०३

01 अत ऊर्ध्वं प्राचीनावीतिना ...{Loading}...

अत ऊर्ध्वं प्राचीनावीतिना वाग्यतेन कृत्यम् १

02 सव्येन पाणिना दर्भपिञ्जूलीम् ...{Loading}...

सव्येन पाणिना दर्भपिञ्जूलीं गृहीत्वा दक्षिणाग्रां लेखामुल्लिखेदपहता असुरा इति २

03 सव्येनैव पाणिनोल्मुकं गृहीत्वा ...{Loading}...

सव्येनैव पाणिनोल्मुकं गृहीत्वा दक्षिणार्धे कर्षूणां निदध्याद्ये रूपाणि प्रतिमुञ्चमाना इति ३

04 अथ पितॄनावाहयत्येत पितरः ...{Loading}...

अथ पितॄनावाहयत्येत पितरः सोम्यास इति ४

05 अथोदपात्रान्कर्षूषु निदध्यात् ...{Loading}...

अथोदपात्रान्कर्षूषु निदध्यात् ५

06 सव्येनैव पाणिनोदपात्रं गृहीत्वावसलवि ...{Loading}...

सव्येनैव पाणिनोदपात्रं गृहीत्वावसलवि पूर्वस्यां कर्ष्वां दर्भेषु निनयेत्पितुर्नाम गृहीत्वासाववनेनिक्ष्व ये चात्र त्वानु याँ श्च त्वमनु तस्मै ते स्वधेति ६

07 अप उपस्पृश्यैवमेवेतरयोः ...{Loading}...

अप उपस्पृश्यैवमेवेतरयोः ७

08 सव्येनैव पाणिना दर्वीम् ...{Loading}...

सव्येनैव पाणिना दर्वीं गृहीत्वा सन्नीतात्तृतीयमात्रमवदायावसलवि पूर्वस्यां कर्ष्वां दर्भेषु निदध्यात्पितुर्नाम गृहीत्वासावेष ते पिण्डो ये चात्र त्वानु याँ श्च त्वमनु तस्मै ते स्वधेति ८

09 अप उपस्पृश्यैवमेवेतरयोः ...{Loading}...

अप उपस्पृ-श्यैवमेवेतरयोः ९

10 यदि नामानि न ...{Loading}...

यदि नामानि न विद्यात्स्वधा पितृभ्यः पृथिवीषद्भ्य इति प्रथमं पिण्डं निदध्यात्स्वधा पितृभ्योऽन्तरीक्षसद्भ्य इति द्वितीयं स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम् १०

11 निधाय जपत्यत्र पितरो ...{Loading}...

निधाय जपत्यत्र पितरो मादयध्वं यथाभाग-मावृषायध्वमिति ११

12 अपर्यावृत्य पुरोच्छ्वासादभिपर्यावर्तमानो जपेदमी ...{Loading}...

अपर्यावृत्य पुरोच्छ्वासादभिपर्यावर्तमानो जपेदमी मदन्त पितरो यथाभागमावृषायिषतेति १२

13 सव्येनैव पाणिना दर्भपिञ्जूलीम् ...{Loading}...

सव्येनैव पाणिना दर्भपिञ्जूलीं गृहीत्वावसलवि पूर्वस्यां कर्ष्वां पिण्डे निदध्यात्पितुर्नाम गृहीत्वासावेतत्त आञ्जनं ये चात्र त्वानु याँ श्च त्वमनु तस्मै ते स्वधेति १३

14 अप उपस्पृश्यैवमेवेतरयोः ...{Loading}...

अप उपस्पृश्यैवमेवेतरयोः १४

15 तथा तैलम् ...{Loading}...

तथा तैलम् १५

16 तथा सुरभि ...{Loading}...

तथा सुरभि १६

17 अथ निह्नुते ...{Loading}...

अथ निह्नुते १७

18 पूर्वस्यां कर्ष्वां दक्षिणोत्तानौ ...{Loading}...

पूर्वस्यां कर्ष्वां दक्षिणोत्तानौ पाणी कृत्वा नमो वः पितरो जीवाय नमो वः पितरः शूषायेति १८

19 मध्यमायां सव्योत्तानौ नमो ...{Loading}...

मध्यमायां सव्योत्तानौ नमो वः पितरो घोराय नमो वः पितरो रसायेति १९

20 उत्तमायां दक्षिणोत्तानौ नमो ...{Loading}...

उत्तमायां दक्षिणोत्तानौ नमो वः पितरः स्वधायै नमो वः पितरो मन्यव इति २०

21 अथाञ्जलिकृतो जपति नमो ...{Loading}...

अथाञ्जलिकृतो जपति नमो वः पितरः पितरो नमो व इति २१

22 गृहानवेक्षते गृहान्नः पितरो ...{Loading}...

गृहानवेक्षते गृहान्नः पितरो दत्तेति २२

23 पिण्डानवेक्षते सदो वः ...{Loading}...

पिण्डानवेक्षते सदो वः पितरो देष्मेति २३

24 सव्येनैव पाणिना सूत्रतन्तुम् ...{Loading}...

सव्येनैव पाणिना सूत्रतन्तुं गृहीत्वावसलवि पूर्वस्यां कर्ष्वां पिण्डे निदध्यात्पितुर्नाम गृहीत्वासावेतत्ते वासो ये चात्र त्वानु याँ श्च त्वमनु तस्मै ते स्वधेति २४

25 अप उपस्पृश्यैवमेवेतरयोः ...{Loading}...

अप उपस्पृश्यैवमेवेतरयोः २५

26 सव्येनैव पाणिनोदपात्रं गृहीत्वावसलवि ...{Loading}...

सव्येनैव पाणिनोदपात्रं गृहीत्वावसलवि पिण्डान्परिषिञ्चेदूर्जं वहन्तीरिति २६

27 मध्यमं पिण्डं पत्नी ...{Loading}...

मध्यमं पिण्डं पत्नी पुत्रकामा प्राश्नीयादाधत्त पितरो गर्भमिति २७

28 यो वा तेषाम् ...{Loading}...

यो वा तेषां ब्रा-ह्मणानामुच्छिष्टभाक् स्यात् २८

29 अभून्नो दूतो हविषो ...{Loading}...

अभून्नो दूतो हविषो जातवेदा इत्युल्मुकमद्भिरभ्युक्ष्य २९

30 द्वन्द्वं पात्राणि प्रक्षाल्य ...{Loading}...

द्वन्द्वं पात्राणि प्रक्षाल्य प्रत्यतिहारयेत् ३०

31 अप्सु पिण्डान्सादयेत् ...{Loading}...

अप्सु पिण्डान्सा-दयेत् ३१

32 प्रणीते वाग्नौ ...{Loading}...

प्रणीते वाग्नौ ३२

33 ब्राह्मणं वा भोजयेत् ...{Loading}...

ब्राह्मणं वा भोजयेत् ३३

34 गवे वा दद्यात् ...{Loading}...

गवे वा दद्यात् ३४

35 वृद्धिपूर्तेषु युग्मानाशयेत् ...{Loading}...

वृद्धिपूर्तेषु युग्मानाशयेत् ३५

36 प्रदक्षिणमुपचारः ...{Loading}...

प्रदक्षिणमुपचारः ३६

37 यवैस्तिलार्थः ...{Loading}...

यवैस्तिलार्थः ३७


  1. 3, 1. Comp. I, 2, 3 seq. ↩︎

  2. Kātyāyana-Śrauta-sūtra IV, 1, 8. ↩︎

  3. Kātyāyana-Śrauta-sūtra IV, 1, 9. ↩︎

  4. Kātyāyana-Śrauta-sūtra IV, 1, 10. ↩︎

  5. See chap. 2, 36. ↩︎

  6. 9, 14. See chap. 2, 36. ↩︎

  7. See chap. 2, 31. ↩︎

  8. See chap. 2, 29. ↩︎

  9. 18 seq. Comp. Vāj. Saṃhitā II, 32. ↩︎

  10. The Vājasaneyi Saṃhitā (loc. cit.) has the reading, sato vaḥ pitaro deshma, ‘May we give you, O Fathers, of what we possess!’ ↩︎

  11. Comp. chap. 2, 32. ↩︎

  12. See chap. 2, 36. ↩︎

  13. Comp. Śāṅkhāyana-Gṛhya IV, 4. ↩︎

  14. 36, 37. Śāṅkhāyana-Gṛhya IV, 4, 6. 9. Regarding the use of sesamum seeds, see above, chap. 2, 35. ↩︎