०६

01 गाः प्रकाल्यमाना अनुमन्त्रयेतेमा ...{Loading}...

गाः प्रकाल्यमाना अनुमन्त्रयेतेमा मे विश्वतो वीर्य इति १

02 प्रत्यागता इमा मधुमतीर्मह्यमिति ...{Loading}...

प्रत्यागता इमा मधुमतीर्मह्यमिति २

03 पुष्टिकामः प्रथमजातस्य वत्सस्य ...{Loading}...

पुष्टिकामः प्रथमजातस्य वत्सस्य प्राङ्मातुः प्रलेहनाज्जिह्वया ललाटमुल्लिह्य निगिरेद्गवां श्लेष्मासीति ३

04 पुष्टिकाम एव सम्प्रजातासु ...{Loading}...

पुष्टिकाम एव सम्प्रजातासु निशायां गोष्ठेऽग्निमुपसमाधाय विलयनं जुहुयात्सङ्ग्रहण सङ्गृहाणेति ४

05 पुष्टिकाम एव सम्प्रजातास्वौदुम्बरेणासिना ...{Loading}...

पुष्टिकाम एव सम्प्रजातास्वौदुम्बरेणासिना वत्समिथुनयोर्लक्षणं करोति पुँ स एवाग्रेऽथ स्त्रिया भुवनमसि साहस्रमिति ५

06 कृत्वा चानुमन्त्रयेत लोहितेन ...{Loading}...

कृत्वा चानुमन्त्रयेत लोहितेन स्वधितिनेति ६

07 तन्त्रीं प्रसार्यमाणां बद्धवत्साम् ...{Loading}...

तन्त्रीं प्रसार्यमाणां बद्धवत्सां चानुमन्त्रयेतेयं तन्ती गवां मातेति ७

08 तत्रैतान्यहरहः कृत्यानि भवन्ति ...{Loading}...

तत्रैतान्यहरहः कृत्यानि भवन्ति ८

09 निष्कालनप्रवेशने तन्त्रीविहरणमिति ...{Loading}...

निष्कालनप्रवेशने तन्त्रीविहरणमिति ९

10 गोयज्ञे पायसश्चरुः ...{Loading}...

गोयज्ञे पायसश्चरुः १०

11 अग्निं यजेत पूषणमिन्द्र ...{Loading}...

अग्निं यजेत पूषणमिन्द्र मीश्वरम् ११

12 ऋषभपूजा ...{Loading}...

ऋषभपूजा १२

13 गोयज्ञेनैवा श्वयज्ञो व्याख्यातः ...{Loading}...

गोयज्ञेनैवा श्वयज्ञो व्याख्यातः १३

14 यमवरुणौ देवतानामत्राधिकौ ...{Loading}...

यमवरुणौ देवतानामत्राधिकौ १४

15 गन्धैरभ्युक्षणं गवां गन्धैरभ्युक्षणम् ...{Loading}...

गन्धैरभ्युक्षणं गवां गन्धैरभ्युक्षणं गवाम् १५


  1. 6, 1 seq. Different ceremonies connected with cattle-keeping. Comp. Khādira-Gṛhya III, I, 45 seq. ↩︎

  2. See Sūtras 1. 2. 7. ↩︎

  3. As to the repetition of the last words of this chapter, see the notes on I, 4, 31; II, 8, 25; 10, 50. ↩︎