०३

01 प्रागुदीच्यां दिशि यद्ब्राह्मणकुलमभिरूपम् ...{Loading}...

प्रागुदीच्यां दिशि यद्ब्राह्मणकुलमभिरूपम् १

02 तत्राग्निरुपसमाहितो भवति ...{Loading}...

तत्राग्निरुपसमाहितो भवति २

03 अपरेणाग्निमानडुहं रोहितं चर्म ...{Loading}...

अपरेणाग्निमानडुहं रोहितं चर्म प्राग्ग्रीवमुत्तरलोमास्तीर्णं भवति ३

04 तस्मि न्नेनां वाग्यतामुपवेशयन्ति ...{Loading}...

तस्मि न्नेनां वाग्यतामुपवेशयन्ति ४

05 सा खल्वास्त एवानक्षत्रदर्शनात् ...{Loading}...

सा खल्वास्त एवानक्षत्रदर्शनात् ५

06 प्रोक्ते नक्षत्रे षडाज्याहुतीर्जुहोति ...{Loading}...

प्रोक्ते नक्षत्रे षडाज्याहुतीर्जुहोति लेखासन्धिष्वित्येतत्प्रभृतिभिः ६

07 आहुतेराहुतेस्तु सम्पातं मूर्धनि ...{Loading}...

आहुतेराहुतेस्तु सम्पातं मूर्धनि वध्वा अवनयेत् ७

08 हुत्वोपोत्थायोपनिष्क्रम्य ध्रुवं दर्शयति ...{Loading}...

हुत्वोपोत्थायोपनिष्क्रम्य ध्रुवं दर्शयति ८

09 ध्रुवमसि ध्रुवाहं पतिकुले ...{Loading}...

ध्रुवमसि ध्रुवाहं पतिकुले भूयासममुष्यासाविति पतिनाम गृह्णीयादात्मनश्च ९

10 अरुन्धतीं च ...{Loading}...

अरुन्धतीं च १०

11 रुद्धाहमस्मीत्येवमेव ...{Loading}...

रुद्धाहमस्मीत्येवमेव ११

12 अथैनामनुमन्त्रयते ध्रुवा द्यौरित्येतयर्चा ...{Loading}...

अथैनामनुमन्त्रयते ध्रुवा द्यौरित्येतयर्चा १२

13 अनुमन्त्रिता गुरुं गोत्रेणाभिवादयते ...{Loading}...

अनुमन्त्रिता गुरुं गोत्रेणाभिवादयते १३

14 सोऽस्या वाग्विसर्गः ...{Loading}...

सोऽस्या वाग्विसर्गः १४

15 तावुभौ तत्प्रभृति त्रिरात्रमक्षारलवणाशिनौ ...{Loading}...

तावुभौ तत्प्रभृति त्रिरात्रमक्षारलवणाशिनौ ब्रह्मचारिणौ भूमौ सह शयीयाताम् १५

16 अत्रार्घ्यमित्याहुः ...{Loading}...

अत्रार्घ्यमित्याहुः १६

17 आगतेष्वित्येके ...{Loading}...

आगतेष्वित्येके १७

18 हविष्यमन्नं प्रथमं परिजपितम् ...{Loading}...

हविष्यमन्नं प्रथमं परिजपितं भुञ्जीत १८

19 श्वो भूते वा ...{Loading}...

श्वो भूते वा समशनीयं स्थालीपाकं कुर्वीत १९

20 तस्य देवता अग्निः ...{Loading}...

तस्य देवता अग्निः प्रजापतिर्विश्वे देवा अनुमतिरिति २०

21 उद्धृत्य स्थालीपाकं व्यूह्यैकदेशम् ...{Loading}...

उद्धृत्य स्थालीपाकं व्यूह्यैकदेशं पाणिनाभिमृशेदन्नपाशेन मणिनेति २१

22 भुक्त्वोच्छिष्टं वध्वै प्रदाय ...{Loading}...

भुक्त्वोच्छिष्टं वध्वै प्रदाय यथार्थम् २२

23 गौर्दक्षिणा ...{Loading}...

गौर्दक्षिणा २३


  1. 3, 1 seqq. Khādira-Gṛhya I, 4, 1 seqq. ↩︎

  2. This is the standing description of the bull’s hide used at the Śrauta or Gṛhya ceremonies; comp. Śāṅkhāyana I, 16, 1 note. ↩︎

  3. Āśvalāyana-Gṛhya I, 7, 22. ↩︎

  4. The play on words (Arundhatī—ruddhā) is untranslatable. ↩︎

  5. ‘Her Guru’ means, according to the commentary, her husband. The commentary quotes the well-known sentence: patir eko guruḥ strīṇām. Perhaps we may also take the Guru for the Brāhmaṇa in whose house they stay. Comp. also chap. 4, 11. ↩︎

  6. Comp. above, Sūtra 4. ↩︎

  7. 16, 17. Khādira-Gṛhya I, 4, 7. 8. Comp. Śāṅkhāyana-Gṛhya I, 12, to note. The Gobhila commentary states that this Argha reception should be offered by the bride’s father. On the different opinions of the Śāṅkhāyana commentaries see the note quoted. ↩︎

  8. Khādira-Gṛhya I, 4, 10. ↩︎

  9. Khādira-Gṛhya I, 4, 11. 14. ↩︎

  10. Khādira-Gṛhya I, 4, 6. ↩︎