०८

01 आश्वयुज्यां पौर्णमास्यां पृषातके ...{Loading}...

आश्वयुज्यां पौर्णमास्यां पृषातके पायसश्चरू रौद्रः १

02 तस्य जुहुयादा नो ...{Loading}...

तस्य जुहुयादा नो मित्रावरुणेति प्रथमां मा नस्तोक इति द्वितीयाम् २

03 गोनामभिश्च पृथक् काम्यासीत्येतत्प्रभृतिभिः ...{Loading}...

गोनामभिश्च पृथक् काम्यासीत्येतत्प्रभृतिभिः ३

04 स्थालीपाकावृतान्यत् ...{Loading}...

स्थालीपाकावृतान्यत् ४

05 पृषातकं प्रदक्षिणमग्निं पर्याणीय ...{Loading}...

पृषातकं प्रदक्षिणमग्निं पर्याणीय ब्राह्मणानवेक्षयित्वा स्वयमवेक्षेत तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्पश्येम शरदः शतं जीवेम शरदः शतमिति ५

06 ब्राह्मणान्भोजयित्वा स्वयं भुक्त्वा ...{Loading}...

ब्राह्मणान्भोजयित्वा स्वयं भुक्त्वा जातुषान्मणीन्सर्वौषधिमिश्रानाबध्नीरन्स्वस्त्ययनार्थम् ६

07 सायं गाः पृषातकम् ...{Loading}...

सायं गाः पृषातकं प्राशयित्वा सहवत्सा वासयेत ७

08 स्वस्ति हासां भवति ...{Loading}...

स्वस्ति हासां भवति ८

09 नवयज्ञे पायसश्चरुरैन्द्रा ग्नः ...{Loading}...

नवयज्ञे पायसश्चरुरैन्द्रा ग्नः ९

10 तस्य मुख्यां हविराहुतिम् ...{Loading}...

तस्य मुख्यां हविराहुतिं हुत्वा चतसृभिराज्याहुतिभिरभिजुहोति शतायुधायेत्येतत्प्रभृतिभिः १०

11 स्थालीपाकावृतान्यत् ...{Loading}...

स्थालीपाकावृतान्यत् ११

12 हविरुच्छिष्टशेषं प्राशयेद्यावन्त उपेताः ...{Loading}...

हविरुच्छिष्टशेषं प्राशयेद्यावन्त उपेताः स्युः १२

13 सकृदपामुपस्तीर्य द्विश्चरोरवद्यति ...{Loading}...

सकृदपामुपस्तीर्य द्विश्चरोरवद्यति १३

14 त्रिर्भृगूणाम् ...{Loading}...

त्रिर्भृगूणाम् १४

15 अपां चैवोपरिष्टात् ...{Loading}...

अपां चैवोपरिष्टात् १५

16 असंस्वादं निगिरेद्भद्रा न्नः ...{Loading}...

असंस्वादं निगिरेद्भद्रा न्नः श्रेय इति १६

17 एवं त्रिः ...{Loading}...

एवं त्रिः १७

18 तूष्णीं चतुर्थम् ...{Loading}...

तूष्णीं चतुर्थम् १८

19 भूय एवावदाय ...{Loading}...

भूय एवावदाय १९

20 कामं तत्र संस्वादयेरन् ...{Loading}...

कामं तत्र संस्वादयेरन् २०

21 आचान्तोदकाः प्रत्यभिमृशेरन्मुखं शिरोऽङ्गानीत्यनुलोमममोऽसीति ...{Loading}...

आचान्तोदकाः प्रत्यभिमृशेरन्मुखं शिरोऽङ्गानीत्यनुलोमममोऽसीति २१

22 एतयैवावृता श्यामाकयवानाम् ...{Loading}...

एतयैवावृता श्यामाकयवानाम् २२

23 अग्निः प्राश्नातु प्रथम ...{Loading}...

अग्निः प्राश्नातु प्रथम इति श्यामाकानाम् २३

24 एतमु त्यं मधुना ...{Loading}...

एतमु त्यं मधुना संयुतं यवमिति यवानाम् २४


  1. 8, 1 seq. The Pṛṣātaka ceremony; comp. Khādira-Gṛhya III, 3, 1 seq. A Pṛṣātaka is a mixture of milk or of curds with Ājya; comp. Khād. l.l. 3; Gṛhya-saṃgraha II, 59; Śāṅkhāyana IV, 16, 3 note. ↩︎

  2. The ‘cow’s names’ are given in the Gṛhya-saṃgraha II, 60; of the nine names given there the last is omitted at the Pṛṣātaka ceremony. ↩︎

  3. See above, chap. 7, 20 and the note. ↩︎

  4. 9 seq. The sacrifice of the first fruits; comp. Khādira-Gṛhya III, 3, 6 seq. ↩︎

  5. See chap. 7, 20 and the note. ↩︎

  6. 16, 20. Instead of asaṃsvādaṃ, saṃsvādayeran, I read p. 94 asaṃkhādaṃ, saṃkhādayeran. Comp. Khādira-Gṛhya III, 3, 13: asaṃkhādya pragiret, and the quotations in Böhtlingk-Roth’s Dictionary sv. saṃ-khād and ā-svad. ↩︎