मर्मृ꣣ज्य꣡न्ते꣢ अप꣣स्यु꣡वः꣢। या꣢भि꣣र्म꣡दा꣢य꣣ शु꣡म्भ꣢ते ॥ 04-6:1279 ॥ ॥4 (बी)॥

मूलम् (VC)

ए꣣तं꣢꣫ त्यꣳ ह꣣रि꣢तो꣣ द꣡श꣢ मर्मृ꣣ज्य꣡न्ते꣢ अप꣣स्यु꣡वः꣢ । या꣢भि꣣र्म꣡दा꣢य꣣ शु꣡म्भ꣢ते ॥१२७९॥

विस्वर-मूलम् (VC)

एतं त्यꣳ हरितो दश मर्मृज्यन्ते अपस्युवः । याभिर्मदाय शुम्भते ॥१२७९॥

05-1_1280 एष वाजी ...{Loading}...

ए꣣ष꣢ वा꣣जी꣢ हि꣣तो꣡ नृभि꣢꣯र्विश्व꣣वि꣡न्मन꣢꣯स꣣स्प꣡तिः꣢। अ꣢व्यं꣣ वा꣢रं꣣ वि꣡ धा꣢वति ॥ 05-1:1280 ॥

विस्वर-मूलम् (VC)

एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः । अव्यं वारं वि धावति ॥१२८०॥

05-2_1281 एष पवित्रे ...{Loading}...

ए꣣ष꣢ प꣣वि꣡त्रे꣢ अक्षर꣣त्सो꣡मो꣢ दे꣣वे꣡भ्यः꣢ सु꣣तः꣢। वि꣢श्वा꣣ धा꣡मा꣢न्यावि꣣श꣢न् ॥ 05-2:1281 ॥

विस्वर-मूलम् (VC)

एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः । विश्वा धामान्याविशन् ॥१२८१॥

05-3_1282 एष देवः ...{Loading}...

ए꣣ष꣢ दे꣣वः꣡ शु꣢भाय꣣ते꣢ऽधि꣣ यो꣢ना꣣व꣡म꣢र्त्यः। वृ꣣त्रहा꣡ दे꣢व꣣वी꣡त꣢मः ॥ 05-3:1282 ॥

विस्वर-मूलम् (VC)

एष देवः शुभायतेऽधि योनावमर्त्यः । वृत्रहा देववीतमः ॥१२८२॥

05-4_1283 एष वृषा ...{Loading}...

ए꣣ष꣢꣫ वृषा꣣ क꣡नि꣢क्रदद्द꣣श꣡भि꣢र्जा꣣मि꣡भि꣢र्य꣣तः꣢। अ꣣भि꣡ द्रोणा꣢꣯नि धावति ॥ 05-4:1283 ॥

विस्वर-मूलम् (VC)

एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः । अभि द्रोणानि धावति ॥१२८३॥

05-5_1284 एष सूर्यमरोचयत्पवमानो ...{Loading}...

ए꣣ष꣡ सूर्य꣢꣯मरोचय꣣त्प꣡व꣢मानो꣣ अ꣢धि꣣ द्य꣡वि꣢। प꣣वि꣡त्रे꣢ मत्स꣣रो꣡ मदः꣢꣯ ॥ 05-5:1284 ॥

विस्वर-मूलम् (VC)

एष सूर्यमरोचयत्पवमानो अधि द्यवि । पवित्रे मत्सरो मदः ॥१२८४

05-6_1285 एष सूर्येण ...{Loading}...

ए꣣ष꣡ सूर्ये꣢꣯ण हासते स꣣व꣡सा꣢नो वि꣣व꣡स्व꣢ता। प꣡ति꣢र्वा꣣चो꣡ अदा꣢꣯भ्यः ॥ 05-6:1285 ॥ ॥5 (के)॥

मूलम् (VC)

ए꣣ष꣡ सूर्ये꣢꣯ण हासते सं꣣व꣡सा꣢नो वि꣣व꣡स्व꣢ता । प꣡ति꣢र्वा꣣चो꣡ अदा꣢꣯भ्यः ॥१२८५

विस्वर-मूलम् (VC)

एष सूर्येण हासते संवसानो विवस्वता । पतिर्वाचो अदाभ्यः ॥१२८५

06-1_1286 एष कविरभिष्टुतः ...{Loading}...

ए꣣ष꣢ क꣣वि꣢र꣣भि꣡ष्टु꣢तः प꣣वि꣢त्रे꣣ अ꣡धि꣢ तोशते। पु꣣नानो꣢꣫ घ्नन्नप꣣ द्वि꣡षः꣢ ॥ 06-1:1286 ॥

मूलम् (VC)

ए꣣ष꣢ क꣣वि꣢र꣣भि꣡ष्टु꣢तः प꣣वि꣢त्रे꣣ अ꣡धि꣢ तोशते । पु꣣ना꣢꣫नो घ्नन्नप꣣ द्वि꣡षः꣢ ॥१२८६॥

विस्वर-मूलम् (VC)

एष कविरभिष्टुतः पवित्रे अधि तोशते । पुनानो घ्नन्नप द्विषः ॥१२८६॥

06-2_1287 एष इन्द्राय ...{Loading}...

ए꣣ष꣢꣫ इन्द्रा꣢꣯य वा꣣य꣡वे꣢ स्व꣣र्जि꣡त्परि꣢꣯ षिच्यते। प꣣वि꣡त्रे꣢ दक्ष꣣सा꣡ध꣢नः ॥ 06-2:1287 ॥

मूलम् (VC)

ए꣣ष꣡ इन्द्रा꣢꣯य वा꣣य꣡वे꣢ स्व꣣र्जि꣡त्परि꣢꣯ षिच्यते । प꣣वि꣡त्रे꣢ दक्ष꣣सा꣡ध꣢नः ॥१२८७॥

विस्वर-मूलम् (VC)

एष इन्द्राय वायवे स्वर्जित्परि षिच्यते । पवित्रे दक्षसाधनः ॥१२८७॥

06-3_1288 एष नृभिर्वि ...{Loading}...

ए꣣ष꣢꣫ नृभि꣣र्वि꣡ नी꣢यते दि꣣वो꣢ मू꣣र्धा꣡ वृषा꣢꣯ सु꣣तः꣢। सो꣢मो꣣ व꣡ने꣢षु विश्व꣣वि꣢त् ॥ 06-3:1288 ॥

विस्वर-मूलम् (VC)

एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः । सोमो वनेषु विश्ववित् ॥१२८८॥

06-4_1289 एष गव्युरचिक्रदत्पवमानो ...{Loading}...

ए꣣ष꣢ ग꣣व्यु꣡र꣢चिक्रद꣣त्प꣡व꣢मानो हिरण्य꣣युः꣢। इ꣡न्दुः꣢ सत्रा꣣जि꣡दस्तृ꣢꣯तः ॥ 06-4:1289 ॥

विस्वर-मूलम् (VC)

एष गव्युरचिक्रदत्पवमानो हिरण्ययुः । इन्दुः सत्राजिदस्तृतः ॥१२८९॥

06-5_1290 एष शुष्म्यसिष्यददन्तरिक्षे ...{Loading}...

ए꣣ष꣢ शु꣣꣬ष्म्य꣢꣯सिष्यदद꣣न्त꣡रि꣢क्षे꣣ वृ꣢षा꣣ ह꣡रिः꣢। पु꣣नान꣢꣫ इन्दु꣣रि꣢न्द्र꣣मा꣡ ॥ 06-5:1290 ॥

मूलम् (VC)

ए꣣ष꣢ शु꣣꣬ष्म्य꣢꣯सिष्यदद꣣न्त꣡रि꣢क्षे꣣ वृ꣢षा꣣ ह꣡रिः꣢ । पु꣣ना꣢꣫न इन्दु꣣रि꣢न्द्र꣣मा꣡ ॥१२९०॥

विस्वर-मूलम् (VC)

एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः । पुनान इन्दुरिन्द्रमा ॥१२९०॥

06-6_1291 एष शुष्म्यदाभ्यः ...{Loading}...

ए꣣ष꣢ शु꣣ष्म्य꣡दा꣢भ्यः꣣ सो꣡मः꣢ पुना꣣नो꣡ अ꣢र्षति। दे꣣वावी꣡र꣢घशꣳस꣣हा꣢ ॥ 06-6:1291 ॥ ॥6 (गु)॥

मूलम् (VC)

ए꣣ष꣢ शु꣣ष्म्य꣡दा꣢भ्यः꣣ सो꣡मः꣢ पुना꣣नो꣡ अ꣢र्षति । दे꣣वावी꣡र꣢घशꣳस꣣हा꣢ ॥१२९१॥

विस्वर-मूलम् (VC)

एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति । देवावीरघशꣳसहा ॥१२९१॥

07-1_1292 स सुतः ...{Loading}...

स꣢ सु꣣तः꣢ पी꣣त꣢ये꣣ वृ꣢षा꣣ सो꣡मः꣢ प꣣वि꣡त्रे꣢ अर्षति। वि꣣घ्न꣡न्रक्षा꣢꣯ꣳसि देव꣣युः꣢ ॥ 07-1:1292 ॥

विस्वर-मूलम् (VC)

स सुतः पीतये वृषा सोमः पवित्रे अर्षति । विघ्नन्रक्षाꣳसि देवयुः ॥१२९२॥

07-2_1293 स पवित्रे ...{Loading}...

स꣢ प꣣वि꣡त्रे꣢ विचक्ष꣣णो꣡ हरि꣢꣯रर्षति धर्ण꣣सिः꣢। अ꣣भि꣢꣫ योनिं꣣ क꣡नि꣢क्रदत् ॥ 07-2:1293 ॥

विस्वर-मूलम् (VC)

स पवित्रे विचक्षणो हरिरर्षति धर्णसिः । अभि योनिं कनिक्रदत् ॥१२९३॥

07-3_1294 स वाजी ...{Loading}...

स꣢ वा꣣जी꣡ रो꣢च꣣नं꣢ दि꣣वः꣡ पव꣢꣯मानो꣣ वि꣡ धा꣢वति। र꣣क्षोहा꣡ वार꣢꣯म꣣व्य꣡य꣢म् ॥ 07-3:1294 ॥

विस्वर-मूलम् (VC)

स वाजी रोचनं दिवः पवमानो वि धावति । रक्षोहा वारमव्ययम् ॥१२९४॥

07-4_1295 स त्रितस्याधि ...{Loading}...

स꣢ त्रि꣣त꣢꣫स्याधि꣣ सा꣡न꣢वि꣣ प꣡व꣢मानो अरोचयत्। जा꣣मि꣢भिः꣣सू꣡र्य꣢ꣳ स꣣ह꣢ ॥ 07-4:1295 ॥

विस्वर-मूलम् (VC)

स त्रितस्याधि सानवि पवमानो अरोचयत् । जामिभिः सूर्यꣳ सह ॥१२९५॥

07-5_1296 स वृत्रहा ...{Loading}...

स꣡ वृ꣢त्र꣣हा꣡ वृषा꣢꣯ सु꣣तो꣡ व꣢रिवो꣣वि꣡ददा꣢꣯भ्यः। सो꣢मो꣣ वा꣡ज꣢मिवासरत् ॥ 07-5:1296 ॥

विस्वर-मूलम् (VC)

स वृत्रहा वृषा सुतो वरिवोविददाभ्यः । सोमो वाजमिवासरत् ॥१२९६॥

07-6_1297 स देवः ...{Loading}...

स꣢ दे꣣वः꣢ क꣣वि꣡ने꣢षि꣣तो꣢꣣ऽ.भि꣡ द्रोणा꣢꣯नि धावति। इ꣢न्दु꣣रि꣡न्द्रा꣢य म꣣ꣳह꣡य꣢न् ॥ 07-6:1297 ॥ ॥7 (खे)॥

मूलम् (VC)

स꣢ दे꣣वः꣢ क꣣वि꣡ने꣢षि꣣तो꣢३꣱ऽभि꣡ द्रोणा꣢꣯नि धावति । इ꣢न्दु꣣रि꣡न्द्रा꣢य म꣣ꣳह꣡य꣢न् ॥१२९७॥

विस्वर-मूलम् (VC)

स देवः कविनेषितो३ऽभि द्रोणानि धावति । इन्दुरिन्द्राय मꣳहयन् ॥१२९७॥

08-1_1298 यः पावमानीरध्येत्यृषिभिः ...{Loading}...

यः꣡ पा꣢वमा꣣नी꣢र꣣ध्ये꣡त्यृषि꣢꣯भिः꣣ स꣡म्भृ꣢त꣣ꣳर꣡स꣢म्। स꣢र्व꣣ꣳ स꣢ पू꣣त꣡म꣢श्नाति स्वदि꣣तं꣡ मा꣢त꣣रि꣡श्व꣢ना ॥ 08-1:1298 ॥

विस्वर-मूलम् (VC)

यः पावमानीरध्येत्यृषिभिः सम्भृतꣳ रसम् । सर्वꣳ स पूतमश्नाति स्वदितं मातरिश्वना ॥१२९८॥

08-2_1299 पावमानीउयो अध्येत्यृषिभिः ...{Loading}...

पा꣣वमानी꣢उयो अ꣣ध्ये꣡त्यृषि꣢꣯भिः꣣ स꣡म्भृ꣢त꣣ꣳर꣡स꣢म्। त꣢स्मै꣣ स꣡र꣢स्वती दुहे क्षी꣣र꣢ꣳ स꣣र्पि꣡र्मधू꣢꣯द꣣क꣢म् ॥ 08-2:1299 ॥

मूलम् (VC)

पा꣣वमानी꣢꣫र्यो अ꣣ध्ये꣡त्यृषि꣢꣯भिः꣣ स꣡म्भृ꣢त꣣ꣳ र꣡स꣢म् । त꣢स्मै꣣ स꣡र꣢स्वती दुहे क्षी꣣र꣢ꣳ स꣣र्पि꣡र्म꣢꣯धूद꣣क꣢म् ॥१२९९॥

विस्वर-मूलम् (VC)

पावमानीर्यो अध्येत्यृषिभिः सम्भृतꣳ रसम् । तस्मै सरस्वती दुहे क्षीरꣳ सर्पिर्मधूदकम् ॥१२९९॥

08-3_1300 पावमानीः स्वस्त्ययनीः ...{Loading}...

पा꣣वमानीः꣢ स्व꣣स्त्य꣡य꣢नीः सु꣣दु꣢घा꣣ हि꣡ घृ꣢त꣣श्चु꣡तः꣢। ऋ꣡षि꣢भिः꣣ स꣡भृ꣢तो꣣ र꣡सो꣢ ब्राह्म꣣णे꣢ष्व꣣मृ꣡त꣢ꣳ हि꣣त꣢म् ॥ 08-3:1300 ॥

मूलम् (VC)

पा꣣वमानीः꣢ स्व꣣स्त्य꣡य꣢नीः सु꣣दु꣢घा꣣ हि꣡ घृ꣢त꣣श्चु꣡तः꣢ । ऋ꣡षि꣢भिः꣣ सं꣡भृ꣢तो꣣ र꣡सो꣢ ब्राह्म꣣णे꣢ष्व꣣मृ꣡त꣢ꣳ हि꣣त꣢म् ॥१३००

विस्वर-मूलम् (VC)

पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः । ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतꣳ हितम् ॥१३००

08-4_1301 पावमानीर्दधन्तु न ...{Loading}...

पा꣣वमानी꣡र्द꣢धन्तु न इ꣣मं꣢ लो꣣क꣡मथो꣢꣯ अ꣣मु꣢म्। का꣢मा꣣न्त्स꣡म꣢र्धयन्तु नो दे꣣वी꣢र्दे꣣वैः꣢ स꣣मा꣡हृ꣢ताः ॥ 08-4:1301 ॥

विस्वर-मूलम् (VC)

पावमानीर्दधन्तु न इमं लोकमथो अमुम् । कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः ॥१३०१

08-5_1302 येन देवाः ...{Loading}...

ये꣡न꣢ दे꣣वाः꣢ प꣣वि꣡त्रे꣢णा꣣त्मा꣡नं꣢ पु꣣न꣢ते꣣ स꣡दा꣢। ते꣡न꣢ स꣣ह꣡स्र꣢धारेण पावमा꣣नीः꣡ पु꣢नन्तु नः ॥ 08-5:1302 ॥

विस्वर-मूलम् (VC)

येन देवाः पवित्रेणात्मानं पुनते सदा । तेन सहस्रधारेण पावमानीः पुनन्तु नः ॥१३०२

08-6_1303 पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति ...{Loading}...

पा꣣वमानीः꣡ स्व꣣स्त्य꣡य꣢नी꣣स्ता꣡भि꣢र्गच्छति नान्द꣣न꣢म्। पु꣡ण्या꣢ꣳश्च भ꣣क्षा꣡न्भ꣢क्षयत्यमृत꣣त्वं꣡ च꣢ गच्छति ॥ 08-6:1303 ॥ ॥8 (ती)॥

मूलम् (VC)

पा꣣वमानीः꣡ स्व꣣स्त्य꣡य꣢नी꣣स्ता꣡भि꣢र्गच्छति नान्द꣣न꣢म् । पु꣡ण्या꣢ꣳश्च भ꣣क्षा꣡न्भ꣢क्षयत्यमृत꣣त्वं꣡ च꣢ गच्छति ॥१३०३

विस्वर-मूलम् (VC)

पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम् । पुण्याꣳश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति ॥१३०३

09-1_1304 अगन्म महा ...{Loading}...

अ꣡ग꣢न्म म꣣हा꣡ नम꣢꣯सा꣣ य꣡वि꣢ष्ठं꣣ यो꣢ दी꣣दा꣢य꣣ स꣡मि꣢द्धः꣣ स्वे꣡ दु꣢रो꣣णे꣢। चि꣣त्र꣡भा꣢नु꣣ꣳ रो꣡द꣢सी अ꣣न्त꣢रु꣣र्वी꣡ स्वा꣢हुतं वि꣣श्व꣡तः꣢ प्र꣣त्य꣡ञ्च꣢म् ॥ 09-1:1304 ॥

विस्वर-मूलम् (VC)

अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानुꣳ रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥१३०४॥

09-2_1305 स मह्ना ...{Loading}...

स꣢ म꣣ह्ना꣡ विश्वा꣢꣯ दु꣣रिता꣡नि꣢ सा꣣ह्वा꣢न꣣ग्नि꣡ ष्ट꣢वे꣣ द꣢म꣣ आ꣢ जा꣣त꣡वे꣢दाः। स꣡ नो꣢ रक्षिषद्दुरि꣣ता꣡द꣢व꣣द्या꣢द꣣स्मा꣡न्गृ꣢ण꣣त꣢ उ꣣त꣡ नो꣢ म꣣घो꣡नः꣢ ॥ 09-2:1305 ॥

मूलम् (VC)

स꣢ म꣣ह्ना꣡ विश्वा꣢꣯ दुरि꣣ता꣡नि꣢ सा꣣ह्वा꣢न꣣ग्नि꣡ ष्ट꣢वे꣣ द꣢म꣣ आ꣢ जा꣣त꣡वे꣢दाः । स꣡ नो꣢ रक्षिषद्दुरि꣣ता꣡द꣢व꣣द्या꣢द꣣स्मा꣡न्गृ꣢ण꣣त꣢ उ꣣त꣡ नो꣢ म꣣घो꣡नः꣢ ॥१३०५॥

विस्वर-मूलम् (VC)

स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः । स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥१३०५॥

09-3_1306 त्वं वरुण ...{Loading}...

त्वं꣡ वरु꣢꣯ण उ꣣त꣢ मि꣣त्रो꣡ अ꣢ग्ने꣣ त्वां꣡ व꣢र्धन्ति म꣣ति꣢भि꣣र्व꣡सि꣢ष्ठाः। त्वे꣡ वसु꣢꣯ सुषण꣣ना꣡नि꣢ सन्तु यू꣣यं꣡ पा꣢त स्व꣣स्ति꣢भिः꣣ स꣡दा꣢ नः ॥ 09-3:1306 ॥ ॥9 (ही)॥ [धा. 21 । उ नास्ति । स्व. 4।]

मूलम् (VC)

त्वं꣡ वरु꣢꣯ण उ꣣त꣢ मि꣣त्रो꣡ अ꣢ग्ने꣣ त्वां꣡ व꣢र्धन्ति म꣣ति꣢भि꣣र्व꣡सि꣢ष्ठाः । त्वे꣡ वसु꣢꣯ सुषण꣣ना꣡नि꣢ सन्तु यू꣣यं꣡ पा꣢त स्व꣣स्ति꣢भिः꣣ स꣡दा꣢ नः ॥१३०६॥

विस्वर-मूलम् (VC)

त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः । त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥१३०६॥

10-1_1307 महां इन्द्रो ...{Loading}...

म꣣हा꣢꣫ꣳ इन्द्रो꣣ य꣡ ओज꣢꣯सा प꣣र्ज꣡न्यो꣢ वृष्टि꣣मा꣡ꣳ इ꣢व। स्तो꣡मै꣢र्व꣣त्स꣡स्य꣢ वावृधे ॥ 10-1:1307 ॥

विस्वर-मूलम् (VC)

महाꣳ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाꣳ इव । स्तोमैर्वत्सस्य वावृधे ॥१३०७॥

10-2_1308 कण्वा इन्द्रम् ...{Loading}...

क꣢ण्वा꣣ इ꣢न्द्रं꣣ य꣡दक्र꣢꣯त꣣ स्तो꣡मै꣢र्य꣣ज्ञ꣢स्य꣣ सा꣡ध꣢नम्। जा꣣मि꣡ ब्रु꣢वत꣣ आ꣡यु꣢धा ॥ 10-2:1308 ॥

मूलम् (VC)

क꣢ण्वा꣣ इ꣢न्द्रं꣣ य꣡दक्र꣢꣯त꣣ स्तो꣡मै꣢र्य꣣ज्ञ꣢स्य꣣ सा꣡ध꣢नम् । जा꣣मि꣡ ब्रु꣢व꣣त आ꣡यु꣢धा ॥१३०८॥

विस्वर-मूलम् (VC)

कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् । जामि ब्रुवत आयुधा ॥१३०८॥

10-3_1309 प्रजामृतस्य पिप्रतः ...{Loading}...

प्र꣣जा꣢मृ꣣त꣢स्य꣣ पि꣡प्र꣢तः꣣ प्र꣡ यद्भर꣢꣯न्त꣣ व꣡ह्न꣢यः। वि꣡प्रा꣢ ऋ꣣त꣢स्य꣣ वा꣡ह꣢सा ॥ 10-3:1309 ॥ ॥10 (टि)॥

मूलम् (VC)

प्र꣣जा꣢मृ꣣त꣢स्य꣣ पि꣡प्र꣢तः꣣ प्र꣡ यद्भर꣢꣯न्त꣣ व꣡ह्न꣢यः । वि꣡प्रा꣢ ऋ꣣त꣢स्य꣣ वा꣡ह꣢सा ॥१३०९॥

विस्वर-मूलम् (VC)

प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः । विप्रा ऋतस्य वाहसा ॥१३०९॥

11-1_1310 पवमानस्य जिघ्नतो ...{Loading}...

प꣡व꣢मानस्य꣣ जि꣡घ्न꣢तो꣣ ह꣡रे꣢श्च꣣न्द्रा꣡ अ꣢सृक्षत। जी꣣रा꣡ अ꣢जि꣣र꣡शो꣢चिषः ॥ 11-1:1310 ॥

विस्वर-मूलम् (VC)

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत । जीरा अजिरशोचिषः ॥१३१०॥

11-2_1311 पवमानो रथीतमः ...{Loading}...

प꣣व꣢मानो र꣣थी꣡त꣢मः शु꣣भ्रे꣡भिः꣢ शु꣣भ्र꣡श꣢स्तमः। ह꣡रि꣢श्चन्द्रो म꣣रु꣡द्ग꣢णः ॥ 11-2:1311 ॥

विस्वर-मूलम् (VC)

पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । हरिश्चन्द्रो मरुद्गणः ॥१३११॥

11-3_1312 पवमान व्यश्नुहि ...{Loading}...

प꣡व꣢मान꣣꣬ व्य꣢꣯श्नुहि र꣣श्मि꣡भि꣢र्वाज꣣सा꣡त꣢मः। द꣡ध꣢त्स्तो꣣त्रे꣢ सु꣣वी꣡र्य꣢म् ॥ 11-3:1312 ॥ ॥11 (ह)॥ [धा. 11 । उ नास्ति । स्व. 1।]

मूलम् (VC)

प꣡व꣢मान꣣꣬ व्य꣢꣯श्नुहि र꣣श्मि꣡भि꣢र्वाज꣣सा꣡त꣢मः । द꣡ध꣢त्स्तो꣣त्रे꣢ सु꣣वी꣡र्य꣢म् ॥१३१२

विस्वर-मूलम् (VC)

पवमान व्यश्नुहि रश्मिभिर्वाजसातमः । दधत्स्तोत्रे सुवीर्यम् ॥१३१२

12-1_1313 परीतो षिञ्चता ...{Loading}...

प꣢री꣣तो꣡ षि꣢ञ्चता सु꣣त꣢꣫ꣳसोमो꣣ य꣡ उ꣢त्त꣣म꣢ꣳ ह꣣विः꣢। द꣣धन्वा꣡ꣳ यो नर्यो꣢꣯ अ꣣प्स्वा꣢꣣ऽ.न्त꣢उा सु꣣षा꣢व꣣ सो꣢म꣣म꣡द्रि꣢भिः ॥ 12-1:1313 ॥

मूलम् (VC)

प꣢री꣣तो꣡ षि꣢ञ्चता सु꣣त꣢꣫ꣳ सोमो꣣ य꣡ उ꣢त्त꣣म꣢ꣳ ह꣣विः꣢ । द꣣धन्वा꣡ꣳ यो नर्यो꣢꣯ अ꣣प्स्वा꣢३꣱न्त꣢꣫रा सु꣣षा꣢व꣣ सो꣢म꣣म꣡द्रि꣢भिः ॥१३१३

विस्वर-मूलम् (VC)

परीतो षिञ्चता सुतꣳ सोमो य उत्तमꣳ हविः । दधन्वाꣳ यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ॥१३१३

12-2_1314 नूनं पुनानोऽविभिः ...{Loading}...

नू꣣नं꣡ पु꣢ना꣣नो꣡ऽवि꣢भिः꣣ प꣡रि꣢ स्र꣣वा꣡द꣢ब्धः सुर꣣भि꣡न्त꣢रः। सु꣣ते꣡ चि꣢त्वा꣣प्सु꣡ म꣢दामो꣣ अ꣡न्ध꣢सा श्री꣣ण꣢न्तो꣣ गो꣢भि꣣रु꣡त्त꣢रम् ॥ 12-2:1314 ॥

विस्वर-मूलम् (VC)

नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः । सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥१३१४॥

12-3_1315 परि स्वानश्चक्षसे ...{Loading}...

प꣡रि꣢ स्वा꣣न꣡श्चक्ष꣢꣯से देव꣣मा꣡द꣢नः꣣ क्र꣢तु꣣रि꣡न्दु꣢र्विचक्ष꣣णः꣢ ॥ 12-3:1315 ॥ ॥12 (खा)॥ [धा. 16 । उ 2 । स्व. 2।]

मूलम् (VC)

प꣡रि꣢ स्वा꣣न꣡श्चक्ष꣢꣯से देव꣣मा꣡द꣢नः꣣ क्र꣢तु꣣रि꣡न्दु꣢र्विचक्ष꣣णः꣢ ॥१३१५

विस्वर-मूलम् (VC)

परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥१३१५

13-1_1316 असावि सोमो ...{Loading}...

अ꣡सा꣢वि꣣ सो꣡मो꣢ अरु꣣षो꣢꣫ वृषा꣣ ह꣢री꣣ रा꣡जे꣢व द꣣स्मो꣢ अ꣣भि꣡ गा अ꣢꣯चिक्रदत्। पु꣢नानो꣢꣫ वार꣣म꣡त्ये꣢ष्य꣣व्य꣡य꣢ꣳश्ये꣣नो꣡ न योनिं꣢꣯ घृ꣣त꣡व꣢न्त꣣मा꣡स꣢दत् ॥ 13-1:1316 ॥

विस्वर-मूलम् (VC)

असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारमत्येष्यव्ययꣳ श्येनो न योनिं घृतवन्तमासदत् ॥१३१६॥

13-2_1317 पर्जन्यः पिता ...{Loading}...

प꣣र्ज꣡न्यः꣢ पि꣣ता꣡ म꣢हि꣣ष꣡स्य꣢ प꣣र्णि꣢नो꣣ ना꣡भा꣢ पृथि꣣व्या꣢ गि꣣रि꣢षु꣣ क्ष꣡यं꣢ दधे। स्व꣡सा꣢र꣣ आ꣡पो꣢ अ꣣भि꣢꣫ गा उ꣣दा꣡स꣢र꣣न्त्सं꣡ ग्राव꣢꣯भिर्वसते वी꣣ते꣡ अ꣢ध्व꣣रे꣢ ॥ 13-2:1317 ॥

विस्वर-मूलम् (VC)

पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे । स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे ॥१३१७॥

13-3_1318 कविर्वेधस्या पर्येषि ...{Loading}...

क꣣वि꣡र्वे꣢ध꣣स्या꣡ पर्ये꣢꣯षि꣣ मा꣡हि꣢न꣣म꣢त्यो꣣ न꣢ मृ꣣ष्टो꣢ अ꣣भि꣡ वाज꣢꣯मर्षसि। अ꣣प꣡से꣢धन् दुरि꣣ता꣡ सो꣢म नो मृड घृ꣣ता꣡ वसा꣢꣯नः꣣ प꣡रि꣢ यासि नि꣣र्णि꣡ज꣢म् ॥ 13-3:1318 ॥ ॥13 (गू)॥

मूलम् (VC)

क꣣वि꣡र्वे꣢ध꣣स्या꣡ पर्ये꣢꣯षि꣣ मा꣡हि꣢न꣣म꣢त्यो꣣ न꣢ मृ꣣ष्टो꣢ अ꣣भि꣡ वाज꣢꣯मर्षसि । अ꣣पसे꣡ध꣢न्दुरि꣣ता꣡ सो꣢म नो मृड घृ꣣ता꣡ वसा꣢꣯नः꣣ प꣡रि꣢ यासि नि꣣र्णि꣡ज꣢म् ॥१३१८॥

विस्वर-मूलम् (VC)

कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि । अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम् ॥१३१८॥

14-1_1319 श्रायन्त इव ...{Loading}...

श्रा꣡य꣢न्त इव꣣ सू꣢र्यं꣣ वि꣡श्वेदिन्द्र꣢꣯स्य भक्षत। व꣡सू꣢नि जा꣣तो꣡ जनि꣢꣯मा꣣न्यो꣡ज꣢सा꣣ प्र꣡ति꣢ भा꣣गं꣡ न दी꣢꣯धिमः ॥ 14-1:1319 ॥

विस्वर-मूलम् (VC)

श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥१३१९॥

14-2_1320 अलर्षिरातिं वसुदामुप ...{Loading}...

अ꣡ल꣢र्षिरातिं वसु꣣दा꣡मुप꣢꣯ स्तुहि भ꣣द्रा꣡ इन्द्र꣢꣯स्य रा꣣त꣡यः꣢। यो꣡ अ꣢स्य꣣ का꣡मं꣢ विध꣣तो꣡ न रोष꣢꣯ति꣣ म꣡नो꣢ दा꣣ना꣡य꣢ चो꣣द꣡य꣢न् ॥ 14-2:1320 ॥ ॥14 (लू)॥ [धा. 19 । उ नास्ति । स्व. 6 ।]

मूलम् (VC)

अ꣡ल꣢र्षिरातिं वसु꣣दा꣡मुप꣢꣯ स्तुहि भ꣣द्रा꣡ इन्द्र꣢꣯स्य रा꣣त꣡यः꣢ । यो꣡ अ꣢स्य꣣ का꣡मं꣢ विध꣣तो꣡ न रोष꣢꣯ति꣣ म꣡नो꣢ दा꣣ना꣡य꣢ चो꣣द꣡य꣢न् ॥१३२०॥

विस्वर-मूलम् (VC)

अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः । यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥१३२०॥

15-1_1321 यत इन्द्र ...{Loading}...

य꣡त꣢ इन्द्र꣣ भ꣡या꣢महे꣣ त꣡तो꣢ नो꣣ अ꣡भ꣢यं कृधि। म꣡घ꣢वन् छ꣣ग्धि꣢꣫ तव꣣ त꣡न्न꣢ ऊ꣣त꣢ये꣣ वि꣢꣫ द्विषो꣣ वि꣡ मृधो꣢꣯ जहि ॥ 15-1:1321 ॥

मूलम् (VC)

य꣡त꣢ इन्द्र꣣ भ꣡या꣢महे꣣ त꣡तो꣢ नो꣣ अ꣡भ꣢यं कृधि । म꣡घ꣢वञ्छ꣣ग्धि꣢꣫ तव꣣ त꣡न्न꣢ ऊ꣣त꣢ये꣣ वि꣢꣫ द्विषो꣣ वि꣡ मृधो꣢꣯ जहि ॥१३२१॥

विस्वर-मूलम् (VC)

यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥१३२१॥

15-2_1322 त्व हि ...{Loading}...

त्व꣡ हि रा꣢꣯धसस्पते꣣ रा꣡ध꣢सो म꣣हः꣢꣫ क्षय꣣स्या꣡सि꣢ विध꣣र्ता꣢। तं꣡ त्वा꣢ व꣣यं꣡ म꣢घवन्निन्द्र गिर्वणः सु꣣ता꣡व꣢न्तो हवामहे ॥ 15-2:1322 ॥ ॥15 (बा)॥

मूलम् (VC)

त्व꣡ꣳ हि रा꣢꣯धसस्पते꣣ रा꣡ध꣢सो म꣣हः꣢꣫ क्षय꣣स्या꣡सि꣢ विध꣣र्त्ता꣢ । तं꣡ त्वा꣢ व꣣यं꣡ म꣢घवन्निन्द्र गिर्वणः सु꣣ता꣡व꣢न्तो हवामहे ॥१३२२॥

विस्वर-मूलम् (VC)

त्वꣳ हि राधसस्पते राधसो महः क्षयस्यासि विधर्त्ता । तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥१३२२॥

16-1_1323 त्वं सोमासि ...{Loading}...

त्व꣡ꣳ सो꣢मासि धार꣣यु꣢र्म꣣न्द्र꣡ ओजि꣢꣯ष्ठो अध्व꣣रे꣢। प꣡व꣢स्व मꣳह꣣य꣡द्र꣢यिः ॥ 16-1:1323 ॥

विस्वर-मूलम् (VC)

त्वꣳ सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे । पवस्व मꣳहयद्रयिः ॥१३२३॥

16-2_1324 त्वं सुतो ...{Loading}...

त्व꣢ꣳ सु꣣तो꣢ म꣣दि꣡न्त꣢मो दध꣣न्वा꣡न्म꣢त्स꣣रि꣡न्त꣢मः। इ꣡न्दुः꣢ सत्रा꣢जि꣡दस्तृ꣢꣯तः ॥ 16-2:1324 ॥

मूलम् (VC)

त्व꣢ꣳ सु꣣तो꣢ म꣣दि꣡न्त꣢मो दध꣣न्वा꣡न्म꣢त्स꣣रि꣡न्त꣢मः । इ꣡न्दुः꣢ सत्रा꣣जि꣡दस्तृ꣢꣯तः ॥१३२४॥

विस्वर-मूलम् (VC)

त्वꣳ सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः । इन्दुः सत्राजिदस्तृतः ॥१३२४॥

16-3_1325 त्वं सुष्वाणो ...{Loading}...

त्व꣡ꣳ सु꣢ष्वा꣣णो꣡ अद्रि꣢꣯भिर꣣꣬भ्य꣢꣯र्ष꣣ क꣡नि꣢क्रदत्। द्यु꣣म꣢न्त꣢ꣳ शु꣢ष्म꣣मा꣡ भ꣡र ॥ 16-3:1325 ॥ ॥16 (ली)॥ [धा. 14 । उ नास्ति । स्व. 4।]

मूलम् (VC)

त्व꣡ꣳ सु꣢ष्वा꣣णो꣡ अद्रि꣢꣯भिर꣣꣬भ्य꣢꣯र्ष꣣ क꣡नि꣢क्रदत् । द्यु꣣म꣢न्त꣣ꣳ शु꣢ष्म꣣मा꣡ भ꣢र ॥१३२५॥

विस्वर-मूलम् (VC)

त्वꣳ सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् । द्युमन्तꣳ शुष्ममा भर ॥१३२५॥

17-1_1326 पवस्व देववीतय ...{Loading}...

प꣡व꣢स्व दे꣣व꣡वी꣢तय꣣ इ꣢न्दो꣣ धा꣡रा꣢भि꣣रो꣡ज꣢सा। आ꣢ क꣣ल꣢शं꣣ म꣡धु꣢मान्त्सोम नः सदः ॥ 17-1:1326 ॥

विस्वर-मूलम् (VC)

पवस्व देववीतय इन्दो धाराभिरोजसा । आ कलशं मधुमान्त्सोम नः सदः ॥१३२६॥

17-2_1327 तव द्रप्सा ...{Loading}...

त꣡व꣢ द्र꣣प्सा꣡ उ꣢द꣣प्रु꣢त꣣ इ꣢न्द्रं꣣ म꣡दा꣢य वावृधुः । त्वां꣢ दे꣣वा꣡सो꣢ अ꣣मृ꣡ता꣢य꣣ कं꣡ प꣢पुः ॥ 17-2:1327 ॥

विस्वर-मूलम् (VC)

तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः । त्वां देवासो अमृताय कं पपुः ॥१३२७॥

17-3_1328 आ नः ...{Loading}...

आ꣡ नः꣢ सुतास इन्दवः पुना꣣ना꣡ धा꣢वता र꣣यि꣢म्। वृ꣣ष्टि꣡द्या꣢वो रीत्यापः स्व꣣र्वि꣡दः꣢ ॥ 17-3:1328 ॥ ॥17 (वौ)॥ [धा. 15 । उ नास्ति । स्व. नास्ति ।]

मूलम् (VC)

आ꣡ नः꣢ सुतास इन्दवः पुना꣣ना꣡ धा꣢वता र꣣यि꣢म् । वृ꣣ष्टि꣡द्या꣢वो रीत्यापः स्व꣣र्वि꣡दः꣢ ॥१३२८॥

विस्वर-मूलम् (VC)

आ नः सुतास इन्दवः पुनाना धावता रयिम् । वृष्टिद्यावो रीत्यापः स्वर्विदः ॥१३२८॥

18-1_1329 परि त्यंहर्यतम् ...{Loading}...

प꣢रि꣣ त्य꣡ꣳह꣢र्य꣣त꣡ꣳ हरिं꣢꣯ ब꣣भ्रुं꣡ पु꣢नन्ति꣣ वा꣡रे꣢ण। यो꣢ दे꣣वा꣢꣫न्विश्वा꣣ꣳ इ꣢꣫त्परि꣣ म꣡दे꣢न स꣣ह꣡ गच्छ꣢꣯ति ॥ 18-1:1329 ॥

विस्वर-मूलम् (VC)

परि त्यꣳ हर्यतꣳ हरिं बभ्रुं पुनन्ति वारेण । यो देवान्विश्वाꣳ इत्परि मदेन सह गच्छति ॥१३२९॥

18-2_1330 द्विउयं पञ्च ...{Loading}...

द्वि꣢उयं पञ्च꣣ स्व꣡य꣢शस꣣ꣳ स꣡खा꣢यो꣣ अ꣡द्रि꣢सꣳहतम्। प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्यं꣢ प्रस्ना꣣प꣡य꣢न्त ऊ꣣र्म꣡यः꣢ ॥ 18-2:1330 ॥

मूलम् (VC)

द्वि꣢꣫र्यं पञ्च꣣ स्व꣡य꣢शस꣣ꣳ स꣡खा꣢यो꣣ अ꣡द्रि꣢सꣳहतम् । प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्यं꣢ प्रस्ना꣣प꣡य꣢न्त ऊ꣣र्म꣡यः꣢ ॥१३३०॥

विस्वर-मूलम् (VC)

द्विर्यं पञ्च स्वयशसꣳ सखायो अद्रिसꣳहतम् । प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ॥१३३०॥

18-3_1331 इन्द्राय सोम ...{Loading}...

इ꣡न्द्रा꣢य꣣ सोम꣣ पा꣡त꣢वे वृत्र꣣घ्ने꣡ परि꣢꣯ षिच्यसे। न꣡रे꣢ च꣣ द꣡क्षि꣢णावते वी꣣रा꣡य꣢ सदना꣣स꣡दे꣢ ॥ 18-3:1331 ॥ ॥18 (जी)॥ [धा. 22 । उ 3 । स्व. 4।]

मूलम् (VC)

इ꣡न्द्रा꣢य꣣ सोम꣣ पा꣡त꣢वे वृत्र꣣घ्ने꣡ परि꣢꣯ षिच्यसे । न꣡रे꣢ च꣣ द꣡क्षि꣢णावते वी꣣रा꣡य꣢ सदना꣣स꣡दे꣢ ॥१३३१॥

विस्वर-मूलम् (VC)

इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । नरे च दक्षिणावते वीराय सदनासदे ॥१३३१॥

19-1_1332 पवस्व सोम ...{Loading}...

प꣡व꣢स्व सोम म꣣हे꣢꣫ दक्षा꣣या꣢श्वो꣣ न꣢ नि꣣क्तो꣢ वा꣣जी꣡ धना꣢꣯य ॥ 19-1:1332 ॥

विस्वर-मूलम् (VC)

पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥१३३२॥

19-2_1333 प्र ते ...{Loading}...

प्र꣡ ते꣢ सो꣣ता꣢रो꣣ र꣢सं꣣ म꣡दा꣢य पु꣣न꣢न्ति꣣ सो꣡मं꣢ म꣣हे꣢ द्यु꣣म्ना꣡य꣢॥ 19-2:1333 ॥

विस्वर-मूलम् (VC)

प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ॥१३३३॥

19-3_1334 शिशुं जज्ञानम् ...{Loading}...

शि꣡शुं꣢ जज्ञा꣣न꣡ꣳ हरिं꣢꣯ मृ꣣ज꣢न्ति꣣ प꣣वि꣢त्रे꣣ सो꣡मं꣢ दे꣣वे꣢भ्य꣣ इ꣡न्दु꣢म् ॥ 19-3:1334 ॥ ॥19 (का)॥ [धा. 11 । उ 1 । स्व꣢।]

मूलम् (VC)

शि꣡शुं꣢ जज्ञा꣣न꣡ꣳ हरिं꣢꣯ मृजन्ति प꣣वि꣢त्रे꣣ सो꣡मं꣢ दे꣣वे꣢भ्य꣣ इ꣡न्दु꣢म् ॥१३३४॥

विस्वर-मूलम् (VC)

शिशुं जज्ञानꣳ हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥१३३४॥

20-1_1335 उपो षु ...{Loading}...

उ꣢पो꣣ षु꣢ जा꣣त꣢म꣣प्तु꣢रं꣣ गो꣡भि꣢र्भ꣣ङ्गं꣡ परि꣢꣯ष्कृतम्। इ꣡न्दुं꣢ दे꣣वा꣡ अ꣢यासिषुः ॥ 20-1:1335 ॥

विस्वर-मूलम् (VC)

उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥१३३५॥

20-2_1336 तमिद्वर्धन्तु नो ...{Loading}...

त꣡मिद्व꣢꣯र्धन्तु नो꣣ गि꣡रो꣢ व꣣त्स꣢ꣳस꣣ꣳशि꣡श्व꣢रीरिव। य꣡ इन्द्र꣢꣯स्य हृद꣣ꣳ स꣡निः꣢ ॥ 20-2:1336 ॥

विस्वर-मूलम् (VC)

तमिद्वर्धन्तु नो गिरो वत्सꣳ सꣳशिश्वरीरिव । य इन्द्रस्य हृदꣳसनिः ॥१३३६॥

20-3_1337 अर्षा नः ...{Loading}...

अ꣡र्षा꣢ नः सोम꣣ शं꣡ गवे꣢꣯ धु꣣क्ष꣡स्व꣢ पि꣣प्यु꣢षी꣣मि꣡ष꣢म्। व꣡र्धा꣢ समु꣣द्र꣡मु꣢क्थ्य ॥ 20-3:1337 ॥ ॥20 (ही)॥

मूलम् (VC)

अ꣡र्षा꣢ नः सोम꣣ शं꣡ गवे꣢꣯ धु꣣क्ष꣡स्व꣢ पि꣣प्यु꣢षी꣣मि꣡ष꣢म् । व꣡र्धा꣢ स꣣मु꣡द्र꣢मुक्थ्य ॥१३३७॥

विस्वर-मूलम् (VC)

अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् । वर्धा समुद्रमुक्थ्य ॥१३३७॥

21-1_1338 आ घा ...{Loading}...

आ꣢ घा꣣ ये꣢ अ꣣ग्नि꣢मि꣣न्ध꣡ते꣢ स्तृ꣣ण꣡न्ति꣢ ब꣣र्हि꣡रा꣢नु꣣ष꣢क्। ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥ 21-1:1338 ॥

विस्वर-मूलम् (VC)

आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ॥१३३८॥

21-2_1339 बृहन्निदिध्म एषाम् ...{Loading}...

बृ꣣ह꣢꣫न्निदि꣣ध्म ए꣢षां꣣ भू꣡रि꣢ श꣣स्त्रं꣢ पृ꣣थुः꣡ स्वरुः꣢꣯। ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥ 21-2:1339 ॥

मूलम् (VC)

बृ꣣ह꣢꣫न्निदि꣣ध्म꣡ ए꣢षां꣣ भू꣡रि꣢ श꣣स्त्रं꣢ पृ꣣थुः꣡ स्वरुः꣢꣯ । ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥१३३९॥

विस्वर-मूलम् (VC)

बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः । येषामिन्द्रो युवा सखा ॥१३३९॥

21-3_1340 अयुद्ध इद्युधा ...{Loading}...

अ꣡यु꣢द्ध꣣ इ꣢द्यु꣣धा꣢꣫ वृत꣣ꣳ शू꣢र꣣ आ꣡ज꣢ति꣣ स꣡त्व꣢भिः। ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥ 21-3:1340 ॥ ॥21 (ठ)॥ [धा. 3 । उ 2 । स्व. 1।]

मूलम् (VC)

अ꣡यु꣢द्ध꣣ इ꣢द्यु꣣धा꣢꣫ वृत꣣ꣳ शू꣢र꣣ आ꣡ज꣢ति꣣ स꣡त्व꣢भिः । ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥१३४०॥

विस्वर-मूलम् (VC)

अयुद्ध इद्युधा वृतꣳ शूर आजति सत्वभिः । येषामिन्द्रो युवा सखा ॥१३४०॥

22-1_1341 य एक ...{Loading}...

य꣢꣫ एक꣣ इ꣢द्वि꣣द꣡य꣢ते꣣ व꣢सु꣣ म꣡र्त्ता꣢य दा꣣शु꣡षे꣢। ई꣡शा꣢नो꣣ अ꣡प्र꣢तिष्कुत꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥ 22-1:1341 ॥

मूलम् (VC)

य꣢꣫ एक꣣ इ꣢द्वि꣣द꣡य꣢ते꣣ व꣢सु꣣ म꣡र्ता꣢य दा꣣शु꣡षे꣢ । ई꣡शा꣢नो꣣ अ꣡प्र꣢तिष्कुत꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥१३४१॥

विस्वर-मूलम् (VC)

य एक इद्विदयते वसु मर्ताय दाशुषे । ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥१३४१॥

22-2_1342 यश्चिद्धि त्वा ...{Loading}...

य꣢श्चि꣣द्धि꣡ त्वा꣢ ब꣣हु꣢भ्य꣣ आ꣢ सु꣣ता꣡वा꣢ꣳआ꣣वि꣡वा꣢सति। उ꣣ग्रं꣡ तत्प꣢꣯त्यते꣣ श꣢व꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥ 22-2:1342 ॥

विस्वर-मूलम् (VC)

यश्चिद्धि त्वा बहुभ्य आ सुतावाꣳ आविवासति । उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥१३४२॥

22-3_1343 कदा मर्तमराधसम् ...{Loading}...

क꣣दा꣡ मर्त꣢꣯मरा꣣ध꣡सं꣢ प꣣दा꣡ क्षुम्प꣢꣯मिव स्फुरत्। क꣣दा꣡ नः꣢ शुश्रव꣣द्गि꣢र꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥ 22-3:1343 ॥ ॥22 (कि)॥ [धा. 11 । उ 1 । स्व. 3।]

मूलम् (VC)

क꣣दा꣡ मर्त꣢꣯मरा꣣ध꣡सं꣢ प꣣दा꣡ क्षुम्प꣢꣯मिव स्फुरत् । क꣣दा꣡ नः꣢꣯ शुश्रव꣣द्गि꣢र꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥१३४३॥

विस्वर-मूलम् (VC)

कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् । कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥१३४३॥

23-1_1344 गायन्ति त्वा ...{Loading}...

गा꣡य꣢न्ति त्वा गाय꣣त्रि꣡णोऽर्च꣢꣯न्त्य꣣र्क꣢म꣣र्कि꣡णः꣢। ब्र꣣ह्मा꣡ण꣢स्त्वा शतक्रत꣣ उ꣢द्व꣣ꣳश꣡मि꣢व येमिरे ॥ 23-1:1344 ॥

विस्वर-मूलम् (VC)

गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्वꣳशमिव येमिरे ॥१३४४॥

23-2_1345 यत्सानोः सान्वारुहो ...{Loading}...

य꣢꣫त्सानोः꣣ सा꣡न्वारु꣢꣯हो꣣ भू꣡र्यस्प꣢꣯ष्ट꣣ क꣡र्त्व꣢म्। त꣢꣫दिन्द्रो꣣ अ꣡र्थं꣢ चेतति यू꣣थे꣡न꣢ वृ꣣ष्णि꣡रे꣢जति ॥ 23-2:1345 ॥

विस्वर-मूलम् (VC)

यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्वम् । तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥१३४५॥

23-3_1346 युङ्क्ष्वा हि ...{Loading}...

यु꣣ङ्क्ष्वा꣢꣫ हि के꣣शि꣢ना꣣ ह꣢री꣣ वृ꣡ष꣢णा कक्ष्य꣣प्रा꣢। अ꣡था꣢ न इन्द्र सोमपा गि꣣रा꣡मुप꣢꣯श्रुतिं चर ॥ 23-3:1346 ॥ ॥23 (बी)॥

मूलम् (VC)

यु꣣ङ्क्ष्वा꣢꣫ हि के꣣शि꣢ना꣣ ह꣢री꣣ वृ꣡ष꣢णा कक्ष्य꣣प्रा꣢ । अ꣡था꣢ न इन्द्र सोमपा गि꣣रा꣡मुप꣢꣯श्रुतिं चर ॥१३४६॥

विस्वर-मूलम् (VC)

युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥१३४६॥