०८

01 जननाद्यस्तृतीयो ज्यौत्स्नस्तस्य तृतीयायाम् ...{Loading}...

जननाद्यस्तृतीयो ज्यौत्स्नस्तस्य तृतीयायां प्रातः सशिरस्कं कुमारमाप्लाव्यास्तमिते वीते लोहितिम्न्यञ्जलिकृतः पितोपतिष्ठते १

02 अथ माता शुचिना ...{Loading}...

अथ माता शुचिना वसनेन कुमारमाच्छाद्य दक्षिणत उदञ्चं पित्रे प्रयच्छत्युदक्शिरसम् २

03 अनुपृष्ठं परिक्रम्योत्तरतोऽवतिष्ठते ...{Loading}...

अनुपृष्ठं परिक्रम्योत्तरतोऽवतिष्ठते ३

04 अथ जपति यत्ते ...{Loading}...

अथ जपति यत्ते सुसीम इति यथायं न प्रमीयेत पुत्रो जनित्र्या अधीति ४

05 उदञ्चं मात्रे प्रदाय ...{Loading}...

उदञ्चं मात्रे प्रदाय यथार्थम् ५

06 अथ येऽत ऊर्ध्वम् ...{Loading}...

अथ येऽत ऊर्ध्वं ज्यौत्स्नाः प्रथमोद्दिष्ट एव तेषु पितोपतिष्ठतेऽपामञ्जलिं पूरयित्वाभिमुखश्चन्द्र मसम् ६

07 यददश्चन्द्र मसीति सकृद्यजुषा ...{Loading}...

यददश्चन्द्र मसीति सकृद्यजुषा द्विस्तूष्णीमुत्सृज्य यथार्थम् ७

08 जननाद्दशरात्रे व्युष्टे शतरात्रे ...{Loading}...

जननाद्दशरात्रे व्युष्टे शतरात्रे संवत्सरे वा नामधेयकरणम् ८

09 अथ यस्तत्करिष्यन्भवति पश्चादग्नेरुदगग्रेषु ...{Loading}...

अथ यस्तत्करिष्यन्भवति पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङुपविशति ९

10 अथ माता शुचिना ...{Loading}...

अथ माता शुचिना वसनेन कुमारमाच्छाद्य दक्षिणत उदञ्चं कर्त्रे प्रयच्छत्युदक्शिरसम् १०

11 अनुपृष्ठम्परिक्रम्योत्तरत उपविशत्युदगग्रेष्वेव दर्भेषु ...{Loading}...

अनुपृष्ठम्परिक्रम्योत्तरत उपविशत्युदगग्रेष्वेव दर्भेषु ११

12 अथ जुहोति प्रजापतये ...{Loading}...

अथ जुहोति प्रजापतये तिथये नक्षत्राय देवताया इति १२

13 तस्य मुख्यान्प्राणान्सम्मृशन्कोऽसि कतमोऽसीत्येतम् ...{Loading}...

तस्य मुख्यान्प्राणान्सम्मृशन्कोऽसि कतमोऽसीत्येतं मन्त्रं जपति १३

14 आहस्पत्यं मासं प्रविशासावित्यन्ते ...{Loading}...

आहस्पत्यं मासं प्रविशासावित्यन्ते च मन्त्रस्य घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं कृतं नाम दध्यात् १४

15 एतदतद्धितम् ...{Loading}...

एतदतद्धितम् १५

16 अयुग्दान्तं स्त्रीणाम् ...{Loading}...

अयुग्दान्तं स्त्रीणाम् १६

17 मात्रे चैव प्रथमम् ...{Loading}...

मात्रे चैव प्रथमं नामधेयमाख्याय यथार्थम् १७

18 गौर्दक्षिणा ...{Loading}...

गौर्दक्षिणा १८

19 कुमारस्य मासि मासि ...{Loading}...

कुमारस्य मासि मासि संवत्सरे सांवत्सरिकेषु वा पर्वस्वग्नीन्द्रौ द्यावापृथिवी विश्वान्देवाँ श्च यजेत १९

20 दैवतमिष्ट्वा तिथिं नक्षत्रम् ...{Loading}...

दैवतमिष्ट्वा तिथिं नक्षत्रं च यजेत २०

21 विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्याम् ...{Loading}...

विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्यां पाणिभ्यां मूर्धानं परिगृह्य जपेद्यदा वा पिता म इति विद्यादुपेतस्य वाङ्गादङ्गात्सस्रवसीति २१

22 पशूनां त्वा हिङ्कारेणाभिजिघ्रामीत्यभिजिघ्र्य ...{Loading}...

पशूनां त्वा हिङ्कारेणाभिजिघ्रामीत्यभिजिघ्र्य यथार्थम् २२

23 एवमेवावरेषाम् ...{Loading}...

एवमेवावरेषाम् २३

24 यथाज्येष्ठं यथोपलम्भं वा ...{Loading}...

यथाज्येष्ठं यथोपलम्भं वा २४

25 स्त्रियास्तूष्णीं मूर्धन्यभिजिघ्रणं मूर्धन्यभिजिघ्रणम् ...{Loading}...

स्त्रियास्तूष्णीं मूर्धन्यभिजिघ्रणं मूर्धन्यभिजिघ्रणम् २५


  1. 8, 1 seq. Khādira-Gṛhya II, 3, 1 seq. ↩︎

  2. I am not sure about the meaning of prathamoddiṣṭa eva. I have translated according to the commentary, which has the following note: prathamoddiṣṭa eva prathamaṃ yaḥ kāla uddiṣṭaḥ kathitaḥ tasminn eva kāle tṛtīyāyām ity etat.—The commentary then mentions a reading prathamodita eva, in which udita may either be derived from vad or from ud-i. ↩︎

  3. 8 seq. The Nāmakaraṇa. Khādira-Gṛhya. II, 3, 6 seq. ↩︎

  4. 10, 11. Comp. above, Sūtras 2. 3. ↩︎

  5. Śāṅkhāyana-Gṛhya I, 25, 5. In the same Gṛhya the enumeration of the Nakṣatras with their presiding deities is given, I, 26. ↩︎

  6. Śāṅkhāyana-Gṛhya I, 24, 4; Āśvalāyana I, 15, 4; Pāraskara I, 17, 2. In the text read dīrghābhiniṣṭānāntaṃ instead of dīrghābhiniṣṭhānāntaṃ. ↩︎

  7. Monthly sacrifice in commemoration of the child’s birth. Possibly we should translate: Every month (after the birth) of the boy, through one year (comp. Śāṅkhāyana I, 25, 10. 11), or on the Parvan days, &c. ↩︎

  8. Śāṅkhāyana-Gṛhya I, 25, 6. ↩︎

  9. 21 seq. The father’s returning from a journey. Khādira-Gṛhya II, 3,13 seq. As to upeta, comp. Śāṅkhāyana-Gṛhya II, I, 1 note. The position of the words in Sūtra 21 is irregular, so as to raise the suspicion that the words yadā vā. . . . upetasya vi (‘or when the son begins to know . . . has been initiated’) are an insertion into the text of Gobhila, made by a later compiler, or into a more ancient text, made by Gobhila himself. Comp. Pāraskara I, 18. ↩︎

  10. As to the repetition of the last words of this Sūtra, see the notes on I, 4, 31; II, 10, 50; III, 6, 15. ↩︎