०४

01 यानमारोहन्त्यां सुकिंश्कुं शाल्मलिमित्येतामृचम् ...{Loading}...

यानमारोहन्त्यां सुकिंश्कुं शाल्मलिमित्येतामृचं जपेत् १

02 अध्वनि चतुष्पथान्प्रतिमन्त्रयेत नदीश्च ...{Loading}...

अध्वनि चतुष्पथा-न्प्रतिमन्त्रयेत नदीश्च विषमाणि च महावृक्षाञ्श्मशानं च मा विदन्परिपन्थिन इति २

03 अक्षभङ्गे नद्धविमोक्षे यानविपर्यासेऽन्यासु ...{Loading}...

अक्षभङ्गे नद्धविमोक्षे यानविपर्यासेऽन्यासु चापत्सु यमेवाग्निं हरन्ति तमेवोपसमाधाय व्याहृतिभिर्हुत्वान्यद्द्रव्यमाहृत्य य ऋते चिदभिश्रिष इत्याज्यशेषेणाभ्यञ्जेत् ३

04 वामदेव्यं गीत्वारोहेत् ...{Loading}...

वामदेव्यं गीत्वारोहेत् ४

05 प्राप्तेषु वामदेव्यम् ...{Loading}...

प्राप्तेषु वामदेव्यम् ५

06 गृहगतां पतिपुत्रशीलसम्पन्ना ब्राह्मण्योऽवरोप्यानडुहे ...{Loading}...

गृहगतां पतिपुत्रशीलसम्पन्ना ब्राह्मण्योऽवरोप्यानडुहे चर्मण्युपवेशयन्तीह गावः प्रजायध्वमिति ६

07 तस्याः कुमारमुपस्थ आदध्युः ...{Loading}...

तस्याः कुमारमुपस्थ आदध्युः ७

08 तस्मै शकलोटानञ्जलावावपेयुः ...{Loading}...

तस्मै शकलोटानञ्जलावावपेयुः ८

09 फलानि वा ...{Loading}...

फलानि वा ९

10 उत्थाप्य कुमारं ध्रुवा ...{Loading}...

उत्थाप्य कुमारं ध्रुवा आज्याहुतीर्जुहोत्यष्टाविह धृतिरिति १०

11 समाप्तासु समिधमाधाय यथावयसम् ...{Loading}...

समाप्तासु समिधमाधाय यथावयसं गुरून्गोत्रेणाभिवद्य यथार्थम् ११


  1. Perhaps a part of this Sūtra is based on a half Sloka, the two parts of which have been transposed in the prose version, mahāvṛkṣān śmaśānaṃ ca nadīś ca viṣamāṇi ca. ↩︎

  2. Comp. Pāraskara I, 10. ↩︎

  3. The explanation of śakaloṭa as śālūka is doubtful. Prof. Weber believes that we ought to read śakaloṣṭān (lumps of dung); see Indische Studien, V, 371. ↩︎

  4. ‘Firm’ oblations seem to mean oblations by which the wife obtains a firm abode in her husband’s house. Comp. Indische Studien, V, 376. ↩︎