Source: TW
समिदाधानम्
॥ सामवेदीयसमिदाधानम् ॥
आचमनम् । प्राणायामः ।… प्रीत्यर्थं (प्रातः / सायं) समिधमाधास्यामि । (अप उपस्पृश्य), दक्षिणतः प्राचीं रेखामुल्लिख्य तदारम्भादुदीचीं, तदवसानात् प्रतीचीं, तिस्रो मध्ये प्राचीः, उल्लिख्य तदभ्युक्ष्य, शकलं निरस्य, अग्निमुप समाधाय, (स्वाहेति) प्रज्ज्वाल्य, परिषेचनम् -
देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय दिव्यो गन्धर्वः ।
केतपूः केतन्नः पुनातु वाचस्पतिर्वाचं नः स्वदतु ।
इत्यग्निं परिषिच्य समिधमाधाय,
ओम् अग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिद्ध्यस्येवमहमायुषा मेधया वर्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन धनेन समेधिषीय स्वाहा ॥
१. भूः स्वाहा ॥ (अग्नय इदम्)
२. भुवः स्वाहा ॥ (वायव इदम्)
३. स्वः स्वाहा ॥ (सूर्याय इदम्)
४. भूर्भुवस्स्वः स्वाहा ॥ (प्रजापतय इदम्)
(पुनः परिषेचनम्)
देव सवितः प्रासावीः यज्ञं प्रासावीः यज्ञपतिं भगाय दिव्यो गन्धर्वेः ।
केतपूः केतन्नोऽपावीत् वाचस्पतिर्वाचं नोऽस्वादीत् ॥
ओम् अग्नये नमः,
मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव परिपूर्णं तदस्तु ते ।
प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥
नमस्कृत्वा अभिवाद्य, आचामेत्
॥ सामवेदीयसमिदाधानं समाप्तम् ॥
[[264]]
उत्सर्जनतर्पणम्
॥ सामोपाकर्म - उत्सर्जनतर्पणम् ॥
सङ्कल्प-स्नान-यज्ञोपवीतधारणादि । श्रीभगवदाज्ञया … प्रीत्यर्थं …. प्रोष्ठपद्यां हस्तर्क्षे देवर्षिपितृप्रीत्यर्थं देवर्षिपितृतर्पणं करिष्ये - इति सङ्कल्प्य ॥
(देवतर्पणम् उपवीती)
अग्निस्तृप्यतु । ब्रह्मा तृप्यतु । सोमः तृप्यतु । शिवः तृप्यतु । प्रजापतिः तृप्यतु । सविता तृप्यतु । इन्द्रः तृप्यतु । बृहस्पतिः तृप्यतु । त्वष्टा तृप्यतु । विष्णुः तृप्यतु । यमः तृप्यतु । वायुः तृप्यतु । आदित्यः तृप्यतु । चन्द्रमाः तृप्यतु । नक्षत्राणि तृप्यन्तु । सह देवताभिर्वसवस्तृप्यन्तु । रुद्रास्तृप्यन्तु । आदित्यास्तृप्यन्तु । भृगवस्तृप्यन्तु । अङ्गिरसस्तृप्यन्तु । साध्यास्तृप्यन्तु । मरुतस्तृप्यन्तु । विश्वेदेवास्तृप्यन्तु । सर्वे देवाः तृप्यन्तु । वाक् च तृप्यतु । मनश्च तृप्यतु । आपश्च तृप्यन्तु । ओषधयश्च तृप्यन्तु । इन्द्राग्नी तृप्येताम् । धाता तृप्यतु । अर्यमा तृप्यतु । सार्धमासाः तृप्यन्तु । ऋतवः तृप्यन्तु । दितिः तृप्यतु । अदितिः तृप्यतु । इन्द्राणी तृप्यतु । उमा तृप्यतु । श्रीश्च तृप्यतु । सर्वाश्च देवपत्न्यस्तृप्यन्तु । रुद्रस्तृप्यतु । स्कन्दविशाखौ तृप्येताम् । विश्वकर्मा तृप्यतु । दर्शश्च तृप्यतु । पौर्णमासश्च तृप्यतु । चातुर्वेद्यं तृप्यतु । चातुर्हौत्रं तृप्यतु । वैहारिकास्तृप्यन्तु । पाकयज्ञाः तृप्यन्तु । स्थावरजङ्गमे तृप्येताम् । पर्वताशिषस्तृप्यन्तु । भव्यस्तृप्यतु । नद्यस्तृप्यन्तु । समुद्रस्तृप्यतु । अपांपतिः तृप्यतु । (यजमाना ये देवास्त्वेकादशकास्त्रयश्च त्रिँशच्च त्रयश्च त्रीणि च सहस्त्रास्तृप्यन्तु ।) द्विपवित्र्या देवास्तृप्यन्ताम् । एकपवित्र्या देवा मनुष्यप्रभृतयस्तृप्यन्तु । सङ्कर्षणवासुदेवौ तृप्येताम् । धन्वन्तरिस्तृप्यतु । साधुकारः तृप्यतु । उदरवैश्रवण-पूर्णभद्र-माणिभद्रास्तृप्यन्तु ।
[[265]]
यातुधानाः तृप्यन्तु । यक्षाः तृप्यन्तु । रक्षाँसि तृप्यन्तु । इतरगणाः तृप्यन्तु । त्रैगुण्यं तृप्यतु । नामाख्यातोपसर्गनिपातास्तृप्यन्तु । देवर्षयः तृप्यन्तु । महाव्याहृतयः तृप्यन्तु । सावित्री तृप्यतु । ऋचस्तृप्यन्तु । यजूँषि तृप्यन्तु । सामानि तृप्यन्तु । काण्डानि तृप्यन्तु । एषां दैवतानि तृप्यन्तु । प्रायश्चित्तानि तृप्यन्तु । शुक्रियोपनिषदः तृप्यन्तु । शोकी तृप्यतु । शुकः तृप्यतु । शाकल्यः तृप्यतु । पाञ्चालः तृप्यतु । ऋचाभिः तृप्यन्तु ।
ऋषितर्पणम् निवीती
(ऋषितर्पणं निवीती)
व्यासस्तृप्यतु । पाराशर्यः तृप्यतु । ताण्डी तृप्यतु । कुकी (कुश्रिः) तृप्यतु । कौशिकी तृप्यतु । बडबा तृप्यतु । प्रातिथेयी तृप्यतु । मैत्रायणी तृप्यतु । दाक्षायणी तृप्यतु । सर्वाचार्यास्तृप्यन्तु । कुलाचार्यास्तृप्यन्तु । गुरुकुलवासिनः तृप्यन्तु । कन्या तृप्यतु । ब्रह्मचारी तृप्यतु । आत्मार्थी तृप्यतु । याज्ञवल्क्यः तृप्यतु । राणायनिः तृप्यतु । सात्युमुग्रिः तृप्यतु । दुर्वासाः तृप्यतु । भागुरिः तृप्यतु । गौरुण्डिः तृप्यतु । गौल्गुलविः तृप्यतु । भगवानौपमन्यवः तृप्यतु । दारालः तृप्यतु । गार्गिसावर्णिः तृप्यतु । वर्षगण्यश्च तृप्यतु । कुथुमिश्च तृप्यतु । शालिहोत्रश्च तृप्यतु । जैमिनिश्च तृप्यतु । (त्रयोदश इत्येते सामगाचार्याः स्वस्ति कुर्वन्तु तर्पिताः स्वस्ति कुर्वन्तु तर्पिताः ।) शटिस्तृप्यतु । भाल्लविः तृप्यतु । कालभविः तृप्यतु । ताण्ड्यः तृप्यतु । वृक्च तृप्यतु । वृषाणकश्च तृप्यतु । रुरुकिश्च तृप्यतु । अगस्त्यः तृप्यतु । बट्कशिराः तृप्यतु । कुहूश्च तृप्यतु । (दश इत्येते प्रवचनकर्तारः स्वस्ति कुर्वन्तु तर्पिताः स्वस्ति कुर्वन्तु तर्पिताः ।)
[[266]]
देवतर्पणम् उपवीती
प्रयोगमालायां (देवतर्पणम् उपवीती)
अग्निस्तृप्यतु । ब्रह्मा तृप्यतु । देवास्तृप्यन्तु । वेदास्तृप्यन्तु । ओंकारस्तृप्यतु । सावित्री तृप्यतु । यज्ञास्तृप्यन्तु । द्यावापृथिवी तृप्येताम् । अहोरात्राणि तृप्यन्तु । सङ्ख्यास्तृप्यन्तु । समुद्रास्तृप्यन्तु । क्षेत्रौषधिवनस्पतयः तृप्यन्तु । गन्धर्वाः तृप्यन्तु । अप्सरसः तृप्यन्तु । नागाः तृप्यन्तु । यक्षाः तृप्यन्तु । रक्षाँसि तृप्यन्तु । इतरगणाः तृप्यन्तु । भूताँश्चैवानुमन्यन्ताम् ॥
ऋषितर्पणं निवीती
ऋषितर्पणम् निवीती
सुमन्तुस्तृप्यतु । जैमिनिः तृप्यतु । विश्वामित्रः तृप्यतु । वसिष्ठः तृप्यतु । पराशरः तृप्यतु । जानन्तुः तृप्यतु । वाहवः तृप्यतु । गौतमः तृप्यतु । शाकल्यः तृप्यतु । बाभ्रव्यः तृप्यतु । माण्डव्यः तृप्यतु । बडबा तृप्यतु । प्रातिथेयी तृप्यतु । मैत्रायणी तृप्यतु । दाक्षायणी तृप्यतु । ये चान्ये आचार्यस्तेभ्यश्च स्वधेति तेभ्यश्च स्वधेति ॥
देवतर्पणम् उपवीती
(देवतर्पणम् उपवीती)
नमो ब्रह्मणे तृप्तिरस्तु । नमो ब्राह्मणेभ्यः तृप्तिरस्तु । नम आचार्येभ्यः तृप्तिरस्तु । नम ऋषिभ्यः तृप्तिरस्तु । नमो देवेभ्यः तृप्तिरस्तु । नमो वेदेभ्यः । तृप्तिरस्तु । नमो वायवे च तृप्तिरस्तु । नमो मृत्यवे च तृप्तिरस्तु । नमो विष्णवे च तृप्तिरस्तु । नमो वैश्रवणाय च तृप्तिरस्तु ॥
[[267]]
ऋषितर्पणम् निवती
सामोपाकर्म (ऋषितर्पणं निवीती)
शर्वदत्ताद्गार्ग्यात् उपजायत तस्मै नमस्तृप्तिरस्तु । शर्वदत्तो गार्ग्यः रुद्रभूतेर्द्राह्यायणात् उपजायत तस्मै नमस्तृप्तिरस्तु । रुद्रभूतिर्द्राह्यायणः त्रातादैषुमतात् उपजायत तस्मै नमस्तृप्तिरस्तु । त्रात ऐषुमतो निगडात् पार्णवल्केः उपजायत तस्मै नमस्तृप्तिरस्तु । निगडः पार्णवल्किः गिरिशर्मणः काण्डेविद्धेः उपजायत तस्मै नमस्तृप्तिरस्तु । गिरिशर्मा काण्डेविद्भिः ब्रह्मवृद्धेश्छन्दोहमाहकेः उपजायत तस्मै नमस्तृप्तिरस्तु । ब्रह्मवृद्धिश्छन्दोहमाहकिः मित्रवर्चसः स्थैरकायनात् उपजायत तस्मै नमस्तृप्तिरस्तु । मित्रवर्चाः स्थैरकायनः सुप्रतीतादौलुन्द्यात् उपजायत तस्मै नमस्तृप्तिरस्तु । सुप्रतीत औलुन्द्यः बृहस्पतिगुप्तात् शायस्थेः उपजायत तस्मै नमस्तृप्तिरस्तु । बृहस्पतिगुप्तः शायस्थिः भवत्राताच्छायस्थेः उपजायत तस्मै नमस्तृप्तिरस्तु । भवत्रातः शायस्थिः, कुस्तुकाच्छार्कराक्षात् उपजायत तस्मै नमस्तृप्तिरस्तु । कुस्तुकः शार्कराक्षः श्रवणदत्तात्कौहलात् उपजायत तस्मै नमस्तृप्तिरस्तु । श्रवणदत्तः कौहलः सुशारदाच्छालङ्कायनात् उपजायत तस्मै नमस्तृप्तिरस्तु । सुशारदः शालङ्कायनः ऊर्जयत औपमन्यवात् उपजायत तस्मै नमस्तृप्तिरस्तु । ऊर्जयन्नौपमन्यवः भानुमत औपमन्यवात् उपजायत तस्मै नमस्तृप्तिरस्तु । भानुमानौपमन्यवः आनन्दजाच्चान्दनायनात् उपजायत तस्मै नमस्तृप्तिरस्तु । आनन्दजाश्चान्दनायनः शाम्बाच्छार्कराक्षात् उपजायत तस्मै नमस्तृप्तिरस्तु । शाम्बः शार्कराक्षः काम्बोजाच्चौपमन्यवात् उपजायत तस्मै नमस्तृप्तिरस्तु । काम्बोजश्चौपमन्यवः मद्रकाराच्छौङ्गायनेः उपजायत तस्मै नमस्तृप्तिरस्तु । मद्रकारः शौङ्गायनिः सा(स्वा)तेरौष्ट्राक्षेः उपजायत तस्मै नमस्तृप्तिरस्तु । (स्वा)सातिरौष्ट्राक्षिः सुश्रवसो वार्षगण्यात् उपजायत तस्मै नमस्तृप्तिरस्तु ।
[[268]]
सुश्रवा वार्षगण्यः प्रातरह्नात्कौहलात् उपजायत तस्मै नमस्तृप्तिरस्तु । प्रातरह्नः कौहलः केतोर्वाज्यात् उपजायत तस्मै नमस्तृप्तिरस्तु । केतुर्वाज्यो मित्रविन्दात्कौहलात् उपजायत तस्मै नमस्तृप्तिरस्तु । मित्रविन्दः कौहलः सुनीथात्कापटवात् उपजायत तस्मै नमस्तृप्तिरस्तु । सुनीथः कापटवः, सुतेमनसः शाण्डिल्यायनात् उपजायत तस्मै नमस्तृप्तिरस्तु । सुतेमनाः शाण्डिल्यायनः अंशोर्धानञ्जय्यात् उपजायत तस्मै नमस्तृप्तिरस्तु । अंशुर्धानञ्जय्यः अमावास्यात् शाण्डिल्यायनात् उपजायत तस्मै नमस्तृप्तिरस्तु । अमावास्यः शाण्डिल्यायनः राधाच्च गौतमादुपजायत तस्मै नमः तृप्तिरस्तु ॥
(अतः परं द्विरावृत्तिः)
राधो गौतमः गातुर्गांतमात्[[र्गौ??]] पितुरुपजायत तस्मै नमस्तृप्तिरस्तु । गाता गौतमः संवर्गजितो लामकायनात् उपजायत तस्मै नमस्तृप्तिरस्तु । संवर्गजिल्लामकायनः शाकदासात् भाटि(ड)तायनात् उपजायत तस्मै नमस्तृप्तिरस्तु । शाकदासो भाटि(ड) तायनः विचक्षणात् ताण्ड्यात् उपजायत तस्मै नमस्तृप्तिरस्तु । विचक्षणस्ताण्ड्यः गर्दभीमुखाच्चाण्डिल्यायनात् उपजायत तस्मै नमस्तृप्तिरस्तु । गर्दभीमुखः शाण्डिल्यायनः उदरशाण्डिल्यात् उपजायत तस्मै नमस्तृप्तिरस्तु । उदरशाण्डिल्यः अतिधन्वनः शौनकात् उपजायत तस्मै नमस्तृप्तिरस्तु । अतिधन्वा शौनकः मशकाच्च गार्ग्यात् उपजायत तस्मै नमस्तृप्तिरस्तु । मशको गार्ग्यः स्थिरकात् गार्ग्यात् पितुः उपजायत तस्मै नमस्तृप्तिरस्तु । स्थिरको गार्ग्यः वासिष्ठाच्चैकितानेयात् उपजायत तस्मै नमस्तृप्तिरस्तु । वासिष्ठश्चैकितानेयः वासिष्ठादारैहण्यात् राजन्यात् उपजायत तस्मै नमस्तृप्तिरस्तु । वासिष्ठ आरैहण्यो राजन्यः सुमनीत्[[??]] बाभ्रवाद्गौतमात् उपजायत तस्मै नमस्तृप्तिरस्तु ।
[[269]]
सुमन्त्रो बाभ्रवो गौतमः शूपाद्वाह्नेयाद्भारद्वाजात् उपजायत तस्मै नमस्तृप्तिरस्तु । शूषो वाह्नेयो भारद्वाजः अरालाद्दार्तेयाच्छौनकात् उपजायत तस्मै नमस्तृप्तिरस्तु । अरालो दार्तेयः शौनकः दृर्तेरैन्द्रोताच्छौनकात् पितुः उपजायत तस्मै नमस्तृप्तिरस्तु । द्दतिरैन्द्रोतः शौनकः वृषशुष्णाद्वातावतात् उपजायत तस्मै नमस्तृप्तिरस्तु । वृषशुष्णो वातावतो निकोथकाद्भायजात्यात् उपजायत तस्मै नमस्तृप्तिरस्तु । (इन्द्रोतः शौनकः वृषकष्णात् वातावतात् पितुः उपजायत तस्मै नमस्तृप्तिरस्तु ।) निकोथको भायजात्यप्रतिथेर्देवतरथात् उपजायत तस्मै नमस्तृप्तिरस्तु । प्रतिथिर्देवतरथः देवतरसः शावसायनात् पितुः उपजायत तस्मै नमस्तृप्तिरस्तु । देवतराः शावसायनः शवसः पितुरेव उपजायत तस्मै नमस्तृप्तिरस्तु । शवाः अग्निभुवः काश्यपात् उपजायत तस्मै नमस्तृप्तिरस्तु । अग्निभूः काश्यपः इन्द्रभुवः काश्यपात् पितुः उपजायत तस्मै नमस्तृप्तिरस्तु । इन्द्रभूः काश्यपः मित्रभुवः काश्यपात् उपजायत तस्मै नमस्तृप्तिरस्तु । मित्रभूः काश्यपः विभण्डकात् काश्यपात् पितुः उपजायत तस्मै नमस्तृप्तिरस्तु । विभण्डकः काश्यपः ऋश्यशृङ्गात्काश्यपात् उपजायत तस्मै नमस्तृप्तिरस्तु । ऋश्यशृङ्गः काश्यपः कश्यपात्पितुरेव उपजायत तस्मै नमस्तृप्तिरस्तु । कश्यपः अग्नेः पितुरेव उपजायत तस्मै नमस्तृप्तिरस्तु ॥
देवतर्पणम् उपवीती
(देवतर्पणम् उपवीती)
अग्निरिन्द्रादुपजायत तस्मै नमस्तृप्तिरस्तु । इन्द्रो वायोरुपजायत तस्मै नमस्तृप्तिरस्तु । वायुर्मृत्योरुपजायत तस्मै नमस्तृप्तिरस्तु । मृत्युः प्रजापतेरुपजायत तस्मै नमस्तृप्तिरस्तु । प्रजापतिर्ब्रह्मण उपजायत तस्मै नमस्तृप्तिरस्तु । ब्रह्मा स्वयम्भूः उपजायत तस्मै नमस्तृप्तिरस्तु । तस्मै नमस्तस्मै नमः ॥
[[270]]
ऋषितर्पणं निवीती
प्रयोगमालायां (ऋषितर्पणं निवीती)
आचार्येभ्यो नमस्कृत्वा अथ वंशस्य कीर्तयेत् ।
स्वधा पूर्वेषां भवति नेताऽऽयुदीर्घमश्नुते ॥
इत्युक्त्वाऽनुक्रमेद्वंशमाब्रह्मणो नयन् ।
अर्यमभूतेः कालववात्[[??]] उपजायत तस्मै नमस्तृप्तिरस्तु । अर्यमभूतिः कालबवः भद्रशर्मणः कौशिकात् उपजायत तस्मै नमस्तृप्तिरस्तु । भद्रशर्मा कौशिकः पुष्ययशस औदव्रजेः उपजायत तस्मै नमस्तृप्तिरस्तु । पुष्ययशा औदव्रजिः सङ्क्रराद्गौतमात् उपजायत तस्मै नमस्तृप्तिरस्तु । सङ्करो गौतमः, अर्यमराघाच्च गोभिलात् उपजायत तस्मै नमस्तृप्तिरस्तु । अर्यमराधो गोभिलः पूषमित्रात् गोभिलात् उपजायत तस्मै नमस्तृप्तिरस्तु । पूषमित्रो गोभिलः अश्वमित्रात् गोभिलात् उपजायत तस्मै नमस्तृप्तिरस्तु । अश्वमित्रो गोभिलः वरुणमित्रात् गोभिलात् उपजायत तस्मै नमस्तृप्तिरस्तु । वरुणमित्रो गोभिलः मूलमित्रात् गोभिलात् उपजायत तस्मै नमस्तृप्तिरस्तु । मूलमित्रो गोभिलः वत्समित्रात् गोभिलात् उपजायत तस्मै नमस्तृप्तिरस्तु । वत्समित्रो गोभिलः गौल्गुलवीपुत्रात् गोभिलात् उपजायत तस्मै नमस्तृप्तिरस्तु । गौल्गुलवीपुत्रो गोभिलः बृहद्वसोर्गोभिलात् पितुः उपजायत तस्मै नमस्तृप्तिरस्तु । बृहद्वसुर्गोभिलः गोभिलादेव उपजायत तस्मै नमस्तृप्तिरस्तु । गोभिलो राधाच्च गौतमात् उपजायत तस्मै नमस्तृप्तिरस्तु ॥ राधा गौतमः समानं परं समानं परमित्यन्तं देवतर्पणपर्यन्तं (पु. २६९-२७०) तर्पयेयुः[[??]] ॥
[[271]]
अनन्तरं पितृतर्पणं प्राचीनावीती
सामोपाकर्म (अनन्तरं पितृतर्पणं प्राचीनावीती) (त्रिस्त्रिस्तिलोदकैः)
पितॄणां तृप्तिरस्तु । पितामहानां तृप्तिरस्तु । प्रपितामहानां तृप्तिरस्तु । मातॄणां तृप्तिरस्तु । मातामहानां तृप्तिरस्तु । प्रमातामहानां तृप्तिरस्तु । आचार्याणां तृप्तिरस्तु । प्राचार्याणां तृप्तिरस्तु । संहिताकार-पदकार-सूत्रकार-ब्राह्मणकाराणां तृप्तिरस्तु । ब्राह्मणानामनपत्यानां तृप्तिरस्तु । ब्राह्मणीनामेकपत्नीनामनपत्यानां तृप्तिरस्तु । सर्वेषां च ब्रह्मचारिणां तृप्तिरस्तु । उपवीती आचामेत् । ।
॥ सामोपाकर्म-उत्सर्जनतर्पणं समाप्तम् ॥
आचार्येण सह होमं कृत्वा सर्वे ब्रह्मचारिणः -
मौञ्जीधारणमन्त्रः = इयं दुरुक्तात् परिबाधमाना वर्णं पवित्रं पुनती न आगात् । प्राणापानाभ्यां बलम् आहरन्ती स्वसा देवी सुभगा मेखलेयम् ॥ ऋतस्य गोप्त्री तपसः परस्वी घ्नती रक्षः सहमाना अरातीः । सा मा समन्तम् अभिपर्येहि भद्रे धर्तारस्ते मेखले मा रिषाम ॥
पालाशदण्डधारणमन्त्रः = सुश्रवः सुश्रवसं मा कुरु यथा त्वं सुश्रवः सुश्रवाः । देवेषु एवमहं सुश्रवः सुश्रवाः ब्राह्मणेषु भूयासम् ॥
अथ यज्ञोपवीतधारणम्
॥ सामोपाकर्म प्रयोगः समाप्तम् [[प्तः??]] ॥
[[272]]