१०

01 गर्भाष्टमेषु ब्राह्मणमुपनयेत् ...{Loading}...

गर्भाष्टमेषु ब्राह्मणमुपनयेत् १

02 गर्भैकादशेषु क्षत्रियम् ...{Loading}...

गर्भैकादशेषु क्षत्रियं २

03 गर्भद्वादशेषु वैश्यम् ...{Loading}...

गर्भद्वादशेषु वैश्यम् ३

04 आ षोडशाद्वर्षाद्ब्राह्मणस्यानतीतः कालो ...{Loading}...

आ षोडशाद्वर्षाद्ब्राह्मणस्यानतीतः कालो भवत्या द्वाविँ शात्क्षत्रियस्याचतुर्विँशाद्वैश्यस्य ४

05 अत ऊर्ध्वं पतितसावित्रीका ...{Loading}...

अत ऊर्ध्वं पतितसावित्रीका भवन्ति ५

06 नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्नैभिर्विवहेयुः ...{Loading}...

नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्नैभिर्विवहेयुः ६

07 यदहरुपैष्यन्माणवको भवति प्रग ...{Loading}...

यदहरुपैष्यन्माणवको भवति प्रग एवैनं तदहर्भोजयन्ति कुशलीकारयन्त्याप्लावयन्त्यलङ्कुर्वन्त्यहतेन वाससाच्छादयन्ति ७

08 क्षौमशाणकार्पासौर्णान्येषां वसनानि ...{Loading}...

क्षौमशाणकार्पासौर्णान्येषां वसनानि ८

09 ऐणेयरौरवाजान्यजिनानि मुञ्जकाशताम्बल्यो रशनाः ...{Loading}...

ऐणेयरौरवाजान्यजिनानि मुञ्जकाशताम्बल्यो रशनाः ९

मुञ्जकाशताम्बल्यो ...{Loading}...

मुञ्जकाशताम्बल्यो रशनाः १०

11 पार्णबैल्वाश्वत्था दण्डाः ...{Loading}...

पार्णबैल्वाश्वत्था दण्डाः ११

12 क्षौमं शाणं वा ...{Loading}...

क्षौमं शाणं वा वसनं ब्राह्मणस्य कार्पासं क्षत्रियस्याविकं वैश्यस्य १२

13 एतेनैवेतराणि द्र व्याणि ...{Loading}...

एतेनैवेतराणि द्र व्याणि व्याख्यातानि १३

14 अलाभे वा सर्वाणि ...{Loading}...

अलाभे वा सर्वाणि सर्वेषाम् १४

15 पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितो भवति ...{Loading}...

पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितो भवति १५

16 अग्ने व्रतपत इति ...{Loading}...

अग्ने व्रतपत इति हुत्वा पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङाचार्योऽवतिष्ठते १६

17 अन्तरेणाग्न्याचार्यौ माणवकोऽञ्जलिकृतोऽभिमुख आचार्यमुदगग्रेषु ...{Loading}...

अन्तरेणाग्न्याचार्यौ माणवकोऽञ्जलिकृतोऽभिमुख आचार्यमुदगग्रेषु दर्भेषु १७

18 तस्य दक्षिणतोऽवस्थाय मन्त्रवान्ब्राह्मणोऽपामञ्जलिम् ...{Loading}...

तस्य दक्षिणतोऽवस्थाय मन्त्रवान्ब्राह्मणोऽपामञ्जलिं पूरयति १८

19 उपरिष्टाच्चाचार्यस्य ...{Loading}...

उपरिष्टाच्चाचार्यस्य १९

20 प्रेक्षमाणो जपत्यागन्त्रा समगन्महीति ...{Loading}...

प्रेक्षमाणो जपत्यागन्त्रा समगन्महीति २०

21 ब्रह्मचर्यमागामिति वाचयति ...{Loading}...

ब्रह्मचर्यमागामिति वाचयति २१

22 को नामासीति नामधेयम् ...{Loading}...

को नामासीति नामधेयं पृच्छति तस्याचार्यः २२

23 अभिवादनीयं नामधेयं कल्पयित्वा ...{Loading}...

अभिवादनीयं नामधेयं कल्पयित्वा २३

24 देवताश्रयं वा नक्षत्राश्रयम् ...{Loading}...

देवताश्रयं वा नक्षत्राश्रयं वा २४

25 गोत्राश्रयमप्येके ...{Loading}...

गोत्राश्रयमप्येके २५

26 उत्सृज्यापामञ्जलिमाचार्यो दक्षिणेन पाणिना ...{Loading}...

उत्सृज्यापामञ्जलिमाचार्यो दक्षिणेन पाणिना दक्षिणं पाणिं साङ्गुष्ठं गृह्णाति देवस्य ते सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्यसाविति २६

27 अथैनं प्रदक्षिणमावर्तयति सूर्यस्यावृतमन्वावर्तस्वासाविति ...{Loading}...

अथैनं प्रदक्षिणमावर्तयति सूर्यस्यावृतमन्वावर्तस्वासाविति २७

28 दक्षिणेन पाणिना दक्षिणमँ ...{Loading}...

दक्षिणेन पाणिना दक्षिणमँ समन्ववमृश्यानन्तर्हितां नाभिमभिमृशेत्प्राणानां ग्रन्थिरसीति २८

29 उत्सृप्य नाभिदेशमहुर इति ...{Loading}...

उत्सृप्य नाभिदेशमहुर इति २९

30 उत्सृप्य हृदयदेशं कृशन ...{Loading}...

उत्सृप्य हृदयदेशं कृशन इति ३०

31 दक्षिणेन पाणिना दक्षिणमँ ...{Loading}...

दक्षिणेन पाणिना दक्षिणमँ समन्वालभ्य प्रजापतये त्वा परिददाम्यसाविति ३१

32 सव्येन सव्यं देवाय ...{Loading}...

सव्येन सव्यं देवाय त्वा सवित्रे परिददाम्यसाविति ३२

33 अथैनं सम्प्रेष्यति ब्रह्मचार्यस्यासाविति ...{Loading}...

अथैनं सम्प्रेष्यति ब्रह्मचार्यस्यासाविति ३३

34 समिधमाधेह्यपोशान कर्म कुरु ...{Loading}...

समिधमाधेह्यपोशान कर्म कुरु मा दिवा स्वाप्सीरिति ३४

35 उदङ्ङग्नेरुत्सृप्य प्राङाचार्य उपविशत्युदगग्रेषु ...{Loading}...

उदङ्ङग्नेरुत्सृप्य प्राङाचार्य उपविशत्युदगग्रेषु दर्भेषु ३५

36 प्रत्यङ्माणवको दक्षिणजान्वक्तोऽभिमुख आचार्यमुदगग्रेष्वेव ...{Loading}...

प्रत्यङ्माणवको दक्षिणजान्वक्तोऽभिमुख आचार्यमुदगग्रेष्वेव दर्भेषु ३६

37 अथैनं त्रिः प्रदक्षिणम् ...{Loading}...

अथैनं त्रिः प्रदक्षिणं मुञ्जमेखलां परिहरन्वाचयतीयं दुरुक्तात्परिबाधमानेत्यृतस्य गोप्त्रीति च ३७

38 अथोपसीदत्यधीहि भोः सावित्रीम् ...{Loading}...

अथोपसीदत्यधीहि भोः सावित्रीं मे भवाननुब्रवीत्विति ३८

39 तस्मा अन्वाह पच्छोऽर्धर्चश ...{Loading}...

तस्मा अन्वाह पच्छोऽर्धर्चश ऋक्श इति ३९

40 महाव्याहृतीश्च विहृता ओँ ...{Loading}...

महाव्याहृतीश्च विहृता ओँ कारान्ताः ४०

41 वार्क्षं चास्मै दण्डम् ...{Loading}...

वार्क्षं चास्मै दण्डं प्रयच्छन्वाचयति सुश्रवः सुश्रवसं मा कुर्विति ४१

42 अथ भैक्षं चरति ...{Loading}...

अथ भैक्षं चरति ४२

43 मातरमेवाग्रे द्वे चान्ये ...{Loading}...

मातरमेवाग्रे द्वे चान्ये सुहृदौ यावत्यो वा सन्निहिताः स्युः ४३

44 आचार्याय भैक्षं निवेदयते ...{Loading}...

आचार्याय भैक्षं निवेदयते ४४

45 तिष्ठत्यहःशेषं वाग्यतः ...{Loading}...

तिष्ठत्यहःशेषं वाग्यतः ४५

46 अस्तमिते समिधमादधात्यग्नये समिधमहार्षमिति ...{Loading}...

अस्तमिते समिधमादधात्यग्नये समिधमहार्षमिति ४६

47 त्रिरात्रमक्षारालवणाशी भवति ...{Loading}...

त्रिरात्रमक्षारालवणाशी भवति ४७

48 तस्यान्ते सावित्रश्चरुः ...{Loading}...

तस्यान्ते सावित्रश्चरुः ४८

49 यथार्थम् ...{Loading}...

यथार्थम् ४९

50 गौर्दक्षिणा ...{Loading}...

गौर्दक्षिणा ५०


  1. 10, 1 seq. The initiation of the student. Khādira-Gṛhya II, 4, 1 seq. ↩︎

  2. 1-4. On the number of years given for the Upanayana of persons of the three castes, see the note on Śāṅkhāyana-Gṛhya II, I, 1. ↩︎

  3. 5, 6. See the note on Śāṅkhāyana-Gṛhya II, I, 9. ↩︎

  4. There are four kinds of garments indicated, though only persons of three castes are concerned. The explanation of this apparent incongruence follows from Sūtra 12. ↩︎

  5. Tāmbala is stated to be a synonym for śaṇa (hemp). ↩︎

  6. As the garments indicated in Sūtra 8 belong, in the order in which they are stated, to persons of the three castes respectively, thus also of the skins (Sūtra 9), of the girdles (Sūtra 10), and of the staffs (Sūtra 11); the first is that belonging to a Brāhmaṇa, the second, to a Kṣatriya, and the third, to a Vaiśya. ↩︎

  7. Comp. above, chap. 9, 2. ↩︎

  8. 22, 23. It is evident that the words tasyācāryaḥ belong to Sūtra 23, and not to Sūtra 22, to which the traditional division of the Sūtras assigns them. The corresponding section of the Mantra-Brāhmaṇa runs thus: ‘What is thy name?‘—’My name is N.N.!’ It is not clear whether the student, being questioned by the teacher, had to indicate his ordinary name, and then to receive from the teacher his ‘abhivādanīya nāmadheya,’ or whether he had to pronounce, on the teacher’s question, directly the abhivādanīya name chosen for him by the teacher. The commentary and the corresponding passage of the Khādira-Gṛhya (II, 4, 12) are in favour of the second alternative. ↩︎

  9. 33, 34. Comp. Śāṅkhāyana-Gṛhya II, 4, 5 note. ↩︎

  10. 49, 50. Dr. Knauer very pertinently calls attention to the fact that these Sūtras are not repeated, as is the rule with regard to the concluding words of an Adhyāya or Prapāṭhaka. Comp. chap. 8, 25 note. ↩︎