०७

01 अथ सीमन्तकरणं प्रथमगर्भे ...{Loading}...

अथ सीमन्तकरणं प्रथमगर्भे १

02 चतुर्थे मासि षष्ठेऽष्टमे ...{Loading}...

चतुर्थे मासि षष्ठेऽष्टमे वा २

03 प्रातः सशिरस्काप्लुतोदगग्रेषु दर्भेषु ...{Loading}...

प्रातः सशिरस्काप्लुतोदगग्रेषु दर्भेषु पश्चादग्नेरुदगग्रेषु दर्भेषु प्राच्युपविशति ३

04 पश्चात्पतिरवस्थाय युग्मन्तमौदुम्बरं शलाटुग्रथ्नमाबध्नात्ययमूर्जावतो ...{Loading}...

पश्चात्पतिरवस्थाय युग्मन्तमौदुम्बरं शलाटुग्रथ्नमाबध्नात्ययमूर्जावतो वृक्ष इति ४

05 अथ सीमन्तमूर्ध्वमुन्नयति भूरिति ...{Loading}...

अथ सीमन्तमूर्ध्वमुन्नयति भूरिति दर्भपिञ्जूलीभिरेव प्रथमं भुवरिति द्वितीयं स्वरिति तृतीयम् ५

06 अथ वीरतरेण येनादितेरित्येतयर्चा ...{Loading}...

अथ वीरतरेण येनादितेरित्येतयर्चा ६

07 अथ पूर्णचात्रेण राकामहमित्येतयर्चा ...{Loading}...

अथ पूर्णचात्रेण राकामहमित्येतयर्चा ७

08 त्रिःश्वेतया च शलल्या ...{Loading}...

त्रिःश्वेतया च शलल्या यास्ते राके सुमतय इति ८

09 कृसरः स्थालीपाक उत्तरघृतस्तमवेक्षयेत् ...{Loading}...

कृसरः स्थालीपाक उत्तरघृतस्तमवेक्षयेत् ९

10 किं पश्यसीत्युक्त्वा प्रजामिति ...{Loading}...

किं पश्यसीत्युक्त्वा प्रजामिति वाचयेत् १०

11 तं सा स्वयम् ...{Loading}...

तं सा स्वयं भुञ्जीत ११

12 वीरसूर्जीवसूर्जीवपत्नीति ब्राह्मण्यो मङ्गल्याभिर्वाग्भिरुपासीरन् ...{Loading}...

वीरसूर्जीवसूर्जीवपत्नीति ब्राह्मण्यो मङ्गल्याभिर्वाग्भिरुपासीरन् १२

13 अथ सोष्यन्तीहोमः ...{Loading}...

अथ सोष्यन्तीहोमः १३

14 प्रतिष्ठिते वस्तौ परिस्तीर्याग्निमाज्याहुती ...{Loading}...

प्रतिष्ठिते वस्तौ परिस्तीर्याग्निमाज्याहुती जुहोति या तिरश्चीत्येतयर्चा विपश्चित्पुच्छमभरदिति च १४

15 पुमानयं जनिष्यतेऽसौ नामेति ...{Loading}...

पुमानयं जनिष्यतेऽसौ नामेति नामधेयं गृह्णाति १५

16 यत्तद्गुह्यमेव भवति ...{Loading}...

यत्तद्गुह्यमेव भवति १६

17 यदास्मै कुमारं जातमाचक्षीरन्नथ ...{Loading}...

यदास्मै कुमारं जातमाचक्षीरन्नथ ब्रूयात्काङ्क्षत नाभिकृन्तनेन स्तनप्रतिधानेन चेति १७

18 व्रीहियवौ पेषयेत्तयैवावृता यया ...{Loading}...

व्रीहियवौ पेषयेत्तयैवावृता यया श्ङ्गुआ!म् १८

19 दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्याभिसङ्गृह्य ...{Loading}...

दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्याभिसङ्गृह्य कुमारस्य जिह्वायां निमार्ष्टीयमाज्ञेति १९

20 तथैव मेधाजननं सर्पिः ...{Loading}...

तथैव मेधाजननं सर्पिः प्राशयेत् २०

21 जातरूपेण वादाय कुमारस्य ...{Loading}...

जातरूपेण वादाय कुमारस्य मुखे जुहोति मेधां ते मित्रावरुणावित्येतयर्चा सदसस्पतिमद्भुतमिति च २१

22 कृन्तत नाभिमिति ब्रूयात्स्तनम् ...{Loading}...

कृन्तत नाभिमिति ब्रूयात्स्तनं च प्रतिधत्तेति अत ऊर्ध्वमसमालम्भनमा दशरात्रात् २२


  1. 7, 1. seq. The Sīmantakaraṇa or Sīmantonnayana. Khādira-Gṛhya II, 2, 24 seq. ↩︎

  2. This Sūtra is identical with chap. 6, 2. ↩︎

  3. śalāṭugrathnam should be emended, in my opinion, so as to read salāṭugrapsam. Comp. Pāraskara I, 15, 4: yugmena saṭālugrapsenaudumbareṇa. Āśvalāyana I, 14,4: yugmena śalāṭuglapsena. Hiraṇyakeśin II, 1: salātugrapsam upasaṃgṛhya. ↩︎

  4. 13 seq. The soṣyantīhoma. Khādira-Gṛhya II, 2, 28 seq. ↩︎

  5. 17 seq. Ceremonies for the new-born child (Jātakarman). Khādira-Gṛhya II, 2, 32 seq. ↩︎

  6. See above, chap. 6, 9. ↩︎

  7. Comp. above, chap. 6, 11. ↩︎

  8. The impurity (aśauca) of the mother lasts through ten days after her confinement; comp. the note on Śāṅkhāyana-Gṛhya I, 25, 1 (vol. xxix, p. 51). ↩︎